SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ १५६ प्रभावकचरिते पूर्व परिचितश्चासौ बप्पभट्टिप्रभोस्ततः । तस्य वाग्मर्मविज्ञानहेतौ संवाहितो मुदा ॥ ३९४ ॥ व्यवस्थितदिने प्राप प्रदेशं देशसन्धिगम् । समाधीशमहासभ्यैः समं वर्द्धनकुंजरः ॥ ३९५॥ कन्यकुब्जादपि श्रीमानामः कामसुधीनिधिः । श्रीबष्पभट्टिना विद्वद्वन्दसन्निधिना सभाम् ॥ ३९६ ॥ भुवं तामेव संप्रापातपत्राच्छादिताम्बरः। आवासान् स्वःपुरा पट्टे दत्वावस्थितवानथ ॥ ३९७ ॥ युग्मम् । आजन्म सर्वदादृष्टशस्त्राशक्तिश्लथादरः। अदृष्टपूर्ववाग्युद्धप्रेक्षायै सकुतूहलः॥ ३९८ ॥ अहंपूर्विकया सिद्धविद्याधरसुरव्रजः । समेतश्चाप्सरोवगैः स्वर्गवद्गगनांगणे । कौतुकाकृष्टचेतोभी राजसभ्यैर्बहुश्रुतैः। ईयतुः सङ्गतौ तत्र तौ वादिप्रतिवादिनौ ॥ ३९९ ॥ उपविष्टेषु सभ्येषु श्रुत्यधीनमनस्सु च । तिमितात्र सभा साभूदालेख्यालिखिता किल ॥ ४००॥ निजं निजं नराधीशमाशिषाभिननंदतुः। स्वस्वागमाविरोधेन सभ्यानुमतिपूर्वकम् ॥ ४०१ ॥ ततः श्रीसौगताचार्यः पूर्व वर्द्धनकुञ्जरः। आशीर्वादमुदाजह्वे व्यथकं द्वेषिपर्षदाम् ॥ ४०२ ॥ तथाहि-शर्मणे सौगतो धर्मः पश्य वाचंयमेन यः। आदृतः साधयन्विश्वं क्षणक्षणविनश्वरम् ॥ ४०३ ॥ अथ श्वेतांबराचार्यो बप्पभट्टिः सुधीपतिः। अभ्यधत्ताशिर्ष स्वीयां भूपालाय यथा तथा ॥४०४॥ अर्हन् शम्र्मोन्नतिं देयान्नित्यानन्दपदस्थितः। यद्वाचा विजिता मिथ्यावादा एकान्तमानिनः॥४०५॥ उभयोराशिषः श्लोको निरूचुः पार्षदास्तदा। असौ धम्मों गतः सम्यग्यमिता गीश्च वादिभिः॥४०६॥ क्षणभङ्गि जगञ्चोक्तं भङ्गस्यैवानया गिरा। सौगतस्यानुमीयेत वाग्देवी सत्यवादिनी ॥ ४०७ ॥ नित्यानन्दपदं श्रीदो देव एकान्तविग्रही। मिथ्यावादविजेत्री गीः श्वेतभिक्षोस्ततो जयः॥४०८ ॥ १H. सर्व on the margin. २ H मीगी.
SR No.002357
Book TitlePrabhavak Charitam
Original Sutra AuthorN/A
AuthorHiranand M Sharmshastri
PublisherTukaram Javaji
Publication Year1909
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy