________________
३१८
प्रभावकचरिते
श्रुत्वेतिभूपतिर्भाव्यं भवतीति विदन्नपि । तत्र द्वेषं परं वोढा वधेच्छुरभवत्ततः॥ ३६० ॥ कथंचिदिति स ज्ञात्वापसृत्य शिवदर्शने। जटामुकुटवान् भस्मोद्धूलनः सत्तपो दधे ॥ ३६१ ॥ विज्ञप्तमन्यदाचारैर्जटाधरशतत्रयम् । अभ्यागादस्ति तन्मध्ये भ्रातृपुत्रो भवद्रिपुः ॥ ३६२ ॥ भोजनाय निमन्यन्ते ते सर्वेपि तपोधनाः । पादयोयेस्य पद्मानि ध्वजश्छत्रं स ते द्विषन् ॥ ३६३॥ श्रुत्वेत्याव्हाप्य तान् राजा तेषां प्राक्षालयत्स्वयम् ।। चरणौ भक्तितो यावत्तस्याप्यवसरोऽभवत् ॥ ३६४ ॥ पद्मेषु दृश्यमानेषु पदयोदृष्टिसंज्ञया। ख्यातेत्र तैर्नृपोजानात्कुमारोपि वुबोध तत् ॥ ३६५॥ ततः कमण्डलु हस्ते कृत्वा प्रस्तावदम्भतः। बहिर्भूय नृपावासादुपलक्षणभीर्दिने ॥ ३६६ ॥ बसतिं हेमसूरीणां त्रस्तः स्रस्तवपुबेलः। आययौ भूपते रक्ष रक्षेत्याख्यन् स्खलद् गिरा ॥ ३६७ ॥ प्रभुभिः साहसात्ताडपत्रलक्षांतराहितः । राजमत्र्यैः पदायातैालोकि नतु वीक्षितः ॥ ३६८ ॥ युग्मम् निश्याकृष्य प्रेषितश्च प्रायाद्देशान्तरं पुनः। प्राग्वदागात् साहसिक्यमहो भाग्यस्य लक्षणम् ॥ ३६९ ॥ तथा निर्गत्य तस्मात्तु वामदेवतपोधने । तत्तीर्थस्नानदम्भेन जटी प्रायादपायभीः॥ ३७० ॥ आलिनाम्नः कुलालस्य यावदालयसन्निधौ। आययौ पृष्ठतोलग्नात् सादिनस्तावदक्षत ॥ ३७१ ॥ आह प्रजापते रक्ष शरणागतवत्सल। मां संकटादतो रक्ष तत्रमागतमेव यत् ॥ ३७२॥ स च चिन्तितनीवाहकोणे संस्थाप्य तं तदा । मुमोच वह्निमहाय विमुच्य तद्वस्थितिम् ॥ ३७३ ॥ स तुरङ्गिभिरायातैः पृष्टः कोपिजटाधरः। तत्रायातो नवाजल्पि न व्यग्नत्वान्मयैक्ष्यत ॥ ३७४ ॥ निर्विद्यानादराच्चैते व्यावृत्य प्रययुस्तदा । रात्रौ सोऽपि बहिः कृष्टस्तेन देशान्तरेऽचलत् ॥ ३७५॥ स्तम्भतीर्थपुरं प्रायाद्विजेनानुगतस्तदा । तदावोसरिणा? श्रीमान् कुमारं स्फारवृत्तभूः॥ ३७६॥
१ 1. मन्त्रमागमे च. २ P. omits र्गय निद्धौ.