________________
.१५२
प्रभावकचरिते इत्याकावनीपालः प्राप्तरोमाञ्चकञ्चकः। स्वगुरोर्गुरुसत्वेन प्राह नृत्यन्मनोनटः ॥ ३३४॥ न्युच्छने यामि वाक्याय दृग्भ्यां याम्यवतारणे । बलिर्विधीये सौहार्दहृद्याय हृदयाय च ॥ ३३५ ॥ असौ महीधराधारादेशः पुरमिदं मम ।। भाग्यसौभाग्यभृद्यत्र बप्पभट्टिप्रभुस्थितिः॥ ३३६ ॥
त्रिभिर्विशेषकम् । स्वक्षेत्रभ्रंशिनं कामं कामादिति विमर्शतः। । परक्षेत्रगतास्तत्र लालसत्वं हि तत्यजुः ॥ ३३७ ॥ पशवोपि गजास्तस्मादहासीत्सर्वथा नु तान् । योस्मै गजवरेत्याख्या ततः ख्यातास्तु महुरोः ॥ ३३८ ॥ . ततो गजवरो ब्रह्मचारी च बिरुदद्वयम् । तस्याभूभृतसद्भावभाविवेत्तुः श्रुतागमात् ॥ ३३९ ॥ तथा किं विदधे तत्र त्वया पृष्टेति सावदत् । कटाक्षक्षेपवक्षोजतत्करस्पर्शनादिभिः ॥ ३४० ॥ अजातबोधका चैकं तदा दोधकमब्रुवम् ।
तत्र प्रज्ञानुमानेन कवित्वं हि प्रसर्पति ॥ ३४१ ॥ तथाहि-गयवरकेरइ सच्छरइ पायपसारि उसत्त।
निव्वोरा गुजराजजिस्थिनाहनकेणइ भुत्त ॥ ३४२॥ एवं नृपादिभिः सत्यगुणकीर्तनतस्ततः॥ ब्रह्मप्रभावप्रागल्भ्याद्बप्पभट्टिः प्रभुर्जयी ॥ ३४३॥ प्राकारबाह्यमन्येाराजा राजाध्वनाचरन् । पश्चादोकसि गेहस्येक्षांचके हालिकप्रियाम् ॥ ३४४ ॥ पञ्चांगुलबृहत्पत्रसंवृतस्तनविस्तराम् ॥ वृणुन्नवृतिरन्ध्रेणार्पयित्वा प्रियहस्तयोः ॥ ३४५ ॥ लवित्रं विस्मृतं पश्चात्प्रयांती गृहमन्तरा। उरोजबिम्बाकाराणि बहिःपत्राणि वीक्ष्य च ॥ ३४६ ॥ गाथार्द्ध प्रोचिवान् कौतूहलाकृष्टमनःक्रमः। दृष्टिमेरंड उद्दण्डस्कन्धे न्यस्यन् चलाचलाम् ॥ ३४७॥
त्रिभिर्विशेषकम् ॥ तञ्च–वइविचर निगायदलोपरंडोसाहइ तरुणाणं ।
तत्प्रातः स्वगुरोरग्रेऽवदत्संसदि संस्थितः ॥ ३४८॥ १ PH नदः २ D धरं धारादेशं ।