________________
१६८
प्रभावकचरिते अमीषां रसकाव्यानां प्रशंसायाश्च किं सखे । अ(इ)यं वेला कथं नाम सौहार्द तव चेदृशम् ॥ ५७८ ॥ इदं च श्रीबप्पभट्टिसदृशं भवतीह किम् ।। पारमार्थिकवाणीभिर्बोधवेला ममाधुना ॥ ५७९ ॥ ततः प्राह गुरुः साधु साधु ते चेतना स्तुमः। प्रष्टव्यमस्ति किंचित्तु भवत्पाघे सुहृत्तम ॥ ५८० ॥ देवानां यन्मयाख्यायि स्वरूपं भवद्ग्रतः। तत्तथ्यं वितथं नास्ति तथ्यं चेदुर्मनाः कथम् ॥५८१॥ वितथं च कथं तत्स्यात्प्रत्यक्षे संदिहानकः। अत्र कार्ये प्रवृत्तिस्ते राज्यादीच्छावशादिह ॥ ५८२॥ परमार्थोपलंभे वा विकल्पः प्रथमो यदि । संमतं नस्तदा राधा देवा भूपतयोपि च ॥ ५८३॥ इष्टं प्रणयिनां दधुः सामर्थ्यात्संशयोपि न । परमार्थे तु चेदिच्छा तत्त्वं तत्त्वं विचारय ॥ ५८४॥ संसारोपाधिमग्नैश्चेत्सुरैर्मुक्तिः प्रदीयते । तन्नात्र मत्सरोस्माकं स्वयं निखिलवेद्यसि ॥ पंचभिः कुलकम् । श्रुत्वेति सहुरोर्वाचं पंकापनयवारिभां। अवलेपो ययौ तस्य हिक्काकस्माद्भयादिव ॥ ५८५॥ अहो पुण्यपरीपाको मम यत्सूनृतः सुहृत् । संगतोवसरेमुत्र तत्र चोपकृतिं कुरु ॥ ५८६ ॥ इत्युक्त्वा विरते दत्तावधाने वाक्पतौ प्रभुः।
धर्मदेवगुरूणां च तत्वान्याख्यात्तदग्रतः॥ ५८७ ॥ युग्मम् । त्रैकाल्यं द्रव्यषटुं नवपदसहितं जीवषट्कायलेश्याः
पंचान्ये चास्तिकायावतसमितिगतिज्ञानिचारित्रभेदाः। इत्येतन्मोक्षमूलं त्रिभुवनसहितैः प्रोक्तमर्हद्भिरीशैः
प्रत्येति श्रद्धधाति स्पृशति च मतिमान् यः स वै शुद्धदृष्टिः ५८८ अथ देवतत्वम्अर्हन् सर्वार्थवेदी यदुकुलतिलकः केशवः शंकरो वा
बिभ्रद्गौरी शरीरे धदनवरतं पद्मजन्माक्षसूत्रम् । बुद्धो वालं कृपालुः प्रकटितभवनो भास्करः पावको वा
रागाद्यैर्यो नदोषैः कलुषितहृदयस्तं नमस्यामि देवम् ॥५८९॥
१P प्रशंसाया. २ P पलं ते वा विकल्पः प्रथमोपमो. ३ H omits गतिज्ञानि... मति.