________________
श्रीहेमचंद्रसूरिप्रबन्धः। अश्रद्धेयं वचः श्रद्धातव्यमस्मत्प्रतीतितः। प्रत्यक्षं यदृशा दृष्टमपि सन्देहयेन्मनः॥ २३९॥ वेदगर्भः सोमपीथी दग्ध्वा यज्ञोपवीतकम् । अपिबद्गाङ्गनीरेण प्राप्तभागवतव्रतः॥ २४०॥ असौ यत्याश्रमाभासाचारः सारस्वते तटे । निशीथे स्वपरीवारवृतः पिबति वारुणीम् ॥ २४१ ॥ राजा बुधः कविः शूरो गुरुर्वक्रः शनैश्चरः। अस्तं प्रयाति वारुण्यासङ्गी चित्रमयं तु नः ॥ २४२ ॥ अथाह कविराजोऽपि संभ्रमोदान्तलोचनः । कथं हि जाघटीत्येतच्छ्रद्धेयं नापि वीक्षयत् ॥ २४३ ॥ अस्य तुर्याश्रमस्थस्य भोगैर्व्यवहृतैरपि। नार्थस्तदर्शनाचारविरुद्धस्तु किमुच्यते ॥ २४४॥ तेऽप्यूचुः स्वदृशालोक्य वयं ब्रूमो न चान्यथा । यस्यादिशत तस्याथ वीक्षयामः प्रतिज्ञया ॥ २४५॥ श्रीपालोऽप्यूचिवान् श्रीमजयसिंहनरेशितुः। अद्य दर्शयत श्यामोत्तरार्धं तत्र सङ्गते ॥२४६॥ ओमिति प्रतिपन्ने च तैर्नृपाग्रे यथातथम् । व्यजिज्ञपदिदं सर्व सिद्धलारस्वतः कविः ॥ २४७ ॥ इत्याकाह भूपालः सत्यं चेन्मम दर्शय । इदं हि न प्रतीयेत साक्षादृष्टमपि स्फुटम् ॥ २४८॥ अर्धरात्रे ततो राजा प्रसये प्रेक्षिताध्वना । अवन्तिसैकतं प्राप दुःप्रापं कातरैर्नरैः ॥ २४९ ॥ वृक्षवल्लीमहागुल्मांतरेतो यावदीक्ष्यते । भूपस्तावद्ददर्शामुमुन्मत्तानुचराश्रितम् ॥ २५०॥ यथेच्छं गीयमानत्त्वादव्यक्तध्वनिसंभृतम् । चषकास्यस्फुरन्मद्यातवऋसखीसखम् ॥ २५१ ॥ 'युग्मम्' प्रतीतः सिद्धराजोऽपि दृष्टेदमतिवैशसम् । विचिकित्सां दधौ चित्ते नासाक्षणनपूर्वकम् ॥ २५२ ॥ अहो संसारवैचित्र्यं विद्वांसो दर्शनाश्रिताः। इत्थं विलुप्तमर्यादाः कुर्वते कर्म कुत्सितम् ॥ २५३ ॥ इदानीं यद्यहं साक्षादेनं नो जल्पयाम्यथ । प्रातः किमेष मन्येत दुश्चरित्रमिदं ननु ॥ २५४॥ इति ध्यायत एवास्य वाणी भूपस्य कर्णयोः। प्राविशत् प्रकटा कोर्टि रसप्राप्तातिकेलितः ॥ २५५॥ वीक्ष्य प्रान्तदशं स्वेशं तत्तेजःप्रसरोज्वला। विभांत्यनु प्रयातिस्म ज्योत्स्नाकटसतीस्वितिः ॥ २५६ ॥