________________
श्रीहेमचंद्रसूरिप्रबन्धः ।
तत्र छत्रशिलाशंकावशाच्छैलाधिरोहणम् । राज्ञेोविघ्नाय तदधो भूस्थः श्रीनेमिमार्चयत् ॥ ८४६ ॥ ततो व्यावृत्य संप्राप नगरं खं नराधिपः । जैनयात्रोत्सवं कृत्वा मेने स्वं पुण्यपूरितम् ॥ ८४७ ॥ शरवेदेश्वरे ११४५ वर्षे कार्त्तिके पूर्णिमानिशि । जन्माभवत्प्रभोर्व्याम बाणशंभौ ११५० व्रतं तथा ॥ ८४८ ॥ रसषट्ङ्केश्वरे सूरिप्रतिष्ठा समजायत ।
नंदद्वयरवौ वर्षे १२२९ ऽवसानमभवत्प्रभोः ॥ ८४९ ॥ इत्थं श्रीजिन शासनाभ्रतरणेः श्रीहेमचंद्रप्रभो
३४७
रज्ञानांधतमःप्रवाहहरणं मात्रादृशां मादृशाम् । विद्यापंक जिन विकाशविदितं राशोतिवृद्ध्यै स्फुरहृतं विश्वविबोधनाय भवताद्दुः कर्मभेदाय च ॥ ८५० ॥ श्रीचंद्रप्रभसूरिपट्टसरसीहंसप्रभः श्रीप्रभा
चंद्रः सूरिरनेन चेतसि कृते श्रीरामलक्ष्मीभुवा । श्री पूर्वर्षिचरित्ररोहणगिरौ श्रीहेमचंद्रप्रथाश्रीप्रयुनमुनींना विशदितः शृंगो द्विकद्विप्रमः ॥ ८५१ ॥ इति श्री हेमचंद्र प्रबंधः ॥ ग्रं० ८७१ ॥ छ ॥ स्वस्ति ॥
भास्वत्पात्रं कविमुनिबुधभ्राजितो राजसेव्यः सर्वेष्टार्थप्रद्गुरुलसत्कल्पवृक्षा (क्ष) त्वदात् (ता) | श्रीजैनाद्रिश्रियभुविशिरा सिद्धिमद्भद्रशालो
गच्छश्चद्रा (द्रः) सुरगिरितुलामभुवान (नो) सम ( मो ) स्तिः ॥ १ ॥ प्रद्युम्न सूरिरिति तत्र पुरा बभूव मंदारपादपतुलाकलितोरुशाखः । यत्संगमामृतरसैर्बहवः सुधर्मा
धीशा भवंति सुधियः सुमनोभिरामाः ॥ २ ॥ अल्लासभायां विजिते दिगंबरे तदीयपक्षः कलिकोशरक्षकः । दातुं प्रभोरेकप समानयत्तमेकपट्टे जगृहे सुधीषु यः ॥ ३ ॥ शिष्योऽस्याभयदेवसूरिरभवज्जाड्यांधकारं हरन्
गोभिर्भास्करवत्परां विरचयन् भव्याप्तवर्गेच्छदम् । ग्रंथो वाद महार्णवोऽस्य विदितः प्रौढप्रमेयोर्मि (भृत् दत्तेर्थ (?) जिनशासनप्रवहणं सांयात्रिकाणां ध्रुवम् ॥ ४ ॥