________________
१६४
उवाच च -
प्रभावकचरिते
वक्रं पूर्णशशी सुधाधरलता दन्ता मणिश्रेणयः कान्तिः श्रीर्गमनं गजः परिमलस्ते पारिजातद्रुमाः ॥ वाणी कामदुघा कटाक्षलहरी तत्कालकूटं विषम् तत्किं चंद्रमुखि त्वदर्थममरैरामंथि दुग्धोदधिः ॥ ५१९ ॥ अन्तश्चरेभ्यो विज्ञातवृत्तान्तः सूरिरप्यथ । दध्यौ स सादिनो दोषो यदश्वो विपथं व्रजेत् ॥ ५२० ॥ आमभूपे विमार्गस्थे विश्वप्रकृतिषु ध्रुवम् । अपकीर्तिः कलंकोयं ममैवासंजति स्फुटः ॥ ५२१ ॥ तदुपायाद्विनेयोसाविति ध्यात्वा बहिर्गृहे । ययौ विलोकनव्याजात्कामार्त्तरौषधं स्मरन् ॥ ५२२ ॥ नव्येषु पट्टशालायाः पट्टेषु खटिनीदलैः ।
काव्यानि व्यलिखद्बोधबंधुराणि ततो गुरुः ॥ ५२३॥ युग्मम् । तथाहि
शैत्यं नाम गुणस्तवैव तदनु स्वाभाविकी स्वच्छता किं ब्रूमः शुचितां व्रजन्ति शुचयः संगेन यस्यापरे । किं वातः परमस्ति ते स्तुतिपदं त्वं जीवितं देहिनाम् त्वं चेन्नीचपदेन गच्छसि पयः कस्त्वां निषेद्धुं क्षमः ॥ ५२४ ॥ सद्वृत्तसगुणमहार्घ्यमहार्हकांत कांताघ नस्तनतटोचि तचारुमूर्त्तिः । आः पामंरीकठिनकंठविलग्नभग्नहाहारहारित महो भवता गुणित्वम् उप्पहजायाए असोहरीह फलकुसुमपत्तरहियाए । वोरीदं च इदितो भोभो पामरनलज्जिहसि ॥ ५२६ ॥ मायंगी सत्तमणस्स मेइणि तहपभुजमाणस्स । अब्मिss भुष्मनाया भोकानद्धम्मस्स ॥ ५२७ ॥ लघि जइ जेण जणे मइलिघ इनियकुलकमो जेण । कंठद्विपहिजीवे मासुंदरतं कुणिद्यामु ॥ ५२८ ॥ जीयं जलबिंदुसमं संपत्ती उत्तरंगलोला । उसिविणयसं वम्मिंजं जाणहतं करिद्यासु ॥ ५२९ ॥ लिखित्वा स्वाश्रयं प्राप बप्पभट्टिप्रभुर्मुदा । द्वितीयेहनि भूपोपि तत्सम प्रेषितुं ययौ ॥ ५३० ॥ अवाचयच्च वाक्यानि हृल्लेखीनि यथा यथा । तथा तथा भ्रमोऽनेशदुग्धाद्धत्तूरमोहवत् ॥ ५३१ ॥ अथान्वतप्यत श्रीमानामः श्याममुखाम्बुजः । व्यमृशश्च विना मित्रं कोन्य एवं हि बोधयेत् ॥ ५३२ ॥
१ H पामर.