________________
३४२
प्रभावकचरिते
दुस्साधसाधिका यस्य गुरोरीगमानुषी। शक्तिस्तत्कृतपुण्यत्वं मय्येवेति नृपोऽवदत् ॥ ७६४ ।। अन्येधुरुपदिष्टे च सम्यक् किं संघसाक्षिकम् ।
राजा गृहीते गुरुभिर्गाथामेनां स जल्पितः ॥ ७६५॥ तथाहि-तुह्माणकिंकरोहं तुझे नाहा भवो यदि गयस्स।
सयलधणाइंसमेउमइतुह्म समप्पिउअप्पा ॥ ७६६ ॥ व्याख्यातायामथैतस्यामर्थ सत्यापयन्नृपः। राज्यं समर्पयामास जगदुर्गुरवस्ततः॥७६७॥ निस्संगानां निरीहाणां नार्थों राज्येन नो नृप । आपिवाम कथं भोगान्वांतान नुचितं ह्यदः ॥ ७६८ ॥ एवं विवादसंबांधे दानाग्रहणकारणे । गुरुभूपालयोमैत्री वैशिष्टयमकरोदिदम् ॥ ७६९ ॥ . सर्वाणि राजकार्याणि कार्याण्यश्रावितानि नः। अतः परं प्रभो राज्ये भूयादनुमतं ह्यदः ॥ ७७० ॥ प्रतिपन्ने ततः श्राद्धव्रतसद्ध्यानहेतवे। भूपस्याध्यात्मतत्वार्थावगमाय च स प्रभुः ॥७७१॥ योगशास्त्रं सुशास्त्राणां शिरोरत्नसमं व्यधात् ।। अध्याप्य तं स्वयंचक्र तत्पुरश्च व्यचारयत् ॥ ७७२॥ युग्मम् ।। जग्राह नियमं राजा दर्शनी जिनदर्शने । यादृशस्तादृशो वामे वेद्यो मुद्रेव भूपतेः ॥ ७७३॥ चतुरंगचमूमध्ये राजा राजाध्वना व्रजन् । गजारूढोऽन्यदाद्राक्षीजैनर्षि वेश्यया समम् ॥ ७७४ ॥ क्षुरलूनशिरःकेशं सितवैकक्षकावृतम्। कस्तीरास्तीर्णसध्वानपनद्वारूढपादकम् ॥ ७७५॥ अतुल्यफणभृद्धल्लीदलबीटकहस्तकम् । आलंबितभुजादंडमंसेस्यान्मंदिराद्वहिः॥७७६॥त्रिभिर्विशेषकम्॥ कुंभयोय॑स्य मूर्द्धानं तं ननाम महीपतिः । पृष्टासनस्थितश्चके नट्टलनृपतिः स्मितम् ॥ ७७७॥ ददर्श वाग्भटामात्यस्तत्प्रभोश्च न्यवेदयत् ।
ततो राज्ञःपुरः पूज्या इत्थं धर्मकां व्यधुः॥ ७७८ ॥ तथहि-पासत्थाइ वंदमाणस्सनेवकित्तीननिजरोहोइ ।
कायकिलेसे एमेवकुणइ तहकम्मबंधवा ।। ७७९ ॥ १ Hवामः कथं भोगानवांताननुचितं०. २ संबोधेदाताग्रहणकरणे. ३ P व्यक्तं. ४ H निज. ५ P वांद्यो. ६P मंशे. ७P वंदणस्सने.