________________
१६२
प्रभावकचरिते पृच्छतिस्म यतीनां किं राज्यलीला येतो? मया । इत्युत्तरं ददौ शृंगे भवतो भूपतेः किमु ॥ ४८८॥ निविष्टमन्यदा चैत्ये शास्त्रं वात्स्यायनाभिधम् । व्याख्यातं प्रेक्ष्य तं भूपो नमस्कृत्य जिनं ययौ ॥ ४८९ ॥ ननाम न गुरुं कामशास्त्रव्याख्यानतः स च । विद्वानेष न चारित्री गुरुरित्थं विकल्पितः॥४९०॥ परिज्ञातेथ तत्तत्त्वे खेदं दधे स कोविदः। धिग्वैदग्ध्यं हि नो निर्यदेपकीर्तिकलंकितम् ॥ ४९१॥ श्रीगोविंदाः शशासैनं खिद्यसे किं वचः शृणु। आमभूपतिरेवायं गुप्तो नापर ईदृशः ॥४९२॥ ततः किंचिद्धर्मशास्त्रं विधायातिरसोज्वलम् । पार्थान्नटस्य कस्यापि बप्पभट्टिप्रभोः पुरः॥४९३॥ प्रेषयैतद्यथा तत्राभिनामयति तत्पुरः। तत्रापरिरसावेशं सोनुभूय प्रभोक्षते ॥ ४९४॥ तथेति प्रतिपद्याथ कृत्वा तच्च नटोत्तमान् । प्रेषयच्छिक्षितान्सम्यक प्रापदामपुरं च सः॥ ४९५॥ अमिलद्बप्पभद्देश्च तेन राज्ञोऽथ दर्शितः। आदितीर्थकृतो वृत्तमभिनिन्ये सकू(ना)तनम् ॥ ४९६ ॥ विहितं संधिबंधेन रसाय नन्नसूरिणा। तत्कथां प्रथयन् नृत्यन्नाह प्राकृतरूपकम् ॥ ४९७॥ युग्मम् । कञ्चणटु सुविपट्ट सुगिरिवे जट्टविट्टावई श्रीबप्पभट्टिराहेदमोनं रूपकद्वयम् । नर्मवर्मेण तच्चापि नटो व्यावृत्य तत्पुरे ॥ ४९८ ॥ आगत्य तथ्यमाचख्यौ नन्नाचार्यकवेः पुरः। नैतद्राम्यमिदं कार्यमिति संचिंत्य हर्षतः॥४९९ ॥ ततो रूपं परावृत्य स सिद्धगुटिकादिभिः । प्रतस्थे कन्यकुब्जेथ सह गोविंदसूरिणा ॥ ५००॥ प्राप्तोऽथ मिलितो बप्पभट्टेः पट्टेश्वरस्य च । राजपर्षदि नृत्यंश्च रसं वीरं वितेनिवान् ॥५०१॥ तद्ध्यानैकमनाभूय चकर्ष क्षुरिकां निजाम् । मारिमारीति शब्देन नदन सिंह इव क्रुधा ॥ ५०२॥
१H P ततो. २D विश्व दुष्यं हिनो निर्यपद०. ३ P H तत्पुरोः, D व्यावृत्सचित्पुरे.