________________
श्रीहेमचंद्रसूरिप्रबन्धः।
३१३ अस्मद्देशान्तरा तिष्ठ क्रियानिष्ठ मुनीश्वर । अर्थिप्रणयभंगं हि महात्मानो न कुर्वते ॥ २७५॥ इत्थं गिरां भरैः प्रीतोऽवातिष्ठत गुरुस्तदा। तिस्रः समाः समासन्ना दरिद्रश्च शनैरभूत् ॥२७६॥ तस्य न केयविक्रेयव्यवहाराद्धनागमः। राजदत्तं हि भुज्येत तद्विना दौस्थ्यमाययौ ॥ २७७ ॥ सूरेः श्रीहेमचन्द्रस्य विदितं वृत्तमप्यभूत् । श्रीश्रीपालश्च तत्पार्श्वमन्त्रयत्तदिदं रहः ॥ २७८ ॥ असौ भिक्षुर्निजाचारभ्रष्टो नष्टः क्रियाकुधीः। निष्टानिष्टयतिव्यूहादृश्यवक्रः कुवृत्तभूः॥२७९ ॥ दारियराजधानीत्वादिदानीमृणजर्जरः। मदोद्धतमहालोललोलाबशविनष्टभूः ॥ २८० ॥ अधुना सपरीवारो भिक्षया भुक्तिभाक्ततः। दर्शनी दर्शनाचारे स्थापितो निजलक्षणैः ॥ २८१ ॥ सिद्धीनामष्टसंख्यानां षड्ययुस्तस्य सहुणैः। अणिमा लघिमा च द्वे योषे प्रापतुरद्भुतम् ॥ २८२॥ श्रीसिद्धाधीश्वरं मूर्त देवेन्द्रमिव तेजसा । सौधमौलिस्थकाकोल इव सिंहासने स्थितः ॥ २८३॥ वर्णाश्रमगुरुं भूमावुपवेशयति स्म यः। निर्विवेकस्य तस्यैतन्मान्यावशालताफलम् ॥ २८४॥ मया चाश्रावि तन्मन्त्रोऽयद्रणोपद्रवो हि नः। राज्यपूज्यं हेमचन्द्रं विना नः प्रतिहन्यते ॥ २८५ ॥ तदसौ चेत्समायाति पूज्यपार्चे ततोपि नः। मान्योसौ पतितस्यास्य वकं कः प्रेक्षते सुधीः ॥२८६ ॥ अथोचुर्गुरवो यूयं यजल्पत तदेव तत् । एकत्रास्य गुणेनास्तु बहुमानः परत्र नः ॥ २८७ ॥ दृश्यते नान्यसामान्य संक्रामितगुणोत्तरम् । सारस्वतं न कुत्रापि समयेस्मिन्नमुं विना ॥ २८८ ॥ ततोसौ निर्विषः सर्प इव चेदागमिष्यति । म्लानमानकृतो धीमान् लभ्यानेनापि सत्कृतिः ॥ २८९॥ अथाह कविराजोपि गुणमेवेक्षते महान् । कृष्णवत्कृष्णमुक्तासु श्वदन्तधवलत्ववत् ॥ २९०॥ स्वाभिप्रायो मया प्रोचे पुनः पूज्यैर्बहुश्रुतैः। यथाविचारं कार्याणि कार्याणि गरिमोचितम् ॥ २९१ ॥ १ P. कुतोधीमन्.
27
-