________________
श्रीहेमचंद्रसूरि प्रबन्धः ।
ततः केलिमपूगैः स पत्रैर्नागरखंडकैः । बीटकं प्रददावस्य कर्पूरपरिपूरितम् ॥ ६४७ ॥ तद्गृहीत्वा स सन्मानपूरितः स्वगृहं ययौ । गेहिन्या विश्यदभ्यस्तदुर्वाक्याली कुलक्षितेः ॥ ६४८ ॥ अकस्मात्सा च तं स्वादुवचनैः पर्यंतोषयत् । आजन्मादृष्टपूर्वं तद्दृष्ट्वा विस्मयमाप सः ॥ ६४९ ॥ तेनोक्ते च यथावृत्ते सावादीत्पारितोषिकम् । यन्न त्वया गृहीतं तन्निर्वृतं मे व्यधाद्धनम् ॥ ६५० ॥ यदि त्वं मंत्रिणः पार्श्वे लोहटंकार्धमप्यहो । अग्रहीष्यत्ततो नाहमस्थास्यं त्वद्गृहे ध्रुवम् ॥ ६५१ ॥ धेनुयोग्यं ततः स्थाणुं श्लाघ्यं गाढं कुरुष्व तत् । तयेत्युक्तः कुशीं प्रार्थ्य द्रमत्राखनत्ततः ॥ ६५२ ॥ खाते चाल्पे खनित्रं च खटत्कृतमतः स तु । भार्यामाकार्य कथयामास सा च ततोऽवदत् ॥ ६५३ ॥ रात्रौ निर्व्यजने किंचिद्विधेयं नतु सांप्रतम् । वेलां विलम्ब्य तत्तस्मात्तदाकृष्यत यत्नतः ॥ ६५४ ॥ चत्वारि हैमटकानां सहस्राणि स चासदत् । अल्पाया अपि पूजायाः फलमेतज्जिनेशितुः ॥ ६५५ ॥ अर्पयिष्याम्यहं मंत्रिवाग्भटस्य धनं ह्यदः । ईदृशि व्ययितं तीर्थे तद्धि कोटिगुणं भवेत् ॥ ६५६ ॥ पत्याप्यनुमतः प्रातर्गिरिमारुह्य मंत्रिणम् । वीक्ष्य तद्दर्शयामास गृह्णीतेत्यवदच्च तम् ॥ ६५७ ॥ श्रुत्वेति धीसखखामी प्राह मद्वचनं शृणु । सत्वात्ते सप्तभिर्द्धम्मैः पूर्णो मम मनोरथः ॥ ६५८ ॥ अतः परं भवद्द्रव्यं ग्रहीतुं नाहमीशिता । अनेन भविता यस्मात्सौवर्णः सकलो गिरिः ॥ ६५९ ॥ अभिसंधिर्न मे सोऽस्ति तत् स्वं द्रव्यं यथारुचि । व्यय वर्धय भुंक्ष्वाथ धर्मे वा धेहि शीघ्रतः ॥ ६६० ॥ स प्राह कुतपोद्वाह भाग्यस्य कनकं किमु । स्थातामेकनकेतत्कः क्लेशोंगीक्रियतेस्य नु ॥ ६६१ ॥ भवान् यथातथा कर्तुमिमं शक्तः प्रभुत्वतः । तत्प्रसद्य गृहाणेदं तुष्टोस्तु कुतपो मम ॥ ६६२ ॥ प्राह मंत्री ततो द्रव्यं न गृह्णामि निरर्थकम् । एनं भारं न वोढास्मि वाहीक इव दुर्वहम् ॥ ६६३ ॥
१ P भृथं .
३३५