________________
श्रीबप्पभट्टिप्रबन्धः ।
१५९
तत्तस्यैवाधिकाराय भविष्यति कदाचन । तदस्य वचसः कालो नृपनाथ समाययौ ॥४४३॥ इयं प्रमाणशास्त्राणां मुद्रा यल्लिखिते ततः। संबंधे निग्रहो नैव यत्पराजय एव सः॥४४४॥ अस्य राज्यं तदस्यैव संतिष्ठतु यथास्थितम् । अनित्यभवहेतोः कः शास्त्रमुद्रां विलुपति ॥४४५॥ गुरुभक्त्याभिरामोयमामोऽनिछुर्बलादपि । धर्मे धर्मस्थितो राज्यमनुमेने प्रसादतः॥४४६॥ तत आश्लिष्य बौद्धं तं सूरिर्वर्द्धनकुञ्जरम् । तदासन्ने गोपगिरी श्रीवीरभवनेन यत् ॥ ४४७॥ श्रीमहावीरबिंबं स विलोक्य हृदि हर्षितः। शांतो वेष इति स्तोत्रं चके प्रमुदितस्तदा ॥ ४४८॥ एवं स्तुत्वा जिनं खात्मनिंदके सौगतप्रभो । सूरि नरहस्यानि तस्य प्रादर्शयत् पुरः॥४४९ ॥ मिथ्यात्वगरलं हृत्वा पीयूषामलगीभरैः। परीक्षापूर्वमस्थापि तश्चित्ते धर्म आर्हतः॥४५०॥ निद्रानिद्राणचैतन्ये निशायामन्यदा गुरौ । प्रतिप्रहरमाह म ताथागतयतीश्वरः ॥ ४५१ ॥ चतुरक्षरनिष्पन्न समस्यानां चतुष्टयम् ।। स चोत्स्वप्नायितेनेवापूरयत्सूरिपुंगवः ॥ ४५२ ॥ मन्दाक्रान्तापदैर्मदाक्रांतिक्षुण्णात्यतीर्थिकः।
अपरमपरैः सर्वप्रयत्नेनापि वाग्मिभिः॥४५३॥ युग्मम् । (एको गोत्रे सर्वस्य द्वे स्त्रीपुंवच्च वृद्धो यूना समस्याः) एको गोत्रे स भवति पुमान् यः कुटुंबं बिभर्ति
सर्वस्य द्वे सुगतिकुगती पूर्वजन्मानुबद्धे । स्त्री पुंवच्च प्रभवति यदा तद्धि गेहं विनष्टम् वृद्धो यूना सह परिचयात्त्यज्यते कामिनीभिः॥ ४५४॥ सम्यक्त्वं ग्राहितः सोथ द्वादशव्रतशोभितम् । आश्लेषपूर्वमापृच्छय खं स्थानं प्रययौ ततः॥ ४५५ ॥ पूर्ववैरपरीहारात्संगतौ सोदराविव । अन्योन्यप्राभृतैस्तुष्टौ पुरं खं खं गतौ नृपौ ॥ ४५६ ॥ अन्यदा रहसि प्राह धर्मरूपं स सौगतः। विजिग्ये बप्पभट्टिी न तत्क्षुण्णं मनस्यपि ॥ ४५७॥
१J. स्थिती.