________________
३४०
प्रभावकचरिते अत्रांतरे स्थले कस्मिंश्चिदस्मिन् योगिनीगणः । द्वात्रिंशल्लक्षणत्वेनाच्छलयन् श्रीमदम्बडम् ॥ ७३१ ॥ सर्वांगीणव्यथाक्रांतस्ततः प्रभृतिरुग्लरुक् । अक्षुत्तृष्णो विलीनांगः कवलं क्षीयतेतराम् ॥ ७३२ ॥ पद्मावतीतितन्मात्राराद्धा पद्मावती सुरी । उपादिशदिदं स्वप्ने शृणु सत्यं वचः सुत ॥ ७३३ ॥ महापीठमिदं विश्वयोगिनीरंगसंगतेः । तगस्तं मोचयेन्नान्यो हेमचंद्रगुरुं विना ॥ ७३४ ॥ ततःप्रातःप्रेभोरेषाकारणायादिशन्नरान् । वेगात्तेपि प्रभुं दृष्ट्रा यथादेशं व्यजिज्ञपन् ।। ७३५ ॥ क्षुते नष्टे भानुरेव शरणं नापरस्ततः। जीवितव्यं सपुत्राया मम देहि प्रभो ततः॥ ७३६ ॥ श्रुत्वेति गुरुराह खेवयश्चंद्रसमन्वितः। आययौ पादचारेण समीपेंबडमंत्रिणः ॥ ७३७ ॥ गणी गणितनिष्णातश्चेष्टामैक्षिष्ट तस्य च। चित्ते विचित्य तन्मातुर्ददौ शिक्षामलक्षधीः ॥ ७३८ ॥ नरं निशीथे विश्वासपात्रं प्रैषयदंतिके। चपलान्नबलिव्यग्रकरं सौगंधसंगतम् ॥ ७३९ ॥ प्रतोलिकानामदेशे दापिते निशि सूरयः। दुर्गाद्वहिः प्रचेलुस्ते गणिना सह तेन च ॥ ७४० ॥ उद्घाट्य गोपुरद्वारं तत्र निर्गत्य ते ततः। गच्छंतो ददृशुर्मार्गे कलबिंककदंबकम् ॥ ७४१॥ चगच्चगिति शब्दाढ्ये तन्मुखे बलिमक्षिपत् ।। यशश्चंद्रात्ततो दृष्टनष्टं तत्तत्क्षणादभूत् ॥ ७४२ ॥ गच्छंति कियध्वानं तावत्ते कपिपेटकम् ।। अद्राक्षुर्मक्षु तत्रापि सपर्यक्षिपदक्षतान् ॥ ७४३ ॥ असत्तुलं ? तदाभूत्तत् ततोप्यग्रे च ते ययुः । श्रीसैंधवीसुरावेश्मपार्श्व कातरभीषणम् ॥ ७४४ ॥ अग्रे व्यलोकयन् यावत्तावन्मार्जारमंडलम् । अविच्छन्नमहारौद्रशब्दभीषितवालकम् ॥ ७४५ ॥ पुष्पाणि तत्र रक्तानि चिक्षेपाथ ननाश तत् । तोरणाय महादेव्याः प्रभुरुर्वदमःस्थितः ॥ ७४६ ॥
१P प्रभोरेखा. २ D श्वेयश०. ३ H पलानचलिध्यग्र. ४ P असत्र० ५H ऊर्द्धः.