________________
१४६
प्रभावकचरिते श्रीबप्पभट्टिना चैवमर्थानां साष्टकं शतम् । व्याख्यातं मतिमांद्येन न जानीमो वयं पुनः ॥ २४९ ॥ तत उत्थाय रात्रौ च वारवेश्यागृहेवसत् । अमूल्यं कंकणं दत्वास्याः प्रातर्निरगागृहात् ॥ २५० ॥ द्वितीयं राजसौधस्य द्वारि त्यक्त्वा स्वरांशुरुक् । इन्द्रकीले ययौ तस्माद्वहिरस्थाद्रहोवने ॥ २५१ ॥ ततः प्रातर्मुनिस्वामी संगत्य नृपतेः सभाम् । आपपृच्छे नृपः कन्यकुब्जप्रस्थानहेतवे ॥ २५२॥ तेन पूर्णप्रतिज्ञायामज्ञातायां कथं त्विति । राज्ञा पृष्टे समाचख्यावामभूप इहागमत् ॥ २५३॥ विद्वत्कथनतस्तेन कथितं यद्यदीदृशः। शायतां सैष एवेति दोराशब्दात्तथा पुनः ॥ २५४ ॥ द्वौ राजानौ इति स्पष्टं मातुलिंगस्य दर्शनात् । इदं किमिति पृष्टे च बीज ऊरात उत्तरात् ॥ २५५ ॥ तथा रूंअरिपत्तंति तच्चारिपात्रमित्यथ । संस्कृताद्भवतीत्येतत्तवाग्रे जगदे स्फुटम् ॥ २५६॥ ततो विप्रतिसारोऽस्य प्रससार प्रकर्षतः। धिगस्ति मम मूर्खत्वं न ज्ञातं कथितेपि यत् ॥२५७ ॥ . ततोऽवसर एतस्मिन् वारवामा प्रभोः पुरः। कंकणं मुमुचे रत्नरोचिरस्ततमस्ततिः ॥ २५८ ॥ क्षत्ता परं समाथ भूपालाय व्यजिशपत् । द्वारेन्द्रकीलकेनापि मुक्तं नाथ न वेद्यहम् ॥ २५९ ॥ यावत्पश्यति राजा तदामनामाथ दृष्टवान् । श्रीबप्पभट्टेरापृच्छय हेतुप्रत्यायकः प्रभुः ॥ २६० ॥ गृहागतो नृपः शत्रु र्चितो नच साधितः । द्विधापि चिरवैरस्य निर्वृत्तिन प्रवर्तिता ॥ २६१ ॥ तथाच विरहः पूज्यैरुपतस्थेऽतिदुःखदः । यो वल्लभ्यं तु लभ्येत किं ब्रूमः सांप्रतं प्रभोः॥ २६२ ॥ गुरुराह महाराज मा खेदोऽत्र विधीयताम् । हंसा इव वयं येनाप्रतिबद्धविहारिणः ॥ २६३ ॥ १J H. जायतामेष० २ P. तप्तात् अरिपत्वंतिवारिपा० H भू अरि.