________________
श्रीबप्पभट्टिप्रबन्धः । तदद्यस्मृतिमानीतं वृत्तमार्दवसाम्यतः। यादृक् तव कुचद्वंद्वं तादृक् तदपि चाभवत् ॥ ३१९ ॥ श्रुत्वेति सा परावृत्तरसा भग्नाशतानिधिः । दध्यौ विधूतकामांध्या किं मे कर्मोदयं ययौ ॥ ३२० ॥ ग्रावा लोहं कथं वजं दुर्भिदोऽयं सिताम्बरः । वह्निटंकादिभिर्भेद्यो ग्रावा लोहञ्च वह्निना ॥ ३२१ ॥ कुचलीकोमलफलक्षोदाद्यैर्वज्रमप्यथ । भिद्येतानन्यसामान्यकाठिन्यं किञ्चिदस्य नु ॥ ३२२ ॥ घृतपिण्डसमा ह्यन्ये वह्निकुण्डसमासु ये । महिलासु विलीयन्ते सृष्टिरेवापरस्य च ॥ ३२३ ॥ वेधायमश्वकावस्य पुरः कर्मोमिकिङ्करौ । कम्मोप्यस्यबिभेतीव तीव्रब्रह्मव्रतस्पृशः॥ ३२४॥ रसे विरसमाधत्त मत्काममपि भग्नवान् । तिरश्चकार मां यस्तु तेन दैवं हि जीयते ॥ ३२५ ॥ ध्यायन्तीति निदद्रौ सा मुनिद्रोहे गताग्रहा । निद्रा हि विश्वदुःखाप्तौ विश्रामादुपकारिणी ॥ ३२६ ॥ प्रगे जागरिताचार्य पर्यङ्कासनसंस्थितम् । प्रणम्य प्राह नाहमरहंतद्विकृतौ? कृतीन् ॥ ३२७ ॥ वीतरागः पुरा स्मेरमरमुख्यारिजित्वरः। आसीत्त्ववृत्ततः सत्यमिदं ख्यातिं ययौ किल ॥ ३२८ ॥ तदापृच्छे प्रसाद्याशु पृष्ठे हस्तं प्रदेहि मे। तव शापेन शक्रोऽपि नश्यत्यन्यस्य का कथा ॥ ३२९ ॥ अथाह गुरुरज्ञानवागेषा ते वयं पुनः। रोषतोषभराभीता अज्ञाः शापादिगीर्वपि ॥ ३३० ॥ इति श्रुत्वा ययौ भूपसमीपं वरवर्णिनी । उवाच तहुणवातक्षणविहृतवैकृता ॥ ३३१ ॥ नाथ पाथ पतिं बाहुदण्डाभ्यां स तरत्यलम् । भिनत्ति च महाशैलं शिरसा तरसा रसात् ॥ ३३२ ॥ यथेच्छवह्निमास्कन्देत् सुप्तं सिहश्च बोधयेत् । श्वेतभिक्षु तव गुरुं य एनं हि विकारयेत् ॥ ३३३ ॥
१ म. पृष्टि. २ P भ्रश्यत्य०.