________________
श्रीहेमचंद्रसूरिप्रबन्धः।
३३९ सर्वे श्रीताड़तां जग्मुः स्वामिन्नत्र नलद्रुमाः। ' यथेच्छ लेखकैः शास्त्रसमूहो लिख्यतां ततः॥७१४॥ वस्त्राभरणभोज्यादि तेषां सत्पारितोषिकम् । ददावदैन्यदं दानमनादीनवचेतनः ॥७१५॥ ततःप्रववृते पुस्तकानां लेख्यविधिस्तदा। भूपालयशसा भाग्यसंघात इव संगतः॥ ७१६ ॥ राजा सांतःपुरोगे हि व्रतं बिभ्रदनिंदितम् । सम्यग्बभार साम्राज्यं स चक्री च त्रयोदश ॥ ७१७॥ अन्यदा भूपतिं श्रीमदजितस्वामिसंस्तवम् । कुर्वन्तं प्राग रिपुच्छेदसंकल्पपरिपूरितः ॥ ७१८ ॥ तत्प्रासादविधानेच्छं प्रभुरादिक्षत स्फुटम् । गिरौ तारांगनागाख्येऽनेकसिद्धोन्नतस्थितौ ॥ ७१९ ॥ विहार उचितः श्रीमन्नक्षय्यस्थानवैभवात् । शत्रुजयापरामूर्तिर्गिरिरेषोपि मृश्यताम् ॥ ७२० ॥ चतुर्विशतिहस्तोचप्रमाणं मंदिरं ततः। बिंबं चैकोत्तरशतांगुलं तस्य न्यधापयत् ॥ ७२१ ॥ अद्यापि त्रिदशवातनरेन्द्रस्तुतिशोभितः। आस्ते संघजनैदृश्यः प्रासादो गिरिशेखरः॥ ७२२ ॥ आसीदुदयनस्यापि द्वितीयो नंदनाग्रणीः। अंबडाभिदया श्रीमानमानवपराक्रमः॥ ७२३॥ श्रीमत्कुमारपालस्यादेशतो नृपतेरसौ। कुंकणाधिपतेर्मल्लिकार्जुनस्याच्छिनच्छिरः ॥ ७२४ ॥ लाटमंडलभंभेरी सहस्रनवकं तथा। कुंकणानंद पद्रं च राष्ट्र पल्लीवनानि च ॥ ७२५॥ भुंक्ते देशानिमान् स्वामिप्रसादान्निजविक्रमात् । राजसंहार इत्युग्रं सान्वयं बिरुदं वहन् ॥ ७२६॥ युग्मम् ।। अथ श्रीभृगुकच्छेसौ श्रीसुव्रतजिनालयम् । चिरंतनं काष्ठमयं जर्जरं परिदृष्टवान् ॥ ७२७॥ घुणोत्कीर्णजरत्काष्ठपतच्चूर्णास्तृतावनिः। श्लघायाकीलकः भ्रश्यत्पट्टकच्छाद्यकावृतम् (?) ॥ ७२८ ॥ अतिवृष्टिगलत्तोयं पतद्भित्तिवजं तदा । गर्भागारेपि निश्योतदाशांतितजिनेश्वरम् ॥७२९॥त्रिभिर्विशेषकम् ॥
पूर्वप्रासादमुत्कील्य स्वस्थानस्थं प्रभुं ततः। .
प्रकांतजीर्णोद्धारश्च गर्तापूरमचीखनत् ॥ ७३० ॥ १P रंग..