________________
प्रभावकारिते
ततश्च गिरिमार्गेणाचिरादैवतकाचलम् । निकषानिकषः पुण्यवतां भर्ता भुवोऽगमत् ॥ ३२६ ॥ स प्रदापयदावासान् संकलग्रामसन्निधौ । गिरिं तत्र स्थितोपश्यन्नेत्रामृतरसायनम् ॥ ३२७ ॥ तदा श्रीनेमिचैत्यस्य पर्वतोर्द्धभुवि स्थितः । जीर्णोद्धारे कारिते च श्रीमत्सज्जनमन्त्रिणा ॥ ३२८ ॥ प्रासादं धवलं दृष्ट्वा राज्ञा पृष्टः स चाब्रवीत् । तीर्थप्रभावनाहर्षवशसम्फुल्ललोचनः ॥ ३२९ ॥ दे॒वयादवसद्वंशावतंसस्य जिनेशितुः । प्रासादः स्वामिपादानां कृतिरेषा समीक्ष्यते ॥३३०॥ युग्मन् । नृपतिः प्राह जाने श्री हेमचन्द्रोपदेशतः । उज्जयन्तमहातीर्थे श्रीनेमिस्तत्रतीर्थकृत् ॥ ३३१ ॥ जगत्पूज्यैः कृतिर्मेस्तु कथमेषेतिसंशये । श्रुत्वेत्यमात्य आहस्मावधानादवधार्य्यताम् ॥ ३३२ ॥ अद्य नवमे वर्षे स्वामिनाधिकृतः कृतः । आरुरोह गिरिं जीर्णमद्राक्षं च जिनालयम् ॥ ३३३॥ प्रतिवर्षे नृलक्ष्मीं च व्ययित्वा चैत्यमुद्धृतम् । स्वामिपादैरनुमतं चेत् प्रमाणमिदं न चेत् ॥ ३३४ ॥ सप्ताविंशतिलक्षांश्च द्रम्मान् गृह्णातु भूपतिः । इत्याकर्ण्य प्रभुः प्राह पुलकोद्भेदमेदुरः ॥ ३३५ ॥ कथमुक्तमिदं मन्त्रिन् तुच्छं द्रव्याद्शाश्वतात् । वपुः स्थिरं ममाकार्षीः पुण्यकीर्तिमयं महत् ॥ ३३६ ॥ त्वत्समः स्वजनः कोन्यो ममेह परलोकयोः । सखे विषीद मा तस्मादस्मिन्नारुह्यते ततः ॥ ३३७ ॥ वचोनुपदमीशश्चाधित्यकायां ययौ गिरेः । मण्डपे शुद्धमेदिन्यां स्थित्वाष्टांगं नतो जिनम् ॥ ३३८ ॥ पीठेष्वानीयमानेषु न्यवारयत तं जनम् । तीर्थेऽत्र नोपवेष्टव्यं परेणाप्यासनादिके ॥ ३३९ ॥ स्वापस्तल्पे विधेयो न भुक्तौ नार्दनिका तथा । स्त्रीसङ्गः सूतिकर्म्मापि न दध्मोथ विलोडनम् ॥ ३४० ॥ इत्यादिसिद्धमर्य्यादा वर्त्ततेद्यापि शाश्वती । ततोभ्यर्च्य जिनं स्वर्णरत्नपुष्पोत्करैर्वरैः ॥ ३४१ ॥
३१६
१ P omits this line. २ Phas दारिद्र्यौघविनाशायासुखसंपत्ति
दायकः । after जिनेशितुः । ३ HD त्प्रभुः ४P नादुनिका.