________________
श्रीबप्पभट्टिप्रबन्धः । तथा अलिभूषाप्रिय एको लक्षणया स कामः । “नाकामी मंडनप्रियः” इति वचनात् अनयोर्मीलकविषये का ईहा चेष्टा किंतु न कापि । तथा उप्तं धनं यैस्ते धनोप्ताः ॥ आहितान्यादित्वात् क्तांतपरनिपातस्तेषामावली श्रेणीर्दानेश्वरसमूहस्तस्य प्रियो वल्लभः । दानेश्वराणां हि सत्पात्रेच्छा विशेषतो भवति स चार्थादाचार्यः । स मन्दस्नेहो निर्मोह इत्यर्थः ॥ तथा विरहे विशिष्टैकान्ते तद्धतोम्रियते लक्षणया तदर्थ संतप्यत इत्यर्थः॥ तस्य का न होरा मुहूर्तरूपाः । स सर्वदा तस्य विरहे संतप्त एवास्ते । स वा इति प्रश्नाध्याहारे कान्यकुब्जे पवितडितसमानविद्युत्समः तेजस्वी जनो विद्वजनो मल्लक्षणः स जानाति दोरा द्वौराजानौ । वा एवार्थे द्वौरा द्वावेव राजानौ धर्म आमश्च विद्वप्रियाविति मञ्चित्ते गूढार्थस्तु हे राजन् त्वया ज्ञेयं यहुरुप्रतिज्ञानिर्वाहाय आमोऽत्रायातोऽस्तीति द्वितीयोऽर्थः ॥२॥
तथा तप्तीतारा शीतला योत्रश्लथआदर इत्यर्थः । स ततिशी• तलः । स्वराणां स्वराः प्रायोऽपभ्रंशे इतीकारः ॥ तत्र मीलकः कीदृशः। यतः ध्वनदुक्तावली चमत्कारिकाव्यश्रेणी वल्लभा यस्य अर्थादाचार्यः सोस्मासु मंदस्नेहः स उपरोधेन न गृह्यत इत्यर्थः । तथा विरहे अर्थाद्विषवियोगसर्वसंगपरित्यागे सति यो मरति मानुषपुरुषः। देववत्सुखीभवति तस्य कास्नेहः। संबंधादिषु निहोरः क उपरोधः । स उपरोधेन न गृह्यत इत्यर्थः। करणप्रवृत्तिदानेश्वरत्वात्कर्णरीतिः दोरोदोषा राजते महाबाहुः स आम एवंविधमपि सूरिर्जनमिव प्राकृतमिव जानाति न किंचिदित्यर्थः॥३॥
तथा तत्त्वानि ईष्टे तत्त्वेशी अत एव आली संगनिषेधी तस्य मेलः संसर्गः तस्य अवोऽवाप्तिः ॥ स्वराणां स्वरा इत्याकारस्तथा के ब्रह्मणि ईहा चेष्टा यस्य स केहः परमब्रह्मेच्छः । दीर्घः प्राग्वत् । धनयुक्तानामावली श्रेणी । प्रिया अमंदस्नेहा अत्यर्थप्रीतिर्भवति ॥ विगतरागेषु हि सर्वः प्रीतिमान् धनवन्तोपि तत्रैव रतिं निदधति तथा विः पक्षी गरुडः स रथो यस्य स विरथो विष्णुस्तस्मिन्नर्थात् चित्तस्थे यो म्रियते तस्य को निभः सदृशः। सच रा राजेव एवं भवति गुरौ चित्तस्थे मृत्युरपि श्लाघ्यः । तथा जङ्खजानद्याः गंगायाः सकाशात् का अन्या पवित्रायमेव भगवान्पूज्यः तथा दोरा द्वौ राजानौ संगतौ यस्य द्विराट् सर्वसामर्थ्ययुक्तो भवानेव यदुचितं तद्विधेहीति चतुर्थोऽर्थः॥४॥
तत्तीसीयलाटीकायां ग्रंथानं ३२ अ०८ व० ॥५॥ १J H. omit तथा-इत्यर्थः.
13