________________
प्रभावकचरिते.
आनंदितः प्रभोर्वाग्भिरिति तत्याज कुग्रहम् । इति शाते च हर्षोत्र पुनर्जात इवाभवत् ॥ ५५० ॥ अमात्यैर्नगरे तत्र सर्वालंकृते कृते । गजगंधर्वसंदोहरथ्यापादातिसंवृतः॥ ५५१ ॥ पट्टहस्तिशिरस्थानानासनस्थे मुनीश्वरे । रोमगुच्छातपत्रादिप्रक्रियाप्रकटप्रभे ॥ ५५२॥ प्रविवेश विशामीशः स्वयं श्रीशयश:श्रिया। सुराणामप्यपूर्वेण पुरमत्युत्सवेन सः॥ ५५३॥
त्रिभिर्विशेषकम् । इतो वाक्पतिराजश्च तं दृष्टा राजवैकृतम् ।। निबन्धानृपमापृच्छय वैराग्यान्मथुरां ययौ ॥ ५५४ ॥ धर्माख्यावसरेऽन्येद्युः प्रभुभूपालमूचिवान् ।। धर्मतत्वानि पार्षद्यमानितानि विवृत्य सः॥ ५५५॥ नवनीतसमं विश्वधर्माणां करुणानिधिम्। संत्याज्यमार्हतं धर्म परीक्षापूर्वकं श्रय? ॥ ५५६॥ राजा प्राहाहतो धर्मो निर्वहत्येव मादृशाम् । परीक्षायाः परं शैवधर्म चेतो लगेदृढम् ॥ ५५७ ॥ त्वदुक्तो नीरमानेष्ये कुंभेनामेन रंगतः। परं मा माममुं धर्म त्याजयिष्यसि सौहृदात् ॥ ५५८ ॥ न मुंचे पैतृकाचारं वच्मि किंचिञ्च वः पुरः । चेद्रोषं नहि धत्तात्र गुरुरोषाद्विभीश्रिये? ॥ ५५९॥ ब्रूतेथ गुरुणा प्रोक्ते नृपः प्राह स्मितं दधत् । बोधयेयुभवन्तोपि बाला गोपांगनादिकम् ॥ ५६० ॥ कोविदं नैव शास्त्रार्थपरिकर्मितधीसखम् । रंभाफलं यथा भक्ष्यं तथा निंबफलं न तु ॥ ५६१ ॥ शक्तिश्चेद्भवतामद्य मध्येमथुरमागतम् । पुराणपुरुषं नित्यं चित्ते ध्यायंतमद्भुतम् ॥ ५६२॥ यज्ञोपवीतवीतांगं नासाग्रन्यस्तदृष्टिकम् । तुलसीमालया लीढवक्षःस्थलमिलास्थितम् ॥ ५६३ ॥ श्रीकृष्णगानसत्कृष्णवैष्णवब्राह्मणावृतम् । पुत्रजीवकमालामिदंडितोरःस्थलं किल ॥ ५६४ ॥ वराहस्वामिदेवस्य प्रासादांतरवस्थितम् । .
वैराग्यातिशयात्तत्र कृतप्रायोपवेशनम् ॥ ५६५ ॥ १D धिः २P प्रभुणा. ३ P वाल.