________________
१५४ .
प्रभावकचरिते
तद्वासंग्राम एवास्तु यस्य वादी विजीयते । जित एवापरेणासौ किं हतैबहुशस्त्रिभिः ॥ ३६४ ॥ संजो वाचिवशौर्येते? वादिनोऽथ पराजिताः। • यद्यसौ सौगताचार्यो महावादीविजीयते ॥ ३६५ ॥ तस्मिन् जिते जिता एवायासवाह्यं त्वया वयम् । घृतपिण्ड इव स्त्यानमुदके हिमनिश्चयः ॥ ३६६ ॥ इति श्रुत्वामभूपाल ऊचे संदेशहारकम्। श्रीधर्मोनुचितं ब्रूयात्कि कदापि नराधिपः ॥ ३६७॥ परं किञ्चिदुपालभ्यमस्ति नार्हसतां हि यत् । अस्मिन्नवसरे वाच्यं प्रस्तावो दुर्लभो ध्रुवम् ॥ ३६८ ॥ विदुषः सुहृदस्तस्याकारणव्याजतो ध्रुवम् । आयामो मिलितुं तत्र स्फुटं वास्माभिरौच्यत ॥ ३६९ ॥ तत्र बीज उरादोरावाक्याभ्यां बंधुरीतितः । द्वितीयो राडि चद्वौच राजानावितिसंस्कृतान् ॥ ३७० ॥ दर्शिते वाटकीपत्रे व्याख्यातं बप्पभट्टिना । इदं भूअरिपत्तन्ते अरिपत्राख्यसंस्कृते ॥ ३७१ ॥ त्रिराख्यातेपि न ज्ञातं तेया वा न स्फुटीकृतम् । न विघ्नस्तु तृतीयेपि वचसि प्रकटेन यत् ॥ ३७२॥ एतत्प्रकाशितं यस्मादज्ञानात्पुंनपुंसकम् । शापितस्त्वत्प्रभुस्ते च विशिष्टा विदिता किल ॥ ३७३ ॥ तथापि चेजिगीषास्ति मयि नु त्वद्धीशितुः। श्रद्धां ते पूरयिष्यामि भवत्वेतद्भवद्वचः॥ ३७४ ॥ परं विजयिनो राज्ञः पराभूतक्षमाभुजा। सप्ताङ्गमपि राज्यं स्वमर्पणीयमदर्पिता ॥ ३७५ ॥ ईदृशं भवतः स्वामी यदोरीकुरुते तदा । पवनास्त्वत्पथा किं नः प्रयासेन फलं विना ॥ ३७६ ॥ इत्याकावदद्भूत आमेत्याख्या त्वया निजा। सत्या कृता विशांनाथ मतेरपरिपाकतः ॥ ३७७॥
१ P. भुजोवापिचशौर्यते. २ H. तस्मिन्न. ३ P बंधुरीरितः. ४ D omits संस्कृतान् to अरिपत्राख्य. ५ P भियाचा. ६H पञ्चतस्तत्पंथ. ७ H. विशाम्यतवमतेरपरिपाकवत.