________________
श्रीबप्पभडिप्रबन्धः।
१५७ इति निश्चित्य ते तस्थुर्यावन्मौने सभासदः । तावत्कस्तूरिका हस्ते कृत्वा बौद्धोऽब्रवीदिदम् ॥ ४०९ ॥ कस्तूरीउपगरह प्रोक्ते प्राकृत ऊचिवान् । आचार्य उपकीयं रजकस्येति विद्यताम् ॥ ४१०॥ इति तत्प्रश्नसङ्केतादुत्तरेणाधरीकृते । तावद्रक्ताम्बरः सर्वानुमतः पक्षमब्रवीत् ॥ ४११ ॥ सर्वानुवादेनानूद्यततस्तत्पक्षदूषकान् । उदाजहार व्याहारान्प्रमाणिकपतिर्मुनिः ॥ ४१२ ॥ उत्तरादुत्तरं चैवमुक्तिप्रत्युक्तिरीतितः। षट् व्यतीयुस्तदा मासास्तयोर्विवदमानयोः ॥ ४१३॥ श्रीमानामनृपोऽन्येधुरूचे सूर्ति कदा प्रभो । व्यापातो राजकार्याणां वादः संपूरयिष्यते ॥ ४१४॥ तत आह तदाचार्यो वाग्विनोदसुखाय वः। इयत्कालं हि नश्चेतस्यासीदितिकृते प्रभो ॥ ४१५॥ बाधा व्यधायि योषा भवतस्तद्विलोकय । प्रभाते निगृहीष्यामि विद्वन्मन्यं हि भिक्षुकम् ॥ ४१६॥ प्राग्दत्तं गुरुभिर्मत्रं परावर्त्तयतस्ततः। मध्यरात्रे गिरा देवी वर्गगावेणिमध्यतः॥४१७॥ स्नाती तादृशरूपा च प्रादुरासीद्रहस्तदा । अहो मन्त्रस्य माहात्म्यं यहेव्यपि विचेतना ॥ ४१८॥ युग्मम् । अनावृतशरीरांच सकृदीषद्ददर्श ताम् । सूरिः सूर्यादिवास्यं च परावर्तयतिम सः॥४१९ ॥ खंरूपं विस्मरन्ती च प्राह वत्स कथं मुखम् । विवर्त्तसे भवन्मन्त्रजापात्तुष्टाहमागता ॥४२०॥ वरं वृण्विति तत्रोक्तो बप्पभट्टिरुवाच च । मातर्विसदृशं रूपं कथं वीक्षे तवेदृशम् ॥ ४२१ ॥ खां तनुं पश्य निर्वस्त्रामित्युक्ते खं ददर्श सा। अहो निबिडमेतस्य ब्रह्मव्रतमिति स्फुटम् ॥ ४२२ ॥ वीक्ष्य मामीदृशीं यन्न चेतोऽस्य विकृतिं ययौ । ध्यायन्तीति दृढं तोषात्तत्पुरः समुपस्थिता ॥४२३॥ युग्मम् । वरेऽपि निस्पृहे त्वत्र दृढं चित्रादुवाच च । गत्यागत्योर्ममत्वेच्छा त्वदीया निर्वृतो भव ॥ ४२४ ॥ ततः सूरिनिरां देवीं तुष्टुवे सुष्टुवाग्भरैः। वृत्तैरधनितेद्याद्यैश्चतुर्दशभिरद्भुतैः॥ ४२५ ॥ 14