________________
३३४
प्रभावकचरिते तत्पुरः पर्षदंतः स ऊौंस्थात् स्थाणुवस्थिरः । अनभिज्ञः प्रणामादौ ग्रामणीत्वादृजुस्थितिः ॥ ६३० ॥ कस्त्वमित्युक्तिभाजि श्रीमंत्रिणि प्रकटाक्षरम् । प्रागुक्तनिजवृत्तं स आख्यदक्षामदुःखभृत् ॥ ६३१ ॥ मंत्रीश्वरं प्रति प्राह धन्यस्त्वंक्लेशितोर्जितम् । यद्पकं व्ययित्वाची श्रीजिनस्य समाचरेः ॥ ६३२॥ इत्युक्त्वा स करे धृत्वा स्वाासनि निवेशितः। धर्मबंधर्भवान्मे तत्कार्य किंचिहवीहि भो॥६३३॥ सोस्य प्रभोः प्रियैर्वाक्यैः प्रीणितोचितयन्मुदा । संप्रापितः परां कोटिमनेनाकिंचनोऽप्यहम् ॥ ६३४ ॥ तदा साधर्मिकास्तत्र व्यवहारिनियोगिनः। इष्टे तीर्थसमुद्धारे नंत पुण्यभरार्थिनः ॥ ६३५॥ वहिकां मंडयामासुर्द्रव्यमीलनिकाकृतेः। प्राग्मंत्रिणस्ततो ज्येष्ठानुक्रमादभिधा व्यधुः ॥ ६३६ ॥ दृष्टा नामान्यसौ दध्यौ चेद्रम्मा सप्त मामकाः । कार्येऽस्मिन्नुपकुर्वति तत्र धन्यो मया समः ॥ ६३७ ॥ वक्तुकामोऽसि किंचित्किमित्युक्तो मंत्रिणा स च। प्राह सप्त गृहीत्वामून् द्रम्मान् प्रीणय मां प्रभो ॥ ६३८॥ तदाचारात्परानंदद्मदुरः सचिवोऽवदत् । त्वं मे धर्मसुहृद्भातस्तत्तानर्पय सत्वरम् ॥ ६३९ ॥ श्रीतीर्थजीर्णोद्धारस्य निष्पत्पाशाद्य मेऽभवत् । नीवीं जीवितवत्स्वीयां यदक्लेशत्वमव्ययः॥ ६४०॥ वहिकादौ च तन्नाम लिखित्वाथनिजाभिधाम् । अधस्तस्य ततो नामान्यन्येषां धनशालिनाम् ॥ ६४१ ॥ वयं तु कोटिसंख्यस्य द्रव्यस्य खरकर्मभिः। उपान्तस्य व्यये तं प्राभृतोन्यधनमिच्छतः॥ ६४२॥ स्वकीयकोषादाहार्षीत्ततः पट्टांशुकत्रयम् । द्रम्मपंचशतीं चैवं प्राहैतद्धिगृहाण भो॥ ६४३॥ मंत्रीशेन स चेत्युक्तः स्मित्वावादीदसौ वणिक् । न विक्रीणे ध्रुवं पुण्यमस्थिरद्रव्यलेशतः ॥ ६४४॥ भवंतः स्वामिनःप्राच्यपुण्यसंपन्नवैभवाः। कुर्वतः किं न लजंते मादृशां विप्रलंभनम् ॥ ६४५॥ इत्याकोद्धषद्रोमा मंत्रीदुः प्राह वाणिजम्।
मत्तो धन्यस्त्वमेवासि यस्येनिःस्पृहं मनः ॥६४६॥ ...१ P चरः. २ P वितवज्ञखीघां. D मावी जिवितवत्स्वी'. ३ J प्रतिजाभिधा.