________________
श्रीबप्पभट्टिप्रबन्धः। . ससजः सजयः सज्जमनोभूविजये ततः। अष्टाङ्गयोगसद्धर्मसंवमिततनुर्मुदा ॥ २९०॥ शुभध्यानाश्वमारूढः संतोषयक्षराक्षसम् । दृढसंयमकोदण्डविष्टब्धतप आशुगः ॥२९१ ॥ सद्बोधपुष्टिरिष्टगी शक्तिशक्तिस्फुरत्करः। अनास्थया समुत्तस्थावन्तरङ्गद्विषजये ॥२९२॥ त्रिभिर्विशेषकम् । अब्रवीद् ब्रूहि कात्र त्वं किमर्थ समुपस्थिता । ब्रह्मचर्मवतामेषा स्यान्न भूमिर्भवादृशाम् ॥ २९३ ॥ अध्वन्येषु यथा व्याली हारहूरं द्विजालये । पलं दर्शनशालासु हलं राजकुले यथा ॥ २९४ ॥ धर्मे प्राणवधो यद्वद्वेदोच्चारे यथांत्यजः। नालिकेरं पपौ यद्वद्विके दधिफलं यथा ॥ २९५॥ चन्दने मक्षिका यद्वद्रोमठं कुङ्कमे यथा। कर्पूरे लशुनो यद्वत्तथात्र त्वं न चित्तहृत् ॥२९६॥ विशेषकम् । विश्वश्रोतःश्रवद्विस्रजंबालकलुषाकृतौ । लजनीयेऽवलादेहे रजन्त्येके कृमीन्विना ॥ २९७ ॥ श्रुत्वेति तानुवाचासौ नाहं पूजाभिलाषिणी। आययौ भवतो मार्गभ्रष्टान् बोधयितुं स्फुटम् ॥ २९८॥ संपत्संपत्तये दानधर्म लोकानुरुध्यते। ऐश्वर्याय तपस्तप्यं तच राज्यं विना नहि ॥२९९ ॥ स्वर्भुवोपि च तत्रापि सारं सारङ्गलोचना।
यया विना नृदेवानामवकेशीव पुंजनः ॥ ३०० ॥ उक्तञ्च-राज्ये सारं वसुधा वसुधायां पुरं पुरे सौधम् ।
सौधे तल्पं तल्पे वराङ्गनानङ्गसर्वस्वम् ॥ ३०१॥ जंगत्यपि न वर्तन्ते विपरीताग्रहग्रहम् ।। अवाप्तवांच्छयावाप्तं त्यज्यतो जनहास्यदाः॥ ३०२॥ दुर्बुद्धिवृद्धितो दैवदण्डिता इव ते प्रभो। अवधारय पाखण्डखेदितो मा स्म भूर्जडः॥ ३०३ ॥ युग्मम् । महाभक्त्यामराजेन प्रैष्यहं प्राणवल्लभा । विज्ञा मनोहरप्रज्ञा गुणरक्तधराधिपा ॥ ३०४ ॥
१ D संतोषप्रक्षराक्षतं. २ D पयौ यद्वद्वीके ३ टूंडे चकु० ४ PH चिहहृत् ५ D जगत्पतीन ।