________________
श्रीहेमचंद्रसूरिप्रबन्धः। अनाकुलं गणी प्रोचे हेमसूरिस्तवांगणे । आयासीदतिदूरेण पादचारेण कष्टभूः ॥ ७४७॥ अभ्युत्थानादिका पूजा कर्तुं समुचिता तव । एषोर्चितो यतः सर्वैः पीठर्जालंधरादिभिः ॥ ७४८ ॥ एवं वदत एवास्य चलचंचलकुंडला। पुरं श्रीसेंधवा देव्यस्थाद्योजितकरद्वये॥ ७४९॥ आतिथ्यमतिथीनां नो विधेहि विबुधेश्वरि । अंबडं मोचय खीयपरिवाराद्वलादपि ॥ ७५० ॥ श्रुत्वेति सहुरोर्वाक्यं प्राह सा परमर्थ्यताम् । सहस्रधाविभक्तश्च स परं योगिनीगणैः॥ ७५१॥ गण्यथाह महाक्षेपादित्थमप्यस्तु चेत्तव । व्यावृत्य निजके स्थाने उपवेष्टुं समर्थता ॥ ७५२॥ प्रभोः श्रीहेमचंद्रस्य दीयतां मानमद्भुतम् । ततो यथोभयोरूपमवतिष्ठेत मंडले ॥ ७५३ ॥ इत्याकर्ण्य भयोगान्ता देवी शब्दं दधौ गुरुम् । यदाहूतः सुरीवर्गोऽमुंचदह्नाय मंत्रिणम् ॥ ७५४॥ प्रदापयामि वाचो वः किं देव्येत्युदिते सति । ब्रह्मादिवाग्भिरास्था का परब्रह्मनिधेः प्रभोः ॥ ७५५॥ भवत्याः प्राभृतं किंचिद्विधास्याम पुनः प्रगे। विसृज्येति सुरीस्थाने स्वं ययौ प्रभुरप्यतः॥७५६॥ श्रीमदंबडमंत्रींदौ निद्रा रात्रौ तदाययौ। प्रातः साहस्त्रिकं भोग स श्रीदेव्या व्यधापयत् ॥ ७५७ ॥ इत्थं श्रीसैंधवीदेव्याः प्रभुभिर्मोचितोंबडः। श्रीमत्सुव्रतचैत्यस्य जीर्णोद्धारमकारयत् ॥ ७५८॥ हस्ताष्टादशकं चैत्यमप्रतिच्छंदद्घाटभृत् । . अनेकदेववेश्माढ्यं बभौ हेमाद्रिकूटवत् ॥ ७५९॥ ध्वजारोपोत्सवं तत्राकारयत्सचिवाग्रणीः।
तं समीक्ष्याशिषं प्रादाहुरुस्तुष्टिभरैर्गुरुः ॥ ७६०॥ तथाहि-किं कृतेन न यत्र त्वं यत्र त्वं तत्र कः कलिः ।
कलौचेद्भवतो जन्म कलिरस्तु कृतेन किम् ॥ ७६१॥ तज्जयांचंद्रसूर्य त्वं निजवंश्यमनोरथान् । पूरयन् चूरयन्नंतर्बहिःशात्रवमंडलम् ॥ ७६२॥ तमापृच्छय समागत्य स्वस्थाने भूपति प्रभुः। प्रधानायुःप्रदानेन विदधे मेदुरं मुदा ॥ ७६३ ॥
१ म तद्यथाचं..