________________
श्रीबप्पभट्टिप्रबन्धः। आपृष्टोसि महाबाहो यामः स्वं नाम सार्थकम् । कुर्याद्यथा परे लोका निर्मलाः स्युः सुहृत्तम ॥ २६४ ॥ इत्युक्त्वातो निरीयागात् संगत्यामनृपेण च । करभीभिरमीपुंभिः सुरभिर्यशसा गुरुः ॥२६५॥ मार्गे तदासनारूढः प्रभुणा सह संचरन् । पुलिंदमेकं कासारे क्षिप्तास्यं वारिमध्यतः ॥ २६६॥ पिवंतं च छगलवदृष्ट्वा गुरुपुरस्तदा।
आह प्राकृतकाव्यार्द्धमपूर्वेक्षासकौतुकः ॥ २६७ ॥ तथाहि-पसुजेमपुलिंदउ पय पीअइ जुपंथिउ
कमणिहि कारणिण । इत्याकर्ण्य प्रभुः प्राहोत्तरार्द्ध तत्क्षणादपि।
विलंबन्ते न काव्येषु सिद्धसारस्वताः क्वचित् ॥ २६८ ॥ तच्च-करबेवि करंबिय कजलिणमुद्वहिअंसुनिवारणिण ॥ २६९ ॥
प्रत्ययार्थ पुलिंदस्य समाकार्य स भूभुजा । पृष्टो लजानतास्योयं यथावृत्तमथावदत् ॥ २७० ॥ नाथ प्रवसने युष्मद्वधू सांत्वयतः सतः। सांजनाश्रुप्रमृष्टौ मा भूतां कजलितौ करौ ॥ २७१ ॥ हर्षप्रकर्षमासाद्य वृत्तांतेनामुना नृपः। सुरेंद्र इव सौधर्म्य द्राक् कन्याकुब्जमासदत् ॥ २७२ ॥ प्रविवेशोत्सवेनैष प्राच्याशातिशयेन सः। कोटिकोटिगुणाम मकार्षीच्च गुरोस्तथा ॥ २७३ ॥ इतश्च श्रीसिद्धसेनसूरयो जरसा भृशम् । आक्रांताः कृतकृत्यत्वात् सेच्छाः प्रायोपवेशने ॥ २७४ ॥ बप्पभट्टेर्विधेयस्य विनेयस्य मुखाम्बुजम् ।
दिदृक्षवो मुनिं प्रैषुवृतं चाह्वानहेतवे ॥ २७५ ॥ तञ्चेदम्-सारीरं सयलं बलं विगलिअं दिट्ठी विकठेण मे
दट्टब्वे सुपयट्टइ परिगणप्यायं तहा आनुयम् ।
पाणा पाहुणयछगन्तु महुणा वंदत्ति वच्छा तुमम् मंदटुं जइ अच्छितालहुलहु इच्छाहि निस्संसयम् ॥ २७६ ॥
१ D मुनींद्रश्च. २ D विधेयस्य गुरुणास्य.