________________
श्रीबप्पभट्टिप्रबन्धः ।
१६३
अंगरक्षैस्ततो नाट्यमिदमित्थं निवारितः। चैतन्यै संगतः पश्चात्प्रतिबद्धो गुरूक्तिभिः ॥ ५०३॥ आह गोविंदसूरिस्तप युक्तं कथं कृतम् । केनापि न परं शास्त्ररसः सर्वोनुभूयते ॥ ५०४॥ ततो वात्स्यायने व्याख्यायमाने नन्नसूरिणा। सविकल्पो मनीषी त्वमन्यः को न विकल्पयेत् ॥ ५०५॥ लक्षितेन ततो राज्ञा क्षमितौ कोविदाधिपौ। सत्यं तद्वचनं बाढं यदूचे सुहृदा मम ॥ ५०६॥ संयमेन तु शीलेन वृत्त्या विद्वत्तया तथा। तहरुभ्रातरौ पूज्यौ भ्रान्ति, क्षम्यतामिति ॥ ५०७ ॥ इत्याकर्ण्य ततःप्रोचे श्रीमद्गोविंदसूरिणा।
तपो न नः कलंक्येत त्वयि वृत्तानि पश्यति ॥ ५०८॥ पतः-भवन्तु ते दोषविदः शिवाय विशेषतस्तेह शिवैकनिष्ठाः ।
येषांप्रभावादपवादभीता गुणार्जनोत्साहपरा नराः स्युः५०९ तथा-जे चारित्तिहि निम्मला ते पंचायणसीह विसयकसाइहि गंजियानाहं फुसिजइलीह ताहं फुसिजइलीह इच्छेतनुसल्लिषालह ॥ ५१०॥ ते पुणविसयपिसाय बलियगय करिणिहि बालहते पंचायण सीह सत्ति उज्वलनियकित्तिहिं ते नियकुलनहथलमयंकनिम्मलचारित्तिहिजेचारित्तिहि५११ श्रुत्वेति नृपतिस्तेषामुवाच सुहृदं गुरुम् । धन्योहमेव यस्याभूहुरोः कुलममूदृशम् ॥ ५१२॥ राज्ञाथ स्थापितौ तत्र दिनान्यथ कियंत्यपि । व्यापृच्छय बप्पभट्टि तावागतौ स्वभुवं ततः॥५१३ ।। धर्मख्यंख्या(ख्यिान)सदाख्यानाख्यानप्रश्नोत्तरादिभिः?। कियानपि ययौ कालः समुदोः सुहृदोस्तयोः॥५१४॥ आययावन्यदा वृंदं गायनांतावसायिनाम् । श्रवः स्वादिमहानादरसनिर्जिततुंबरुः ॥ ५१५॥ तत्रैका किन्नरी साक्षान्मातंगी गीतभंगिभिः।। राजानं रंजयामास रूपादपि रसादिभिः॥ ५१६॥ प्रवाह्य प्रतिपक्षस्य राज्ञो रागद्विपन जयी?। चित्तवृत्तिमहापुर्यामवस्कंदं ददौ तदा ॥ ५१७॥ वास्तव्यानीन्द्रियाण्यस्य बहिर्मीत्येव निर्ययुः।
तैरेव प्रेरितो राजा वासं बहिरचीकरत् ॥ ५१८ ॥ १H स्वनुर्व.