________________
३
३
श्रीहेमचंद्रसूरिप्रबन्धः। . स्वामिन्महाप्रसादोयमित्युक्त्वा तत्र धीसखः।। विमलाद्रौ ययौ श्रेष्ठिव्यापारपरिवारितः ॥ ६१४॥ तत्र तीर्थे प्रभुं नत्वा नाभेयं भक्तिनिर्भरः। गुरुदारान्प्रदाप्यास्थात् ? प्रतिसीराश्च सर्वतः॥६१५॥ विमानकानि मंचाश्च प्रादात्करभिकास्तथा। वाटिकानि चतुष्पाटीः पट्टशाटकमंडिताः॥ ६१६॥ चंचञ्चतुरकांश्चापि स्वर्विमानोपमद्युतीन् । अनेकभेदसंघातसंकीर्णीकृतपर्वतान् ॥ ६१७ ॥ विशेषकम् । तत्र चैको वणिक प्रत्यासन्नग्रामात्समागतः। *निधिौस्थ्यस्य घृष्टानि पटञ्चरयुगं दधत् ॥ ६१८॥ षट्द्रम्मनीविकस्तैश्चै क्रीताज्यकुतपं वहन् । कटके ग्राहकव्यूहबाहुल्याद्रूपकाधिकम् ॥ ६१९ ॥ द्रम्मं स चार्जयित्वातितुष्टः श्रीवृषभप्रभुम् । कुसुमै रूपकक्रीतैः पूजयामास भक्तितः॥ ६२० ॥ सप्तद्रम्मान् सप्तलक्षानिव ग्रंथौ वहन् मुदा। वीक्षकः सचिवाधीशं तकंटीद्वारमागमत् ॥ ६२१ ॥ ददृशे तेन मंत्रीदुरीषजवनिकांतरात् । कूर्मेनेव ह्रदे बद्धजालास? वालरंध्रतः ॥ ६२२॥ सव्यमृक्षत्प्राच्यपुण्यपापयोरेतदंतरम्। पुरुषत्वे समेऽमुष्य मम चानीगाकृतिः॥ ६२३॥ वर्णमौक्तिकमाणिक्याभरणांशुदुरीक्षरुक् । व्यापारिव्यहार्यस्त्रजीविव्रातपरिच्छदः॥ ६२४ ॥ चक्रीव मुकुटाबद्धमंडलाभ्यर्चितक्रमः। श्रीनाभेयमहातीर्थजीर्णोद्धारमनोरथः ॥ ६२५ ॥ अहं तु स्वगृहिण्याथाभिभूतो निर्धनत्वतः। संध्यावध्यपि संदिग्धहारप्राप्तिर्मुधाश्रमः ॥ ६२६ ॥ कुतपोद्वहनक्लिष्टशिरा आशैशवादपि। एकरूपकलाभेन धन्यमन्यो दिन प्रति ॥६२७ ॥ एवं विचितयन् द्वारपालेन परतः कृतः।। श्रीमद्वाग्भटदेवेन मत्रिणादर्शि दैववत् ॥ ६२८॥ वणिगाहूयतामेषत्युक्ते स द्वारपालका। दूरप्रयातमपि तमाह्वास्तादेशतः प्रभोः ॥ ६२९ ॥
१P D गुरूदरा. २ निधिस्थोस्थ्यस्य ? ३ P कस्ते. म क्रीटा...... केटके० ४ D. कटी० ५P जालशेवाधर०°