________________
श्रीबप्पभट्टिप्रबन्धः ।
प्रतिबोध्य तदा जैनमते स्थापयत द्रुतम् । वाक्पतिराज सामंतं पर्यकासनसुस्थितम् ॥ ५६६ ॥
तैश्चाभ्युपगतेशीतिं चतुर्भिरधिकां तदा । सामंतानां बुधानां च सहस्रं प्रेषयन्नृपः ॥ ५६७ ॥ आचार्यैः सह ते प्रापुस्त्वरितं शीघ्रवाहनैः । मथुरां तत्र चाजग्मुर्वराहस्वामिमंदिरे ॥ ५६८ ॥ पूर्वाख्यानोदितावस्थं परमात्मस्थचेतनम् । ददृशुः सूरयो भूभृत्पुमांसश्च तमादरात् ॥ ५६९ ॥ तत्र श्रीबप्पभट्टिश्च त्रयीस्तवनतत्परम् । काव्यवृंदमुदाहे तस्य चेतः परीक्षितुम् ॥ ५७० ॥
तथाहि
पंचभिः कुलकम् ।
१६७
रामो नाम बभूव हुं तद्बला सीतेति हुं तां पितु
र्वाचा पंचवटीवने विचरतस्तस्याहरद्रावणः । निद्रार्थं जननी कथामिति हरेहुँ कारिणः शृण्वतः
पूर्वस्मर्त्तुरेवंतुकोपकुटिलभ्रूभंगुरा दृष्टयः ॥ ५७१ ॥ दर्पणार्पितमालोक्य माया स्त्रीरूपमात्मनः । आत्मन्येवानुरक्तो वः श्रियं दिशतु केशवः ॥ ५७२ ॥ उत्तिष्ठन्त्या रतांते भरमुरगपतौ पाणिनैकेन कृत्वा
धृत्वा चान्येन वासो विगलितकबरीभारमंसे वहत्याः । सद्यस्तत्कायकांतिद्विगुणितसुरतप्रीतिना शौरिणा वः
शय्यामालिंग्य नीतं वपुरलसलसद्वाहु लक्ष्म्याः पुनातु ॥ ५७३॥ संध्या यत्प्रणिपत्य लोकपुरतो बद्धांजलिर्याचते
धत्से यत्त्वपरां विलज शिरसा तच्चापि सोढं मया । श्रीजीतामृतमंथने यदि हरेः कस्माद्विषं भक्षितम्
मां स्त्रीलंपट मा स्पृशेत्यभिहितो गौर्या हरः पातु वः ॥ ५७४ ॥ यदमेद्यमपामंतरुतं बीजमज त्वया ।
अतश्चराचरं विश्वं प्रभवस्तस्य गीयसे ॥ ५७५ ॥ कुलं पवित्रं जननी कृतार्था वसुंधरा पुण्यवती त्वयैव । अबाह्यसंवित्सुखसिंधुमग्नं लग्नं परे ब्रह्मणि यस्य चिंत्तम् ॥५७६ ॥
स कर्णकटुकं तच्च श्रुत्वा शीर्ष व्यधूनयत् । आकूण्य नासिकां वाचं प्राहाथो दुर्मनायितः ॥ ५७७ ॥
•" भुंगुरी. २ D चेतः
१ H रदंतु