________________
१६०
प्रभावकचरिते यतो वाग्देवता तस्य यथोदितविधायिनी। खयं वदति तदेहे स्वप्ने जाग्रति वा स्थिता ॥ ४५८ ॥ परं वाक्पतिराजेन त्वद्राज्यपरिभोगिणा। अस्मास्वपकृतं भूरि मुखशौचविधापनात् ॥ ४५९ ॥ इति श्रुत्वापि बौद्ध स छलवादात् श्लथादरः। रहं वाक्पतिराजेन गुणग्राह्ये मुमोच न ॥ ४६०॥ यशोवर्मनृपो धर्ममन्यदा चाभ्यषेणयत् । तस्माद्विगुणितं दस्तं भूपं युद्धेऽवधीद्वली ॥ ४६१ ॥ तदा वाक्पतिराजश्च वंदे तेन निवेशितः । काव्यं गौडवधं कृत्वा तस्माच्च स्खममोचयत् ॥ ४६२ ॥ कन्यकुले समागत्य संगतो बप्पभट्टिना।।
स राजसंसदं नीतस्तुष्टुवे चेति भूपतिम् ॥ ४६३॥ तथाहिकर्मः पादौ च यष्टिर्भुजगतनुलताभाजनं भूतधात्री
तैलोत्पूरः समुद्रः कनकगिरिरयं वृत्तवर्तिप्ररोहः। अर्चिश्चंडांशुरोचिर्गगनमलिनिमा कजलं दह्यमाना
शत्रुश्रेणीपतंगोज्वलतु नरपते त्वत्प्रतापप्रदीपः॥ ४६४ ॥ चटच्चटिति चर्मणि छमिति चोच्छल्लिते शोणिते
धगद्धगिति मेदसि स्फुटरवास्थिष्वाकृतिः। पुनातु भवतो हरेरमरवैरिनाथोरसि __ क्वणत्करजपअरक्रकचकाषजन्मानलः॥४६५॥ पृथुरसि गुणैः कीर्त्या रामो नलो भरतो भवान् __महति समरे शत्रुघ्नस्त्वं सदैव युधिष्ठिरः। इति सुचरितैः ख्यातिं बिभ्रश्चिरंतनभूभृतां कथमसि न मांधाता देवस्त्रिलोकविजय्यपि ॥ ४६६ ॥ सन्मानातिशयो राज्ञा विदधे तस्य भूभृतः। गंगां गेहागतां कोहि पूजयेदलसोपि न ॥ ४६७ ॥ मन्यते कृतकृत्यं खं स्वर्गनाथोपि वाक्पतिम् । प्राप्य वाक्पतिराजं तु नाधिकोद्य किमस्त्यतः ॥ ४६८ ॥ त्यागाद्धर्मस्य माकार्षीर्मनस्यनुशयं सखे। यद्गुहागतमत्पूजानाधानात्सोवत? स्थितिः॥४६९॥ तवाधीनमिदं राज्यं विचित्य सुखमाख तत् । श्रीबप्पभट्टेमम च तृतीयस्त्वं महामते ॥ ४७०॥
१H बला P. नस्तं. २ P रामौ. ३ म प्राय. ४ P नाधिकोच्च किमस्म्य तं.