________________
१४८
प्रभावकचरिते तं दृष्ट्वा बहुमानार्दो गुरौ द्रागाजगाम च । राजपुंभिः समं मोढेरके प्रभुपदान्तिके ॥ २७७ ॥ प्रभोः स न्यासविन्यासं रुधन् प्रथमदर्शने ।
अतृप्तस्तस्य वात्सल्ये तेनासौ जल्पितः शमी ॥ २७८ ॥ . तथाहि-वपुः कुब्जीभूतं तनुरपि शनैर्यष्टिशरणा
विशीर्णा दंताली श्रवणविकलं कर्णयुगलम् । निरालोकं चक्षुः तिमिरपटलध्यामलमहो
मनो मे निर्लजं तदपि विषयेभ्यः स्पृहयति ॥ २७९ ॥ ततो वत्समतिस्वच्छगच्छवात्सल्यतत्परः। भव त्वं गुरुसाहाय्यं प्रेत्यमे(चै)वानृणो भव ॥ २८० ॥ तत आराधनां कृत्वा परलोकं समाधिना। तं ययुर्गुणशास्तिश्च चक्रेऽसौ राजपूजितः ॥ २८१ ॥ श्रीमद्गोविन्दसूरेः श्रीनन्नसूरेश्च स प्रभुः।। बप्पभट्टि समाथ गच्छं संघ च सोद्यमम् ॥ २८२ ॥ अनुज्ञाप्य क्षितिस्वामि प्रधानैराहतैर्वृतः। पुनरप्याययावामधाम निर्ग्रथनायकः॥ २८३ ॥ युग्मम् । तं दृष्ट्वा भूपतिस्तत्र जातरागविकल्पतः। चित्ताभिसन्धिसंबद्धां गाथामेनामचिन्तयत् ॥ सभासीनोऽन्यदा राज्ञः सूरिप्रेक्षणकक्षणे । प्रवीणपुस्तिकाहस्तः पुंरूपेव सरस्वती ॥ २८४ ॥ द्विधाक्षरे पदे स्थास्तुदृष्टिस्तत्क्लेशनाशिनी ।
तदा कदाचिदाध्यासीन्नीलचण्डातके दृशम् ॥२८५॥ युग्मम् । तथाहि-सिद्धांततपारं गयाणजो इणजो गजुत्ताणम् ।
जइ ताणं पिमयच्छी मणिम्मिता तच्चियपमाणम् ॥ २८६ ॥ अमूदृक्कार्यनिर्वाहज्ञानहेतुं ततस्तदा । स्नेहादेव निशि प्रेषीत्तां पुंवेषां तदाश्रये, ॥ २८७॥ सा निलीना क्वचिद्भव्यगणे स्वस्थानगे ततः। रहः शुश्रूषितं सूरि प्रारेभे धैर्यभित्तये ॥ २८८ ॥ स्त्रीकरस्पर्शतो ज्ञात्वा चोपसर्गमुपस्थितम् ।। विममर्श नृपाशानतमसश्चेष्टितं ध्रुवम् ॥ २८९ ॥ १ P. मः २ P केश. ३ P. सिद्धंतत...जोईणगजनाणां जयमितातिधि.