________________
३३२
प्रभावकचरिते
गुरुराह महाराज रूढं स्थूलमिदं वचः । सकृद्देहापदां स्यान्निः कृतिः कृतकर्मणः ॥ ५९७ ॥ तत आर्हतधर्मेच्छापवित्रितमनाऽभवत् । प्रवर्त्ततां तथा पंकः समस्तः क्षाल्यते यथा ॥ ५९८ ॥ दंता द्वात्रिंशतः पाप्ममोक्षाय त्वं विधापय । द्वात्रिंशतं विहाराणां हाराणामिव ते वने ॥ ५९९ ॥ निजवस्त्रिभुवनपालस्य सुकृताय च । मेरुशृंगोन्नतं चैत्यं श्रीजैनेंद्रे विधापय ॥ ६०० ॥ अथाह मेदिनीपालः सुरीतिरियमुज्वला । भवकांतारनिस्तार एतदेव च शंबलम् ॥ ६०१ ॥ अथो परमया भक्त्या प्राहिणोत्प्रभुमालये । अपरेद्युश्च संप्राप वाग्भटस्य जिनालयम् ॥ ६०२ ॥ तत्रयातस्य भूपस्य ययौ नेपालदेशतः । श्रीबिंब मेकविंशत्यंगुलं चांद्रमणीमयम् ॥ ६०३ ॥ प्राभृते प्रावृते तत्र मूर्ते चिंतामणाविव । सर्वतो व्यकसद्राजा पूर्णमासीनिशीथवत् ॥ ६०४ ॥ ततो मंत्रिणम कार्य प्रसादविशदाननः । कुत्राप्यमात्यकायैहमधमर्णो भवामि वः ॥ ६०५ ॥ इत्याकर्ण्य स च प्राह प्राणाः स्वामिवशा मम परिच्छदो धनं भूमिरास्था कान्येषु वस्तुषु ॥ ६०६ ॥ राजाह प्रांजलिर्याचे प्रसादो मे प्रदीयताम् । सनाथं करवै मित्र यथा प्रतिभयानया ॥ ६०७ ॥ महाप्रसादो मे नाथ भवत्वेवं धृतिर्मम | श्रीकुमारविहारोतः परं स्वाम्याख्ययास्तु तत् ॥ ६०८ ॥ किंचिच्च स्वामिने विज्ञपये तदवधार्यताम् ।
श्रीकीर्तिपालतः पित्रा संदिष्टं मम यद्वचः ॥ ६०९ ॥ श्रीशत्रुंजयतीर्थस्य प्रासादः श्रेयसे मम । जीर्णशीर्णस्त्वयोद्वार्य इति मे कृत्यमस्त्यदः ॥ ६१० ॥ प्रभुपादैस्तथादिष्टं यात्रायाः प्रक्रमे तदा । देवतास्मृतिवेलायां कीर्तिपालप्रतिश्रुतान् ॥ ६११ ॥ अस्मत्कोशधनं लात्वा कार्या चैत्योद्धृतिस्त्वया । स आदेशो ममास्तु स्वैः पितुरानृण्यहेतवे ॥ ६१२ ॥ श्रुत्वेत्याह नृपोऽस्माकं कार्येऽस्मिन्सोदादरात् । एवमप्यस्त्वनुल्लंघ्यवचनस्त्वं हि नः सखे ॥ ६१३ ॥
१ P देहापदाना H देहांपदा. २ HD तत्र या ०. ३ P माहूय.