________________
१५५
श्रीबप्पभट्टिप्रबन्धः । जडोपि को न वेत्तीति कथिते किं पुनःपुनः। अपरोऽपि गृहायातं नृपं शत्रुमपि ध्रुवम् ॥ ३७८ ॥ योजयेदातिथेये न भवांस्तु प्रकटीकृतः। सत्कारायापि नाम स्वं सत्यापयति चेद्भिया ॥ ३७९॥ पलायमानो बाह्यानां हस्तारूढो विनश्यति । दृढमस्मत्प्रभो म वैतथ्यं जायते स्फुटम् ॥ ३८०॥ विग्रहेऽपि स एवास्यादोषो राज्ञस्ततो नृप । विमृश्यकारिता तत्र सैवास्यैकाऽपराध्यति ॥ ३८१ ॥ क्षमाक्लीबस्य तस्य त्वं जितेऽस्मद्वादिना ततः। पुमानथापमानस्य पात्रं सर्वस्वनाशतः ॥ ३८२॥ ब्राह्मीकृतप्रसादस्य नास्त्येवास्य पराजयः। वादिनो वि(व्य)मृशंस्तत्रभुव्यमर्शो(ों)हि नाशकृत् ॥३८३॥ श्रुत्वेति बप्पभट्टास्ये सहास्ये नृपवीक्षिते । मुनीशेन सदानन्दनिर्भरं जगदे वचः॥३८४॥ को हि धर्मस्य नोत्कंठी पूर्व परिचितस्य वा । यदि रागिग्रहो न स्यादस्य श्रेयोबहिष्कृतः ॥ ३८५॥ अनित्यैकग्रहे रक्ते भिक्षी कृतजयाग्रहः। क्षणं तदेव चेद्रागे जयोमोक्षस्ततः कुतः ॥ ३८६॥ वैराग्य एव मुक्तिः स्यात्सर्वदर्शनसम्मतः। कार्या नात्राधृतिभिक्षुर्जेयो मे तत्कृतोन्नतिः॥ ३८७॥ धर्मराजस्य सम्यक्तुविचारादिदमादृतः। मदाश्रितो यतो वादस्तस्यैवोपकरिष्यति ॥ ३८८ ॥ कुत्राप्यवसरे तस्मादस्तुवाक्पुरतो रणः । संमान्य प्रेषय प्रेष्ठपुमांसं धर्मभूपते ॥ ३८९ ॥ आमराजेन कृत्त्वैतत्प्रहितः सययौ भुवम् । व्यवस्थाप्य जगामासौ प्रोचे तत्स्वामिनः पुरः॥ ३९०॥ वाग्विग्रहाय वादींद्रराजवर्द्धनकुञ्जरम् । धर्म संवाहयामास गीष्पतिं वासवो यथा ॥ ३९१॥ चतुर्दिगन्तविश्रांतकीर्तयस्सुहृदस्ततः । आहूयाभ्यर्च्यसभ्यत्वे वादेऽस्मिन् विहिता मुदा ॥ ३९२॥ परमारमहावंशसम्भूतः क्षत्रियाग्रणीः। तस्य वाक्पपतिराजोऽस्ति विद्वान्निरुपमप्रभः ॥ ३९३ ॥
१ D. मदास्ये.