________________
प्रभावकचरिते
एवंविवदतोर्मन्त्रीवणिजोर्दिनमत्यगात् । रात्रौ च श्रीकपर्दीशः साक्षाद् वाणिजमभ्यधात् ॥ ६६४ ॥ श्रीयुगादिप्रभो रूपका_तुष्टो धनं ह्यदः। अहं प्रादर्शयं ते तत्त्वं व्ययस्व निजेच्छया ॥ ६६५॥ क्षयं यास्यति नैवैतदानभोगैर्घनैरपि । अन्यस्येदं हि नाधीनमत्रान्यन्माविचार्यताम् ॥ ६६६ ॥ अत्र चैतदभिज्ञानं त्वत्पत्नी दुर्मुखाप्यलम्। अकस्मात्प्रियवाक्याभूद्भक्तिप्रह्वा च विद्धि तत् ॥६६७॥ इदं समीक्ष्य च प्रातः श्रीनाभेयप्रभुं स च । सुवर्णरत्नपुष्पाद्यैस्तद्धयानः समपूजयत् ॥ ६६८॥ अभ्यर्च्य श्रीकपर्दीशं ततः स्वगृहमागमत् । स्वकृतैः सुकृतैर्जन्म पवित्रं व्यतनोत्तरम् ॥ ६६९ ॥ श्रीमद्वाग्भटदेवोऽपि जीर्णोद्धारमकारयत् । सदेवकुलिकस्यास्य प्रासादस्यातिभक्तितः ॥ ६७० ॥ घनद्रव्यव्ययाचिंतावशादक्षेपतस्तदा । पर्यपूर्यंत ककुभाश्चारुरोह मुदा सह ॥ ६७१ ॥ शिखींदुरविवर्षेच १२१३ ध्वजारोपे व्यधापयत् । प्रतिमां सप्रतिष्ठां स श्रीहेमचन्द्रसूरिभिः ॥ ६७२ ॥ इतश्च स्वर्विमानश्रीस्ततः प्रभृति विश्रुतः। श्रीकुमारविहारोयं भव्यादृक्पुण्यलक्षणम् ॥ ६७३ ॥ पटुवैकटिकश्रेणिघटनाकोटिटंकितम् । विवं श्रीपार्श्वनाथस्य निष्पन्नं रम्यतावधिः॥ ६७४ ॥ प्रातिष्ठिपत् शुभे लग्ने मंत्रीश्रीहेमसर्गभिः । अतिचिंतामणिं वांच्छितातीतवस्तुदम् ॥ ६७५ ॥ प्रासादशुकनासेवं भूपतिर्मोक्षकाभिधम् । छिद्रं विमोचयामास विश्वोपकृतितत्परः॥ ६७६ ॥ पूर्णमासीनिशीथे च रोगिप्रार्थनया ततः। प्रकटीकृततच्छिद्रेऽमृतमस्रावि बिंबतः ॥ ६७७ ॥ तच्चक्षुरादिरोगाणामपहारं जनेऽतनोत् । उपचक्रे क एवं हि नृपतिः सर्वतोमुखम् ॥ ६७८ ॥ प्रासादैः सप्तहस्तैश्च यथावणैर्महीपतिः। द्वाविंशतं विहाराणां साराणां निरमापयत् ॥ ६७९ ॥ द्वौ शुभ्रौ श्यामलौ द्वौ च द्वौ रक्तोत्पलवर्णको। द्वौ नीलौ षोडशाथस्युः प्रासादाः कनकप्रभाः ॥ ६८० ॥
१ P इति° २ H नाशेव.