________________
श्रीबप्पभट्टिप्रबन्धः ।
१४३ निद्राजागरणादिकृत्यनिवहे नित्यानुवृत्तिस्पृशां स्वप्नेप्वप्यथ योगिनां नयनवञ्चेष्टासु सूक्ष्मास्वपि । तत्तद्वत्सुहृदामिवेह सुहृदां निष्ठेदृशी स्याद्यदा मित्राशापरिहारमाचर ततश्चेतः प्रसीद प्रभो ॥ २२८ ॥ नृपो यथोतथवचःप्रतीतोऽप्यथ कौतुकात् ।
गाथापरार्द्धमाचख्यौ पूर्वार्ध च गुरुस्ततः॥ २२९ ॥ तद्यथा-अजवि तं सुमरिजइ को नेहो रागराईए ।
गोलानइए खंडे देउलमज्झे पहिअजं नवसिडसि ॥ २३०॥ इत्युक्त्वा सूरिभिर्भूपो बाढं स परिषस्वजे । अविश्वास्यं मनस्तस्यांतः प्रविश्येव वीक्षितुम् ॥ २३१ ॥ प्रकाममामभूपालस्तुष्टिं बिभ्रत्सवीक्षणे।
इदं काव्यमुवाचाथ नाथः कविकुलेषु यः ॥ २३२॥ तद्यथा-अंगैरुत्पुलकैः प्रसादसलिलप्रस्यंदिभिर्लोचनै
राकाद्भुतसंकथास्तव सुधीभर्तुः प्रसन्नात्मनः। सौजन्यामृतनिझरे सुमहति स्नातुं विपद्वारिधेः
पारं गंतुमपारपौरुष वयं त्वां द्रष्टुमभ्यागताः ॥ २३३॥ श्लोकं विचित्रबंधन लिलेन स खटीदलात् ।
कौतुकादामभूपालः शालिसौहार्दरंगितः ॥२३४ ॥ तथाहि-अति अति अन्मअलंप्रीधरद्यजद्य
मेलामेलामेलमेलंफसफसफस ॥ २३५॥ . तं च गोमूत्रिका बंधं ज्ञात्वा गुरुरपि स्वयम् ।
वाचयामास दोषज्ञैरपि ज्ञातं परैर्नहि ॥ २३६ ॥ तथाहि-अद्य मे सफला प्रीतिरद्य मे सफला रतिः ।
अद्य मे सफलं जन्म अद्य मे सफलं फलम् ॥ २३७ ॥ विद्वद्गोष्टया विनिद्रं तं विश्रमय्य क्षपाक्षणे । प्रगेऽशंको नृपास्थानं सूरिः प्राप यथास्थिति ॥ २३८ ॥ आमराजोप्यथ श्रीमानभ्रच्छन्नइवांशुमान् । विशिष्टैः स्वार्थनिष्ठोऽगात्स स्थगीधरकैतवात् ॥ २३९ ॥ आमविज्ञप्तिकां धर्मराजस्य दर्शयहरुः । आगमिष्यद्वियोगाग्निज्वालामिव सुदुःसहाम् ॥ २४०॥
१ स्वप्नेप्यथ वियो० स्वप्नध्वथ वियो० २ P.अति अति अन्य अलं प्रीधरद्यजद्यपद्य । मेलामेलं मेलं फसफसफसफस.