________________
श्री हेमचंद्रसूरिप्रबन्धः ।
व्यमृशद्भूपतिः केनाप्यद्य वृत्तं निवेदितम् । व्यजिज्ञपश्च पूज्यानां शिष्याभिर्निवृतोऽस्म्यहम् ॥ ७८० ॥ इतश्च पृथिवीशक्रनमस्कारमुदीक्ष्य सः । दध्यावध्यामचैतन्यं का मय्यस्ति नमस्यता ॥ ७८१ ॥ विध्वस्तवीतरागांत्ये' त्यक्तभोगपुनर्ग्रहे । अदृश्यास्ये प्रतिज्ञाया भ्रष्टे दुर्ग्राह्यनामनि ॥ ७८२ ॥ युग्मम् ॥ अमुचद्भुजमस्याश्च चापतुल्यं मनोभुवः । कुधियां पेटकं वाथवीटकं व्रतकंटकम् ॥ ७८३ ॥ नरकाध्वनि यानाभे मुमोचायमुपानहौ । विरागी खाश्रये गच्छदतुच्छं स्वल्पभर्तृकः ॥ ७८४ ॥ पुनर्व्रतं समुच्चार्य गुरूपांते महामनाः । संगत्यागादनशनप्रत्याख्यानी बभूव सः ॥ ७८५ ॥ निजैरनेकधाप्युक्तो दृढ़ो नासौ निजाग्रहात् ।
पश्चाद्व्याजुघटे द्रोणीमब्धौ लब्धां हि कस्त्यजेत् ॥ ७८६ ॥ अनशन्याश्रयास्तत्र प्रावर्त्तत प्रभावनाः । वरिवस्यांतपस्यायाः श्रेयोर्थी कः करोति नः ॥ ७८७ ॥ विज्ञप्तेऽधिकृतैस्तत्र भूपो नंतुं तपोनिधिम् । अभ्याययौ प्रमोदेन सांतःपुरपरिच्छिदः ॥ ७८८ ॥ यावत्पश्यति तद्वक्रं तावद्दृष्टः स एव यः । पण्यांगना गृहद्वारे कुवेषोपि नतस्तदा ॥ ७८९ ॥ तगुरून् मुनिवर्गे च नत्वा भूपालपुंगवः । तत्पादौ प्रणमंस्तेन निषिद्वो भुजधारणात् ॥ ७९० ॥ महाराज गुरुस्त्वं मे भवाब्धेस्तारितस्त्वया । तव विश्वेपि वंद्यस्य प्रणामो ह्यतिदुर्जरः ॥ ७९१ ॥ मादृशा भ्रष्टचारित्रा विराधितजिनोक्तयः । आराधकाः कथं नु स्युस्फुरन्नरकदौहृदाः ॥ ७९२ ॥ भवादृशः पृथिव्यां चेन्नाथोपूर्वपितृप्रभुः ।
न स्याल्लोकद्वयापायसंहर्ता प्राणिभृद्गणे ॥ ७९३ ॥ युग्मम् ॥ अवंद्यं वद्यमानेन मां निस्तारयितुं त्वया । पुपूरे समसंवेगवासनासंगमोचिनी ॥ ७९४ ॥ निजैर्गृहस्थैर्यतिभिरेभिर्युक्तोपि जीवितुम् ।
३४३
क्लीबो व्रतस्य कष्टानि स सोढा प्रायमालदम् ? ॥ ७९५ ॥ उवाच भूपतिर्धीमान् मुनीशः कस्त्वया समः । निमित्तादेकतस्त्यक्तसंग ः प्रत्येकबुद्धवत् ॥ ७९६ ॥
३ P जाके ? २ H प्रतिज्ञयावष्टे.