________________
श्रीहेमचंद्रसूरिप्रबन्धः ।
३३७
चतुर्विंशतिचैत्येषु श्रीमंतो ऋषभादयः। . सीमंधराद्याश्चत्वारश्चतुषु निलयेषु च ॥६८१ ॥ श्रीरोहिणिश्च समवसरणं प्रभुपादुकाः। अशोकविटपी चैवं द्वात्रिंशत् स्थापितास्तदा ॥ ६८२ ॥ द्वात्रिंशतः पूरुषाणामनृणोस्मीति गर्भितम् । व्यजिशपत् प्रभोभूपं पूर्ववाक्यानुसारतः ॥ ६८३॥ सपंचविंशतिशतांगुलमानो जिनेश्वरः। श्रीमत्तिहुणपालाख्ये पंचविंशतिहस्तकै ॥ ६८४ ॥ विहारे स्थाप्यत श्रीमान्नेमिनाथोऽपरैरपि । समस्तदेशस्थानेषु जैनचैत्यानचीकरत् ॥ ६८५॥ युग्मम् क्षणे धर्मोपदेशस्य सप्तव्यसनवर्णनम् । घनदौर्गत्यदुर्योनिभवभ्रमणकारणम् ॥ ६८६ ॥ उपादिक्षत् प्रभू राजे स्वदेशेसौ न्यषेधयत् । अचीकरदमारिंच पटहोद्घोषपूर्वकम् ॥ ६८७॥ . पुरादेशभ्रमिस्थेन राशा मृतवणिप्रिया। . सपादलक्ष ऐक्षिष्ट खेदिता राजपूरुषैः॥ ६८८॥ तदा निषेधं जग्राह तस्या एवानुकंपया। निर्वीरास्तेन नो कार्य राज्यं चेन्मे भविष्यति ॥ ६८९ ॥ अधुनात्र मृते क्वापि व्यवहारिणि विश्रुते । अपुत्रे तद्वनं कांतानीयतास्याधिकारिभिः॥ ६९०॥ स्वामी पप्रच्छ तान्कस्य विपुत्रश्रीर्भवेदियम् । तेऽवदन् रूढिरेषास्ति तत्पुत्रस्य नृपस्य वा ॥ ६९१ ॥ स्मित्वाह भूप पूर्वेषां राज्ञामेषा विवेकधीः। यत्कौटिल्यं विना वाच्या दोषा निजगुरोरपि ॥ ६९२॥ अशाश्वतश्रियः सर्वाधीनाया हेतवे नृपाः। उत्तमाधममध्यानां पुत्रतामनुयांति यत् ॥ ६९३॥ तस्मान्नाहं भविष्यामि विश्वलोकस्य नंदनः। विश्वस्यानंदनो भावी निर्वीराधन उझिझते ॥ ६९४ ॥ मृतभर्तृसुताद्रव्यमित्यौज्झद्भूपतिः सुधीः। अभुक्तं नलरामाद्यैरपि प्राकालराजभिः॥ ६९५॥ प्रभुर्निजोपदेशानां सत्यत्वात्परितोषवान् ।
भूपवृत्तलसद्वृत्तिस्थेने वृत्तमुदाहरन् ॥ ६९६॥ तद्यथा-नयन्मुक्तं पूवैरघुनयु(?)षनाभागभरत- .
प्रभृत्युर्वीनाथैः कृतयुगकृतोत्पत्तिभिरपि । १P रास्वेन, तिशराखेन कार्य स्वन्मे० २ H भव्य०.३ P घुष..
29