________________
श्रीबप्पभट्टिप्रबन्धः ।
१६१
इत्यामराजव्याहारामृतसारपरिलतः। गंगोदक इव स्त्रातः प्रीतिपावित्र्यमाप सः॥४७१॥ सहैवोत्थाय तत्रासौ नृपमित्रेण सूरिणा। उपाश्रयमनुप्राप्यातिष्ठत्परमया मुदा ॥ ४७२॥ गौडबंधो मद्रमहीविजयश्चेति तेन च । कृता वाक्पतिराजेन द्विशास्त्रीकवितानिधिः॥४७३॥ बौद्धकारिततद्वेषापोषके धर्मभूपतौ। सर्वत्र गुणिनः पूज्या गुरुरित्याह तत्पुरः॥४७४॥ वृत्तौ कृतं हेमटंकलक्षं तद्विगुणीकृतम् । नृपेणासौ महासौख्यात् कालं गमयतिस्म सः॥४७५॥
युग्मम् । सभायामन्यदा राजा सुखासीनं गुरुं प्रति । प्राह न त्वत्समो विद्वान् स्वर्गेपि किमु भूतले ॥४७६॥ गुरुराह पुराभूवन् पूर्व ते जैनशासने । श्रुतज्ञानमहांभोधेर्यत् प्रज्ञा पारदृश्वरी ॥ ४७७॥ शतं सहस्रलक्षं वा पदानामेकतः पदात् । अवगच्छंति विद्वांसोऽभूवन केथाधिका अपि ॥४७८ ॥ ऐदंयुगीनकालेपि संति प्रज्ञाबलाद्भुताः। येषामहं नवाप्नोमि पादरेणुतुलामपि ॥ ४७९ ॥ अस्मदीयगुरोः शिष्यौ खेटकाधारमंडले। विद्यते तन्नसूरिः श्रीगोविंदसूरिरित्यपि ॥ ४८०॥ यत्पुरो बठरत्वेन ? तत्र स्थितिमनिच्छतः। शृंगाराय भवत्सख्यं विदेशावस्थितेर्मम ॥४८१॥ इति वाचा चमत्कारं धारयन्नब्रवीन्नुपः। भवद्वचं प्रतीतोपि प्रेक्षिष्ये कौतुकं हि तत् ॥ ४८२ ॥ ततो वेषपरावर्त्तप्राप्तो गुर्जरमंडले। पुरे हस्तिजये जैनमंदिरस्य समीपतः॥४८३ ॥ उपाश्रयस्थितं भव्यकदंबकनिषेवितम्। राजानमिव सच्छत्रं चामरप्रक्रियान्वितम् ॥ ४८४॥ सिंहासनस्थितं श्रीमन्नन्नसूरिं समैक्षत । उत्तानहस्तविस्तारसंज्ञयाह किमप्यथ ॥ ४८५॥ एतद्विलोक्याचार्योपि मध्यमातर्जनीद्वयम् । पुरस्तस्य वितस्तार भंगाकारेण तत्र च ॥ ४८६ ॥ इत्युत्थाय गते तत्र जनैः पृष्टमिदं किमु । ततः प्रापंचयत्सूरिः कोपि विद्वानसौ पुमान् ॥ ४८७ ॥