________________
१४४
प्रभावकचरिते वाचयित्वा च तां पृष्टो दूतस्ते कीदृशो नृपः । स प्राहास्य स्थगीभर्तुस्तुल्यो देव प्रबुध्यताम् ॥ २४१ ॥ मातुलिंग करे बिभ्रन्सैष पृष्टश्च सूरिणा। करे ते किं स चावादीद्विजराज इति स्फुटम् ॥ २४२ ॥ दूतेन चाढकीपत्रे दर्शिते गुरुराह सः। स्थगीधरं पुरस्कृत्य नूअरिपत्तमित्ययम् ॥ २४३ ॥ प्राकृतेनोत्तरं प्रादाच्छेषेण ज्ञापनोपमम् । अवबोधे यदृच्छा तु धर्मस्यर्जुचेतसः ॥ २४४ ॥ अथोवाच प्रधानश्च सूरिरेष श्लथादरः। अस्मास्विति प्रतिक्षाय दुःपूरां विदधे ध्रुवम् ॥ २४५॥ विहितेऽत्रापि चेत्पूज्य आपाति प्राज्यपुण्यता। अस्माभिः सह तद्देवाः प्रतुष्टा नो विचार्यताम् ॥ २४६ ॥
युग्मम् । यतः-तच्छीसी अलामेलावा केहा णण उत्तावली
प्रियमंदसिणेहाविरहिहिं । माणसुजंमरइतसु कवण निहोरा कलिप
वित्तडी जुणु जाणइदोरा ॥ २४७॥ राज्ञोचे वस्तुकस्यास्य कीगर्थप्रभस्ततः।
बप्पभट्टिनुपस्याग्रे व्याख्यादाख्यातधीनिधिः ॥ २४८॥ तथाहि
एका लोहपिंडी वह्निना तप्ता । अर्थात् ज्ञेया एका शीतला अनयोर्मेलकः संसर्गः कीदृशः ॥ उभयोरपि तप्तयोरेव संबंधो भवति । इत्यनेन किमुक्तं यद्वयं रणरणकतप्ताः अयं च औदासीन्याजितेंद्रियत्वान्निर्लोभत्वाच्च शीतस्तदस्माकमनेन सह कथं मेलक इति । तथा घनादेशीशब्देन पत्नी सा उत्सुका प्रियश्च मंदस्नेहः । ततः कथं मेलको भवति विरहेण यन्मानुषं म्रियते मृततुल्यं प्राणशेषं भवति तस्य को निहोरक उपरोधस्त प्रकृतेपि न जीवति । मिलित एव प्रणयिनी जीवति तथा कर्णे पवित्रिकेयं जनो जानाति दारकं द्वित्रिगुणावलिततंतुरूपं स्थगीधरस्येति वा सूत्रार्थः॥१॥ तथा तप्तं तपस्तदिच्छतीत्येवं शीलस्तपश्चरणेच्छुः स तप्तैषी ॥
१ P. पुरस्कृत्य त्तमियत्य । २ P. तत्रीसी अलीमेलावाकेहा धण. ३ P. सूत्रकृतेपि.