________________
श्रीहेमचंद्रसूरिप्रबन्धः।
३४५ राजमंदिरमालोक्य भुवोन्तस्तेति हर्षतः। देवतावसरस्थानं प्रापुबिंबं तथार्हतम् ॥ ८१४ ॥ आनीतं च विभो राजधानीमतिशयोत्सवैः। स प्रवेशं दधे तस्य सौधदैवतवेश्मनि ॥ ८१५ ॥ प्रासादः स्फाटिकस्तत्र तद्योग्यः पृथिवीभृता । प्रारेभे प्रतिषिद्धश्च प्रभुभिर्भाविवेदिभिः॥ ८१६॥ राजप्रासादमध्ये च नहि देवगृहं भवेत् । इत्थमाज्ञामनुलंघ्य न्यवर्त्तत ततो नृपः ॥ ८१७॥ एकातपत्रतां जैनशासनस्य प्रकाशयन् । मिथ्यात्वशैलवज्रं श्रीहेमचंद्रप्रभुर्बभौ ॥ ८१८॥ तथालोलाकचैत्यस्याग्रतः क्षेत्राधिपालये। अपश्यदामिषापूर्ण शरावं तडं(दंड)काधिपः॥ ८१९ ॥ तेन त्रिलोचनस्येव संहत्तुरनयस्पृशम्। तत्रिलोचननाम्नश्च तलारक्षस्य दर्शितम् ॥ ८२० ॥ असंख्यजनसंचारानुपलब्धपदस्ततः। अन्वेषयन्नुपायं स लेभे मतिमतांवरः॥ ८२१ ॥ कुलालवृंदमाकार्य प्रत्येकं तदुदैक्षयत् । शरावं घटितं केन पप्रच्छेति कुशाग्रधीः॥ ८२२ ॥ एकस्तेषामभिशाय व्याहरद् घटितं मया। अचीकरच्छतं लक्षोनट्टलेशस्थगीधरः ॥ ८२३ ॥ विसृज्य तान्महीशाय तलारक्षो व्यजिज्ञपत् । व्याजहे तत्क्षणान्नाथ केल्हणं मंडलेश्वरम् ॥ ८२४॥ आज्ञाभंगापराधेन देशः श्रीकरणे त्वया। उद्गण्यतां स चावादीनजाने किमिदं प्रभोः॥ ८२५॥ द्वारावलगकाख्याते स्थगीशचरिते ततः। लक्षं विलक्षं हत्वा च तोषं चक्रे प्रभोरसौ ॥ ८२६॥ चैत्रमाघाश्वयुग्मासमहेष्वपि सुरीगणः। अहिंसया मुदं प्राप गुणे को मत्सरं वहेत् ॥ ८२७ ॥ कर्पूरप्रमुखैभॊगैलिभिर्मोदकादिभिः । तुष्टोसौ मद्यमांसेषु पिच्छिलेषु श्लथादरः॥ ८२८ ॥ शैवाचार्या अपि तदा मिथ्याधर्मेष्वनादृताः। जयंतस्थापनाचार्यमवहन् कृतिकर्मणः ॥ ८२९ ॥ श्रीवीतरागमभ्यर्च्य परमेष्ठिनमस्कृतीः। परावर्त्तत धर्मोपि राजाय॑ः क्रियते जनैः ॥ ८३०॥ १ D दंडकाद्विधः. २ P राजाwः.