________________
प्रभावकचरिते
अन्यदाभिनवग्रन्थगुम्फाकुलमहाकवौ। पट्टिकापट्टसंघातलिख्यमानपदव्रजे ॥ २९२ ॥ शब्दव्युत्पत्तयेऽन्योन्यं कृतोहापोहबन्धुरे। पुराणकविसंदृष्टदृष्टान्तीकृतशब्दके ॥ २९३ ॥ ब्रह्मोल्लासनिवासेऽत्र भारतीपितृमन्दिरे। श्रीहेमचन्द्रसूरीणामास्थाने सुस्थकोविदे ॥ २९४ ॥ क्षुधातुरः परीवारः प्रेरितः स परेद्यवि । अपराह्ने समागच्छत्प्रतीहारनिवेदितः॥२९५॥ चतुर्भिः कलापकम्। अभ्युत्तस्थुश्च ते देवबोधविद्वन्मतल्लिकाम् । मन्त्रौषधिप्रभास्तब्धवह्निवच्छीततेजसम् ॥ २९६ ॥ स्वागतं स्वागतं विद्वत्कोटीरजगतीश्रुतः। कृतपुण्यं दिनं यत्र जातस्त्वं लोचनातिथिः ॥ २९७ ॥ तदलंक्रियतामद्यार्द्धासनं नः कलानिधेः। संकटेष्वपि नियूंढकला(:) प्रागल्भ्यभूषिताः ॥ २९८ ॥ श्रुत्वेति देवबोधोपि ध्यौ मे मर्म वेत्त्यसौ । कथनात्कथनातीतकलातो वा न विद्महे ॥ २९९ ॥ यथा तथा महाविद्वानसौभाग्यश्रियोर्जितः। अत्र को मत्सरः स्वच्छे बहुमानः शुभोदयः ॥ ३०० ॥ समयेऽद्यतने कोऽस्य समानः पुण्यविद्ययोः। गुणेषु का प्रतिद्वन्द्वी तस्मात्प्राञ्जलयोचिताः॥ ३०१॥ अथोपाविशदेतेनाऽनुमते॰सने कृती। मनसा मन्यमानश्च पुंरूपी तां सरस्वतीम् ॥ ३०२॥ सविस्मयं गिरं प्राह सारसारस्वतोज्वलः।
पार्षद्यपुलकांकूरघनाघनघनप्रभाम् ॥ ३०३ ॥ तथाहि-पातु वो हेमगोपालः कम्बलं दण्डमुद्वहन् ।
षड्दर्शनपशुग्रामं चारयन् जैनगोचरे ॥ ३०४ ॥ व्याधूतशिरसः श्लोकमेनं सामाजिका हृदा। श्रुत्वा सत्यार्थपुष्टिं च तेऽतुलं विस्मयं दधुः ॥ ३०५॥ ततः श्रीपालमाका-स्नेहयत्तेन स प्रभुः। आद्यो धर्मो व्रतस्थानां विरोधोपशमः खलु ॥ ३०६॥ अस्य वृत्तं ततः श्रीमजयसिंहनरेशितुः। ज्ञापयित्वा च तत्पााद्रव्यलक्षमदापयत् ॥ ३०७॥ अन्यदर्शनसम्बद्धविद्वत्प्रणतितस्तदा । प्रहीणभाग्यशक्त्यायुःस्थिति स्वां सुविमृश्य सः॥ ३०८ ॥
नव
१P°द्धरः.