________________
श्रीबप्पभट्टिप्रबन्धः ।
इदानीमहमप्रेक्ष्यं खमास्यं दर्शये कथम् ।। तस्य व्यथाकरं विश्वप्राणिनां दोषकारणम् ॥ ५३३॥ सांप्रतं मे बृहद्भानुरेव शुद्धिं विधास्यति । कलंकपंकिलं त्याज्यमेवास्माकं हि जीवितम् ॥ ५३४ ॥ इति ध्यात्वा स तत्रैवादिशत्प्रेष्यांश्चिताकृते । अनिच्छंतोपि भूपालादेशं तत्र व्यधुर्बलात् ॥ ५३५॥ राजलोक इदं ज्ञात्वा पूञ्चके करुणवरम् । राजमित्रगुरोरने तेनासौ तत्र जग्मिवान् ॥ ५३६ ॥ उवाचाथ गुरुर्भूपप्रारब्धं स्त्रीजनोचितम् । किमिदं विदुषां निंद्यं ततो राजाह तत्पुरः॥५३७॥ मम प्रच्छन्नपापस्य मालिन्ये मनसा कृते । खदेहत्याग एवास्तु दंडो दुःकृतनाशनः ॥५३८॥ यथा दुःकृतिलोकस्य वयं दंडमकृष्महि । तथा स्वस्यापि किं नैव कुर्मः कर्मछिदा कृते ॥ ५३९॥ गुरुराह स्मितेनाथ विमृश त्वं हि चेतसा। निबद्धं कर्म चित्तेन चित्तेनैव विमोच्यते ॥ ५४०॥ स्मार्त्तानात (ति)भिदे पृच्छ प्रायश्चित्तानि पाप्मनाम् । यतः स्मृतिषु सर्वेषां मोक्ष ऊचे मनीषिभिः॥ ५४१॥ वेदान्तोपनिषत्तत्वश्रुतिस्मृतिविशारदाः। तत्राहूयंत भूपेन सूपेन न्यायनाकिनः॥५४२॥ यथावृत्तं मनःशल्यं जगदे तत्पुरस्तदा । ततस्ते स्मृतिवाचालास्तथ्यं शास्त्रानुगं जगुः ॥ ५४३॥ आयसीं पुत्रिकां वह्निध्मातां तद्वर्णरूपिणीम् । आश्लिष्यन्मुच्यते पापाच्चांडालीसंगसंभवात् ॥ ५४४ ॥ श्रुत्वेति भूपतिः कारयित्वा तां कथितक्रमात् । आनाय्य तत्र सजोभूत्तदालिंगनहेतवे ॥ ५४५॥ वेगादागत्य पांचालीमाश्लिष्यंस्तां स्वसिद्धये । पुरोधोबप्पभट्टिभ्यां भूपतिर्भुजयोधृतः ॥ ५४६॥ आह श्रीबप्पभट्टिश्च स्थिराधार स्थिरो भव। मा कोर्टिभरमात्मानं नाशयेथा मुधा सखे ॥ ५४७॥ उक्तञ्चैकाग्रचित्तेन साहसानन्यवेश्मना। भवता कर्मवित्तेन बद्धमुन्मोचितं त्वया ॥ ५४८॥ अस्य पापस्य मुक्तोसि कृष्णाभ्रादिव भास्करः। घोतिष्यसे सतामंतर्मुच तत्कर्म दुष्करम् ॥ ५४९ ॥