________________
श्रीहेमचंद्रसूरिप्रबन्धः।
३१७ ततोऽम्बाशिखरं गत्वा तां प्रपूज्य ननाम च । अवलोकनश्रृंगं चारोह स तु कौतुकी ॥ ३४२॥ तत्र श्रीनेमिनाथं च नत्वा भक्तिभरानतः।
दिशोऽवलोकयामास तत ऊचे स चारणः ॥ ३४३॥ यतः-मई नायं सीथेसजंचडिउगिरनारसिरि।
अलइआचारुदेसअलिकुंजो अइ कर्णऊत्र ॥ ३४४॥ पर्वतावतीर्याधः श्रीसोमेश्वरपत्तनम् । ययौ श्रीहेमचन्द्रेण सहितश्च शिवालयम् ॥ ३४५॥ सूरिश्च तुष्टुवे तत्र परमात्मस्वरूपतः ।
ननाम चाविरोधो हि मुक्तः परमकारणम्॥३४६॥ 'तथाहि' यत्र तत्र समये यथा तथा योसि सोस्यभिधया यया तया।
वीतदोषकलुषः स चेद्भवानेक एव भगवन्नमोऽस्तुते॥३४७॥ महादानानि दत्वा च पूजाश्च महिमाद्भताः। व्यावृत्तः कोटिनगरं प्रापदविकयादृतम् ॥ ३४८॥ अपत्यचिन्तयाक्रान्तोऽबिंकामाराधयत्ततः। श्रीहमसूरिभिर्ब्रह्ममूलावासैरिहादरात् ॥ ३४९॥ उपोष्य त्रिदिनान्ते चाह्वयंस्तां शासनामरीम्। प्रत्यक्षीभूय सा प्राह शृणु वाचं मुने मम ॥ ३५०॥ नास्यास्ति संततेर्भाग्यं जीवोऽपीहर न पुण्यभूः। समयेऽत्र कुमारस्य भूपभ्रातृसुतस्य च ॥३५१॥ स भावी भूपतिः पुण्यप्रतापमहिमोर्जितः। राज्यांतराणि जेतासौ भोक्ता च परमार्हतः॥३५२॥ अणहिल्लपुरं प्रायादनायासोत्सवोदयम्। अंतर्दूनसुताभावप्रजापीडनशंक्रितः॥ ३५३॥ इतः श्रीकर्णभूपालबंधः क्षत्रशिरोमणिः । देवप्रसाद इत्यासीत्प्रसाद इव संपदाम् ॥ ३५४॥ तत्पुत्रः श्रीत्रिभुवनपालः पालितसव्रतः। कुमारपालस्तत्पुत्रो राज्यलक्षणलक्षितः ॥ ३५५॥ अथ श्रीसिद्धभूमीशः पुत्राशाभंगदुर्मनाः। आह्वाययत देवज्ञान् परमज्ञानिसंनिभान् ॥ ३५६॥ ग्रहचाराय सद्भावप्रश्नचूडामणिक्रमैः। केवलीभिश्च संवाद्य तेऽथाचख्युःप्रभोः पुरः॥३५७ ॥ खामिन् कुमारपालोऽसौ युष्मद्वंधुषु तु ध्रुवम् । अलंकरिष्यते राज्यमनुत्वा न चलेदिदम् ॥ ३५८ ॥ प्रतापाक्रान्तदिक्चक्रेऽनेकभूपालजित्वरः। भविष्यति पुनस्तस्य पश्चाद्राज्यं विनश्यति ॥३५९ ॥