________________
३१२
प्रभावकचरिते प्रसन्नास्वादमत्यंतप्रसन्नास्वादमैककम् । विधायाथ निजं स्थानं गम्यतेऽथ विरम्यते ॥ २५७॥ इतिस्मृतिमनुक्त्वा यः प्रकटं वदति स्म तम् । अपि नः संविभागेषु कः स्वादेषु पराङ्मुखः ॥ २५८ ॥ क्षणं ध्यात्वा समुत्पन्नप्रतिभः प्रोचिवानिति । भवता निधिना भूप दिष्ट्या वर्धामहे वयम् ॥ २५९ ॥ सौवर्णपात्रमापूर्यार्पितं तेनाथ भूभृता। यावत्समीक्षते तावत्क्षीरपूर्ण व्यलोकयत् ॥ २६०॥ पपावथामृतास्वादं व्यमृशद्भूपतिः क्षणम् । इदं दुग्धं नु मद्यं वा शक्तयापावृत्त तद्रसम् ॥ २६१ ॥ चेत्परावृत्तमस्याहो शक्तिप्रातिभमद्भुतम् । ततो विससृजे तेनाऽवसरोयं मनीषिणा ॥ २६२॥ प्रातर्भूपसभां गत्वा देवबोधस्ततोऽवदत् । आपृच्छयसे महाराज वयं तीर्थयियांसवः ॥ २६३ ॥ श्रीसिद्धभूपतिः प्राह भवादृशमुनीश्वराः। देशस्य शान्तिनीरं कः प्रहेष्यति सकर्णकः ॥ २६४ ॥ आह सोप्यर्थवादेन कृतं यत्र कृतीश्वरः। प्रत्येति खलभाषाभिः स्थितिस्तत्र न युज्यते ॥ २६५ ॥ कुलविद्यावयोज्ञानशक्तयश्चेन्नरं नहि । व्यावर्तयन्ति सनिंद्यकर्मभ्यस्तत्पुरे हि किम् ॥ २६६॥ देवा देव्यो महामन्त्रा विद्याश्चानेकशो वशे। येषां ताः सिद्धयश्चाष्टौ कल्पस्तैर्वारजनैर्हि किम् ॥ २६७॥ ततो भूपाल नास्मादृगयोग्या पर्षत्तव स्फुटम् ।। ईदृग्ग्रामनटग्राम्ये संयोगः सदृशोऽस्तु वः ॥ २६८ ॥ साकूतमवदद्भूपः श्रीपालं कविपुङ्गवम् । शुश्रुवे शमिनो वाक्यं कोपगर्भ नतु त्वया ॥ २६९॥ प्रज्ञाचक्षुः कविर्दध्यौ कार्यसन्मानदण्डितः। भिक्षुरेष क्रियाभ्रष्टः स्रस्तरूपो यथा भवेत् ॥ २७० ॥ उवाच च महाराजाचिन्त्यशक्तिभृतोह्यमी । महाप्रभावा मुनयो न प्रहेया स्वदेशतः ॥ २७१ ॥ नहि द्रव्येण विद्वांस आवर्ण्यन्ते न चाटुभिः। परिज्ञातस्वभावा हि सद्वात्सल्येन केवलम् ॥ २७२ ॥ श्रुत्वा श्रव्यं वचस्तथ्यं स्वशिरो मनिपादयोः। स्पर्शयित्वा जगौ वाक्यं राजा विनयसंभृतम् ॥ २७३॥ मुनिः सदृत्य माहात्म्याभूपालाः पालकाः क्षितैः। वासवा इव शोभन्ते तत्र हेतुनहीतरः॥२७४॥