________________
३३८
प्रभावकचरिते विमुंचन संतोषात्तदपि रुदती वित्तमधुना
कुमारक्ष्मापाल त्वमसि महतां मस्तकमणिः ॥ ६९७ ॥ एवं सांतःपुरो राजा प्रत्याख्याननिरन्तरम् । राज्यं बभार देवेन्द्र इव स्फीतं विकंटकम् ॥ ६९८ ॥ अन्येधुजैनधर्मस्थं भूपालं प्रणिधिवजैः। बलहीनं द्विधा ज्ञात्वा कल्याणकटकाधिपः ॥ ६९९ ॥ भूपोभ्यमित्रयन्नायात्प्रयाणं बलकोटिभिः। कुमारपालस्तज्ज्ञात्वा चारैश्चितामवाप च ॥ ७००॥ विज्ञप्तं च प्रभूणां तत् प्रभोज॑नस्य मे किमु । अस्मात्पराभवो भावी प्राप्तशासनलाघवः ॥ ७०१॥ प्रभुराह महाराज त्वां श्रीशासनदेवताः। पांति जानाति लग्नस्तत् सप्तमे वासरे भवान् ॥ ७०२॥ श्रुत्वेति सचमत्कारं ययौ भूपः स्वमन्दिरम् । अध्यायदजनौ सूरिर्विधिना परमाक्षरम् ॥ ७०३ ॥ तदधिष्ठायकस्तस्यादेशं साक्षाद्ददौ तदा । भाग्यात्कुमारपालस्य शत्रुरस्तंगतोद्यमः ॥ ७०४॥ सप्तमे वासरे चारैररिमृत्योः स वर्द्धितः। नृपोऽवददहो ज्ञानं महुरो परत्र तत् ॥ ७०५॥ अन्यदालिख्यमाने च स्वगुरुग्रंथसंचये। प्राग्रीत्या शास्त्रविस्तारविधये निधये धियाम् ॥ ७०६॥ ताडपत्रत्रुटिर्जशे शालभेभ्यो दवेनच (?) । देशांतरादनायातैस्तैश्चिता भूपतेरभूत् ॥ ७०७॥ महरोः करणे शक्तिलेखनेऽपि न मे पुनः । शास्त्राण वीडिता अद्य ततस्ते पूर्वजामयः॥ ७०८ ॥ गत्वारामे निजे तालजाले स्थित्वास्य पूजनम् । गंधद्रव्यैर्व्यधाद्भूपः सुगंधकुसुमैस्तथा ॥ ७०९ ॥ उवाच प्रवणराज त्वं पूज्यो ज्ञानोपकारतः । सर्वदर्शनिशास्त्राणामाधारस्त्वं दैलैः कलैः॥ ७१०॥ पुस्तकावस्थितौ चेन्मे भाग्यं जागर्ति निर्भरम् । तदा भवंतु श्रीतालाः सर्वेमी तालभूरुहः ॥ ७११ ॥ इत्युक्ता ग्रंथितं भुक्त्वा माणिक्यैः स्वर्णनिर्मितम् । ग्रैवेयकं तरोःस्कंधे न्यवेशयदशंकधीः॥ ७१२॥ व्यावृत्य सौधमूर्धानमधितस्थौ नराधिपः । प्रातः प्रावर्द्धयंस्ते चारामपालाः प्रभुं मुदा ॥७१३॥
. १P द्विजा. २ P कलैः कलैः.