________________
१५८
प्रभावकचरिते इमां स्तुति सुवर्णाद्यां कर्णकुण्डलरूपिणीम् । मानयंत्यतिसन्तोषाद्भारती वाचमूचुषी ॥ ४२६ ॥ वत्स किं पृच्छसीत्युक्ते सूरिरूचे विवाद्यसौ। सत्यं प्रज्ञाबलाद्यल्पेद्विशानमथ ? किञ्चन ॥ ४२७ ॥ देवी प्राहामुना सप्तवारानाराधितास्म्यहम् । प्रदत्ता गुटिकाक्षय्यवचनास्य मया ततः॥४२८॥ तत्प्रभावाद्वचो नास्य हीयते यतिनायक। सोपालम्भमिवाहासौ सूरिः श्रीश्रुतिदेवताम् ॥४२९॥ पुणासि प्रत्यनीकं किं शासनस्य जिनेशितुः। सम्यक् दृष्टिं पुरानायात् शुश्रुवे भवती न तु ॥ ४३०॥ सरस्वती पुनः प्राह माहं जैनविरोधिनी। उपायं तेऽर्पयिष्यामि यथासौ जीयते बुधः ॥ ४३१ ॥ सर्वेऽपि मुखशौचं ते विधाय श्रीपार्षदादयः । ततोऽस्य कार्यमाणस्य गण्डूषं मुञ्चतो मुखात् ॥ ४३२॥ भ्रष्टा चेहुटिकाऽवश्यं युष्माभिर्जितमेव तत् । चतुर्दशं पुनर्वृत्तं न प्रकाश्यं कदापि हि ॥ ४३३॥ यतस्तत्र श्रुतेः साक्षाद्भवितव्यं मया ध्रुवम् । कियतां हि प्रसीदामि निष्पुण्यानां मुनीश्वर ॥ ४३४॥ इत्युक्त्वान्तर्दधे देवी सूरिश्छन्नं जगौ पुरः। विशवाक्पतिराजस्य यदादिष्टं गिरा तदा ॥ ४३५॥ इत्यङ्गीकृत्य तेनाथ करकं नीरपूरितम् । समानाय्य सभा सर्वा वक्रशुद्धि व्यधीयत॥४३६॥ तत्कुर्वतोथ तस्यापि गुटिका पतिता मुखात् । भिक्षोरास्यजलैर्नुन्ना श्रीरिवापुण्यकर्मणः ॥ ४३७ ॥ अविश्रान्तमिथोवादाध्वन्याऽध्वन्यतया ततः। श्रांता विश्राममिच्छन्ती मूकस्येवास्य गीः स्थिता ॥ ४३८॥ सदस्याश्च वचःप्रोचुर्गुटिकैव वचःक्षमा। अनेडमूक एवायं भिक्षुरन्वर्थनामभूः॥४३९॥ जिग्ये श्रीबप्पभट्टिस्तं वादिकुञ्जरकेसरी। बिरुदं जुघुषे राज्ञा जशे जयजयारवः ॥ ४४०॥ धर्मराज्यं गृहीतुं च स्वबलात्सार्द्धवैभवम् । तदाम उपचक्राम स्खं पणं कस्त्यजेजयी॥४४१ ॥ उवाचाथ गुरुस्तस्य यदुक्तं वःपुरः पुरा। यद्राज्येन पणं चक्रे धर्मभूपोधिकृत्य नः॥४४२॥
१२. सप्तभवानाराधिता.