________________
श्रीबप्पभट्टिप्रबन्धः ।
उत्तरार्द्धमवादीञ्च तस्यानुपदमेव सः। इच्छघरे हलियवहु सद्दहमित्तच्छणी वसई ॥ ३४९ ॥ इति श्रुत्वा यथादृष्टपूरकं प्रभुमस्तवीत् ।। सिद्धसारस्वतः कोपि कलौ नामगुरुं विना ॥ ३५०॥ . सायमैक्षत सोऽन्येयुरेका प्रोषितभर्तृकाम् । यांतीं वासालये वक्रग्रीवां दीपकरां तदा ॥ ३५१ ॥ उत्तरार्द्ध विधायात्र गाथायाः सुहृदः पुरः।
प्रातराह ततोऽसौ च प्राग्दलं प्राह सत्त्वरम् ॥ ३५२॥ तथाहि-पियसंभरणपलुद्वंतं अंसुधारानिवायभीया।
दिजइ वंकग्रीवा इदीउपहि नायाए ॥ ३५३॥ इत्यनेकप्रबन्धाढ्यकाव्यगोष्टीगरीयसा। कालं सुखेन याति स्म गुरो राज्ञः कियानपि ॥ ३५४ ॥ श्रीधर्मभूधनोन्येार्दूतंप्रेषितवानथ । श्रीमदामस्य वामस्य दुष्कृतानां सुधीनिधिः ॥ ३५५ ॥ ततः स भूपमानम्य सभायामुचितासनः। सम्यक् व्यजिज्ञपत् सभ्यैर्विस्मितैर्वीक्षिताननः ॥ ३५६ ॥ मम नाथ प्रभो तावकीनच्छेकत्वभङ्गिभिः। संतुष्टः स्पष्टमाहस्म सविस्मयमनाक्रमः॥ ३५७ ॥ भवत्कोविदकोटीररत्नश्रीबप्पभट्टिना। सत्यानृतकवित्वस्य व्याख्यानाच्छलिता वयम् ॥ ३५८ ॥ यदायातोऽपि गेहान्न आतिथ्या)पि नार्हितः । आमो रामो धियानूपोनुतापातिशयः स नः ॥ ३५९ ॥ हल्लेखाधायि वैदग्ध्यं साहसं वाक्पथातिगम् । वयं चमत्कृतेर्हृष्टास्तद्वदाम किमप्यहो ॥ ३६० ॥ राज्ये नः सौगतो विद्वान् नाम्ना वर्द्धनकुंअरः। महावादी दृढप्रज्ञो जिनवादिशतोन्नतः॥३६१ ॥ देशसन्धौ समागत्य वादमुद्रां करिष्यति । सभ्यैः सह वयं तत्र समेष्यामः कुतूहलात् ॥ ३६२॥ युग्मम् । यः कोपि भवतां वादकोविदः सोपि तत्र वा । आयातु सह विद्वद्भिर्घनाघन इवोन्नतः ॥ ३६३ ॥
१P दुःतत्तानासु.