________________
श्रीहेमचंद्रसूरिप्रबन्धः।
३१५ तत्रतत्रानृणो भूत्वा देवबोधो महामतिः। तेन द्रव्येण गंगायां गत्वासानोत्परं भवम् ॥३०९॥ युग्मम्॥ अन्यदा सिद्धभूपालो निरपत्यतयार्दितः। तीर्थयात्रां प्रचक्रामानुपानत्पादचारतः॥ ३१०॥ हेमचन्द्रप्रभुस्तत्र सहानीयत तेन च । विना चन्द्रमसं किंस्यान्नीलोत्पलमतन्द्रितम् ॥ ३११॥ द्विधा चरणचारेण प्रभुर्गच्छन्न दृश्यते । शनैर्यान् जीवरक्षार्थ मूर्तिमानिव संयमः॥ ३१२ ॥ अर्थितैर्वाहनारोहे निषिद्धश्चरितस्थितैः। किश्चिद्रूनो जड़ा यूयमिति तानाह सौहृदात् ॥ ३१३॥ प्राकृतेनोत्तरं प्रादाद्यद्वयं निजडा इति । राजा चमत्कृते ध्यावूचेऽसौ सजडा जडाः॥ ३१४ ॥ वयन्तु सुधियः स्वीयखाचारं धतो ननु। निजडा इत्यहो सूरेः ध्वनिव्याख्यातिचातुरी॥३१५॥ दिनत्रयमसंजग्मुर्नुपस्याध्वनि सोपि च । कुपितानि च विज्ञाय सान्त्वनाय तदागमत् ॥ ३१६॥ प्रतिसीरांतरस्थानामाचामाम्लेन भुञ्जताम् । तामपावृत्य भूपालोऽपश्यत्तदशने विधिम् ॥ ३१७॥ अहो जितेन्द्रिया एते क्लिन्नमन्नं हि नीरतः। आकृष्य गृहते तदुश्वरमेतत्तपो ध्रुवम् ॥ ३१८॥ अज्ञानमेव लोकोऽयममून्मिष्टान्नभोजिनः। भक्तेरतिशयान् भव्यलोकानां वदति ध्रुवम् ॥ ३१९ ॥ ध्यात्वेत्याह भवद्देहव्यथोच्छेदाय कर्कशम् । नाभक्तेरुक्तमित्यागः पुन्नाग क्षम्यतां मम ॥ ३२०॥ सूरिः प्राह महाराज कुर्याद्गीः किं खराप्रिया ।
अरक्तद्विष्टवृत्तानां नृपतेढुंगेतस्य वा ॥ ३२१॥ यतः-भुञ्जीमही वयं भैक्ष्यं जीर्ण वासो वसीमहि ।
शयीमहि महीपृष्ठे कुर्वीमहि किमीश्वरैः ॥ ३२२ ॥ सम्मान्य तांस्ततो राजा स्थानं सिंहासनाभिधम् । दत्वा द्विजेभ्य आरूढः श्रीमच्छर्बुजये गिरौ ॥ ३२३ ॥ श्रीयुगादिप्रभुं नत्वा तत्राभ्यय॑ च भावतः। मेने स्वजन्म भूपालः कृतार्थमितिहर्षभूः ॥ ३२४॥ ग्रामद्वादशकं तत्र ददौ तीर्थस्य भूमिपः।
पूजायै यन्महांतस्तां चानुमानेन कुर्वते ॥ ३२५॥ १ P द्विधाचरेण प्रभुर्गच्छन्नदृश्यत.