________________
१५०
.
प्रभावकचरिते
प्रभोर्यदूचे बीभत्सरसन्यासवशा तनुः। अशुश्रूषाकर्याङ्गभृतामेव कुयोषिताम् ॥ ३०५॥ वयं निरन्तरायाप्तकर्पूरादिमया इव । वेधसा विहिता अज्ञा दौर्गन्ध्यादिकथास्वपि ॥ ३०६॥ ततो नाथेय नाथ त्वां सफलीकुरु मामकम् । भोगाभोगं हि भोगेन भोगिन्या भोगिराडिव ॥ ३०७॥ ततः प्राक सिष्मिये सूरिस्तद्वाग्भिर्न विसिष्मिये । उवाच च गिरं धीरां धैर्याधारधुरन्धरः ॥ ३०८ ॥ हेनी पांचालिका रिक्तांतराला शुचिपूरिता । बहिश्चन्दनचर्चादिभूषासुरभि वस्तु किम् ॥ ३०९ ॥ मलमूत्रादिपात्रेषु गात्रेषु मृगचक्षुषाम् ।। रतिं करोति को नाम सुधीर्व!गृहेष्विव ॥ ३१० ॥ चक्षुः संवृणु वक्रवीक्षणपरं वक्षः समाच्छादय __ रुद्धि स्फूर्जदनेकभङ्गिकुटिलं रम्योपचारं वचः । अन्ये ते नवनीतपिण्डसदृशा वश्या भवन्ति स्त्रियाम्
मुग्धे किं परिखेदितेन वपुषा पाषाणकल्पा वयम् ॥३११॥ इत्याकाप्यकर्येव न बुद्धा प्रत्युत प्रभो। स्वभावकठिनौ हस्तौ स्वगात्रेऽपत्रपाव्यधात् ॥ ३१२ ॥ . ताभ्यां च सर्गपत्राभ्यामिव सास्पर्शयत्ततः । स्मरकुअरकुम्भाभौ मृदुस्पर्शावुरोरुहौ ॥ ३१३ ॥ नभः शङ्गारशिखरिखादिरांगारभारवत् । निर्दम्भशोकदन्तेन पूच्चकार मुनीश्वरः ॥ ३१४ ॥ किं किमित्यूचिषी वक्षोजाग्रात्पाणि विकृष्य सः। अबाष्पगद्गदाव्यक्तवाचोवाच कथञ्चन ॥ ३१५॥ अमूल्यातुल्यवात्सल्यवर्द्धितास्मादृशाङ्गिनाम् । गुरूणां स्मारिता अद्य निजाङ्गस्पर्शतत्स्त्वया ॥३१६॥ तया कथमिति प्रश्ने कृते प्राह पुनः प्रभुः। रात्रौ खाध्यायकृत्वानंतरं विश्रामणां प्रभोः॥३१७ ॥ अहं व्यरचयं सर्वकालं सर्वाङ्गसंगिनीम्।।
कटिं विश्राम्यं तत्प्रोथयुगलं च समस्पृशम् ॥३१८॥ युग्मम् । १ H. हनौ "चिः २ H पुरुषा ३ H. गुरुणी ४ P. विश्रम्येतप्रोथयुगलं व समास्पृशं ।