________________
३४६
प्रभावकचरिते चराचरवपुर्भूतामभयदानदानेश्वरो
जडाखिलढगापगा शरणरत्नराशिप्रदः । लसन्निजपरागमाप्रकटतत्वपारगमः
शशांककुलशेखरो जयति हेमचंद्रप्रभुः ॥ ८३१॥ व्याकरणं पंचांगं प्रमाणशास्त्रं प्रमाणमीमांसा । छंदोलंकृतिचूडामणी च शास्त्रे विभुळधितः॥ ८३२ ॥ एकार्थानेकार्था देश्या निर्घट इति च चत्वारः। विहिताश्च नामकोशाः भुविकवितानधुपाध्यायाः ॥ ८३३॥ व्युत्तरषष्टिशलाका नरेशवृत्तं गृहव्रतविचारे । अध्यात्मयोगशास्त्रं विदधे जगदुपकृतिविधित्सुः॥ ८३४ ॥ लक्षणसाहित्यगुणं विदधे च याश्रयं महाकाव्यम् । चक्रे विंशतिमुच्चैः सवीतरागस्तवानां च ॥ ८३५॥ इति तद्विहितग्रंथसंख्यैव नहि विद्यते । नामापि न विदंत्येषां मादृशा मंदमेधसः ॥ ८३६ ॥ व्याख्यायामन्यदा श्रीमच्छत्रुजयगिरेस्तवम् । श्रीमदैवतकस्यापि प्रभुराह नृपाग्रतः ॥ ८३७ ।। उपदेशप्रदीपेन विध्वस्तांतस्तमा नृपः। तीर्थयात्रां ततश्चक्रे शक्राभोज्वलकीर्तिभृत् ॥ ८३८॥ प्रयाणैः पंचगव्यूतैः पादचारेण सोऽन्यदा। अनुपानत्कगुरुणा प्रापोपचलभिद्रुतम् ॥ ८३९ ॥ तत्रास्ति स्थाप ईर्ष्यालुरिति भूमिधरद्वयम् । तदधो गुरवः प्रीताः प्रातरावश्यकं दधुः ॥ ८४०॥ भूपतिस्तत्र चागत्य वासनामोदमेदुरीः । प्रभूत्वान्निर्जितात्मीयगुरुनिष्टविशिष्टधीः ॥ ८४१॥ प्रणनाम प्रभोः पादौ प्रक्रांततः प्रयाणके । प्रासादौ कारयामास भूपोऽत्र गुरुभक्तितः ॥ ८४२ ॥ श्रीनाभेयत्रयोविंशजिनबिंबे विधाप्य च । प्रतिष्ठाप्य प्रभोः पार्थादस्थापयत चात्र सः ॥ ८४३ ॥ विमलादौ जिनाधीशं नमश्चक्रेतिभक्तितः।। निजानुमानतोऽभ्यर्च्य ययौ रैवतकाचलम् ॥ ८४४ ॥ दुरारोहं गुरुं पद्याभावादृष्ट्रा सवाग्भटम् । मंत्रिणं तद् विधानाय समादिक्षत्स तां दधौ ॥ ८४५॥
१H चरण. २ H लसति०. ३P व्यभुर. ४ P सुंदरः. ५ म पुरुनि०.