Book Title: Siddhant Chandrika Uttararddham
Author(s): Kshemraj Shrikrishnadas Shreshthi
Publisher: Kshemraj Shrikrishnadas Shreshthi
Catalog link: https://jainqq.org/explore/002415/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ ॥ श्रीः॥ सिद्धान्तचन्द्रिका-(उत्तरार्धम् ) RAMERA (वाणीप्रणीतव्याकरणसूत्रवृत्तिः) पण्डितरामाश्रमप्रणतिा । - - AAAAAAAAAAAAAAliaNATANDAVAEDDTDinanaaraalfARNATA/ श्रीमत्पण्डितसदानन्दकृतया सुबोधिन्या श्रीक्षेमकरसूनुपण्डितलोकेशकरकृतया तत्त्वदीपिकाख्यया व्याख्यया च समेता। खेयं क्षेमराज-श्रीकृष्णदास-श्रेष्ठिना मुम्बा स्वकीये श्रीवेङ्कटेश्वर" स्टीम् मुद्रणालये मुद्रयित्वा प्रकाशिता। संवत् १९८५, शके १८५०.. पुनर्मुद्रणादिसर्वेऽधिकाराः “श्रीवेङ्कटेश्वर" यन्त्रालयाध्यक्षाधीनाः सन्ति । anianRRASTAR AAAAAANARMA DRI-AND-daEASRAD ITIONS Page #2 -------------------------------------------------------------------------- ________________ इस पुस्तकको खेमराज श्रीकृष्णदासने बम्बई “श्रीवेङ्कटेश्वर" स्टीम प्रेस में छाप कर प्रकाशित किया । AAAA Page #3 -------------------------------------------------------------------------- ________________ विज्ञापना. झात एकायमथः सर्वैरपि गीर्वाणवाणीविलामरसिकः- यदिदं व्याकरणशास्त्र बदाङ्गेषु मुखवन्मुख्यम । तच शास्त्रं सूत्रात्मकम । “ऐन्दं मन्द्रं काशकलं नैनेन्द्र शाकटायनम । मारस्वतं चापिशलं शाकलं पाणिनी रकम् ॥ इति उलोकायुक्तरीत्या तत्कारश्च बहवः । तेषु कस्येदानी मुख्यत्वमिति किमर्थनेनातन्ति भिन्नभिन्नपथेन प्रवृत्तानीति तेषु पररूपरं वहुधा छचिवचिद्विरोध दति चेत्यादिशङ्कास्त्वप्रकृता इतीदानीमुदास्यन्ते । तदन्तःपाति यत्सारस्वतारूयं व्याकरणशास्त्रं तच्च श्रीमतानुभृतिस्वरूपाचार्येण वाग्देवतानुग्रह भाजनेन केनापि कारणेन दिनेनैकेन सप्तशतीमत्रात्मकं पाणिन्यादिव्याकरणा ययनकेशासहि. पणनां सालभ्याधायि व्यरचीति । तन्नेदं प्रायः भारतखण्डे नर्मदोत्तरोत्तरभागेऽध्ययनाध्यापनप्रचारपथप थिकमेव स्पष्ट दरीदृश्यते । ... तस्यास्य वृत्तयो व्याख्याश्च बढ्यो बहुभिर्विरचिताः सिद्धान्तचन्द्रिकायाः सुबोधिनीतत्त्वदीपिकाचन्द्रकीर्तिप्रभृतयः विद्वज्जनपठनपाठनपथसञ्चरिष्णूना महोपकारिण्यः ॥ ताश्चासकृन्मुद्रिता अप्यशुद्धप्रायत्वाद्विद्वज्जनानां तत्पुस्तके जिहासामसहिगुना मया मन्मुद्रालयाश्रितविद्वज्जनद्वारा संशोध्य प्रकृते उत्तराईमात्रस्य विद्रज्जनहदयङ्गमश्रीसदानन्दपण्डितकृतसुबोधिन्याख्यव्याख्या विद्वद्वरश्रीअमकरसन लोकेशकरशनकृततत्त्वदीपिकाख्यव्याख्या चेत्येवं व्याख्याद्वयोपेना सिद्धान्तचन्द्रिका विदुषां विद्यार्थिनां च तत्क्लेशनिराकरणद्वारा सन्तुष्टचित्तानामाशीषेषुणा संमुद्रापिता सती विद्योतते । __ पूर्वमस्य एकयाऽपि सुबोधिन्या साकमंङ्कितस्य सिद्धान्तचन्द्रिकोत्तरार्द्धस्य ग्रनमूल्यं तदेव मूल्यं टीकाद्वयोपेतस्य सुपुष्टस्वच्छपत्रेष्वरितस्याऽप्यस्येदानी गृह्यते। किनात्र अज्ञानभ्रान्त्यादिवशाद्यदशुद्धं जातं तत्सरलहृदयविद्वदभिः परिशोधन.यमित्यलं पल्लवितेनेत्यशेषमिति मङ्गलम् । _ विद्वज्जनकृपाऽभिलाषी क्षेमगज-श्रीकृष्णदासः श्रेष्ठी, "श्रीवेङ्कटेश्वर" (स्टीम् ) मुद्रणालयाध्यक्षो मबईस्था। Page #4 -------------------------------------------------------------------------- ________________ सिद्धान्तचन्द्रिकोत्तरार्द्धस्थमुख्यमुख्य विषयविभागः। - पृष्ठाङ्काः । .... . ... .. . • १२० : . . .. विषयाः । २ भ्वादि:२ अदादिः३ द्वादि:-. . ४ दिवादि:५ स्वादि:- . ६ रुधादि:७ तनादिः८ तुदादिः९ क्यादिः१० चुरादिः११ ञ्यन्तप्रक्रिया१२ सान्तप्रक्रिया१३ यङन्तप्रक्रिया१४ यलुगन्तप्रक्रिया१५ नामधातुप्रक्रिया१६ कण्डादि:१७प्रत्ययमाला । २८ पदव्यवस्था१९ भावकर्मप्रक्रिया २० कर्मकर्तृप्रक्रिया२१ लकारार्थप्रक्रिया२२ पूर्वकृदन्तप्रक्रिया२३ उणादिः (पश्चपादी) २४ उत्तरकृदन्तप्रक्रिया२५ (कृत्यप्रत्ययाः) १६४ .....१७५ . ... . १ . د سے سم س س .... . .. .. .. .. . . .. . . . E ९ Page #5 -------------------------------------------------------------------------- ________________ ॥ श्रीः ॥ सिद्धान्तचन्द्रिकोत्तरार्द्धस्थ - सूत्रादीनामकारादिवर्णक्रमः । पृष्ठाङ्काः। सूत्रादि. १८० अकर्मकाच १८४ अकर्मकाच १८४ अकर्मकाच १९६ अकर्मकाणां कालादिकर्मकाणां भावे कर्मणि च लकारः ३४२ अग्रेप्रथम पूर्वेषूपपदेषु क्वाणम वा ३०६ अघ्न्यादयः १६९ अङि पूर्वढस्य जो वा ६० आङ लघौ ह्रस्व उप धायाः ३१६ अङ्गिरादयः ३०० अङ्गेर्नलोपश्च २९२ अथादेरार: १३० असपरे नौ इङो गा वा १३० असयोः पूर्वस्योका - रस्येत्वं पवर्गयलजंकारेष्ववर्णपरेषु परतः २६२ अजिरादयो निपा त्याः २८७ अजिवृभ्यां णुः ३४ अजेरचतुर्षु वी वसादौ वा २७८ अजेवन २३६ अभ्चे: कितस्तस्य नत्वं न त्वपादाने २३५ अध्चे: पूजायामिट् १०६ अजे: सेर्नित्यमिद् २१६ अटौ २५ अद्वित्वव्यवधाने ऽपि षः ECD पृष्ठाङ्काः । सूत्रादि. ११ अतः २७ अत उपधायाः १४६ अतिशये हसादेर्यङ् द्विश्व २८ अतो हसादेर्लघोर्वा वृद्धि: सेटि सौ २०१ अत्यन्ताऽपहवे लिट् २२७ अदसोऽमूः ७२ अदादेर्लुक् ३१७ अदि भुवो डुतः ८ अ ३०७ अर्धश्व ३१४ अदेर्भक्ते धो नुम् व २३१ अदो जघुः ७२ अनुदादेर २२२ अधीने च ३४८ अधुवे स्वाङ्गे द्वितीयान्ते धातोः ८८ अन उस् १२ अनद्यतनेऽतीते दिपू ताम् अन् सिप् तम् त अभिपू व म तम् आताम् अन्त थास आथाम् ध्वम् इ वह महि १४७ अनपि च हसात् १४३ अनिटि से उपधानस्य लोपः २६ अनिटोsनामिवतः २९७ अनिहृषिभ्यां किश्च २४९ अनुदात्तेतो हसादेकर्मकात् पृष्ठाङ्काः । सूत्रादि. १८८ अनुपराभ्यां कृञः पम् १८४ अनुपसर्गज्ञः २३६ अनुपसर्गात्फुल्लक्षीबकृशोल्लाघा निपात्यन्ते ९८ अनुपसर्गाद्यसः सम्पूर्वाच्च यो वा १८४ अनुपसर्गाद्वा १८४ अनुपसर्गाद्वा २१२ अनुपसर्गेभ्यो लिम्पविन्दधारिपारिवेद्युदेजिचेतिसातिसाहि भ्यः शः २०६ अनेकक्रियासमुच्चये वा लोट् तस्य हिस्वौ तमोर्विषये वा १०१ अनो रुध कामे १८७ अनोजनातर्न २६५ अन्द्वादयः २९ अन्यत्राकखादावषान्ते आधोचारणे वा २८१ अन्येभ्योऽपि युः ३५१ अन्वक्छब्दे . भुवः क्त्वाणमौ वा आनुकूल्ये गम्ये ३४८ अपगुसेर्वा णम्योतः ३१६ अप्पूर्वः सर्तिः १८४ अपह्नवे ज्ञ: १७८ अपात् किरते: सुट् चतुष्पाच्छकुनि कर्तृके आलेखने ३४८ अपादाने द्वितीयायां चत्वरायां गम्यमानायां धातोः Page #6 -------------------------------------------------------------------------- ________________ (२) पृष्ठाङ्काः । सूत्रादि. १८८ अपाद्वदः ७ अपित्तादित्ि २२३ अपिद्दाधागैहाकपिबतीनामीः किति हसे कपि वा न तु क्यपि ६२ अपिद्दाधास्थामित्से"डित्त्वमाति न तु दीङ: ५३ अपि रजदंशसञ्जस्व - नस्यलोपोवाच्यः ३४१ अपूर्वकालेऽपि कचित् ७ अ कर्तरि २४४ अप्ययोरान्नित्यम् १८३ अप्रतिबन्धोत्साह स्फतितासु क्रमः १७० अप्सरसोजस्सुमनसां नित्यम् ८६ अबादावपिति मि ३०४ अब्दादयः १८८अभिप्रत्यतिभ्यः क्षिपम् २२० अभूततद्भावे कृभ्वस्तियोगे नांम्रश्व्वि: २४० अभ्यर्णमाविदूयें २१९ अमनुष्यकर्तृके च ३११ अमादेः क्त्रः २८९ अमादेरत्रः २७६ अमितम्योर्दीर्घश्व ३१८ अमे: सः २६१ अमेर्दीर्घश्च ३१५ अमेहुक् ११५ अयकि ६१ अयतौ प्रादे रेफस्य लत्वम् १२५ अय्वृलोपिनो नाङ्कार्यम् २८३ अर्ध्यादेरिस् सिद्धान्तचन्द्रिकोत्तरार्द्धस्थ सूत्रादि. पृष्ठाङ्काः । २५८ अर्जिहारीकम्यामपशिव धामृपिशितुदीर्घका २९८ अर्जेऋजः १७३ अर्थवेदसत्यानामा पुग् नौ २७९ अर्तेः किदिर् च ३१८ अर्ते: क्युरुर् च २८९ अर्तेरन्यः ३१४ अर्तेरुर: २९९ अर्तेरुर्च २६४ अर्तेस्तुक् ५० अत्त्यर्तिव्ययतीनां 'थपो नित्यमिट् २८३ अर्त्यादेरनिः २९१ अर्त्यादेररः २९३ अर्त्यादेर्भः ३०६ अत्यादेर्वन् ३२१ अर्भकादयः २४६ अर्ह पूजायाम् ३४० अलखल्वोः प्रतिषेधे २९७ अलीकादयः ३२२ अवतेरमो धो वा १८५ अवाङ्गिरतेः २९४ अवितृस्तृत त्रिभ्य ई: २६० अविद्यारिषट् २२१ अव्ययस्य च्वावीत्वं न ३४९ अव्ययेऽयथाभिप्रेता ख्याने कृञः क्त्वा - णमो वा २७२ अशादेः क्व: ३११ अशित्रादिभ्य इत्रोत्री १४१ अशेरनायो वा ३०८ अशे रु ३१३ अशेर्युट् स्तुतैौ २९९ अश्नोतेरश्च १६६ अश्ववृषयोर्ये सुक सूत्रादि. पृष्ठकाः । मैथुनेच्छा ३३ असवर्णे स्वरे पूर्वस्येवर्णोवर्णयोरिव २४८ आस उस अन अके घिनुण रञ्जर्नलोपो वाच्यः २९४ असिसञ्जिभ्यां क्थिः ७९ अस्तेरनपि भूः ७८ अस्तेरीट् ८२ अस्यतिवक्तिख्यातिभ्यो ङो लुङि ९८ अस्य स्थुक १२३ आकुस्मादात्मनेपदिनः १७७ आगमेः क्षमायाम् २६४ आगरे णित् १७९ आङ्: प्रतिज्ञायाम् १८३ आङो ज्योतिरुद्रमने १७७ आङो दामो न तु विकसने १७८ आङो नुप्रच्छो: १८० आङो यमहनिभ्यामकर्मकाभ्यां स्वाङ्गकर्मकाभ्यां च २५९ आङ्परयोः खनिशृभ्यां डिव ३०९ आङ्पूर्वी श्रिहनी १७१ आचार उपमानातू ३७ आच्छेनुर्वाणादौ १४७ आत: ६६ आति सको लोपः स्वरे ११४ आतो ड: ४८ आतो बड ४८ आतोऽनपि २० आतोऽन्तोऽदनतः २२३ आतो मनिकनिब्व • निपः Page #7 -------------------------------------------------------------------------- ________________ - नुम्भौ सूत्रादीनामकारादि वर्णक्रमः । (३) पृष्ठाङ्काः। सूत्रादि. | पृष्ठाङ्काः। सूत्रादि. | पृष्ठाङ्काः। सूत्रादि. आथाम् ध्वम् ऐप् आव-| १३३ इणो ना वा गमिर१९३ आतो युक् ___ हैप् आमहैप् बोधने ३ आदनुदात्तडितः १६ आशीर्यादादेः५ कित् १९१ इण् तन्यकर्तरि ७३ आदन्ताद् द्विषोऽन | २८० आशेरशादेशो युप्रत्ययः २५१ इनशजिसर्तिभ्यः कउसू वा २०२ आसन्नकाले पृच्छथ रट्यू १९ आदाथ ई: मानेऽर्थे ललिटौ ७७ इण्वदिकः २३१ आदीदितः २२६ आ सर्वादेः १९२ इण्वदिटि बेर्लोपः २५२ आहतः किर्द्विश्व भूते २४४ आसेरान ई: १९४ इण्वदिटो न दीर्घः २३ आदेः ष्णः स्नः १४० इ. से ३३२ इषस्तुभृवृशासुजुष्१८९ आद्भुवि कर्मणि ३३८ इक् कृष्यादिभ्यः खनः क्यप् च ३४६ आधारे बन्धः ३३७ इश्तिपौ धातुनिर्देशे | १८८ इतरेतरान्योन्यपरस्प३१४ आप उदके ह्रस्वो २१७ इखखि रोपपदाच १४० इङः से गम् २३ इदितो नलोपो न २७९ आप्नोते क्विपू ह्रस्वश्च ८४ इङो णादौ गाङ् । २३ इदितो नुम् १४१ आप्नोतरीः ८४ इङो वा गीर्लुङ्लुङो- | ३१० इन्देः कमिनलोपश्च ३४१ आप्नोतर्वा गुणरिभावश्च २२ इरितो वा . १४ आभ्वोर्णादौ १३० इक्रीजीनामात्वं नौ १४२ इवन्तऋधभ्रस्जश्रिस्वृ७८ आमि विदेर्न गुणः २४६ इधायॉरकृच्छ्रिणि यूर्णभृसनिभ्यः सस्येड़ा ५६ भामो भ्वसोनत्किर्तरि कर्तरि शत १४३ इवोवर्णोपधाद्धसादे४१ आय: १३८ इच्छायामात्मनः सः रसान्ताद्धान्ताच्च क्त्वा९६ आलिङ्गने श्लिषेः सक् २०५ इच्छार्थेभ्यो लिङ् सौ सेटौ वा किती डोपवादः ___ लटौ वर्तमानेऽर्थे २९४ इषः क्सुः २२६ आशासः क्वावुपधाया २०५ इच्छार्थेषु लिङ्लोटौ ईत्वम् ४६ इषुसहलुभीरषरुषामकामप्रवेदने कामप्रवेदने २१८ आशिते भुवो भाव नपि तस्येड्डा ३२४ इच्छार्थेष्वेककर्तृकेषू इच्छाथप्वककतृकषू- २४७ इष्णुस्नुक्न शील करणयोः खः पपदेषु धातोस्तुम् । १५ अशिषि यात् यास्ताम् २९३ इण्यशिभ्यां तकः ३३८ इञजादिभ्यः यासुम यास् यास्तम् २२६ इसमन्त्रकिषु च्छा. ३१ इट ईटि यास्त यासम् यास्व देह्रस्वः २९३ इणः कित् यास्म सीष्ट सीयास्ताम् ३३० ई चातः सीरन् सीष्ठास् सीया ७६इणः किङति णादौ पू- ५२ ईटो प्रहाम् स्थाम् सीध्वम् सीय वस्य दीर्घः | ८३ ईडीशिभ्यां सध्वयोरट् सीवहि सीमहि ७६ इणः किति स्वरे यः | ९० ईर्वाही ११ आशी:प्रेरणयोः तुप् १४३ इणः से गमबोधने | १३७ ईय॑तेस्तृतीयो विस्तृताम् अन्तु हि तम् त ३१५ इण आग अपराधे । तीये हस एकस्वरो वा .. आनिप् आवप् आमप् ३१४ इण आगसि ३२८ ईषदुःसुषु खल्यू .' ताम् आताम् अन्ताम् स्व । २८४ इणादेनक । ११६ ई हसे राष्ट्र Page #8 -------------------------------------------------------------------------- ________________ सिद्धान्तचन्द्रिकोत्तरार्द्धस्थ - - - - Tor: 1 सूत्रादि. | पृष्ठाङ्काः। सूत्रादि. | पृष्ठाङ्काः। सूत्रादि. ६६ : ३४उवर्णान्तेषु हुन्वोरेवापि ८९ ऋपोरिः पूर्वस्य २०४ उताप्योबीढार्थयोंलिड ३१६ उषः कित ५८ ऋवर्णदृशो गुणः २०४ उत्तमपुरुषे चित्तविक्षे- २७४ उषादेस्थः ३९१ ऋषिवृषिभ्यां कित् पादिना पारोक्ष्यम् ८०उसि गुण: ३३० ऋहसान्ताद् ध्यण २३७ उत्फुल्लसंफुल्लो च। ४९ उस्यालोपः ५२ ऋत इर् १६५ उदकस्योदन पिपा. २२५ ऊच ३३६ ऋल्वादिभ्यः क्तेनिः सायाम् २५ ऊदितो वा २२ ऋसंयोगान्न ३१४ उदके नुट् ८७ ऊर्णेतेराम्न २१८ एजां खश . १८६ उदश्चरः सकर्मकात् ८७ ऊोतेरिडादिप्रत्ययो २८४ एतेर्णित् ३४० उदितः क्त्वो वेट् वा ङित् ३३१ ओदोतोर्यः स्वरवत् ३१८ उदि दृणातेर उदो ८७ ऊोंतेर्गुणो दिस्यो- ३३० ओरावश्यके दलोपश्च वृद्धरपवादः ७५ ओरौ १७९उदोऽनूर्ध्वकर्मणीहायाम् | ३२१ ऊर्णोतेर्डः ४७ ओर्वा हेः १८० उद्विभ्यां तपोऽकर्मका- | २५९ ऊर्णोतेर्नुलोपश्च ४७ ओोर्वा लोपः स्वाङ्गकर्मकाञ्च १३६ ऊर्णोतेर्नेट १३२ कणरणभणश्रणलुपहो२५६ उन्देरिश्चादेः ८७ ऊोतेर्वा वृद्धिहसादौ ___ठह्वेनवाणिलोटिलोठिलो २८१ उन्देर्नलोपश्च | पिति चतुर्यु पीनां वा ह्रस्वोऽङि ३४७ उपदंशस्तृतयिायाम् । ३४६ ऊर्वे कतीर शुषिपूरोः | १७५ कण्ड्लादिभ्यो धातु१२१ उपधाया ऋवर्णस्य १६७ ऊष्मबाप्पधूमेभ्य उद्व- भ्यो यक स्वार्थे ऋवाऽपरे बौ इररा मने ३४२ कथमादिषु स्वाथें रामपवादः १११ ऋच्छेनाम् कृयो णम् २० उपधाया लघोः १११ ऋच्छलिटि गुण: २०३ कदाकह्योर्वा भविष्य१८३ उपपराभ्याम् २३७ ऋणमाधमण्ये ति लट् ३४६उपमाने कर्मणिकर्तरिच ७१ ऋतेरीयङ् स्वार्थ २६७ कमादेरठः १८२ उपसर्गादस्यत्यूहोर्वा नपि तु वा ५९कमेःस्वार्थ बिङनपितु वा २१० उपसर्गे आदन्तात् । ३३६ ऋतोऽङि गुणः ६० कमेरङ् द्वित्वे ११४उपात्किरतेः सुछेदेऽर्थे १५० ऋतोरिङ् १३४ कम्पने चलिः १८६ उपाद्यमः स्वीकारे ५२ ऋदन्तात्थपो नेट १६७ करणे च नाम्नः । १७९ उपान्मन्त्रकरणदेवपू- | १५३ ऋदन्तानामृदुपधानां ३४५ करणे हनः जासंगतिकरणामत्रक- च यङ्लुकि पूर्वस्य रु- ६ कर्तरि पंच रणपथि निग्रीकः १६९ कर्तुर्या ३१३ उब्जेबले बलोपः १०३ ऋदन्तात्संयोगादेः | ३४६ कत्रोंजीवपुरुषयोर्न२१५ उरसो लोपो मुम्वा | सिस्योरिडाति शिवहोः डान्ते गमी ३ १ ऋदुपधात्क्यप् ३४४ कर्मणि दृशिविदोः २९९ उलूकादयः १४२ ऋधेरनिटि स्वरस्य साकल्ये ३०४ उल्बादयः इत्विलोपश्च | २१९ कर्मणि संपूर्वाच्च पग Page #9 -------------------------------------------------------------------------- ________________ सूत्रादीनामकारादि वर्णक्रमः। भ्यः पृष्ठाकाः। सूत्रादि. सूत्रादि. पृष्ठाङ्काः। पृष्ठाङ्काः। सूत्रादि. ३४४ कर्मणोश्चर्मोदरयोः पूरेः २५७ कृमोरुरङ्च । ३०७ क्रमितमिशतिस्तम्भाम३४३कर्मण्याक्रोशेकृत्रःखमुन् २३९ कृच्छ्रगहनयोः कपः ३४४ कर्मण्युपपदे पूरेरूलो- २६४ कृषः कतुः २००क्रमेः कर्तर्याद्विषयात्कृत ___ पश्च वा वर्षप्रमाणे गम्ये ३२१ कृषः पासः इण्न १८८कर्मव्यतिहारे धातोरात् ३२० कृत्रादेवुः २८८ क्रादेः कः ३०२ कलिकोरमः १०८कृयो नित्यं वमोरुलोपः ३०९ क्रादेः किः १५०कवतेः पूर्वस्य चुत्वं यङि ३३४ कृषो यग्वा २९० क्रादेरभः २६८ कवर्गादिभ्यः किच्च १०८ कृतो ये २९८ क्रादरीर: २६५ कषेश्छश्च २०८ कृतः २९७ क्रादेषिः १६७ कष्टाय क्रमणे २९३ कृतः कित् २५३ क्रादेरुण १६५ काम्यश्व २०८ कृत्कर्तरि १५ कादेर्णादेः ३१० कायतेर्डिम् ३३१ कृपिघृत्योर्न २७८ क्रिय इकः २१३ कार्येऽण. ६३ कृपेस्तादौ पंवापेऽनि ३४९क्रियान्तरेषु कालेषु द्वि३२४ कालसमयवेलासु त्वं च तीयान्तेषूपदेषु क्रिया३१ कासादिप्रत्ययादाम् ६३ कृपो रोल: व्यवधाने वर्तमानयोरक्रसभूपरः ३३२ कृवृषोर्वा क्यप् __ स्यतितृषोः २६५ कास्वादयः | १७७ क्रीड आङनुसम्परि ४५ कृषमृषस्पृशमृशतृपहपां २३० कित: वा सिः २२७ किमिदमः कोश ३२२ क्लिशेरः इचोपधाया ४५ कृषादीनां वा १७८ किरतेहर्षजीविकाकु ___लोपश्च लो नाम् च २६५ कृषादेरूः लायकरणेषु ३२० किशेलस्य लोपश्च ३७४ कृहृमोरेणुः २६१ किलेबुक् च २२० कचिड्डा २६३किशोरादयो निपात्यन्ते १३९कृगृधृप्रच्छिभ्यःसस्थट् २३४कचिद्वेटःक्तक्तवत्वोर्नेट ११२कुटादेठिणद्वर्जः प्रत्ययो ३१३ कृतृकृपिभ्यः कटिः । २४२ कसुकानौ णबेवत् ३२९ केलिमः २४ कि डितू ३१० कारेरः २२४ किपि वचिप्रच्छयाय३०२ कुपेर्वा वः । १६१ डिति झसे क्वौ बमे २६३ कुबेरादयोऽपि तस्तुकटपुजुश्रीणां दी. च छस्य शो वस्य ऊः १०८ कुरुच्छरोन दीर्घः घोऽसंप्रसारणं च २९२ कुवः किद्रुट् च ८ कृित्यद्वथुसि १७२ किबपि ३०३ कुवश्चद् दीर्घश्च २२८ क्तक्तवतू २२८ किम्वनिब्डाः २७४ कुवादेः क्थः ३३५ क्तिः २७८ क्वुः शिल्पिसंज्ञयोः २०० कुषिरजोः कर्मकर्तरि २२९ तो वा सेट ३२२ क्षमेरलोपश्च तिबादौ ३३९ क्त्वा सेट् किन्न २३५ क्षायो मः ३०५ कुसेसम्भोमेदेताः ३४१ क्यापि लघुपूर्वात्प- २०३ क्षिप्रवचने लट् १२४ कुस्मनाम्नो वा रस्य मेरय २३३ क्षियो दीर्घः कर्तरि २३ कुहोश्चुः ३४१ क्यपीत्वाभाव: तक्तवत्वोनत्वं च २५४ कृके वचः कश्च । ४२ क्रमः पे दीर्घोऽब्विषये | १६६ क्षीरलवणयोलीलसा. Page #10 -------------------------------------------------------------------------- ________________ (६) सिद्धान्तचन्द्रिकोत्तरार्द्धथ . शृतम् पृष्ठाङ्काः। सूत्रादि. | पृष्ठाङ्काः। सूत्रा, पृष्ठाङ्काः । सूत्रादि. यां सुक् २८१ गमेर्गान्तादेशश्च ७७ डिस्यदुः २४० क्षीरविषोः पाके. २८० गमे?: ७९ डे वचेरुम् २८४ गहीयां लडपिजात्व ८२ चरिडोऽनपि ख्याज२३८ क्षुब्धस्वान्तध्वान्तलग्न कालत्रये ___क्शाञौ णादौ तु वा म्लिष्टविरिब्धफाण्ट ३१९ गलेः फो गस्योच्च २४८ चजोः कगौ घिति बाढानि मन्थमनस्तम: २१२ गवादिषु विन्देःसंज्ञाय २६६ चटेरुलः २१६ गष्टक सत्ताविस्पष्टस्वराना ३२२ चतरुरः ३१० गिर उडः यासभृशेषु ३१५ चन्देरादेश्च च्छः २६६ गिरतरुतिस्तस्य सुट् ३१६ चन्द्रे माङो डित् ११९ क्षुम्नादिषु न णत्वम् १४९ गिरतेरेफस्य लत्वं यहि १४९चरफलोः पूर्वात्परस्यात ३३२ खन इत्वं क्यपि ७ गुणः उद्यङ्लुकोः ३१८ खनेर्मुट डप्रत्ययः ५० गुणोऽर्तिसंयोगाद्योः २३७ चरफलोरत उत्ति किति ३०३ खर्जादेरूरः ३१७ गुधेरूमः ३११ चरादेरित्र १२० खवो वस्य औ ने ५३ गुब्भ्यः २१०चरिचलिपतिवदीनां वा २१८ खशन्ते पूर्वपदस्यान- ३३६ गुरोहसात् द्वित्वं पूर्वस्यागप्रत्यये व्ययस्य ह्रस्वः ६७ गुहेरुपधाया ऊद् गुण- ३२३ चरेश्च २१७ खिति पदस्य हेतौ स्वरे २४९ चलनशब्दार्थादकर्म२२२ ख्युट करणे १८७गृधिवञ्चिभ्यां न्यन्ता कायुः २९२ गडे: कड च भ्यां प्रतारणे १२२ चह चप परिकल्कने ३०२ गण्डेश्व ११३गिरतेः स्वरे रस्य लो वा १४८ गत्यर्थात्कौटिल्ये एव २६४ चायः किः । ६९ ग्रहां ङिति च यङ् ३२५ ग्रहादीनामिद १५१ चायः कीर्यङि २२९ गत्यर्थादकर्मकाच्च २१९ चारौ वा ३२२ ग्रहेरनिः कर्तरि क्तो भावकर्म२७३ ग्रीवादयो वप्रत्ययान्ता १२२ चिञ् चयने मित् णोरपि ३१२ चितेः कणः कश्च निपात्यन्ते २७८ गभीरादयः ३३५ ग्लादेनिः १०२ चिनोतेः सणादौ किर्वा २४३गमहनविविशदृशां वा | २८० ग्लानुदिभ्यां डौः १२२ चिस्फुरो वात्वं वा ४२ गमां छः १३६ ग्लास्नांवनुमां च ३२० चीकयतेराधन्तवि४३ गमां स्वरे ३२५ घार्थे कः पर्ययः २२५ गमादीनां बमस्य लोपः ३२५ घार्थे भावे १७३चीवरादर्जने परिधाने च विपि क्यपि वा ५५ घसादेः षः १२० चुरादेः २७० गमादर्गः २३९ घुष्टोऽविशब्दने ४४ चैलाथेषु कर्मसूपपदेषु १४० गमः सस्ये नाति ३०० घृण्यादयः ___ कोपर्वषप्रमाणे १८१ गमेः सिस्यौ कितौ वा | २३०ध्यणि कचित्कुत्वाभावः ७२ चिरपि ३११ गमेरा १५१ घ्राध्मौरीर्यङि २१ विविषये साद्वा २९५ गमेरिनिर्भविष्यति । ८९डिति हसे भीहाकोरिद्वा । २० च्वी दीर्घ ई चास्य __ मित् Page #11 -------------------------------------------------------------------------- ________________ सूत्रादीनामकारादि वर्णक्रमः। (9.) . पृष्ठाङ्काः। सूत्रादि, | पृष्ठाङ्काः। सूत्रादि. पृष्ठाङ्काः। सूत्रादि. २२० च्चो सलोपः १२२ ज्ञपज्ञापनयोर्मित ३२७ ट्वितोऽथुः ३४३ व्यर्थेषु स्वाद्वथै १४१ ज्ञपेः स्वरस्य सादी से | ३२७ डितस्लिमक् तत्कृते कृषो णम् स्यादेकक ईत्पूर्वलोपश्च ४६ ढि ढो लोपो दीर्घश्च र्तृकयोः पूर्वकाले पूर्व१०० ज्ञाजनोर्जा ५४ णबादौ पूर्वस्य पदस्य मान्तत्वं नि१८६ज्ञाश्रुस्मृदृशां सान्ताना २७णबुत्तमो वा णित् पात्यते मात् १४ णादिः कित् ८० जक्षादेरन्तोऽदन उस २५० ज्यादेरिनिः . २७ णित्पे ३०५ जनादयः ४० जनसनखनामात्वम. | २२७ णिनिरतीते | १६२ वरत्वरस्रिव्यविमवामुपधावकारयोरूः को ४७ तक्षेस्तनूकरणे निटि से किङति झसे झसादौ बमादौ हकारे यादौ किङति वा नुर्वा अविषये २८४ जनादेरुस ३०५ तण्डुलादयः च प्रत्यय ७४ जनिवध्योर्न वृद्धिः | १३६ ज्वलहलहलनमामनु २६ तथोर्ध: पसर्गाद्वा १०७ तनादेरुप् १३५ जनीजष्नसुरजो२१२ ज्वलादेर्णः १०८ तनादेरुपधाया गुणो ऽमन्ताश्च वोपि ३२१ जनेररष्ठ च ५० ज्वादश्च १०७तनादेस्तथासो सेलक ३१९ जनेरो जङ्घ च १५ झपानां जबचपा: १४१तनेः सादौ से वा दीर्घः २५४ जभेर्यु २७ झसात् ३२१ तनोतेर्डउःसवच २६६ जनेबुक ७२ झसाद्धिहः १९३ तनोतेर्वाऽऽत्वं यकि ३०६ जनेर्यक् १४८ अमजपा नुक २५७ जनेस्तश्च १९३ तपो नेण कर्मकर्तर्य२२३ बमस्यात्वम् ७४ जोधिशाधि - नुतापे च १७१ अमरय क्ङिति झसे २६९ तमादिभ्यः कालः २५१ जागतेंरूकः २६८ बमान्ताडुः ३२२ तरतडि ८० जागर्तेणिडद्भि- १६८ बाविष्ठवत्कार्यम् २७९ तलिपुलिभ्यां च नेषु गुणः । ३ अित्स्वरितेत उभे २०४ जातुयद्यदायदियोगे १६८ बिर्डिकरणे ३३३ तव्यादयोऽहऽर्थे विधी शक्तौ च वक्तव्याः लिङ् लटोऽपवादः २००मिश्रिवाश्रन्थिमन्थ्या ३२९ तव्यानीयौ २१९ जायापत्योष्टक् लक्ष- दकर्मकाणां यगिणौ न । म णवति कर्तरि २३१ जीतां तक वर्तमानेऽपि | | २४६ ताच्छील्यवयोवचन१३३ जिघ्रतरुपधाया ६० ः इद्वाऽङि शक्तिष्वान ५९ बेरङ् द्विश्च २४७ जिभुवोगुणौ स्नौ २६७ ताडेबिलुक् च २७१ जिह्मादयो निपात्यन्ते । १२७ ञ्यन्तात् मिः । ३५० तिर्युपपदे समाप्तौ कृतः २४२ जीयतेरत ३३७ ज्यन्तार्थासश्रन्थघट्टि क्वाणमौ वा २६४ जीवेरातृको वृद्धिश्च । . वन्दिविदिइषिभ्यः १२८ तिष्ठतेराङयुपधाया इत् २२५ जुहोते खियां युः १०९ तुदादेरः Page #12 -------------------------------------------------------------------------- ________________ (८) सिद्धन्तचन्द्रिकोत्तरार्द्धस्थ = पृष्ठाङ्काः। सूत्रादि, पृष्ठाङ्काः। सूत्रादि. पृष्ठाङ्काः। सूत्रादि. २१५ तुन्दशोकयोः परिमृ- ९१ दां हो ९६ दूषेरीकः जापनुदारालस्यसुखाह२१३ दाजधानोर्वा ३३९ हेढः स्थूलबलयोः रणयोः कः १८६ दाणश्चसा चेञ्चतुर्थ्यथे ३१३ दणातेह्रस्वः ३२४ तुमर्थे वुण ९१ दादेः ४९ दशादेः पश्यादिः ३२३तुम् तदर्थायां भविष्यति १८ दादेः पे ७५ तुरुस्तुभ्योऽद्विरुक्तेभ्यो २११ दृशादेः शः १५० दादेरिः __हसादीनां चतुर्णामीड्डा २२६ दृशेष्टक्सको चोप२५० दादेरुः माने कार्ये ११ तुझोस्तातडाशिषि वा | ४८ दादेरे ६१ देङो णादौ दिग्या३५० तूष्णींशब्दे भुवः क्त्वा- | २४० दान्तादयो वा निपा देशो द्वित्वाभावश्च णमो त्यन्ते २२२ देवमनुष्यपुरुषपुरुम२८७ दाभाभ्यां नुः ३४८ तृतीयासप्तम्योः प्रमाणे त्येभ्यो द्वितीयासप्तगम्ये धातोः २१८ दारावाहनोऽणन्तस्य म्यन्तेभ्यो वा त्रा ३४८ तृतीयासप्तम्योरुपपद- चट:संज्ञायाम् योः सन्निकर्षे धातोः ८१ दिपि २२२ देये त्राच २०८ तृवुणो १३ दिबादावट २३३ दो दत्ति ३१७ तृहेः को हलोपः ९३ दिवादेर्यः ६२ दुतादिभ्यो लुङिवा १०६तृहो नमि कृते इमा- २९० दिवः कित् पंपे ङः गमः पिति हसे २८३ दिवेत्रः २२५ द्युतिगमिजुहोतीनां ४४ तृफलभजत्रपां किति ३३६ दिवोऽविजिगीषायाम् किपि द्वित्वम् णादौ सेटि थपि चत्व- । ७४ दिस्योहंसात् ६२ श्रुतेः पूर्वस्य संप्रसापूर्वलोपी ९९ दीडो युट् क्तिःस्व. रणं स्वापेश्च १११ तृफादानामप्रत्यये नुम् रस्य २८३ द्युतेरादेर्जः १६ त्यादौ भविष्यति स्यप् ५८ दीपजनबुधपूरितायि- २३६ द्रवस्य काठिन्ये स्पर्श२५४ बोरस्य लः प्यायिभ्यो वा इण चार्थे श्यैः संप्रसातनिकर्तरि सेरपवादः रणं कितस्तस्य नत्वं ३२१ दधातेयों नु च ३२ दुग्वोर्दीघश्च च न तु स्पर्श ३१६ दमरुनसिः ३१ दुषेनौं दीपों वा १७९ द्रुदक्षिम्यामिनः २८०दमे स् चित्तविराग १५९ द्रोश्च १४१दम्भिज्ञापिभ्यां सस्य वेट् | २२६ दुहः को घोऽन्तादेशश्च १४९ द्वितीयान्ते विशिप. १४२ दम्भरिच्च ६७ दुहदिहलिहगुहूभ्यः, तिपदिस्कन्द प्याप्य१०४ दम्भोलटयेत्वपूर्वलोपी सको लुग्वा वकारतवर्ग मानासेव्यमानयोः ८१ दरिद्रातेरनप्यलोपः सौ योराति ११३ द्विश्च वा णब्वुणानदसयुट्सु न | १९८ दुहश्च २३८ द्विश्च ८१दरिद्रातेरिदालोपश्च डिति | १९८ दुहस्नुनमा कर्मकर्तरि २४६ द्विषः शत्रौ ३१७ दंसेष्टो न आ च यगिणौ न ८८ द्वेः ३१७ दंशेश्व १९८ दुहिपच्योः सकर्मक- ९२३ः स्वरेऽपि नोपधागुणः २३१ दस्तस्य नो दश्व योवा ९. देस्तो Page #13 -------------------------------------------------------------------------- ________________ सूत्रादीनामकारादि वर्णक्रमः। R EAK पृष्ठाङ्काः। सूत्रादि. पृष्ठाङ्काः। सूत्रादि. | पृष्ठाङ्काः। . . . सूत्रादि. १६५ धनस्य नेकारो गाद्धर्थे । २७३ ननि जहातेः । ४ नानि च युष्मदि ३४६ धनार्थे करणे पुषः ३८२ नबि नन्देश्च चास्मदिच भागैः २८१ धाश्च ३१६ नञि हन एह चासिः | ३४९ नाग्नि द्वितीयान्ते २३४ धानो हिः किति ते २०२ ननौ पृष्टप्रतिवचने आदिशिग्रहोः । १ धातोः भूते लट् १६४ नाम्नो य ई चास्य १२६ धातोःप्रेरणे २०२ नन्वोर्वा १६६ नाम्नो ये लालसायां ३१३ धातोरसुः २८२ नप्तृनेष्टुत्वष्टक्षत्तृहोत. पोतृप्रशास्तृभ्रातृजामा३०७ धातोरेः सुगसुको १२३ धातोरुपधाया ऋत इर् २३४ नाम्यन्तोपसर्गस्य तृमातृपितृदुहित एते __ निपात्यन्ते सृप्रत्यया३२ धातोर्नामिनः दी| दादेशे तकारे ३१० धातोत्रः २०९ नाम्युपधात्कः न्ताः ३३७ धात्वनिर्देशे १६७ नमसः पूजायाम् ३०७ नाम्धुपधात्किः वक्तव्यः . ७८ नमसोऽस्य ९२ निजां गुणः २८५ धादेनः २५१ नमादेरः २७६ निद्रादयः ४६ धिन्विकृण्व्योवस्य २५७ नमे किश्च २४१ निनदीभ्यां स्नाते: ३८३ नयतेर्डिच्च लोपो गुणाभाव उप्प्र सस्य षः कौशले १२४ न रितः त्ययश्चाविषये १२४ नवगण्यामुक्तेभ्यो हिं २४९ निन्दादेवुन् २८४ धीवरादयः प्वरप्रत्य ___ सार्थेभ्यः स्वार्थे निः ३४५ निमूलसमूलयोः कषः यान्ता निपात्यन्ते ४ नव पम् कषादिषु यथाविध्य१२४ धूअप्रीञोर्नु बौ ३१४ नहेर्दिवि भः नुप्रयोगः प्रयोक्तव्यः . २८१ धृषेधिषश्च ३१८ नहेर्ह लोपश्च २९९ नियो मिः २३८ धृष्टविशस्तावविनये ३०८ नहो भः ११९ निरः कुषो वसादेरन२८७ धेट इच्च ११६ ना ऋयादेः पीड़ा ४९ धेटो भूतमात्रे दिवा- ११६ नातः ११३ निनिविभ्यः स्फुरतिदिपरो ङो वा द्वित्वं च | ६४ नाथ आशिष्येवात्मने स्फुलत्योः सस्य षो वा १३४ ध्वन शब्दे पदम् १७६ निविशादेः २३४ ध्याख्यापृमूर्छिमदिभ्यो ३५० नाधार्थप्रत्ययान्ते च्व्यर्थ कृत्रोः क्त्वा-- २७५ निशीथादयः णमो वा १८२ निसमुपविभ्यो ह्वः ३०७ ध्याप्योः संप्रसारणम् २२४ ध्यायतेः किपि संप्र ३०८ नीव्यादयः १३९ नानिटि से ४० नामधातुष्वकष्ठियां | ३० नुगशाम् सारणम् ___ सत्वं न २३३ नुदावेदोन्दनाघ्राही२० वे सेलोपः १७० नामधातोर्वृद्धिी सौ निर्वाभ्यो वा १३६ न कम्यमिचमाम् ३१० नामादयः ३४ नुधातोः १८८ न गतिहिंसार्थपठज- | १९ नामिनोऽचतुर्णा धो ढः ___९४ नृततृमृदचूतकृद्योल्पहसात् १७० नाम्न आचारे किबू वा sसेः सादेरिड्डा ३२७ नकी २१४ नानि च ३५ नैकस्वरादनदाचात् न नत्वम् Page #14 -------------------------------------------------------------------------- ________________ (१०) सिद्धान्तचन्द्रिकोत्तरागपृष्ठाङ्काः। सत्रादि. पृष्ठाङ्काः। सूत्रा . पृष्ठाङ्काः। सूत्रादि. ३३९ नोपधात्थफान्ताद्वा शिल्पिनि निपात्यौ २८१ पृषदादयः २३ नो लोपः ३१४ पातेरुदके थुट २९० पृषिरजिभ्यां कित् २१२ नौ लिम्पेः १२९ पातेनौं लुक २८९ पृषेश्च पस्य जः ३०३ नौ षर्घथिः ३०० पातेडतिः ३०१ पूनहिकलिभ्य उपः २८८ नौ सर्डिन ३१२ पातडुम्सुः ५३ पै सेरिटो न दीर्घः २५८ न्यवादेः कुः २८६ पादःपः २८६ न्यादेः कित् सीप्टादेश्व १२९ पादयुक ८९ पोरुर् २१० पचिनन्दिग्रहादेरयु १५२ पितः स्मो वेट णिनि . ३४२पौनःपुन्येणम् पदं द्विश्व ३२२ पिबतेः कः ३२० पचिमच्योरिरतः २०५ पौनःपुन्ये भृशार्थे च २३५ पचो वः २१६ पिबतेः सुराशीध्वोः धातोर्लोट् सर्वलकार२८० पणेरिज आदेवः १२९ पिबतेरङि पूर्वस्येकार विषये तस्य हिस्वी १४१ पततनदरिद्राभ्यः उपधालोपञ्च सर्वतुबादिविषये तध्वसस्येड़ा ३०१ पीयेरूषः १२८ पुकि गुणः मोर्विषये वा क्रियास. ४६९ पतादिभ्योऽङ्गः २६९ पतिचण्डिभ्यामाला मभिहारे द्वित्वं तस्यैव १७२ षुच्छादुदसने व्यसन धातोरनुप्रयोगश्च ३०१ पतेरत्रिः पर्यसने च बिक २३२ प्यायः पी ति किति ५३ पर्तेडे पुम् ३०१ पुरः कुषः १३३प्रजने वीयतेरात्वं वा बौ २९६ पतेस्थश्व ३१६ पुरसि धारः ३३७ प्रत्ययान्तात् २२५ पदान्तस्यानितेनस्य २०३ पुराशब्दयोगे भूतान १८७ प्रत्याभ्यां श्रुवः णत्वमुपसर्गस्थानि द्यतने वा लुङ्लटी न २५८ प्रथिम्रदिभ्रस्जां संप्रसा तु स्मयोगे १०१ पदेरिण तनि रणं सलोपश्च २१७ पुरुपूर्वो रौतिः ४ परतोऽन्यत् ३०२ पुल्यादेः किन्दः २७२प्रथेः षिवःसंप्रसारणं च २९६ परमे स्थः कित् १२३ प्रथेरमः ३३० पुशकात् ४पराण्यात् २९५ पुषः कित् ३२१ प्रथेरुकः संप्रसारणं च २३९ प्रभौ परिवृढः ३४८ परिक्लिश्यमाने द्विती- | ३३३ पुष्यसिध्यौ नक्षत्रे यान्ते स्वाङ्गे धातोः १२९ प्रयोजकात्स्मये नौ २३० पूडो वा कितस्तस्ये स्मयतेरात्वम् १७७ परिव्यवेभ्यः क्रियः ३१८ पूनो यो णुक ह्रस्वश्च २३५प्रस्त्यः संप्रसारणं किति १८९ परेम॒षश्च - ३११ पूजो ह्रस्वश्च तस्य मो वा १३ परोक्षे णप् अतुस् ३२५ पूर्णतावाचिषु सामउत्त थप अथुस् अ णप् ४०प्रात्तुम्पतेःसुद् गवि करि यार्थषु बम ए आते इरे से ३३८ पूर्वकाले क्त्वा २८ प्रादिस्थानिमित्तान्नेर्नआथे ध्वं ए वहे महे ९२ पूर्वस्य किति झसे घः स्य णो गदनदपतपदअ. २५६ पाटेः पटिश्च २० पूर्वस्य हसादिः शेषः पिहाधास्थामाङ्मेत्य२१. पाटेबिलुकू चोक च ७४ पूर्वाद्धन्तेहस्य घः । तिहन्तियातिवातिद्रादि___दीर्घश्च पूर्वस्य १०३ पूर्वाद्धनातेर्हस्य घो न प्सातिवपतिवहतिशा१२९ पाणिघताउछौ स्वाङि म्यतिचिनोतिदेग्धिषु मित्तात् Page #15 -------------------------------------------------------------------------- ________________ सूत्राटी नामकारादि वर्णक्रमः। पृष्ठाकाः। सूत्रादि. | पृष्टा । सूत्रादि. पृष्ठाङ्काः। सूत्रादि. ८० प्रादे रेफादानतेनस्य मात्प्रयोजकाचेद्भय- १३४ मदी हर्षदैन्ययोः णत्वम् स्मयो २६० मद्गुरादयो निपात्या: २४प्रादेश्च तथा तौ सुनमाम् | ८ भीही हुवामान्वा स | २६१ मद्यादेः किरः १८८ प्राद्वहः च लुग्वत् २८६ मनादेर्युः २०९ प्रीकृज्ञाभ्यश्च २१ भुजतुरयोमुम्वा १८५ मनुष्यादीनां संभूयो१८३ प्रोपाभ्यां प्रारम्भार्था- ३१: भुजादेः किष्यः चारणे भ्याम् १८५ भुजोऽपालने ३०७ मनेरत उच्च ११७ प्वादेर्हस्वः २९. भुवः किच्च २५६ मनश्च ५४ फणराजभ्राज़भ्राशुभ्ला२२ भुवः खिष्णुखुको. २९६ मन्थ इनि: कितू . वनस्यमजृष्भ्रंमुत्र- कतरि २५९ मन्द्यादेरुरः सामेत्वपूर्वलापी वा ३०९ मन्धातोः १ भुवः सिलोपे अयङ्३२. फलेरितः फस्य पः। ३१७ मसेरूरः २५६ फलेगुक् च लुकि गुणो न ९७ मस्जिनशोझसे नुम् २८५ बन्धेर्बधबुधौ चे १ भुवः सिलोपे स्वरे वुक्| ३०२ मस्जेर्नुम् च । १२२ बल प्राणने मित् ३३ भुवो भावे २५९ महति ह्रस्वश्च २९६ बलाकादयः १ भुवो वुक ३१९ माङ ऊखो मय च २६९ बिडादेः कित् १ भूते सिः १८ माङि सिरेव ८६ ब्रुव आहश्व पश्चानाम् १ भू प्राप्तावात्वान् २४५ माङयाक्रोशे ६८ ब्रुवोऽनपि वच १९, भूषावाचिनां किरादी ३०६ मादयः --- २८३ बृहनलोपश्च नां सान्तानां च याग- ५९ मानादीनां पूर्वस्येतो ३०९ बृहेनस्य अः णिण्यदिटो न दोघः २२० भजां विण २७ भृङ्गादयः १९४ मान्तस्य सेटोन वृद्धि२५० भजभासमिदो घुरः ९ भूना लुकि रिणिं ठिणति कृति च १९५ मजारणि नलोपो वा | १७ . भुशादिभ्योऽभूततद्भा- न त्वाचामकभिवमीनाम् २४५ भविष्यति स्यप् शत- ब यह अन्त्यहसलोपश्च १६७मान्ताव्ययाभ्यां काम्यः शानपरः २८ भ्रम : १६६ मान्ताव्ययाभ्यां योन १७३ भाण्डात्समाचयम ११ भ्राजो रसो रमनपि वा १३४ मारणतोषणनिशामने२६३ भातेर्डवतुः १२ भ्राजभासभाषदीपजी- षु ज्ञा २३१ भावे कर्तरि चादितः वमीलपीडां वोपधाया १९४ मितां ब्यन्तानामिणि तक्तवत्वारिड्डा हस्वोऽक्षरे औ णमि च वा दोषः १८४ भासनोपसभाषाज्ञान १२२ बिना लम्वः ___यत्नविमत्युपमन्त्रणेषु २९ भ्रादेरतः ९९ मिर्गुणा ये ४ भ्राशलाशभ्रमुक्रमुल्ल. ३०४ मिनोतरुः २३७ भित्तं शकलम् मुत्रसित्रुाटलषां यो वा ९९ मीनातिामनोतिदाङ ३३२ भिद्योदयौ नदे कार्थेषु चतुर्यु गुणवृद्धिविषये: २५१ भियः क्रुक्रुकक्लुकाः । भ्वादिः क्यपि चात्वम् २७० भियोऽजि: षुक् हस्त्रश्च | ३२ मङ्गरल: २६३ मीनातेरुरः १३०भीस्मिभ्यां न्यन्ताभ्या- ३२६ मदाम: 1 २४४ मुगानेऽत: - वदः Page #16 -------------------------------------------------------------------------- ________________ (१२) सिद्धान्तचन्द्रिकोत्तरार्द्धस्थ पृष्ठाङ्काः। सूत्रादि. | पृष्ठाङ्काः। सूत्रादि. पृष्ठाङ्काः। सूत्रादि. १४४ मुचोऽकर्मकस्य गुणो । ३४३ यथातथयोरस्याप्रति- २५७ रपेरस्येच्च । वा से द्वित्वलोपश्च वचने कृयः सिद्धा- २९० रभादेरसः २७८ मुषः किको दीर्घश्च प्रयोगे णम् १३१ राभलभोः स्वरे नुम् ३१८ मुहेः खो मूर्च | २०१ यद्योग उक्तं न न त्वब्लिटोः ३०५मूङ्ाक्यम्यबिभ्यः क्लः १८६ यमःसिः किद्वा विवाहे ३१५ रमेश्च ३२६ मूतौं घनः १८१ यमः सचने सि: कित्। १२२ रह त्यागे मित् २१६ मूलविभुजादेः कः १२२ यम वेष्टने मित् २२० राजश्व २५९ मृगय्वादया निपात्याः ४३ यमिरमिनमातां सक ३३३ गजसूयादयः २६६ ग्रोरुतिः सेरिट २८० रातः ३०१ मृङ ईचिः २३३ यलसंयोगादेरादन्ता. १२३ रातो नौ पुक् कितस्तम्य नत्वम् २८६ मृङम्त्युक ३५१ रादिफो वा ३०१ रात्रिः ७९ मृजर्वृद्धिःक्ङिात स्वरे वा १३१ यवयोर्वसे हकारे च | लापः १४३ राधो हिंसायामिस्से ३३२ मजा वा ५४ यवराणामिदुहतः द्वित्वलोपश्च ३३९मृडमृदगुधक्लिशवदवस१० या ९५ राधोऽकर्मकादेव यः रुद वदमुषप्रहिभ्यः कित् ५० यादादौ १०४ राधो हिंसायामेत्व. २३० मृषः क्षान्ती २५७ याभ्रोईिश्व पूर्वलोपौ किति लिटि १९ मेऽट: ११ यामियम् सेटि थपि च ५७ मा ना धातोः ३४४ यावति विन्दजीवोः ४५ रारो झसे दृशाम् २५४ म्रादेः २०३ यावत्पुरानिपातयोभ २९१ रासवल्लिभ्यां च ११५ म्रियतेलुंलिङोश्चतु.. विष्यांत लट् २८५ रास्नादयः वात् १९९ युजेर्वा १४९ रीगृदुपधस्य ४४ सुचादेर्वा ङः ३२८ युट् भावे च २२१ रीङ् ऋतः ५८ यः से २०८ युवोरनाको १३९ रुदविदमुषग्रहिस्व१४८ यकारपररेफस्य न द्वि- २७१ युष्यसिभ्यां मदिक् पिच्छिभ्यः सः कित् त्वनिषेधः १० युस इद् ४० ये ७९ रुदादेश्चतुर्णा ह्रसादेः १८९ यक् चर्तुषु ९५ वोः १०५ रुधादेनम् २५१ यङ ऊकः २७३ वादेः कन् २८९ रहे रस्य लो वा १४६ याङ ३३ वो वि हसे १३० रुहेनौं पो वा १६९ यडि वा सलोपः ३२ रः २६१ रुहेवृद्धिश्च १३६ यच्छतिभॊजनतोऽन्य२३१ : २७९ रुहेश्व त्र मिन्न ३१५ रखज्यादेः कित् १६३ रेफाच्छोलोपः को ५५ यजां यवराणां वृतः । १८१ रजिकृभ्यांक्यु: । झसादौ अमादौ हे च संप्रसारणं किति १३५रजेनों मृगरमणेनलोपः। प्रत्यये ४२ यतः २९५ रत्न्यादयः | २४५ लक्षणहेत्वोः क्रियायाः २८२ यतेवृद्धिश्च | ५७ रधिजभोः स्वरे नुम् | २९४ लक्षेमुट् च Page #17 -------------------------------------------------------------------------- ________________ सूत्रादि. पृष्ठाङ्काः । २८५ लक्षेर्न स्याणमटौ २६८ लगेर्वृद्धिश्व २५८ लघिबंह्योर्नलोपश्च ६० लघोर्दीर्घः ८३ लङो ध्वस्य नेट् २०३ लङ्गेर्वृद्धिश्व १९५ लभेरिणमार्नुम्वा ५७ लिडङोः प्यायः पी ९६ लिडुर्जिते इटि रधे सूत्रादीनामकारादि वर्णक्रमः । सूत्रादि. पृष्ठाङ्काः । ३५१ वर्णात्कारः ३०८ वर्णेलच २०३ वर्तमानसामीप्ये भूते भविष्यति च वर्तमान वद्वा ६ वर्तमाने तिप् अन्ति सिप् थस्थ सस्ते आते अ से आथे ध्वे ए वहे महे ३०४ वलिमलितनिभ्यः ४३ लित्पुषादेङः ७० लिपिसिचिह्नयतीनां ङो लुङि वा आति १०० लीलीङोरात्वं वा गुणवृद्धिविषये क्यपि च ५८ लुक् १४८ लुपसदचरजपजभदहदशगृभ्यो धात्वर्थगर्दायामेव यङ् ३५१ लोकाच्छेषस्य सिद्धि: २९ लोपः पचां कित्ये चास्य ७४ लोपस्त्वनुदात्ततनामू ६२ लोपो ह्रस्वाज्झसे ४४ लान्तस्य लसमीपाकारस्य सौ नित्यं वृद्धिः २३२ स्वाद्योदितश्च ३१५ वचादेः सुट् १५० वञ्चुखं सुध्वंसुभ्रंसुकसपतपदस्कन्दां यङि यङ्लुकि च पूर्वस्य नीक् ३४ वदिव्रज्योः सौ नित्यं वृद्धिः २८९ वदेरान्यः ३२२ वदेर्ननि यः ३०८ वपादेरिन ६९ वयो यस्य किति लिटिवो वा १६७ वरिवसः परिचर्यायाम् कयः २५७ वलेर्गुक् च ३१६ वशेः कनसिः १५० वशे र्याड न संप्रसारणम् २३४ वसतिक्षुधोरिट् क्त्वा क्तक्तवतूनाम् ३१२ वसादेस्तिः ३१५ वसेर्णित् ३२९ वसेस्तव्यः कर्तरि णिच्च १८२ वस्यानिटि से उ: ३०० वहादेर्निः २६५ वहो च २०४ वा कथमि लिङ्लटौ गयां कालत्रये २१७ वाचंयमादयो नि पात्याः २९४ वातप्रम्यादयः ३०८ वातेर्डित् २४४ वाऽऽदीपोः शतुः १५१ वाऽन्यत्र २५८ वालमूललघ्वङ्गुलीनां वा लस्य रः १८० वा लिप्सायाम् २७७ वाविन्धेः १८५ वा विरुद्धोक्तौ १०६ विजेरिडादिप्रत्ययो ङित् १९३ विटपादयः ( १३ ) पृष्ठाङ्काः । सूत्रादि. २३७ वित्तो भोगप्रतीतयोः ३२ विददरिद्राजायुषां वा २५० विदिभिदिच्छिदेः कुरः ३४५ विदेव वसुः ७७ विदो नवानां त्यादीनबादिर्नवको वा ३१६ विधानो वेध च ९ विधिसंभावनयोः यात् याताम् युस यास यातम् यात याम् याव याम ईत ईयाताम् इरन् साध्वम् २५२ विन्दुरिच्छुरतौ निपात्यौ १७७ विपराभ्यां जे: २८१ विपूर्वाद्धनः ३३८विभाषाSSख्यानपरि प्रश्नयोरिन् च २९१ विशादेरन्तः २८७ विशे: कित् २२५ विहायसोत्रिहो मुम्बा डान्ते गम २९३ वीपतिभ्यां तनः १३८ वुः से १०३ वृवृञ्ऋदन्तात्सि• योङ्काति ५२ वृङ्नृञ्ऋदन्तानां वा २७८ वृजादेः किनः २८९ वृञ एण्यः १०३ वृञस्थप इट् ६३ वृतादिभ्यः स्यसयोव पं पेनिट्त्वं च २९३ वृतादेस्तिक: २६७ वृषलादयः कलप्रत्ययान्ता निपात्याः Page #18 -------------------------------------------------------------------------- ________________ सिद्धान्तचन्द्रिकोत्तरार्द्धस्थ - - पृष्ठाङ्काः। सूत्रादि. | पृष्ठाङ्काः। सूत्रादि. | पृष्ठा काः। सूत्रादि. २२० वेः २६७ शमः १९., शृङ्गारादयः १८३ वेः पादविहरणे ३०३ शमेवः २१ : शुदप्रां ह्रस्वो वा १८४ वेः शब्दकर्मणः कृतः ।। २७० शरदादयोऽदिप्रत्य लिटि किति २९० वेन आत्वाभावस्तुट्च यान्ता निपात्याः २४ , शृवन्द्योरारुः ३०१ वेयो डिच्च ३५, श्मनि श्रियो हुन् ६८ वेञो णादौ न संप्रसा३३ शसददवादिगुणभूता २५० श्यतेः कुः सवच्च रणम् ___ काराणां नैत्वपूर्वलोपो २१३ श्यादेश्च ६९ वेञो वय् वा णादौ २२ शसात्खपाः २५: श्यास्त्याबविभ्य १८२ वेत्तेरन्तो वा रुडाति १८ शच्छासाघ्राधेटां वा ७७ घेत्तेर्लोट्याम् गुणाभावः २२३ शाच्छो १८१ श्रन्थिप्रन्थिदम्भिभ्यो करोत्यनुप्रयोगश्च वा | १३६ शाम्यतिदर्शने मिन्न लिटः कित्त्व वा . २७९ वेपितुह्योह्रस्वश्च । २६० शावशेराप्ती २७ श्रादेः कीषः १३२ वेष्टिचेष्टयोः पूर्वस्या३०४ शाशपिभ्यां दः ३.३ श्रियः शिरः किच्च त्वं वाऽडि ८१ शासरिः १. १ श्रिमभ्यो डोधातोश्च ३१२ वौ तसेः १७७ शिक्षेर्जिज्ञासायाम् द्वित्वं लुङि सेरपवादः • ८ मोरा २५ श्रः करः १८५ व्यक्तवाग्विषयादनुपू| २११ शिति चतुर्वत् ८१ श्रुवःशृआदेशो नुप्रत्यवादकर्मकात् २८६ शिल्पादयः यश्चाब्विषये २५७.व्यधः कुः | ८४ शीडो गुणश्चतुषु | २८९ वादेराय्यः ६४ व्यथेणादौ पूर्वस्य ८४ शीडोऽतो रुट् २:९श्लिषशीस्थाऽऽसवसयस्य इ. २९८ शीङो धुक्लकवलव जनरुहजीर्यतिभ्यश्च ६४ व्यापर्युपेभ्यो रमः पम् लड्वालपालाः ।३ श्वयतेरितो लोपो डे १४ व्याधी शुद् १९२ शीकोऽया ये क्ङिति । श्वयते द्वित्वं वा एर३६९ व्येयो लिटि नात्वम् लोपः २२८ व्रते च ३१९ शीडो हस्वश्व । १:२ श्वयतेय॑न्तस्य संप्र३२४ शकधृषज्ञाग्लाघटरभ२३० शीविदिमिदिवि. सारण वाऽल्सयोः लभक्रमसहाहस्त्यर्थेषु दिधृषमृषपूछ: सेटौ | ५ स्वयतेर्णादौ या च स३०२ शकादेरट: क्तक्तवतू किती न म्प्रसारणं वा २८८ शकरुनउन्तरन्ति उ ५१ शीयादेशे आतू २५० श्वयतेर्वा निप्रत्ययाः २१४ शीलिकामिभक्ष्याच. | ६ श्वस्तने ता तारौ तार३०० शकेर्ऋत् २४४ शतृशानौ तिप्तेवत्क्रि रिक्षमीक्षिभ्यो णः स् तासि तास्थस् तास्थ २४६ शीले तृन् तास्मि तास्वस् तास्मस् यायाम् ता तारौ तारस् तासे १२८ शदेरगतौ तो बौ २१४ शुचः शूद्रे तासाथे तावे ताहे १७८ शप उपालम्भे २९४ शुषादेः क्सि: २९० शपादेरथः २३५ शुषेः कः | २८३ श्वादयः १६७ शब्दादिभ्यो यङ् ३४५ शुष्कचूर्णरूशेषु कर्म- ५ षढाः कः से ९७ शमां दीर्घः खूपपदेषु पिषः १ २४७ षाकोकणः २४८ शमादिभ्यो घिनु | २७७ शरादयः ३.६ षिद्भिदामङ् तास्वहे तास्मह .. Page #19 -------------------------------------------------------------------------- ________________ सूत्रादीनामकारादि वर्णक्रमः । पृष्ठाङ्काः। सूत्रादि. | पृष्ठाकाः। सूत्रादि पृष्ठाङ्काः। सूत्रादि ४० ठिवुलम्वाचमां लुङि सेरपवादः २५० सृघस्यदः क्मरः दीर्घोऽपि २९३ सत्तेरपः षुक् च ४९ सृजिदृशोस्थपो वेट् . ४१ ष्ठिवेः पूर्वस्य थस्य ठो वा २८६ सर्तेरवयू १९९ सृजेः श्रद्धोपपन्ने ३४६ संज्ञायां बनाते ३०३ सर्तेर्णिच कर्तरि वा ३३६ संज्ञायाम् . २७.५ सणित् २५६ सृजेरसुम् सलोपश्च ३२५ संज्ञायामकर्तरि च १०९ ससुटः कृषो लिट इट् । २१ सेः ४८ संध्यक्षराणामा ५५ सस्तोऽनपि २३६ सेटोः क्तक्तवत्वोर्मि३३६ संपदादेः किन्या १४ सस्वरादिरिद्विः लोपः २२१ संपदा योगे च ६५ सहिवहोरोदवर्णस्य २० सेटो हलाद्वा १०८ संपर्युपेभ्यः करोते ढलोपे सति १३९ से दीर्घः भूषणे सुट् २२१ सात्पदाद्योः २५ सेधतेर्गतौ न षः १८४ सम्प्रतिभ्यामनाध्याने ३२८ साधनाधारयोश्च ३१७ सौ रमेः क्तः सोर्दीर्घः २१५ संप्रसारणिभ्यो डः १४० सान्तात्पूर्ववत् २५६ स्कन्दः सलोपश्च ४८ संयोगादेरादन्तस्य । १४५ सान्तात्सो न स्वार्थसा १३७स्खादरवपरिभ्यां भिन्न किति लिङयेकारो वा न्तात्तु र देव २८७ स्तनादयन्तादित्नु: १९८ सकर्मकाणां न २८२ सावसेऋः ११७ स्तम्भुस्तुम्भुस्कम्भुस्कु५१ सदिस्वजालिटि पर. १४७ सिचो यकिन षः म्भुस्कुभ्यो नुनर्ना च स्य न षः १३३ सिद्धयतेरैहलौकिकेऽथें ३२३ सदाणादयः ८६ स्तुसुधूनां पे सेरिट् स्वरस्यात्वं नौ ४१ स धातुः १४३ स्तौतिञ्यन्तयोरेव षे ४५ सपरोक्षयोजेर्गि: ८१ सिपि वा पूर्वात्सस्य षः .३४७ सप्तम्यां तृतीयायों ९३ सिवादेर व्यवाये १८३ स्नुक्रमोराति नेट चोपपदे उपपीडमधःकर्षः वा षः ३११ स्स्यायते ट् २७३ सप्यशूभ्यां तुट् च । | ३११ सिविमुच्योष्टेरूः ३३४ स्त्रियां यजां भावे १८७ समः क्ष्णुवः ३०३ सिवेरू च २७१ स्त्वादेर्मः १८६ समः प्रतिज्ञाने ७८ सि सः २६९ स्थादेरालः १७८ समवप्रविभ्यः स्थः ७३ सिसयोरदेघस्ल लि- २५२ स्थादेर्वरः १८६ समस्तृतीयायुक्तात् टितु वा २२३ स्थामि ३४० समासे क्यप् १६ सिसतासीस्यपामिट २८७ स्थारीभ्यां गुः १८८ समुदाभ्यो यमो- ६३ सिस्योः २४१ स्थैर्यगतिभक्षणार्थेऽग्रन्थे १७२ सुखादिभ्यो या कर्तु भ्योऽधिकरणेऽपि क्तः ३४५ समूलाकृतजीवेषु कर्म रनुभवे ३४५ स्नेहने पिषः सु हनकृञ्ग्रहां णम् ३१२ सूचेः स्मः १८३ स्पर्धायामाङः १७७ समोऽकूजने २८७ सुवः किच्च ३१९ स्पृशेः शुश्वणी पृच १८१ समोगमृच्छिप्रच्छि- ८४ सुवो न गुणश्चतुषु २४८ स्पृहिग्रहिपतिदयिनिस्वरत्यर्तिश्रुविदिदृशिभ्यो- ३०१ सूडादेः क्रिः। द्रातन्द्राश्रद्धाशीभ्यः कर्भकेभ्यः । १४७ सचिसूत्रिमूयट्यर्त्य आलः। ५० सर्तिशास्त्यर्तिभ्यो को शुणसभ्यो य २३५ स्फायः स्फी ति किति Page #20 -------------------------------------------------------------------------- ________________ सिद्धान्तचन्द्रिकोत्तरार्द्धस्थ पृष्ठाङ्काः। सूत्रादि. | पृष्ठाङ्कः। सूत्रादि. पृष्ठाङ्काः। सूत्रादि. २७५ स्फायादे रक् ३२६ स्वरादः २१० हन्तेर्हस्य घत्वं च १३१ स्फायो वः ३० स्वरादेः १५१ हन्तेहिसायांनीभावः १८ स्मसहिते दिवादिर्वा ८७ स्वरादेः परः २९१ हन्तोर्हर्मुट च १४४ स्मिपूज्वशूभ्यः ३२९ स्वराद्यः १७७ हरतर्गतताच्छील्ये सरयेट १८७ स्वराद्यन्तोपसर्गाद्युजे- ३२१ हर्यतेः कन्यो हिर्च २०१ स्मृतिवाचिन्युपपदे रयज्ञे ३३५ हबक्तयोर्न भूतानद्यतने धातोर्लट् ३५ स्वरान्तादत्वतश्च तादी। २०२ हशश्वतोलिडिषये लङोऽपवादः नित्याऽनिटस्थपो वेट ललिटी १२१ स्मृदृत्वरप्रथम्रदस्तृस्प १९८ स्वरान्तानां कर्मकर्त- ४५ हशषान्तात्सक रीण वा तनि शां पूर्वस्यादपरे नौ १६४ हसाद्यस्य लोपो वा१९० स्वरान्तानां हनग्रहद नपि नामधातो इत्वापवादः शां च भावकर्मणोः २०२ स्मे लट् लिटोऽपवादः १६६ हसात्तद्धितयस्य लो सितासीस्यपा २६२ स्यन्देः संप्रसारणम् पो ये च्वौ च इण्वञ्च २५६ स्यन्देः संप्रसारणंधश्च | २३४ स्वरात्तो वा ११७ हसादान हो १७ स्यप् क्रियातिक्रमे ३५०स्वाङ्गेतस्प्रत्यये कम्वोः | ३४५हस्ताथे करणे वर्तिग्रहो: २७६ स्वादेः कः २६३ स्यादेस्तुः ११५ हिंसायां प्रतेश्व | ३४७ हिंसार्थानां चानुप्रयो'२१ स्याविदः १०२ स्वादेर्नुः गधातुना समानकर्म१३२ स्वापेःसंप्रसारणमाडि ३१८ स्रंसतेः शिर्यस्य कि २०५ स्वाभिप्रायाविष्करणे काणां तृतीयान्त उप गम्ये लिङ् कालत्रये पदे १२७ स्रवतिशृणोतिद्रवतिप्रवतिप्लवतिच्यवतीनाम ३०४ हृयो दुक च न तु कञ्चिति ७९ स्वाभिप्रायाविष्करणे २८९ हृश्याभ्यामितः ङ्सयोः पूर्वस्येत्वं वाऽ निर्णेत्राख्यायां च २०५ हेतुहेतुमतोभविष्यति वर्णपरे धात्वक्षरे परे १८१ हनः सिः कित् लिङ् वा २९९ सादनिः कित् ३३५ हनस्तः ४१ ह्रयन्तक्षणश्वसजागृ. २७२ स्रादेवः १४० हनिडोः से दीर्घः श्व्यदितां सोटि सौन वृद्धिः ३१४ स्रुरीभ्यां तुट च ३१०हनिमनिमशिभ्यां सिकः २२३ह्रस्वस्य पिति कृति तुक ५६ स्वजतेर्णादेर्वा कित्त्वम् ४३ हनृतः स्यपः १५ ह्रस्व: २५२ स्वपितृषिभूषनजिङ् १२८ हनो घत् २६६ हादेरितिः १५१ स्वपिस्वमिव्येमां यङि ३३१ हनो वधादेशो ये १३१ ह्रीव्लीरीक्नूयक्ष्मिासंप्रसारणम् ३२६ हनो वधोऽप्रत्ययश्च यणिां बो पुक् २५ स्वरतिसूतिसयतिधून- ७५ हनो लुङ्लिङोर्वधो लु. | २४१ हादर्हस्वः किति ते रधनश्तृप्य्द्रु हमुहस्नु- | ३१९ हन्तेः शरीरावयवे | १२९ ह्वयतेय॑न्तस्याङ्सयोः हस्निहां च संप्रसारणं युगभावश्च ८७ स्वरात्पराः संयोगादयो | ३०० हन्तेरति रह च ८८ हार्द्विश्व नदरा द्विर्न ३२२ हन्तेपुर च २१३ हावामाभ्यश्र इति सिद्धान्तचन्द्रिकोत्तरार्द्धस्थसूत्रादीनामकारादिवर्णक्रमः॥ त्वं कुट् च Page #21 -------------------------------------------------------------------------- ________________ MAIN सिद्धान्तचन्द्रिका। सुबोधिनी-तत्त्वदीपिका-टीकाहयोपेता। (उत्तरार्धम् ) धातोः ॥ इदमधिक्रियते ॥ सुबोधिनी। सार्वीयं सच्चिदानन्दं नामनामं जगत्प्रभुम् ।। सिद्धान्तचन्द्रिकाख्यातवृत्तिश्च क्रियतेतराम् ॥ १॥ धातोः॥ अधिकारोऽयं प्राड़ नानो य इत्यतः। किमर्थोऽयमधिकारः। उच्यते, ऊरीकरोति, शुक्लीभवति, सहार्य: स्यादित्यादौ ऊर्यादिच्च्यन्तयोर्धातोः प्राक् प्रयोगस्य नियतत्वेन विशिष्टात् प्रत्ययोत्पत्तिर्यथा न स्यात् । अन्यथा अद्वित्वयोर्दोषो दुवारः स्यादित्यधिकारः। तत्त्वदीपिका। प्रणम्य श्रीपतिं वाणी नारायणमनामयम् । सिद्धान्तचन्द्रिकाख्यातव्याकृतिरुच्यतेऽधुना ॥१॥ धातोरिति ॥ अधिकारोऽयमित्याह । इदमिति ।। सूत्रमिति विशेष्यं पदं वा । नाम्नो य इत्यतः प्रागविकारो बोध्यः । अधिकारफलं तु ऊरीकरोति शुक्लीभवतीत्यादौ च्च्यन्त्रस्य धातोः प्राक् प्रयोगनियमेन तत्सहिताद्धातोः प्रत्ययोत्पत्तिर्यथा न स्यात्, अन्यथाऽद्वित्वयोदोषो दुर्वारः स्यात् । न च नामव्यावृत्तिरेव फलमिति वाच्यम्, ततः विधानेनैव तद्बाधनात् । सिबन्ततिबन्तव्यावृत्तिरपि न फलं Page #22 -------------------------------------------------------------------------- ________________ (२) सिद्धान्तचन्द्रिका। [आख्याते भ्वादयः] प्रकृत्यर्थस्याद्रव्यकादेराख्यातार्थकर्तृकमणोरनन्वयात्, कारकाणां क्रिययैवान्वयनियमात् । पचतीत्यत्र एकेन एकाश्रयिकायां क्रियायां बोधितायामपरेणान्याश्रयायाः क्रियाया बोधनस्याशक्यत्वात् । प्रथमस्य समासप्रत्यययोरितिलोपेतु तदर्थस्यानवबोधाच्च कर्तृद्वयादिबोधाकाङ्क्षायां यःघटः इत्यादेरन्याय्यत्वात्।। भ्वादिः॥ क्रियावाची भ्वादिर्धातुसज्ञकः स्यात् ॥ (सुबोधिनी)-भ्वादिः॥ भवनं भः क्रियासामान्यम् । आदत्ते ग्राहयत्यर्थमित्यादिः।अन्तर्भावितञ्यर्थः। यद्वा,आदीयते गृह्यतेऽर्थोऽनेनेति आपूर्वादाञःकिप्रत्ययः शब्द इति यावत् । भुवः क्रियासामान्यस्य आदिर्वाचकः शब्दो धातुसज्ञो भवति॥एवं सति 'हिरुक्, नाना' इत्यादावव्यये, 'वभूव, बभूवे' इत्यादावाख्यातान्ते चातिव्याप्तिस्तेपामाप क्रियावाचकत्वात्। अतोभ्वादिरित्यावर्त्य भूरादिर्यस्येति बहुव्रीहियाख्येयः। अत्रादिशब्दो व्यवस्थायाम् । तेन भूशब्दादारभ्य ये पठितास्ते ग्राह्याः। तेन क्रियावाचित्वे सति भ्वादिगणपठितत्वं धातुत्वम् । नामधातूनां सधातुरिति वचनादातुत्वम् । सौत्रास्तु गणे एव पाठयाः। का पुनः क्रिया ? उच्यते । करोत्यर्थभूता उत्पादनापरपर्याया उत्पत्त्यनुकूलव्यापारसन्तानरूपा भावनैव क्रिया । नन्वस्तिभवतिद्यतिषु क्रियावाचित्वमव्याप्तम्, नहि तत्रोत्पादना प्रतीयते, उत्पत्तिर्हि आद्यक्षणसम्बन्धस्तदनुकूलव्यापारश्चोत्पादना, तदनुभवश्वास्त्यादिभ्यो नास्त्येव । उच्यते । अस्तीत्यादेः स्वरूपधारणं करोतीत्यर्थः । धारणं चोत्तरकालसंबन्धः ॥ क्रियावाचीति किम् । याः पश्यसीत्यादौ धातुत्वं मा भूत् । सति हि तस्मिन्नातो धातोरित्यालोपः। (तत्त्वदी०)-भ्वादिरिति । भवनं भूः क्रिया। आदीयतेऽर्थोऽनेनेत्यादिः शब्दः। आपर्वात् दाञः किः। तथा च भूशब्दः क्रियावाचक आदिशब्दः प्रकारवाचक इत्यर्थः, एवं सति हिरुक् वर्जने इत्यव्ययेऽतिव्याप्तिः, तस्यापि वर्जनरूपक्रियावाचकत्वात् । अतोभ्वादिरित्यावर्तनीयम् । अत्रादिशब्दो व्यवस्थार्थः । तथा च-भूशब्दमारभ्य ये पठितास्ते धातुसंज्ञाः । एवं च-क्रियावाचकत्वे सति भ्वादिगणपटितत्वं धातुत्वमिति लक्षणम् ।वादावव्ययेऽतिप्रसङ्गवारणाय सत्यन्तम्, तावन्मात्रीपादाने च हिरुगादावतिव्याप्तिः । अत्राहुः, क्रियावाचित्वलाभायावृत्तिन कर्तव्या, न च यादावतिव्याप्तिः, या इत्यस्य लाक्षणिकत्वेनैवाग्रहणात, यदस्त्यदाद्यत्वम् आपि वेति सिद्धेः, वेत्यव्ययस्य च धातुत्वेऽप्य निष्टादर्शनात् । अथ धातुत्वे विकल्पादावपिगन्धनादाविव वातीति रूपमापद्यतेति चेत् ? शृणु तस्या व्ययत्वेन अव्ययाद्विभक्तिरिति तिबादेलकोऽनिवार्यत्वात् । एवं च सूत्रे विभक्तिग्रहणस्य सार्थक्यम् ।न स्यादेरिति नोक्तम् । सर्वादेरुभशब्दस्य तु उभ उभे इत्यत्र पठितत्वेऽपि उभकावित्याद्यर्थतया सर्वादिपाठस्योक्तत्वेन धातुत्वबाधनात्, धातुत्वे हि स्याद्यनुत्पत्तेरुभकावित्यस्यासंभवात् ॥ अथ द्योदिवावित्यत्र स्वर्गवाचकस्यधातुत्वं स्यादिति वाच्यम् , न; तत्रोदितः पाठेनानुदितस्तस्याग्रहणात् । सानुबन्धकग्रहणेनातदनुबन्धकस्येत्युक्तेरिति । का पुनः क्रिया भावनैवेति गृहाण । तथाहि-अभवतो गमनादेरक्रियमाणतया भवतश्च घटादेः क्रियमाणतया भवत्यर्थकर्तुः करोतिकर्मत्वम् । तथा च करोत्यर्थकर्तुभवितृप्रयोजकतया भवतेरुत्पत्त्यर्थात्प्रयोजकव्यापारो निरुत्पद्यमानः करोत्यर्थमवलम्बते । Page #23 -------------------------------------------------------------------------- ________________ [ आख्याते भ्वादयः ] टीकाद्वयोपेता । (३) आदनुदात्तङितः ॥ अनुदात्तेतो ङितश्च धातोरात् ॥ उमनेपद (सुबोधिनी) - आदनुदात्तङितः ॥ अनुदात्तश्च ङ् च अनुदात्तङनै तावितौ यस्य धातोः सोऽनुदात्तङित्तस्मात् । द्वन्द्वान्ते श्रूयमाण इच्छन्दः प्रत्येकमभिसंबध्यते । द्वन्द्वे ऽल्पस्वरेति ङस्य पूर्वनिपातो न, हसान्तत्वात् । ण्यायन णित्यादिज्ञापकसिद्धं हि तत् । ज्ञापकसिद्धं न सर्वत्रेति 'देवतेदमर्थे' इत्यादिना च तस्यानित्यत्वाच्च । अनुदात्तेतो ङितश्व धातोरात्मनेपदं भवति । एधते । शेते । अन्यपदार्थत्वेन धातोराश्रयणं किम् । अगमत् अशिश्रियत् । ङाङोर्डित्त्वेऽपि धातुत्वाभावादान्न ॥ (तत्त्वदी ० ) - आदनुदात्तङित इति ॥ आत् अनुदात्तश्च ङ् च अनुदात्तङौ तावितौ यस्य स तथा तस्मात् । द्वन्द्वान्ते श्रूयमाण इच्छन्दः प्रत्येकमभिसंबध्यते इत्यत आह-आदनुदात्तेतो ङितश्चेत्यादि । अत्र ड् इत्यस्यास्वरत्वादल्पस्वरस्येत्यप्रवृत्तेः परनिपातः द्वयोः स्वरान्तयोर्मध्ये ऽल्पस्वरस्य ग्रहणात्, देवतेदमर्थे इत्यादिना तस्यानित्यत्वाच्च । आपत्योरेव सर्वत्र संज्ञात्वेन दर्शनात्, नामैकदेशेन सर्वनाम लक्ष्यत इति न व्याख्येयम्, अन्यपदार्थत्वेन धातोराश्रयणात् । अगमत् अशिश्रियदित्यत्र ङाङोर्डित्त्वेऽपि धातुत्वाभावादान्न । अत्र विधेयस्य पश्चाद्ग्रहणस्य युक्तत्वेऽपि विपरीतकरणात्त्वचिदन्यत्राप्यात् । तेन को जानीत इत्यादि सिद्धम् ॥ ञित्स्वरितेत उभे ॥ ञितः स्वरितेतश्च धातोरात्पे स्तः ॥ 3 पैत्र ( सुबोधिनी) - ञिस्त्वरितेत उभे ॥ ञ् इद् यस्य स ञित् स्वरित इद्यस्य स स्वरितेत् ञिच्च स्वरितेच्चानयोः समाहारः ञित्स्वरितेत्तस्मात् उभयपदम् । आत्तु संनिहितमेव, पंतु 'णित्' इत्यतः परामृश्यते ॥ ( तत्त्वदी ० ) - ञित्स्वरितेत उभे इति । ञ इत् यस्य स ञित् स्वरित इत्यस्य स स्वरितेत् ञिच्च स्वरितेच्चानयोः समाहारो ञित्स्वरितेत् तस्मात् । उमे आत्प इत्यर्थः । यथासंख्यमत्र न शङ्कनीयं,तस्य ज्ञापक्तसिद्धत्वेनासार्वत्रिकत्वात् । अथात्रानुबन्धद्वयं न कर्तव्यं ञित्स्वरितेत्सु स्वरितेतो वा ञित एव विधेयः। तथा चः ञित उभे स्वरितेत उभे इति वा सूत्रणीय मिति चेन्न, डुकृञ् इत्यत्र डुकृञ्अ इति करणे गौरवात्, रुधिरं इत्यत्र रुधिर र इति करणे चस्वरित ञित इति कर्तुं युक्तं `लाघवात् ॥ अत्र केचित् - अत्र आत्पशब्दाभ्यामवयवाभ्यामात्मनेपदपरस्मैपदसंज्ञ गृह्येते । ते चान्वर्थे तथाहि--आत्मने कर्त्रे फलबोधकं पदमात्मनेपदम् । परस्मै कर्त्रे फलबोधकं पदं परस्मैपदम् । तेन कर्तृगामिनि फले आत्मनेपदं परगामिनि फले परस्मैपदमित्याहुः, तन्न, उमेग्रहणस्य वैयर्थ्यापत्तेः । तथाहि-ञित्स्वरितेत एतावदेव सूत्रमस्तु आदिति चानुवर्तनीयम् । तेनकर्तृगामि निफले आत्, अन्यत्र परतोऽन्यदिति पम्। किंच करोति कुरुते वा घटमित्यत्र घटनिर्माणफलस्य कुलालादन्यगामित्वस्यासंभवात् सृष्टिं चकार चक्रे वा ईश्वर इत्यत्र जगन्निर्माणफलस्य ईश्वरेऽसंभवाच्च । यजधातौ तु स्वर्गकामो यजेत होतर्यजेति श्रुतिभ्यां यजमानत्र्त्विजोरात्पप्रयोगनियमः, अन्यत्र तु यथेष्टं प्रयोक्तव्यम् ॥ Page #24 -------------------------------------------------------------------------- ________________ (४) सिद्धान्तचन्द्रिका। [आख्याते भ्वादयः ] परतोऽन्यत् ॥ उक्तनिमित्तहीनाद्धातोःपा (सुबोधिनी)-परतोऽन्यत् ॥ परस्मादिति परतः। तत्रादिविभक्त्यर्थे इति पञ्चम्यन्तात्तम् । परत्वस्य सावधित्वादवध्यपेक्षायाममुदात्तडित इत्यादयः संवध्यन्ते । अन्यत्वस्यापि सापेक्षत्वादादुभे चेति संबध्यते । अनुदात्तेतो ङितो निर्विशादर्जितः स्वरितेतश्च धातोरन्यस्माद्धातोः परतः केवलं पं भवति ॥ (तत्त्वदी०)-परतोऽन्यदिति।परस्मादिति परतः । तगादिविभक्त्यर्थे इति पञ्चम्यन्तातस्, परत्वस्य सावधित्वात् । अवध्यपेक्षायामनुदात्तङित इत्यादयः सब यन्ते । अन्यत्वस्यापि सापेक्षवादादुभे वेति संबध्यते इत्याशयेनाह-उक्तनिमित्तेत्यादि।उक्तानि निमित्तानि तैीँनात् रहितादित्यर्थः तथा च-अनुदात्ततो ङितो निविशादेः जितः स्वरितेतश्च धातोरन्यस्मात् भवतीत्यर्थः अनुदात्तेत इत्यादि किम् । एधते । प्रवर्तते ॥ नव पम् ॥ तिबादीनामाद्यानि नव वचनानि पसंज्ञानि॥ पराण्यात ॥ पराणि नव वचनानि आत्मने पदानि स्युः॥ (सुबोधिनी)-नव पम् ॥ पराण्यात् ॥ प्रत्येकमष्टादशवचनात्मका दशविधा आख्याता उक्तास्तेषां नवनववचनानां संज्ञाविधीयते।तिवादीनामाद्यानि नव वचनानि पसंज्ञानि पराणि नवात्सञ्ज्ञानिं । पराणीति परशब्देन नवपमित्राद्यानीति लभ्यते ॥ (तत्त्वदी०)-नव पमिति ॥ अत्र पराण्यादित्यत्र परशब्देनाद्यानीति लभ्यते। अत्रं पाच्छब्दयोरेव संज्ञात्वं, न तु ताभ्यामवयवभूताभ्यामाक्षिप्तयोः परस्मैपदात्मनेपदशब्दयोरवयविनोः 'दादेःपे' "णित्ये' 'आद्भुवि' इत्यादौ पाच्छब्दयोरेवावृत्तिदर्शनाल्लाघवाच । न : परगामिक्रियाफलात्मगामिक्रियाफलरूपान्वर्थलाभो, न पाच्छब्दाभ्यामिति वाच्यम्, विवक्षयैतल्ला गत्। "कमलवनोद्घाटनं कुर्वते ये" इत्यत्रात्मगामिफलाभावेऽप्यादर्शनात् । याजको यजति यजमानो यजेतेत्यत्र परगामित्वात्मगामित्वलाभस्तु शिष्टाचारात्, तस्मादत्र न समुदायाक्षेपः ।। . नानि च युष्मदि चास्मदि च भागैः॥ तिवाद्येकार्थेषु नामादिखूपपदेष्वेते प्रत्ययास्त्रिभिर्भागैः स्युरात्पयोः। नाम्नि प्रयुज्यमाने चादप्रयुज्यमाने प्रथमः । युष्मदि मध्यमः । अस्मद्युत्तमः ॥ (सुबोधिनी)-नानि च शुष्मदि चास्मदि च भागैः ॥ अत्र पाच्छब्दावनवृत्तौ सप्तम्या विपरिणमयितव्यौ । आद्धवीत्योदः कर्मणि करीति चानुवर्तते। नामादिशब्देन विभक्त्यन्तं गृह्यते प्रकरणात्तिबादयो दशविधा आग्याता गृह्यन्तोनामाद्यर्थे कर्तरि कर्मणि च विहितानां तिवादीनां धातोर्यानि नव वचनानि तानि त्रिभिर्भागैर्विभज्य प्रयोक्तव्यानि । यथासंख्येन नामार्थे कर्तरि प्रयुक्तेऽप्रयुक्ते च प्रथमो भागः प्रयोक्तव्यः । प्रयुक्त । स पचति । तौ पचतः। ते पचन्ति । म पचते । तौ पचेते। ते पचन्ते । अप्रयुक्ते । पचति । पचतः । पचन्ति । पचते । पचेत । पचन्ते । नामार्थे Page #25 -------------------------------------------------------------------------- ________________ [ आख्याते भ्वादयः ] टीकाद्वयोपेता | (५) कर्मणि प्रयुक्ते । ओदनः पच्यते । ओदनौ पच्येते । ओदनाः पच्यन्ते । अप्रयुक्ते । पच्यते । पच्येते । पच्यन्ते । पं तु कर्मणि नास्ति । युष्मदर्थे कर्तरि प्रयुक्ते । वं `पचसि । युवां पचथः। यूयं पचथ । त्वं पचसे । युवां पचेथे । यूयं पचध्वे । अप्रयुक्ते । पचसि । पचथः । पचथ । पचसे । पचेथे । पचध्वे । युष्मदर्थे कर्मणि प्रयुक्ते । त्वं । दुःखी क्रियसे रागैः। युवां दुःखिनौ क्रियेथे । यूयं दुखिनः क्रियध्वे । अप्रयुक्ते । क्रियसे क्रियेथे। क्रियध्वे । अस्मदर्थे कर्तरि प्रयुक्ते । अहं पचामि । आवां पचावः । वयं पचामः। अहं चचे।आवां पचावहे। वयं पचामहे । अस्मदर्थे कर्मणि प्रयुक्ते । विरागैः सुख्यहं क्रिये । आवां क्रियावहे। वयं क्रियामहे । अप्रयुक्ते । क्रिये । क्रियावहै । क्रियामहे । त्वया पच्यते । मया पच्यते इत्यत्र युष्मदाद्यर्थे आख्यातस्य विधानाभावान्न मध्यमोत्तमौ प्रथमातिक्रमणे कारणाभावात्प्रथम एव ॥ नन्विह भवान्पचत्वित्यत्र मध्यमः प्राप्नोति भवद्युष्मच्छब्दयोरेकार्थत्वादिति चेन्न ; तयोरर्थभेदात् । अलिङ्गः संबोधनाविषयश्च युष्मदर्थः, भवदर्थस्तु लिङ्गवान्, न च संबोधनैकविषय इति । त्वद्रूपः त्वत्कल्पः त्वत्तरः पचसि । मद्रूपः मत्कल्पःमत्तरः पचामीत्यत्र तदादेर्विशेषणत्वेनाकर्तृत्वात्, युष्मदस्मदर्थस्यैव कर्तृत्वात्; मध्यमोत्तमौ भवतः । अतित्वं प्रियत्वं पचति । अत्यहं प्रियाहं पचतीत्यत्र पूर्वपदान्यपदार्थयोः प्राधान्येन कर्तृत्वात् युष्मदस्मदर्थयोर्गौणत्वेन कर्तृत्वाभावात्, न मध्यमोत्तमौ । एवमत्वं त्वं संपद्यते त्वद्भवतीत्यादावपि च्व्यन्ते हि सङ्घीभवन्ति ब्राह्मणा इत्यनुरोधेन प्रकृतेः कर्तृत्वम् । विकृतेः कर्तृत्वे तु सङ्घीभवति ब्राह्मण इति स्यात् । अत्रापि युष्मदस्मदर्थयोः विकृतित्वेनाकर्तृत्वेनाकर्तृत्वम् । तदुक्तम् ॥ " यदा च्व्यर्थे विनिर्देश्ये भवतो युष्मदस्मदी । द्वयोरपि तयोर्योगे न धातोर्मध्यमोत्तमौ ॥ १ ॥ प्रकृतेर्विकृतेर्वाऽपि कदा प्रतिपादने । वाचकः प्रकृतेः संख्यां गृह्णाति विकृतेर्न तु ॥ ३ ॥" अत एव - मृद् घटा भवन्ति ओदनस्तण्डुला भवन्ति इति प्रयुज्यते, तिवादिभिः सह एकोऽर्थो येषां ते तिबाद्येकार्थेषु तिवादीनां यः कर्त्रादिरित्यर्थः । स एव कर्त्रादिरर्थो नामादीनामित्यर्थः । तिवाद्येकार्थेष्विति किम् ? त्वां पश्यति । त्वया क्रियते । तुभ्यं ददाति ॥ (तत्त्वदी०) - नाम्नि चति । अत्र'आद्भुवि' इत्यादेः कर्मणीति कर्तरीति चानुवर्तते । पाच्छन्दावनुवृत्तौ च सप्तम्या विपरिणभ्येते ॥ तिबाद्येकार्थेष्विति ॥ तित्रादिभिरेकार्थास्तेषु यथासंख्यं दर्शयति नाम्नि प्रयुज्यमाने चादित्यादिना ॥ ननु भागैरित्युक्ते कथं त्रय एव भागा लभ्यन्ते, नं चत्वारः, पञ्च वेति चेत्सत्यम् । कपिञ्जलालम्भन न्यायेनेति गृहाण । तथाहि - 'कपिञ्जलानालभेत' इतिं वाक्ये कपिञ्जलानिति बहुवचनेऽपि एकस्मिन् द्वयोश्च बहुत्वाभावात् प्रथमबहुत्वस्य त्रिषु लाभात् त्रय एव गृह्यन्ते, न तु चतुःपञ्चादय इति । एवमिहापि बोध्यम् । भवान् पचतीत्यत्र तु युष्मद्भवदर्थयोः समार्थत्वाभावान्न मध्यमः । तथाहि अलिङ्गः संबोधनविषयश्च युष्मदर्थः । भवदर्थस्तुं लिङ्गवात्र च संबोधनैकविषयः । त्वत्तरः पचसि मत्तरः पचामीत्यादौ तंरादेर्विशेषणत्वादप्रधानत्वाद Page #26 -------------------------------------------------------------------------- ________________ सिद्धान्तचन्द्रिका। [आख्याते भ्वादयः ] कर्तृता । युष्मदर्थयोरेव प्रधानत्वात्कर्तृत्वेन मध्यमोत्तमावेव । अतित्वं पचतीत्यादौ तु तथात्वामावान्न तथा। अत्वं त्वं संपद्यते त्वद्भवतीत्यादौच्च्यन्ते तु संघीभवन्ति ब्राह्मणा इत्याद्यनुरोधेन प्रकृतेरेव कर्तृत्वं न विकृतेर्युष्मदर्थस्य । उक्तं च । “यदा च्व्यर्थे विनिर्देश्ये भवतो युष्मदस्मदी। द्वयोरपि तयोर्योगे न धातोर्मध्यमोत्तमौ ॥ प्रकृतेर्विकृतेर्वाऽपि ह्येकदा प्रतिपादने । वाचकः प्रकृतेः संख्यां गृह्णाति विकृतेन तु ॥" मृद् घटा भवन्ति ओदनस्तण्डुला भवन्तीत्येव ॥ कर्तरि पंच॥ चादात् । भू सत्तायाम् ॥ (सुबोधिनी)-कर्तरि पं च ॥ कर्तरि वाच्ये धातोः पं भवति चकारादादपि ॥ पचाति, आख्यातप्रत्ययेनोक्तत्वात् । कतरि प्रथमा ॥ ननु भावकर्मकर्तृष्वाद्विधानात कथं निर्णयः स्यात् । मैवं प्रयोगानिर्णयसंभवात् । आस्त शेते नर इत्यत्र कर्तरि प्रथमादर्शनात् ॥ कर्तर्यात् ।। शय्यते आस्यते नरेणेत्यत्र कर्तरि तृतीयादर्शनात् भाव आत् ॥ चक्रे करिष्यते वा घटं कुलाल इत्यत्र कर्तर्यात ॥ चक्रे करिष्यते वा घटः कुलालेनेत्यत्र कर्मण्यात् ॥ कर्मणि प्रथमायाः कर्तरि तृतं यायाश्च दर्शनात् कृषीष्ट कतैत्यत्र त्वनिर्णय एव । यथा रामाभ्यामित्यत्रानिणेयः ।। वर्तमाने तिप् तस् अन्ति सिप थस् थ मिप् वस् मस् ते आते अन्ते से आथे ध्वे ए वहे महे ॥ वर्तमानार्थक्रियावृत्तेर्धातोस्तिबादयः प्रत्यया भवन्ति ॥ एषां संज्ञा लट् ॥ ___ (सुबोधिनी)-वर्तमाने तिप् तस् अन्ति, सिप् सम् थ, मिप् वस् मस्, ते आते अन्ते, से आथे ध्वे, ए वहे महे ॥ वर्तमान इति व्यापारे इति शेषः । व्यापारः क्रिया । सा च धातोर्वाच्या । सा त्रिविधा । अतीतानागतवर्तमानभेदात्। तत्र वर्तमानक्रियावृत्तेर्धातोस्तिबादयो भवन्ति । ते च द्योतकाः। वर्तमानाक्रयाया धातुनैवोक्तत्वात् । याद तु सद्य आदिरित्यतः 'काले' इत्यनुवर्तते वर्तमाने काले वाच्ये तिवादय इति व्याख्यायते तदा तिबादयो वाचकाअपि भवन्ति। कालस्य धातुनाऽभिहितत्वात् ॥ अथ को वर्तमानः । प्रारब्धापरिसमाप्तो वर्तमानः। भूरस्तीत्यादौ कथं वर्तमानादिःप्रारब्धापरिसमाप्तत्वाद्यभावात्। उच्यते, सृष्टिसंहारप्रतिप्रामाण्यस्वीकर्तृणां मतेत्राप्यास्त वर्तमानत्वम् । कल्पाद्रौ प्रारब्धायाः स्थितेरपरिसमाप्तत्वात् । तस्थुः पर्वताभविष्यतिभूरित्यादौ त्वतीतानागतकल्पावादाय भूत भविष्यत्ते बोध्ये। क्रियाफलयोर्वाचको धातुः। कालः सङ्ख्या । कारकं चाख्यात र्थः । तत्र तिवादित्वेन कालोऽर्थः।तिप्तस्त्वादित्वेन एकत्वद्वित्वबहुत्वरूपाः संख्यार्थाः। आत्त्वेन भावकर्मणोरर्थः। आत्वेन पत्वेन च कर्थः । तत्र फलस्य कर्मण्यन्वयः। फलाश्रयस्य कर्मत्वात् । व्यापारस्य कर्तर्यन्वयो धातूपात्तव्यापाराश्रयस्य कर्तृत्वात् । संख्यायास्तु करि प्रत्यये कर्तर्यन्वयः । कर्मणि प्रत्यये कर्मण्यन्वयः । कालस्य क्रियायामन्वयः । Page #27 -------------------------------------------------------------------------- ________________ [ आख्याते भ्वादयः ] टीकाद्वयता । ( ७ ) कर्तृकर्मणी क्रियाविशेषणे । क्रिया तु विशेष्येति शाब्दिकमतम् । वर्तमानोऽर्थो यस्याः सा वर्तमानार्था सा चासौ क्रिया चेति शाकपार्थिवादित्वात् मध्यमपदलोपः । वर्तमानक्रिया सा वृत्तिर्यस्य स तथा । तस्मात् तिवित्यादेः समाहारे ऐकपद्यम्, अन्यथा - समासे त्वष्टादशपदत्वम् ॥ (तत्त्वदी ० ) - वर्तमाने इनि व्यापारे इति शेषः । व्यापारश्च क्रिया, सा च त्रिविधा अतीतानागतवर्तमानभेदात् । सा च धानुवाच्या इत्याशयेनाह - वर्तमानार्थेत्यादि । वर्तमानः अर्थो यस्याः सा वर्तमानार्था सा चासौ क्रिया चेति सा तत्र वृत्तिर्यस्य स तथा तस्मादित्यर्थः । तिबित्यादेः सामाहारे ऐकपद्यम् । अन्यथा त्वष्टादशपदत्वम् । तिबादयश्च वर्तमानक्रियाया द्योतका एव, न तु वाचकास्तस्य धातुनैव लाभात् । वर्तमानत्वं तु प्रारब्धापरिसमाप्तत्वम् । विंशत्यादिवर्षपर्यन्त वेदाध्ययनेऽपि अधीते इति प्रयोग दर्शनात् । भूतभविष्यद्भन्नत्वमिति लक्षणं तु न; भविष्यद्वर्तमानभिन्नत्वं भूतत्वं, वर्तमानभूतभिन्न वं भविष्यत्वमित्यपि स्यात् । तथा च - अन्योन्याश्रयदोषः स्यात् । पर्वतास्तिष्ठन्तीत्यत्र तु स्वतो भूत द्यभावेऽपि कालत्रयवर्तिनां राज्ञां भूतादिभेदभिन्नपालनादिक्रियाभेदाद्भूतादिव्यवहारः । तथाहि - नलादिकाले तस्थुः । कल्क्यादिकाले स्थास्यन्ति । इदानीन्तनराजकाले तिष्ठन्ति । आत्माऽस्तीत्यत्रापि शरीराद्युपाध्यतीतत्वादिनाऽतीतत्वादिव्यवहारोऽस्तीति दिक् ।। अप कर्तरि ॥ कर्त्रर्थेषु तिवादिषु चतुर्षु दिप्पर्यन्तेषु परतो धातो. रपू स्यात् ॥ (सुबोधिनी) - अप् कर्तरि ॥ कर्तरीति नापोऽभिधेयमाख्यातोक्तत्वात्, किं त्वनुवृत्तस्य चतुष्वित्यस्य विशेष गम् । धातोरप्स्यात् कर्त्रर्थेषु चतुर्षु परतः ॥ अपः पित्त्वम् अपित्तादिङिदिति ङित्त्वाभावार्थम् । अन्यथा भवत इत्यादौ ङित्त्वाद्गुणो न स्यात् ॥ (तत्त्वदी०) - अपू कर्तरीति ॥ कर्तरि विहितेषु चतुर्षु तित्रादिषु || गुणः ॥ नाम्यन्तस्य धातोर्गुणो भवति ॥ (सुबोधिनी ) - गुणः ॥ अरेदो नामिन इति नियमान्नामिग्रहणम् । तस्य धातोर्विशेषणत्वात् तदन्तविधिः ॥ ( तत्त्वदी० ) - गुण इति अरेदो नामिन इति नियमान्नामिग्रहणम् । तस्य च विशेषणत्वातदन्तलाभ इत्याशयेनाह - नाम्यन्तस्येति ॥ अपित्तादिङित् ङिद्वत्स्यात् ॥ ॥ पकारेतं तादिकं च विहाय अन्यप्रत्ययों ता. T भूमिजी सि (सुबोधिनी ) - अपित्तादिर्द्वित् ॥ पू इत् यस्य स पित् त आदिर्यस्य स तादिः पिच्च तादिश्व पित्तादी ताभ्यामन्योऽपित्तादिः । नञिति समासः । ङित् ङिद्वदित्यर्थः ॥ अत्र पर्युदासबलात् पित्तादिभिन्नः प्रत्यय एव गृह्यते, न धातुः ॥ ननु सादेः कृतां चानेन ङित्त्वं कुतो नेति चेन्मैवं यङ्नङोङित्करणात् ज्ञापकात् । 'नानिटि से' इति Page #28 -------------------------------------------------------------------------- ________________ (८) सिद्धान्तचन्द्रिका । [ आख्याते म्वादयः ] सूत्रारम्भाच्च । अतः परिशेषात्तिबादीनां चतुर्विधानामाख्यातानां तद्विकरणानां चानेन ङित्त्वं नान्येषाम् । तेन विभरांचकारेत्यादावामो न ङित्त्वम् ।। (तत्त्वदी०)-अपित्तादिरिति||प् इद्यस्य स पित त आर्यस्य स तादिः पिच्च तादिश्च पित्तादी ताभ्यामन्योऽपित्तादिः । नत्रिति समासः। ङित्-विदित्यर्थ । पर्युदासात्प्रत्यय एव गृह्यते न तु धातुः। न तु दैयदाभिन्नस्य धातोर्डिंत्वं सति ङित्त्वे आत्स्यान्न । ङिदित्यपहाय किदिति तु नोक्तं वक्त इत्यादौ यजादित्वात्किति संप्रसारणप्रसङ्गात् कुरुत इत्यत्र इत्यदुरित्यस्याप्रसङ्गात् तादीत्यत्रादिग्रहणं तूत्तरार्थ सिसतासीत्यत्रैव नवानां ग्रहणसंभवात् । सिस्योरिति लिङ्गान्तयोर्ग्रहणार्थमपि न । तशब्देन विग्रहस्तु व्याख्यानानुसारान्न । सादेः कृतां च ङित्त्वं तु न'नानिटि से'इति सूत्रारम्भात् । यङ्नङित्करणात् ज्ञापकात् । अतस्तिबादीनां तद्विकरणानामनेन ङित्त्वं, जान्येषां तेन बिभरांचकारेत्यादौ न ङित्त्वम् । यत्तु आदिशब्दादायोऽपि गृह्यते, तेन-गोपायतीत्यादिसिद्धिरिति वासुदेवेनोक्तं, तद्रभसात् । ङित्यद्वयुसि ॥ किति डिति च परे वृद्धियों न, द्विर्वचनहेतुके उसि गुणः स्यात् ॥ इति तसि गुणाप्राप्तौ अनिमित्तो गुणः । भवतः॥ - (सुबोधिनी)-डित्यद्वयुसि ॥ क् च ङ च की तावितौ यस्य स तथा तस्मिन् । अद्युसीति विशेषणम् । द्वित्वनिमित्ते उसि न अजुहवुः ॥ (तत्त्वदी०)-संज्ञाफलमाह-कृङित्यद्वयुसि॥ च ङ् च ौतावितौ यस्य स तथा तस्मिन् । अद्वयसीति विशेषणम् । द्विरुक्तधातोनिमित्तभूतादुस् द्वथुस् तर गत् अन्यस्मिन्नित्यर्थः । अतो जुहुकुरित्यादौ तादृशस्य उसोऽभावान गुणः । यत्तु नोक्तमनित्यमित्यनेन अजुहबुरित्यादौ न गुण इति वासुदेवेनोक्तम् । तन्न, आदेः स्वरेऽपि नोपधाया गुण इति र त्रेणैवात्र गुणनिषेधे सिद्धे तदर्थ नोक्तमनित्यमित्याश्रयणस्य व्यर्थत्वात् । अदे ॥ अतो लोपो भवत्यकारे एकारे च परे । भवन्ति । भवसि, भवथः, भवथ ॥ (सुबोधिनी)-अदे अच्च ए चेति पृथक्पदे अविभक्तिके । अत इत्यनुवृत्तम् । अतो लोपो भवति अति एति च परे ॥ भवन्ति । पचे ॥अतः किम् । अवन्ति । ब्रुवे ।। तपरः किम् । यान्ति । गै। आख्यातप्रकरणे एवायं विधिस्तेन न स्यादावातव्याप्तिः। (तत्त्वदी०)-अदे इति ॥ अच ए च अदे । लुप्तसप्तमीकम् । त इति त्वनुवर्तते । यादावतिव्याप्तिस्त्वाख्यातप्रकरणत्वान्न ॥ मोरा॥ वमयोः परयारत आत्वं स्यात् ॥ भवाभि, भवावः, भवामः। स भवति । त्वं भवसि । अहं भवामि । युगपत्प्राप्तौ परः। Page #29 -------------------------------------------------------------------------- ________________ [ आख्याते भ्वादयः ] टीकाद्वयोपेता । (९) स च त्वं च भवथः । अहं च त्वं च भवावः । अहं च त्वं च स च भवामः ॥ (सुबोधिनी) - मोरा ॥ वू च म् च व्मौ तयोः व्मोः अत आत्वं भवति । भवामि, भवावः, भवामः ॥ अतः किम् । चिनुवः, चिनुमः । आख्यातप्रकरणे एव युगपत्प्राप्तौ परः । स च त्वं च पण्डितौ भवथः । अहं च स च त्वं च पण्डिता भवाम इत्यत्र त्रयाणां नामाद्यर्थानां कर्तृत्वेनैकदा प्राप्तौ परत्वात् मध्यमोत्तमौ भवतः ॥ उक्तं च ॥ “एकदा चेत् क्रियाकालसंबन्धप्रतिपादनम् । धातोर्नामादिषूक्तेषु यः परः स पुमान् भवेत् ॥ १॥ परत्वं चाभिधायकसूत्रापेक्षया न प्रयोगापेक्षया ग्राह्यम् । अस्मदर्थस्यैकत्वेऽपि समुदायाश्रिता संख्या ग्राह्या ॥ तदुक्तम् । “इयोर्नाम्नोर्बहूनां वा यदि वाक्ये समुच्चयः । नामत्रयाश्रिता संख्या कृति वाद्येोर्विशेषणम् ॥ १ ॥" स च त्वं च अहं चाहेति विवक्षायां त्वेकशेषो भवति । संख्या तु समुदायाश्रिता ॥ ( तत्वदी ० ) - मोरा इति । अत्रापि स्यादावपि नातिप्रसङ्ग उक्तयुक्तेः । तेन धनवानित्यादौ नात्वम् । समानाधिकरणनामादिसनिपाते व्यवस्थाऽर्थमाह-युगपदिति ॥ एकदा प्राप्तौ परः पुरुषः प्रथमापेक्षया मध्यमः मध्यमापेक्षया उत्तमः पुरुषो भवतीति यावत् ॥ विधिसम्भावनयोः । यात याताम् युस्यास् यातम् यात याम यावयाम ईतईयाताम् इरन ईथास ईयाथाम् ईध्वम ईय ईवहि ईमहि ॥ विधिः कर्तव्यार्थोपदेशः । संभावनं कल्पनम् । तत्र यादादयः ॥ एषां संज्ञा लिङ् ॥ (सुबोधिनी) - विधिसंभावनयोः ॥ यातु याताम् युस्, यासू यातं यात, याम् याव याम, ईत ईयाताम् ईरन, ईयासू ईयाथाम् ईध्वम्, ई ईवहि ईमहि ॥ धातोर्यादादयः प्रत्ययाः स्युः ॥ विधि संभावनय ( वच्ययोरित्ययं वाचकतापक्षः । न चात्र पक्षे विध्यादिनाऽर्थेन कर्त्राद्यर्थबाधो, विरोधाभावात् । यद्वा - - विधिसंभावनयोर्वर्तमानाद्धातोर्यादादयः प्रत्ययाः स्युः । विध्याद्यर्थस्य विशेष्यस्य प्रकृत्यर्थविशेषणत्वे द्योतकतापक्षोऽयम् । विपूर्वाद्धाधातोरन्तर्भावितञ्यर्थान्नङ् किरिति भावे किः 'विध विधाने' इत्यस्मादन्तर्भावितञ्यर्थाद्वा किः । विधानं वेधनं वा विधिः, अनुष्ठापनं कारणा प्रवर्तनति यावत् । सा प्रवर्तना श्रुतिवाक्यनिष्ठा । लौकिकवाक्ये पित्रादिवक्तृनिष्ठा । संपूर्वका - द्भवतेश्चौरादिकाद्वा प्रेरणे स्वार्थे वा ञिः । भावे युद्ध । ततः स्त्रियामा । संभावना कल्पना ऊहः । कर्तव्योऽर्थस्तस्योपदेशो विधिः ॥ ( तत्त्वदी० ) - विधिसम्भावनयोरिति ॥ विधानं विधिः । विपूर्वाद्धाञोर्नङ् किरिति । किप्रत्ययः । संभाव्यते संभावना । भावे युद्ध | संपूर्वाद्भवतेश्वौरादिकाद्वा । तयोरर्थमाह-विधिरित्यादिना कर्तव्यः करणीयो योऽर्थस्तस्योपदेशः कल्पनमूहः ॥ तत्रेति । तयोरर्थयोर्वाच्ययोर्योत्ययोर्वा यादादयो Page #30 -------------------------------------------------------------------------- ________________ सिद्धान्तचन्द्रिका। [ आख्याते भ्वादयः ] भवन्तीत्यर्थः, पक्षद्वयस्यापि भाष्ये स्वीकृतत्वात् । तत्राद्यपक्षे वित्थमुपपत्तिः । विध्यादिनाऽर्थेन काद्यर्थबाधो न जायते विरोधाभावात् । वर्तमानत्वादेखि तिबादिवाच्यत्वाशेषेण कादेरपि निरवकाशत्वाच्च । क्रियां प्रति प्रत्ययार्थतया विशेष्यत्वं तु तुल्यमेव । द्वितीयपक्षे त्वेषोपपत्तिः । विधिसम्भावनयोर्वर्तमानाद्धातोर्यादादयः प्रत्यया स्युः। विध्याद्यर्थस्य विशेष्यस्य प्रकृत्यत्वेर्थविशेषणद्योतकतापक्ष आयाति । एवं च विध्यादेः प्रत्ययार्थत्वं नोचितम् । प्रत्ययार्थत्वे कळदेरन्यत्र सावकाशत्वेन विध्यादिना बाधः स्यात् । ततश्च यादादिभिरभिधानं कर्नादेर्भज्येत । ततस्तु तत्प्रयुक्तैकत्वादिव्यवस्थाप्रथमपुरुषादिव्यवस्थाश्च न स्युरिति महदनिट स्यात् । यद्यपि निमन्त्रणादयोऽप्यर्थाः पाणिनीये प्रदर्शितास्तथाऽपि तेषु प्रवर्तनात्वस्यैकत्वान्नात्र भेदविवक्षा । उक्तं च वाक्यपदीये ।" न्यायव्युत्पादनार्था वा प्रपञ्चार्थमथापि वा । विध्यादीनामपादानं चतुर्णामादितः कृतम् ॥ अस्तिप्रवर्तनारूपमनुस्यूतं चतुर्वपि । तत्रैव लिङ् विधातव्यः किं भेदस्य विवक्षया ॥” इति ॥ प्रवर्तना तु श्रुत्यादिवाक्यकर्तीश्वरादिनिष्ठा । लौकिकवाक्ये तु पित्रादिवतार निष्ठा । वेदाध्ययनादौ बालानां पित्रादिप्रयुक्तप्रवृत्तिदर्शनादिष्टसाध- वं विध्यर्थ इति मतं नादर्तव्यं खप्रवृत्तरिष्टसाधनत्वस्यानुमीयमानत्वात् । उदाहरणमाह शिष्यो गुरुशुश्रूषको भवेदिति । एकशिष्याश्रया गुरुनिष्ठप्रीतिजननानुकूला या क्रिया तद्विषया प्रेरणेति विशेष्यपक्षः । प्रेरणाविषया एकशिंध्याश्रयागुर्वाश्रयप्रीतिजननानुकूला क्रियेति विशेषणपक्षः ॥भवेदसाविति । अत्रैककोटिकसंशयः स्था णुर्वा पुरुषो वेत्यादौ तु सर्वाः कोटयः समत्वेन भासन्ते । अत्र तु वेदवित्वावेदविच्चयोर्वेदवित्त्वकोटिरेवाधिका । संशयादयमेव विशेषः सम्भावनायाम् । ब्राह्मणत्वादिहेतोर्व्यभिचारित्वान्न निश्चयः । अवेदविदोऽपि ब्राह्मणा दृश्यन्ते । वेदविदः क्षत्रियाश्च । वेदावाप्त्यनुकूलभावनाश्रय एकोऽपरोक्षार्थस्तदाश्रयात्मधारणानुकूला या भावना तद्विषया ब्राह्मणत्वहेतुका या सम्भावना तद्विषया वेदावाप्त्यनुकूलभावनाश्रयपरोऽक्षैकार्थनिष्ठात्मधारणाऽनुकूला भावनेति वा बोधः । एवं भवेदयं बलवान् क्षत्रियत्वादित्यादि बोध्यम् ॥ या। अतः परो या इः स्यात् ॥ भवेत्, भवेताम् ॥ (सुबोधिनी)-या ॥ अविभक्तिको निर्देशः । अतः परो या इः स्यात् ॥ अतः 'किम् । युयात् ॥ तपरः किम् । यायात् ॥ (तत्त्वदी०)-या इति अनुकार्यानुकरणयोरभेदविवक्षयाऽवभक्तिको निर्देशः । आदात्य इरित्यत इरित्यनुवर्तते । अन्त्यादेशः षष्ठयभावान्न। युस इट् ॥ अतः परस्य युस इडागमः स्यात् ॥ भवेयुः । भवे, भवेतम्भ वत। (सुबोधिनी)-युस इट् ॥ अतः परस्य युस इट् स्यात् ॥ टित्त्वादादा ॥ (तत्त्वदी०)-युस इट्॥इति टित्त्वादागमः। अन्यथा इरित्यस्यानुवृत्तौ इड्ग्रहणं न कुर्यात् । Page #31 -------------------------------------------------------------------------- ________________ [ आख्याते भ्वादयः ] टीकाद्वयोपेता। (११) यामियम् ॥ अतः पगे यामियं स्यात् ॥ भवेयम् , भवेव, भवेम । शिष्यो गुरुशुश्रूषको भवेत् । विधिः। भवेदसौ वेदवित् ब्राह्मणत्वात् ॥ (सुबोधिनी)-यामियम् ॥ अतः किम् ? युयाम् । तपरः किम् ? यायाम् । आशी प्रेरणयोः तुप ताम् अन्तु हि तम् त आनि आवम् आम ताम् आताम् अन्ताम् स्व आथाम् ध्वम् ऐप् आवहप आमहैप् ॥ अप्राप्तप्रार्थनमाशीः । परस्येष्टार्थशंसनं वा । प्रेरणं प्रवर्तनम् । तत्र तुबादयः । एषां संज्ञा लोट् ॥ . . (सुबोधिनी)-आशी:प्रेरणयोः तुप ताम् अन्तु, हि तम् त, आनिप् आव आमप्, ताम् आताम् अन्ताम्, स्व आथाम् ध्वम्, ऐप आवहैप् आमहैप् ॥धातोस्तुबादर : स्युः आशीःप्रेरणयोर्वांच्ययोः। आशी प्रेरणयोर्वर्तमानाद्धातोरिति द्योतकतापक्षः । आशासनमाशीः । 'आङः शासु इच्छायाम्' ततः कि । आत इत्त्वं निपातितं,षयम् । प्रपूर्वादीर्गतावित्यस्मात्प्रेरणार्थञ्यन्ताद्भावे युट। प्रेरणा प्रवर्तना विधिशब्दार्थ एव । आशीश्च प्रेरणा च आशी प्रेरणे तयोः । आशासनं चाप्राप्तस्यैव संभवतीत्यप्राप्तप्रार्थनमाशीः।साच स्वस्य परस्य च संभवतीति परस्येष्टार्थशंसनं वा आशीरिदमप्यप्राप्तविषयमेवायद्यपि यादादितुबादयोन कालविशेषे विहिताः, तथापि भविष्यत्कालोऽत्र गम्यते, अतीतवर्तमानयोर्विध्याद्यसंभवात् ॥ (तत्त्वदी०)-आशी प्रेर गयोरिति ॥ आशासनमाशीः । आङः शासु इच्छायाम् अस्मात्संज्ञायामकर्तरीत्यनुवर्तमाने त्रियां क्तिरित्यधिकारे संपदादेः किब् वेति किप् । अस्मादेव निपातनात्किपि अत इः । शारीरिग्नेनेत्वं तु परस्मैपदिनो ग्रहणान्न, आशिषीति निर्देशात्। किला-- त्यस्य धातोः सस्य षः। प्रेर्यत इति प्रेरणा । प्रवादीर्गतावित्यस्मादन्त वितञ्यर्थाद्भावे युट् । प्रेरणा विधिरेव । आशीश्च प्रेरणा च आशी:प्रेरणे तयोः । तयोरर्थमाह-अप्राप्तेत्यादिना । (तुह्योस्तांतशिषि वा) भवतु-भवतात् , भवताम्, भवन्तु॥ (सुबोधिनी)-तुह्योस्तातङाशिषिवा॥तुश्च हिश्च तुही तयोः अनन्यार्थ हि ङित्त्वमन्त्यादेशं प्रयोजयति।अत्र तु गुणवृद्धिप्रतिषेधे संप्रसारणे चरि-- तार्थत्वात् ङित्त्वस्य नान्त्याःता ॥ ब्रतात् । मृष्टात् । उष्टादित्यादि ॥ (तत्त्वदी०) तुह्योरित्या॥ितुश्च हिश्च तुही तयोः । अत्र तातडो ङित्त्वं गुणप्रतिषेधसंप्रसारणाद्यर्थतयासंभवत्प्रयोजनमतो नान् पादेशं प्रयोजयति। अनन्यप्रयोजनमेव ङित्त्वमन्त्यादेशं प्रयोजयति। अतः ॥ अतः परस्य हेर्लुक् स्यात् ॥ भव-भवतात्, भवतम्, भवत । भवानि, भवाव, भवाम । अध्ययनायोद्यतो भव सौम्य । आयुष्मान् भवतु भवान् ॥ Page #32 -------------------------------------------------------------------------- ________________ ( १२ ) सिद्धान्तचन्द्रिका | [ आख्याते भ्वादयः ] ( सुबोधिनी ) - अतः स्थानिवद्भावेन तातङो हित्वेऽपि लोपो न । ओर्वाहेरित्यतो वेत्यनुवृत्तस्य व्यवस्थितत्वेन स्वीकारात् ॥ (तत्त्वदी०) - अत इति ॥ अत्र ओर्वाहेरित्यतो वेत्यस्यानुवृत्ते तस्य व्यवस्थितत्वाश्रयणात्स्थानिवद्भावेन तातङो ङित्वेऽपि न लोपः ॥ आयुष्मानिति ॥ अतिशयितायुः प्राप्त्यनुकूलैकभवदर्थाश्रया याऽऽत्मधारणाऽनुकूला क्रिया तद्विषया शुभाशंसाविषयीभूता । दीर्घायुः प्राप्यनुकूलैकभवदर्थाश्रयामधारणानुकूला क्रियेति वार्थः । यादादितुबादीनां कालविशेषाकथनेऽपि भविष्यत्कालो बोध्यः । शब्द कुर्वाण नरे विरामाशङ्कायां शब्दं कुर्वित्युक्तावपि भाविशब्दविषयत्वात् । विधेर्न वर्तमानशब्द विषयता ॥ अनद्यतनेऽतीते दिन ताम् अन् सिप् तम् त अमिपू व मतन् बाकी आताम् अन्त था आथाम् ध्वम् ई वहि महि | अतीताया रात्रेर्यामद्वयादर्वाग्यावदागामिन्याः प्रथमं यामद्वयं दिवसः सकलः सोऽद्यतनः नास्त्यद्यतनो यस्मिन्नतीते काले तत्र दिवादयः ॥ एषां -संज्ञा लङ् ॥ दिसिमीनामिकार उच्चारणार्थः (सुबोधिनी) - अनद्यतनेऽततेि दिपू ताम् अन्, सिप् तम् त, अभिपू व म, तन् आताम् अन्त, थाम् आथाम् ध्वम्, ई वहि महि ॥ अनद्यतनेऽतीते काले द्योत्ये वाच्ये वाधातोर्दिबादयो भवन्ति । अस्मिन्नहनीत्यद्यशब्दवाच्यः कियान् कालः । अतीतरात्रेरन्तिमं यामद्वयमागामिन्याः प्रथमं यामद्वयं मध्यवर्ती दिवसः स कालोऽद्यशब्दवाच्यः । अद्य भवोऽद्यतनः । त्यतनाविति तनः । अद्यतन कालस्त्रिविधः, अतीतोऽनागतो वर्तमानश्च । तत्राद्यतने अतीते भूते सिः । अद्यतने वर्तमाने तिबादिः । अद्यतनेऽनागते ऌट् । नास्त्यद्यतनो यस्मिन्निति बहुव्रीहिः । यद्वा । अद्यतनादन्योऽनद्यतन इति नञीति नत्रतत्पुरुषः । 'अन्स्वरे' इत्यन् । नाम्नो नो लोपशिति नलोपस्तु न विधानसामर्थ्यात् । तस्मिन् ह्यस्तने काले दिवादिरर्थादपरोक्षे परोक्षे दिविधानात् ॥ (तत्त्वदी०) - अनद्यतने इति । अस्मिन्नहनीत्यद्य । सद्यआ देत्वादिदमद्यप्रत्ययश्चाहनीत्यनिपात्यते । तद्भितोक्तत्वात्प्रथमा । अद्यशब्दवाच्यः कियान् काल इत्याह- अतीताया इत्या• दि॥ अतीता गता या रात्रिश्चातुर्यामात्मिका तस्या यद्यामद्वयं ततोऽर्वा आगामिन्या रात्रेः प्रथमयाए मद्वयं यावद्भवति तावानष्टयामात्मकःकालोऽद्यशब्दवाच्यः । केचित्तु अरु गोदयादारभ्य अरुणोदयपर्यन्तः काल इत्याहुः । अन्ये तु सूर्योदयादारम्य सूर्योदयपर्यन्तमित्याहुः । लौकिकानां ह्योऽद्य एव इति त्रै व्यवहारदर्शनात्। अद्यभवोऽयतनः । व्यतनाविति तनः । अद्यतनश्च कालस्त्रिविधः, अतीतवर्त मानानागतभेदात् । अतीते सिः। वर्तमाने तिबादिः । अनागते स्यप् । नास्त्यद्यतनो यस्मिन्निति बहुव्रीहिः तस्मिन् ह्यस्तने काले दिबादिरर्थादपरोक्ष । मन्वेवं ह्यस्तन इत्येवास्तु अनागतकालशङ्काऽपि नेति चेत् ? सत्यम् । नञोकपनित्यमित्यद्यतनेऽपि परोक्षेऽपरोक्षे । णादिविध्यर्थमिदम् । तेन 'बहु जगद पुरस्तात्तस्य Page #33 -------------------------------------------------------------------------- ________________ [ आपाते भादयः ] टीकाद्वयोपेता। मत्ता किलाहम्' इत्यादिप्रयोगाः सिद्धा ।।बहुव्रीहिपक्षेऽद्यतनेऽद्यतनाभावादद्यतने दिवादिप्रसङ्गाशङ्का तु न । अद्यतनेऽव्यापकेऽद्यतनस्य व्या' यस्य सत्वात् ॥ दिवादावट ।। धातोः ॥ अभवत् , अभवताम् , अभवन् । अभवः, अभवतम् , अभवत । अभवम् , अभवाव, अभवाम । ह्योऽभवत्वत्पुत्रः॥ __ (सुबोधिनी)-दिबादावट ॥ दिवादाविति सप्तमीनिर्देशादबादिव्यवधाने:प्राप्तावादावडेव पश्चादवादिः॥ (तत्त्वदी०)-दिबादावडिति ॥ यद्यपि प्रत्ययाधिकारस्तथापि टिस्वादागंमत्वमस्य । प्रत्ययत्वे धातोः परत्वं स्यात् । परत्वे च प्रयोजनाभावाट्टित्वं व्यर्थं स्यात् । धातोरिति षष्ठयन्तानुवृत्तेरागमत्वं तस्यैव ॥ दिबादाविति सप्तमीनिर्देशादबादिव्यवधानेऽप्राप्तेरादावडेव पश्चादबादिरिति बोध्यम्। न च वचनसामाद्वयवहितेऽपि भविष्यतीति वाच्यम् । लुप्तविकरणे चरितार्थत्वात् । न च नित्यत्वादबादिनैवादी भाव्यमिति वाच्यम् ।अन्तरङ्गत्वादट् । अन्तरङ्गत्वं चास्य शब्दमात्रापेक्षत्वात् । अबादेस्तु कर्नाद्यपेक्षत्वाद्बहिरङ्गत्वम् ॥ ह्योऽभवदिति॥गतदिवसाधिकरणिका युष्मजन्यपुत्राश्रया-- त्मधारणानुकूलातीता क्रियेत्यर्थः । . परोक्षे णप् अतुस् उस् थप् अथुस् अणप् व म ए आते इरे से आथे ध्वे ए वह महे ॥ धातोः परोक्षेतीते काले णबा-- दयः॥ एषां संज्ञा लिट् ॥ (सुबोधिनी)-परोक्षे॥णा अतुस् उस्,थप् अथुस्,अ, ण, व,म,ए,आते, इरे, से, आथे, ध्वे, ए वह महे॥अनद्यतनातीतपरोक्षार्थक्रियावृत्ते तोर्णवादिरिति द्योतक-. तापक्षः। अनद्यतनातीतपरोक्षाथे णबादिरित वाचकतापक्षः । अक्ष्णः परः परोक्षः। टाडका इत्यः। यस्य लोपः। अक्षादिन्द्रियात्पर इति वा क्वचिदमाद्यन्तस्य परत्वमिति पञ्चम्यन्तस्य परत्वं, परशब्दस्याकारस्योकारो निपातनात् ॥ (तत्त्वदी०)-परोक्ष इति ॥ अक्ष्णः परः परोऽक्षः।टाडका इत्यः।अक्षादिन्द्रियात्पर इति वा । कचिदमाद्यन्तस्य परत्वमिति पञ्चम्यन्तस्य परत्वम् । अस्मादेव निपातनात्परशब्दस्यौकारः । अनद्यतनातीतपरोक्षार्थवृत्तेर्धातोर्णबादयः ॥ ननु पच्यर्थो विक्लित्यनुकूलो व्यापारसन्तानोऽधाश्रयणान्तक्रियाशब्दवाच्यः,तस्य समुदायस्य यु पदुत्पत्यभावादाशुविनाशित्वाच्च परोऽक्षत्वमस्त्येवातोणबादिरस्विति वाघ्यम्, एकैकव्यापारस्य प्रत्यक्षत्वेन समुदायस्यापि लौकिकानां प्रत्यक्षत्वाभिमानात् । यत्र त्वकोऽप्यवयवोऽप्रत्यक्षस्तत्र क्रिया पक्षा॥अनद्यतने किम् । नामान्तरे घटोऽभूत्।अत्र घटभवनपरोक्षमतीतमपि न चिरातीतम्॥अतीते किम् । अयं कटं कर्ता । अत्र करणस्य भविष्यदनद्यतनवेऽप्यतीतत्वाभावः ॥ परोक्षे किम् । 'रामो राज्यमचीकरत् ' इति हनुमदुक्तिः ॥ द्विश्च ॥ उक्तार्थणवादियोगे धातोर्द्विवचनम् ॥ Page #34 -------------------------------------------------------------------------- ________________ (१४) सिद्धान्तचन्द्रिका। [आख्याते म्वादयः ] (सुबोधिनी)-द्विश्च ॥ णबादीत्यनुवृत्तं सप्तम्या विपरिणम्यते । धातोद्विवचनं भवति णादौ परे॥ द्वौ वाराविति दिः द्वित्रिचतुर्म्य इति क्रियावृत्तौ सुः । अत्र क्रियावाचकं विना क्रियावृत्तेरसंभवाद्वचनमित्यध्याहियते । तच्च कृदन्तम् । तदपेक्षया धातो'रिति कर्मणि षष्ठी । धातोर्दै उच्चारणे कर्तव्ये इत्यर्थः॥अनन्तरस्येति न्यायेनोक्तणादियोगेनैव द्वित्वम् । न विदो नवानामिति विहितणादियोगे । अत्र द्विवचनं द्विःप्रयोगएव, न त्वादेशः । तेन तुतोसेत्यादौ कृतस्य सस्याभावात् षत्वं न ॥ (तत्त्वदी०)-द्विश्चेति ॥ द्वौ वाराविति द्विः । द्वित्रिचतु-र्यः सुरिति क्रियावृत्ती सुः। क्रियावृत्तिश्च क्रियावाचकं विना न संभवतीति वचनपदयोगः । अत्र द्विवचनं द्विः प्रयोग एव न त्वादेशः । तेन तुतोसत्यादौ कृतस्य सस्थाभावात्षवं न अनन्तरस्येति न्यायादुक्तणादिरेव गृह्यते,न तु विदो नवानामित्यादिविहितोऽपि । तेन वेदेत्यादौ द्वित्वं न ॥ सस्वरादिरिद्विः॥ अनेकस्वरस्य धातोः सस्वराद्योऽवयवोऽद्विरुक्तो द्विर्भवति ॥ (सुबोधिनी )-सस्वरादिविरद्विः ॥ अद्विरुक्तः किम् । बोभूयिषते ।। णादिः कित् ॥अपिण्णादिः कित् ॥ __ (सुबोधिनी)-णादिः कित्॥अपित्तादिर्डिदित्यतोऽपिदित्यनुवृत्तम् । ण आदियस्याष्टादशात्मकस्य समुदायस्य स णादिः। कित् किद्धताकार्यातिदेशोऽयमाईजतुः। जुहुवतुः॥ (तत्त्वदी०)-णादिः किदिति ॥ण आदिर्यस्य स ण देः । अपित्तादिर्डिदिति सूत्रादपिदित्यनुवर्तते ॥ नन्वत्र किदिति किमर्थ पूर्वसूत्रात् ङिदित्यस्यानुवृत्तरेव सत्त्वादिति चेत्सत्यम्, ईजतुरित्यादौ संप्रसारणं न सिद्धयेत् । चक्रतुरित्यादौ डित्यदुरित्युत्वसंगापत्तेश्च ।अथ णादिरित्यत्र ज्वलादेर्ण इति विहितः कुतो न गृह्यते इति चेत्सत्यम् । क्या किपो कित्त्वेन तदग्रहणस्य सिद्धत्वात्। यत्तु वासुदेवेन ऋसंयोगान्नेत्यनन्तरं क्त्वासेटः किद्वेत्यतोऽनन्तरतो वाऽनुकर्षणात्कचित्संयोगाद्वा कित्त्वम् , तेन ममन्थतुः ममथतुरिति रूपद्वयमपि स्वीकृतं तदपाणिनं यत्वादुपेक्षितम् । ममन्थतुरित्यस्यैवोचितत्वात् ॥ . आभ्वोर्णादौ ॥ पूर्वस्याकारस्य भूशब्दस्य चाकारो णादौ परे॥ . (सुबोधिनी)-आभ्वोर्णादौ॥ अश्च भूश्च अभ्वौ तयोः पूर्वस्य इसादिरित्यतः पूर्वस्येत्यनुवृत्तम् ॥ . (तत्त्वदी०)-आभ्वोर्णादाविति ॥ आम्वोरिति छेदः । अश्च भूश्च अभ्वौ तयोः । पूर्वस्य हसादिरिति सूत्रात् पूर्वस्येत्यनुवर्तते ।षष्ठीनिर्दिष्टत्वाद् भुव उकारस्या।नानर्थकेऽलोन्त्यविधिरनभ्यासविकारे इत्यत्र अभ्यासविकारत्वान्नान्त्यस्य निषेधः ।यत्तु नो वेत्यतो वेत्यनुवृत्तेर्व्यवस्थया भावकर्मणोर्भुवो नात्वम् । तेन बुभूवे सुखमनुबुभूवे इत्युक्तं वासुदेवेन । तन्न । बभूवे अनुबभूवे इति रूप Page #35 -------------------------------------------------------------------------- ________________ [ आख्याते म्वादयः ] टीकाद्वयोपेता। स्यैव न्याय्यत्वात् । 'तत्यातपत्रं बिभ्रांबभूवे । 'विभावरीभिर्बिभरांबभूविरे' इत्यादौ च तथा दर्शनात् । यद्यपि भूकारस्य दीर्घाकारकरण निरर्थक तथाऽप्यानचेत्याद्यर्थम् ॥ . ह्रस्वः॥ पूर्वसंबन्धिनो दीर्घस्य हस्वः॥ (सुबोधिनी)-द्वस्वः॥ पूर्वस्य स्वरस्य ह्रस्वः स्यात् ॥ बभूवेत्यत्र तु आभ्वोरिति कृतस्य दीर्घस्य ह्रस्व इत्यर्थः ॥ झपानां जबचपाः॥ पूर्वस्य झपानां जबाश्चपाः स्युः॥ झढधघभानां जडदगबाः खफछठथानां चटतकपाः स्युः॥ (सुबोधिनी)-झपानांजबचपाः॥ वो वर्येणेति स्थानक्याद् आदेशा भवन्ति। भुवो ॥भुवो वुगागमो णादोस्वरे। बभूव, बभूवतुः, बभूवुः॥ (सुबोधिनी)-भुवो वुक् ॥ कृताकृतप्रसङ्गित्वेन नित्यत्वात्प्रथमं वुक्,ततो दुको 'धात्ववयवत्वाद्गुणवृद्धी न ॥ (तत्त्वदी०) भुव इति ।। वुको धात्ववयवत्वाद् गुणवृद्धी न । न च प्रथमं गुणवृद्धिप्रसङ्ग इति वाच्यम् । कृताकृतप्रसङ्गित्वेन नित्यत्वात्प्रथमं तस्यैव प्रवृत्तेः ।। कादेर्णादेः॥ कृस् भृ व द्रु स्तु श्रु सु इत्येतेभ्यः परस्य वसादेर्णादेरिण न भवति, अन्यस्मात् भवतीति नियमादिट् स्यात् ॥ बभूविथ, बभूवथुः,बभूव । बभव,बभूविव,बभूविम।बलिबलवान् बभूव। (सुबोधिनी) क्रादेर्णादेः । डुकृञ् करणे' 'कृञ् हिंसायाम्' इत्युभौ गृह्यते । सृ गतौ । भृ भरणे। डुभृञ् धारणपोषणयोरित्युभौ । वृङ् संभक्तौ वृञ्वरणे इत्युभौ । द्रु गतौ । ष्टुञ् स्तुतौ । श्रु श्रवण । सु गतौ । एते कादयः । कृ सृ भृ इति त्रयाणामनुदात्तत्वान्नैकस्वरादिति प्रकृत्याश्रये इनिषेधे प्राप्ते वृद्धृञोस्तूदात्तत्वात कित इति प्रत्ययाश्रये इनिषेधे प्राप्ते द्रुस्त्वादीनां चतुर्णी स्वरान्तत्वात् स्वरान्तादत्वतश्चेतीविकल्पे प्राप्ते च नियमः ॥ ( तत्त्वदी०) क्रादेरिति ॥ डुकृञ् करणे । सृगतौ । डुमृञ् धारणपोषणयोः । वृञ् वरणे । द्रु गतौ । ष्टुञ् स्तुतौ । श्रु श्रवणे । स गतौ एते कादयः ॥ नियमादिति ॥ विध्यभावादिडभावे सिद्धे सत्यारम्भो नियमाय भतीति नियमः ॥ आशिषि यात् यास्ताम् यासुस् यास् यास्तम् यास्त यासम् यास्व यास्म सीष्ट सीयास्ताम् सीरन् सीष्ठास् सीयास्थाम् सीध्वम् सीय सीवहि सीमहि ॥ धातोराशिषि यादादयः ॥ एषां संज्ञा लिङ् । Page #36 -------------------------------------------------------------------------- ________________ ( १६ ) सिद्धान्तचन्द्रिका | [ आख्याते भ्वाददः ] (सुबोधिनी ) - आशिषि ॥ यात् यास्ताम् यासुस्, यासू यास्तम् यास्त, यासम् यास्व यास्म, सीष्ट सीयास्ताम् सीरन्, सीष्ठास् सीयास्थाम् सीध्वम्, सीय सीवहि सीमहि ॥ धातोर्यादादय आशीर्वादे वाच्ये । यद्वा । प्रार्थ्यमानक्रियावृत्तेर्धातोरिति वा ॥ ( तत्त्वदी० ) आशिषीति ॥ स्वस्य परस्य चेष्टार्थस्याआशंस्नमाशीः । तस्यां वाच्यायां यादादयः । यद्वा प्रार्थनप्रक्रियावृत्तद्धातोर्यादादयः ॥ आशीर्यादादेः पं कित् ॥ भूयात् भूयास्ताम् भूयासुः । भूयाः, भूयास्तम् भूयास्त । भूयासम् भूयास्व, भूयास्म । स श्रीमान् भूयात् ॥ (सुबोधिनी ) - आशीर्यादादेः पं कित् ॥ ननु ङित्त्वेनैव गुणवृद्धि निषेधः सिद्ध इति चेन्न । इज्यात्सुप्यादित्यादौ सम्प्रसारणार्थं जागर्यादित्यादौ जागतेरिति गुणार्थं च किचनम् ॥ ( तत्त्वदी ० ) - स श्रीमानिति । एकतदभिन्नाश्रया श्रीमदनुल्ला भावनाशंसना । आशंसाविषया भवनक्रिया वेति बोधः ॥ श्वस्तने ता तारौ तारस तासि तास्थस् तास्थ तास्मि -तास्वस तास्मस् ता तारौ तारस तासे तासाथे ताध्वे ताहे तव तास्महे ॥ श्वोभाविन्यर्थे तादयः ॥ एषां संज्ञा लुट् ॥ आज अश (सुबोधिनी ) - श्वस्तने ॥ ता तारौ तारस्, तासि तास्थस् तास्थ, तास्मि तास्वस् तास्मस्, ता तारौ तारस्, तासे तासाथे ताध्वे, ताहे तास्वहे तास्महे ॥ आगामिनि दिने श्वोऽव्ययम् । श्वोभवः श्वस्तनः कालस्तस्मिन्वाच्ये धातोस्तादयः । यद्वा । श्वस्तने व्यापारे वर्तमानाद्धातोरिति वा ॥ (तत्त्वदी ० ) - श्वस्तने इति ॥ अद्यतनदिनातिरिक्तागामिनि दिने श्वःशब्दो वर्तते । तत्र भवः श्वस्तनः कालस्तस्मिन्वाच्ये धातोस्तादयः । सिसुतासीस्यपामिट् ॥ भविता भवितारों, भवितारः । भत्रि तासि, भवितास्थः, भवितास्थ । भवितास्मि, भवितास्वः, भवि तास्मः । श्वो भविता राज्यभारः कुमारस्य ॥ (सुबोधिनी) - सिसतासीस्यपाभिट् ॥ धातोरित्यनुवृत्तम् ॥ ( तत्त्वदी ० ) - वो भवितेति ॥ चिरागामिदिनाधारा एका राज्यभाराभिन्नाश्रयकाऽऽगामिकालमाविनी आत्मधारणानुकूला क्रियेत्यर्थः ॥ त्यादौ भविष्यति स्यप् ॥ धातोर्भविष्यतेि काले स्यप्रत्ययों भवति तिबाद्यष्टादशसु परतः ॥ एषां संज्ञा लट ॥ भविष्यति, Page #37 -------------------------------------------------------------------------- ________________ [ आख्याते भ्वादयः ] टीकाद्वयोपेता । भविष्यतः, भविष्यन्ति । भविष्यसि, भविष्यथः, भविष्यथ । भविष्यामि, भविष्यावः, भविष्यामःाकल्की धर्मपालको भविष्यति। (सुबोधिनी)-त्यादौ भविष्यति स्यप् ॥ तिरादिर्यस्य तस्मिन् भविष्यत्यर्थे वर्तमानाद्धातोः स्यप्प्रत्ययो भवति त्यादौ परे। इति भविष्यत्त्वं द्योत्यम् । यद्वा धातोः स्यब्भविष्यति काले वाच्ये तिवादौ परे । भविष्यतीति शत्रन्तात्सप्तमी॥ (तत्त्वदी०)-त्यादौ भविष्यतीति ॥ ति तिर आदिर्यस्य स त्यादिस्तस्मिन् । स्यविशिष्टेत्यादिवाच्यं भविष्यत्त्वमिति द्योत नाह-धातोरित्यादि ॥ शतृशानयोरपि तिप्तेवदतिदेशात्स्यप् । तेन यक्ष्यन् यक्ष्यमाण इत्यादि सिद्धम् ॥ स्यप क्रियाऽतिक्रमे क्रियाया अतिक्रमे कुतश्चिदनिष्पत्तौ सत्या स्यप्प्रत्ययो भवति दिमादिषु परतः ॥ एषां संज्ञा लङ्॥ यदि सुवृष्टिः सुराज्यं चाभवि यत् तदा सुभिक्षमभविष्यत् । अभविष्यत्, अभविष्यताम् अभविष्य ! अभविष्यः, अभविष्यतम् , अभविष्यत। अभविष्यम् , अभविष्या , अभविष्याम॥ (सुबोधिनी)- स्यप् क्रियातिक्रमे ॥ क्रियाया अतिक्रमः अनिष्पत्तिः आसिद्विरित्यर्थः । भविष्यतीत्यनुवृत्तम् । उत्तरसूत्राद्भते इति च । भूते भविष्यति चार्थे वर्तमानाद्धांतार्दिबादिर्भवति । क्रियाऽनिष्पत्तौ गम्यायां दिवादौ च परे स्यप् भवति । यद्वा-धातो ते भविष्यति चार वाच्ये दिवादिर्भवति तस्मिश्च परे स्यपू क्रिया:तिक्रमे गम्यं ।। (तत्त्वदी०)-स्य क्रियाऽतिक्रम इति ॥ क्रियाया अतिक्रमः अनिष्पत्तिः असिद्धिरिति यावत् । भूतत्वं भविष्यत्वं चानुक्तम पे परिशेषाल्लब्धम् ॥ यदि सुवृष्टिरिति ॥ सुवृष्ट्याश्रयात्मधारणानुकूला भूता भविष्यन्ती वा स क्रिया तदभावप्रयुक्तसुभिक्षाश्रयात्मधारणानुकूलायाः क्रियाया असिद्धिः ॥ क्रियाऽतिक्रमे किम् ? नुवृष्टिरभूत्, सुवृष्टिर्भविष्यति, सुभिक्षमभूतु, सुभिक्षं भविध्यति ॥ दिबा दिषु किम् । कृष्णं नमेच्चेत्सुखं यायात् । कादिकमाख्यातवाच्यम् । कालस्तु धातोराख्यातस्य वाऽर्थः । स्यपस्तु विकरणत्वादनर्थकत्वमेव । एवं त्यादावपि सिरपि । अत्र त्यादौ भविष्यतीत्यतः स्यबनुवृत्तिस पवे स्यग्रहणं कळदावपि विधानार्थम् । तेन करिष्यन् करिष्यमाण इत्यादि सिद्धम् ॥ भ्रते सिः ॥धातोर्भूतमात्रे काले सिः प्रत्ययो भवति दिवादिषु परतः॥ एषां संज्ञा लुङ् ।। (सुबोधिनी )-भूते सिः॥ अभूत् इति भूतः । अकर्मकत्वात्कर्तरि क्तः । भूतसामान्यार्थे वर्तमानाद्धातोदिबादिर्भवति । यदा-धातोः परः भूतसामन्ये वाच्ये दिवादि Page #38 -------------------------------------------------------------------------- ________________ (१८) सिद्धान्तचन्द्रिका। , [ आख्याते भ्वादयः ] भवति तस्मिंश्च परे सिप्रत्ययो भवति। सिसहितस्य दिबादेर्भूतसामान्योऽर्थः । अवादिसहितस्य तु भूतविशेषोऽनद्यतनोऽपरोक्षोऽर्थः ॥ ___ (तत्त्वदी०)-भूते सिरिति ॥ अभूदिति भूतः । अकर्मकत्वात्यत्तरि क्तः । भूतसामान्ये सिरित्याह भूतमात्र इति । तथा च सिविशिष्टदिबादेर्भूतसामान्योऽयः । अबादिविशिष्टस्य तुं भूतविशेषानद्यतनोऽपरोक्षः भूतानद्यतनपरोक्षे णबादिः ॥ दादेःपे ॥ पे परे अपिदाधास्थाइणभूपिबतिभ्यः परस्य सेर्लोपः॥ (सुबोधिनी)-दादेपे ॥ दा आदिर्यस्य सदादिस्तस्म त्सेर्लोपः पे परे॥डुदा दाने, दाण् दाने, दो अवखण्डने, इत्येतेषां दाशब्देन ग्रहणम् । दाप् लवने, दैप शोधने, दे पालने, एषां तु लक्ष्यानुसारान्न ग्रहणम् ॥ दुधाञ् धारणपोषणयोः, ष्ठा गतिनिवृत्तौ । इणू गतौ । भू सत्तायाम् । पा पाने ॥ (तत्त्वदी०)-दादे पे इति ॥ दा आदिर्यस्य दादिस्तस्य । अपिदिति दाप् लवने, दै शोधने, एतौ विहाय एतयोस्त्यागस्तु लक्ष्यानुसारादेव । डुधाञ् धारणा षणयोः, ष्टा गतिनिवृत्तौ, इण् गतौ, भू सत्तायाम् , पा पाने, एभ्यः सेर्लोपः । लोपो हस्वादित्यत लोपोऽनुवर्तते ॥ . (शाछासाघ्राधेटा वा) (सुबोधिनी)-शाछासाघ्राधेटां वा ॥ एभ्यः सेर्वा लोपः ॥ शो तनूकरणे । छो छेदने । षो अन्तकणि । घ्रा गन्धोपादाने । धेट पाने ।। (तत्त्वदी०)-नो वेत्यतो व्यवस्थितत्वानुवृत्तेश्शादीनां वा । शे तनूकरणे, छो छेदने, षो अन्तकर्मणि, घ्रा गन्धोपादाने, धेट पाने, एषां सेर्वा लोप इत्यर्थः ॥ (भुवः सिलोपेऽयङ्लुकि गुणो न ) अभूत , अभूताम् ॥ (सुबोधिनी) भुवः शिलापेऽयलुकि गुणो न ॥ भुवो गुणो न सिलोपे सति ॥ यङि लुकि तु भुवो गुणो भवति सिलोपे ॥ प्रकृतिग्रहणे यङ्लुगन्तस्यापि ग्रहणमिति परिभाषया गुणनिषेधे प्राप्ते विधिः । अभूत्, अब भोत् ॥ . (तत्त्वदी० )-भुव इति ॥ 'नानिटि से' इत्यतो नेत्यनुवृत्तेराह -भुव इति ॥ अयङ्लुकीति ॥ यङ्लुकि तु अबोभोदित्यत्र सिलोपेऽपि गुणो भवत्येव ॥ (भुवः सिलोपे स्वरे वुक्) अभूवन् । अभूः, अभूतम् , अभूत । अभूवम् , अभूव , अभूम ॥ (सुबोधिनी)-भुवः सिलोपे स्वरे वुक् ॥भुवो वुगागम स्वरे परे सिलोपे सति (माङि सिरेव)(स्मसहिते दिबादिर्वा) (सुबोधिनी)-माङि सिरेव ॥माशब्दे प्रयुज्यमाने धातोर्दिवादिपरः सिरेव भवति सर्वेषामाख्यातानां विषये । स्मसहिते दिबादिर्वा|स्मोत्तर माङि प्रयुज्यमाने धातोदिबादि । पक्षे भूते सिः। सर्वलकारविषये लङ्लुङावित्यर्थः॥ Page #39 -------------------------------------------------------------------------- ________________ [ आख्याते भ्वादयः] टीकाद्वयोपेता। (तत्त्वदी०)माडि सििित ॥ मेऽट इत्यत्र मे इति योग विभज्य सिरिति आवृत्याहमाङीति । सिरेव सिसहितो दिवादिरित्यर्थः । स्मयुक्ते माङि तु विकल्पेन दिबादिःकेवलः सिसहितश्च पक्षाननु भूते सिरित्यनेनैव निर्विहितः पुनः किमनेनेति चेत्सत्यम् । कालान्तरेऽपि विधानार्थमेतत् । तेन माङ्योगे सर्वलकारवि ये लुङेव भवति ॥ मेष्टः॥ माङ्योगेऽटो लोपः॥ मा भवान् भूत् । मा स्म भूत् । मा स्म भवत् ॥ (सुबोधिनी )- मेऽटः लोप इत्यनुवृत्तम्।माशब्दे प्रयुज्यमाने सत्यटो लोपः ॥ ( तत्त्वदी०)-मेट इति॥ने अट इति छेदः । लोप इत्यनुवर्तते ॥ मे किम् । नाभवत् ॥ अट इति किम् । मा प्र भूत् । प्रस्य लोपो न ॥ आमाले ६ १९८३1 9 . (भ्र प्राप्तावात्वान ) भवते । (सुबोधिनी)-भू प्राप्तापात्वान् ॥आद्विद्यते यस्य स आत्वान् । आत्मनेपदीत्यर्थः॥ ( तत्त्वदी०)-भू प्राप्तावात्वानिति ॥ आत् विद्यते यस्य स आत्वान् ॥ आदाथ इः॥ अतः परस्यात आथश्चात इर्भवति ॥ भवेते, भवन्ते। भवसे, भवेथे, भवध्वे । भवे, भवावहे, भवामहे ॥ भवेत, भवेयाताम्, भवरन् । भवेथाः, भवेयाथाम्, भवेध्वम् । भवेय, भवेवहि, भवेमहि ॥ भवताम्, भ ताम्, भवन्ताम् । भवस्व, भवेथाम्, भवध्वम् । भवै, भवावहै, भवामहे ॥ अभवत, अभवेताम्, अभवन्त । अभवथाः, अभवेथाम्, अभवध्वम् । अभवे, अभवावहि, अभवामहि । बभूवे बभूवाते, बभूविरे । बभूविषे, बभूवाथे ॥ (सुबोधिनी.)-आदाथ इः॥अतः इत्यनृवृत्तम् । आच आश्र्च अच्च आदाथ् तस्य । आते आताम् आथे आथाम् इत्येतेषां टिं विहायानुकरणम् । अतः परस्य आत आथश्चाकार इर्भवति ॥ एधेते । एधेथ । ऐवेताम् । एवेथाम् ॥ (तत्त्वदी०)-आदाथ इरिति ॥ आ आदाथ इरिति छेदः । आच्च आथ्च अच्च आदा) तस्य । आते, आताम्, आथे, आयाम् एषाम् आतोऽतः परस्य इर्भवति । आ किम् अन्त्यस्य मा भूत् । तपरः किम् । गाते । अन्तरङ्गत्वादपः सवर्णदीर्घ कृते पुनः सवर्णदीर्घः ॥ नामिनोऽचतुर्णा धो ढः॥ नाम्यन्ताद्धातोः परस्य सीध्वंलुङ्लिटी धस्य ढः॥ (सुबोधिनी) नामिनोञ्चतुर्णा धो ढः॥ नामिन इति धातोविशेषणत्वेन तद•न्तविधिः॥ Page #40 -------------------------------------------------------------------------- ________________ (२०) सिद्धान्तचन्द्रिका। [आख्याते भ्वादयः ] (सेटो हलादा) बभूविट्वे-बभूविध्वे।बभूवे, बभूविवहे, बभूविमहे ॥ भविषीष्ट, भविषीयास्ताम्, भविषीरन् । भविषीष्ठाः, भवि. षीयास्थाम्, भविषीढ़म्-भविषीध्वम् । भविषीय, भविषीवाह, भविषीमाहि ॥ भविता, भवितारो, भवितारः। भवितासे, भवितासाथे, भविताध्वे । भविताहे, भवितास्वहे, भवितास्महे ॥ भविष्यते भविष्येते, भविष्यन्ते । भविष्यसे, भविष्येथे, भविष्यध्वे । भविष्ये, भविष्यावहे, भविष्यामहे ॥ अभविष्यत, अभविष्येताम्, अभविव्यन्त । अभविष्यथाः, अभविष्येथाम् , अभिविष्यध्वम् । अभविष्ये, अभविष्यावहि, अभविष्यामाह। अभविष्ट, अभविषाताम् ॥ (सुबोधिनी)-सेटो हलाद्वासेटो हयवरलात्परेषां सीघ्वंलुलिटांधस्य वाढः॥ आतोऽन्तोऽदनतः ॥ आतोऽन्तोऽद्भवत्यकारदुत्तरस्य न॥ अभविषत । अभविष्ठाः, अभविषाथाम् ।। (सुबोधिनी)-आतोन्तोऽदनतः ॥ अन्ते,अन्तु,अन्ताम् एषां वचनानां टिं विहाय प्राग्भावस्यानुकरणम् । आदिति तु अन्त्यानां संज्ञेत्युक्तम् । आत्संबन्धिनोऽनकारात् परस्यान्तोद्भवति॥ आतः किम् । युवन्ति ॥ अनत इति किम् । एधन्ते ॥ तपरः किम् । गाते ॥ (तत्त्वदी० )-आतोऽन्तोऽदनत इति ॥आत इत्यात्मनेपदभ्य न त्वादन्तशङ्का अनत इति प्रतिषेधात्।तपरःकिम् । गातें । गा अन्ते इति स्थिते अन्तरङ्गत्वादप सवर्णदीर्वे पश्चात् अत् । अनत इति पर्युदासो लाघवात् । प्रसज्यप्रतिषेधे वनन्वितसमासो वा भेदश्चाश्रितः स्यात् ॥ (ध्वे सेर्लोपः) अभविठ्ठम्-अभविध्वम् । अभविषि, अभविवहि, अभविष्महि ॥ चिती संज्ञाने ॥ २ ॥ (सुबोधिनी (-ध्वे सेर्लोपः ॥ ध्वे प्रत्यये परे सिप्रत्ययस्य लोपः ॥ चिती संज्ञाने । सम्यग ज्ञानं संज्ञानम् ॥ उपधाया लघोः॥धातोरुपधाया लघो मिनी गुणः॥चेतति ॥ (सुबोधिनी) उपधाया लघोः॥ गुण इत्यनुवृत्तम् । ह्रस्वं लघु ॥ (तत्त्वदी०)-उपधाया लघोरिति ॥ गुण इत्यनुवृत्तेर्नामिन इ ते लभ्यते । उपधायाः किम् । भिनत्ति ॥ लघोः किम् । ऊहते ॥ पूर्वस्य हसादिः शेषः॥ पूर्वस्यादिर्हसः शिष्यने अन्ये हसा लुप्यन्ते ॥ चिचेत । चिचेतिथ॥ ( सुबोधिनी)-पूर्वस्य हसादिःशेषः ॥आदिश्चासौ हसश्चेति विशेषणस्याप्यनेन परनिपातो ज्ञाप्यते ॥ Page #41 -------------------------------------------------------------------------- ________________ [ आख्याते भ्वादयः ] टीकाद्वयोपेता । (२१) ( तत्त्वदी०)-पूर्वस्य हसादिरिति ॥ हस आदिरिति छेदः । हस इति लुप्तप्रथमान्तम् । सेः ॥ विद्यमानात सिशब्दात्परयोर्दिसिपोरीट् ॥ (सुबोधिनी)-सेः॥ अस्तेरिट इत्येतदनुवृत्तम्। अस्तेरित सेर्विशेषणम् । विद्यमानात् सिप्रत्ययात् परयोदिस्योरीडागमः ॥ विद्यमानाकिम् ? अदात्, अत्र प्रत्ययलक्षणेन सेः परत्वमस्ति । विद्यमानादिति विशेषणान्नेट् ॥ ( तत्त्वदी० )-सेरिति। अत्रास्तेरिडिति सूत्रात् पदद्वयमप्यनुवर्तते । पूर्वपदं तु सेविशेषणम् । तेन विद्यमानात्सेरिति लब्धम् । अन्यथा अदादित्यत्र प्रत्ययलक्षणेन सेरीट्प्रसङ्गः स्यात् ॥ . इट ईटि॥ इटः परस्य सेर्लोप ईटि ॥ अचेतीत्, अचेतिष्टाम् ॥ (सुबोधिनी)-इट ईटिसिरिति लोप इति चानुवृत्तम् । लुङि अचेतिस इंडिति स्थिते। सेर्लोपः। सिलोपो दीर्धे सिद्धो वक्तव्यः दीर्घे कर्तव्ये सिलोपः सिद्धो वाच्यों, न त्वसिद्धः । अचेतीत् ॥ टः किम् । अहार्षीत् ॥ इटि किम् । अचेतिष्टाम् । - स्याविदः॥ विद्यमानात सेरातो विदश्च परस्यान उस् भवति ॥ अचेतिषुः ॥ च्युतिर आसेचने ॥ च्योतति। च्योतेत्। च्योततु, च्योतताद्वा । अच्योतत् । चुच्योत । च्युत्यात् । च्योतिता। च्योतिष्यति" अच्योतिष्यत् ॥ (सुबोधिनी)-स्याविदः॥ सिश्च आश्च विद् च एषां समाहारः स्याविद् । तस्माद् एभ्यः परस्यान उइ स्यात् ॥अत्राप्यस्तरित्यनुवृत्य विद्यमानात् सेः परस्यान इति व्याख्यानान्नेह । अभूवन् । अदुः। आविदुः॥ च्युतिर आसेचने । आसेचनम् आर्द्राकरणम् । इरितीरितो वेति विशेषणार्थः ॥ (तत्त्वदी०)-स्याविद इति॥सिश्च आश्च विद् च एतेषां समाहारः स्याविद् तस्मात्। अत्र वाक्यत्रय बोध्यम्, सेरित्याद्यम्, तत्र प्रत्ययाप्रत्ययन्यायेन प्रत्यय एव गृह्यते विकरणव्यवधानेन धातोः परस्यानोऽसंभवात् । ॐवाप्यस्तरित्यनुवर्त्य विद्यमानात्सेरिति व्याख्येभम् । तेनाभूवन्नित्यत्र प्रत्ययलक्षणेन सेः परस्याप्यनोऽविद्यमानत्वान्नो सादेशः । आ इति द्वितीय वाक्यम् । अत्र सिग्रहण नानुवर्तते।यद्यनुवर्तते तर्हि प्रत्ययलक्षणेन आदन्तादेव सेरन उस् स्यात् नान्यस्मादिति नियमःस्यात्। तथा च-अनद्यतने न स्यात्। न-विकल्पः फलितः।अयुः, अयान् । विद इति तृतीयम् । अत्राप्यूद्यतने विकल्पेन । भूतमात्रे तु सिरित्यनेनैव सिद्धम्-अत्राहुः । अत्र सिविद इति सूत्रणीयम्, तत आत इति सूत्रणीयम्, तो णब्डाविति; इत्थं चाकारग्रहणं न कर्तव्यम् इति लाघवम् । एवं कुतो न कृतमिमि चिन्त्यमिति ॥ अत्रेदमवधेयम् । एकमात्रालाघवाय योगविभागस्यानिष्प्रमाणत्वेन उपेक्षणीयत्वात् । अतो न तथा कृतमिमि विभाव्यम् ॥आसेचने इति ॥ आसेचनमार्दीकरणम्। आङीषदर्थेऽभिव्याप्तौ च ॥ Page #42 -------------------------------------------------------------------------- ________________ (२२) सिद्धान्तचन्द्रिका । [ आख्याते भ्वादयः ] "इरितो वा ॥ इरितो धातोर्वा ङप्रत्ययो भवनि पे। सेरपवादः॥ , अच्युतत्-अच्योतीत् ॥ श्च्युतिर क्षरणे ॥ श्च्योतति । श्च्योतत् । : श्च्योततु-श्च्योतताद्वा । अश्च्योतत् ॥ ' (सुबोधिनी)-इरितो वा ॥ इरित् यस्य स तस्मात् परितो धातोर्वा ङाभूतमात्रार्थे दिबादौ पे । सेरपवादः ॥ लित्पुषादेरित्यतो ङ इत्यनुवृत्तम् ।। (तत्त्वदी० )-इरितो वेति॥इरित् यस्य स इरित् तस्मात् । सेरपवाद इति ॥ भूत-- मात्रार्थे दिवादौ पे इत्यपि बोध्यम् । तेन अवेवेक् भूतार्थत्वेऽपि न, रणद्धीत्यत्र दिबादिपरत्वाभावान्न । न चात्र भूतार्थताभावादेवाप्राप्तिरिति वाच्यम् । वर्तमानसमी" इत्यनेन भूतेऽपि तिबादिविधानात्, अरुद्धत्यत्र विवक्षितत्वाभात् ॥ शसात्खपाः॥ पूर्वशसात्पराः खपाः शिष्यन्ते न शसाः ॥ चुश्च्यात । श्च्युत्यात् । इच्यातिता । श्च्योति पति । अश्च्योतिष्यत् । अश्च्युतत्-अश्च्योतीत् । यकाररहितोऽप्ययम् । श्वोतति । श्चोतेत् । श्चोततु-श्चोततात् । अश्चोतत । चुश्चोत । श्चुत्यात् । श्चोतिता।श्चोतिष्यति। अश्वोतिष्यत् । अश्चुतत ।अश्चोतीत्॥ मन्थ विलोडने । मन्थात । मन्थेत । मन्थतु-मन्थताद्वा । अमन्थत । नो लोप इति नलोपे प्राप्ते ॥ (सुबोधिनी)-शसात्खपाः॥ शसः प्रत्याहारः॥मन्थ विलोडने।ज्यादावाप ॥ (तत्त्वदी०)-शसादिति ॥ शसः प्रत्याहारः । खपानां शेषलोक्तेः । शसानां निषेध इत्याह-न शसा इति॥ यकाररहित इति ॥ मधु श्चुतं घृतमिव सुपूतम्' इति प्रयोगश्चानुकूलः ॥ मन्थ विलोडने, मन्थ हिंसासंक्लेशनयोरपीत्येके ॥ ऋसंयोगान ॥ ऋसंयोगाण्णादिरकित् ॥ ममन्थ ममन्थतुः॥ (सुबोधिनी)-ऋसंयोगानेति ।। इह ऋसंयोगान्नति मूलसूत्रम् । तत्र णादिः किदित्यनुवृत्तम् । ऋश्च संयोगश्चानयोः समाहारः ऋसंयोगं, तस्मात् णादिः किन्न । जजरतुः । यादादौ कित्त्वात्, नो लोप इति नलोपः। मथ्यात् ॥ (तत्त्वदी०)-ऋसंयोगादिति ॥ ऋश्च संयोगश्च ऋसंयोगं तस्मात् । णादिः किदिति पूर्वसूत्रमनुवर्तते । कित्वाभावात्संप्रसारणाभावोऽपि । कित्त्वाविधानात् ङिवमपि न । अत्र केचित् । अर्ति प्रश्लिष्य आरतुरिरत्यादि सिद्धमित्याहुः,अन्येतु ऋऋ अतुस् इति स्तेि र इत्यत्वेअरिति च कृते पूर्ववग्रहणेन आभ्वीरित्यात्वे आरतुरिति । अत्रादिग्रहणमनुवर्त्य तन्त्रेण द्वितीयवाक्यार्थः । ऋदन्तासंयोगादेर्णादिरकित् तेन सस्मरतुरित्यादि । अथ कथं सस्रतुरिति चेन् ? नसोक्तस्यानित्यत्वात् । अत्र ऋहसादित्येव सुवचम् । ऋश्च हसश्च ऋहसं तस्मात्। एवं संयोगान्तस्य लोप इत्यत्र हसान्तस्य लोप इत्यस्यैव न्याय्यत्वम् । हसावन्ते यस्येति विग्रहः।। Page #43 -------------------------------------------------------------------------- ________________ [ आख्याते म्वादयः ] टीकाद्वयोपेता। (२३) नो लोपः ॥ धातोहसान्तस्योपधाभूतस्य नकारस्य लोपःकिति परे ॥ पूजार्थाश्वतेन । निरुपपदात् क्रुश्चेः विपि न ॥ मथ्यात् । मन्थिता। मन्थिष्यति । अमन्थिष्यत् । अमन्थीत् ॥ कुथि पुथि छुथिरे मथि हिंसासंक्लेशनयोः॥ (सुबोधिनी)-नो लोपः ॥ मथ्यात् ।। इदितो नुम् ॥ इदितोधातोर्तुम्॥कुन्थति। कुन्थेत्। कुन्थतु-कुन्थताद्वा । अकुन्थत् ॥ (सुबोधिनी)-इदिती नुम् ॥ इत् इद्यस्य स इदित् तस्य नुम् स्यात् ॥ कुहोश्चुः॥ पूर्वस्य कवर्गहकारयोश्चुत्वं भवति ।हस्य वर्गचतुर्थः॥ चुकुन्थ ॥ (सुबोधिनी)-कुहोश् वुः ॥ पूर्वस्येत्यनुवृत्तम् । कुश्च हश्च कुहौ तयोः संवारनादघोषमहाप्राणप्रयत्नस्य हस्य तादृश एव वर्गचतुर्थो भवति ॥ ( तत्त्वदी०)हस्य वर्गचतुर्थ इति ॥ स्थानेऽन्तरतम इत्यनेन घोषत्वादिगुणवतो हस्य तादृशो वर्गचतुर्थ एव एतच्चानधीतग्रन्थान्तरैज्ञेयम् ॥ (इदितो नलोपो न) कुन्थ्यात् । कुन्थिष्यति अकुन्थिष्यत् । "अकुन्थीत् ॥ चुबि ववत्रसंयोगे ॥ चुम्बति ॥ पिधु गत्याम् ॥ जवु (सुबोधिनी)-इदितं नलोपो न ॥ इदितो धातोर्नस्य लोपो न भवति । नो लोप इत्यस्यापवादः । विधु गत्याम् । अयमुदिदित्येके ॥ (तत्त्वदी०)-इदितो नलोपो नेति ॥ इदं च नो लोप इत्यत्र नो वेत्यतो वेत्यस्यापकृष्टस्य व्यवस्थितत्वाल्लभ्यते। चेदितो नुम्बिधिसामर्थ्यादेव लोपोनेति वाच्यम् । नदन्तीत्यादावकिति तस्य चरितार्थत्वात् ॥ विधु गत्यामिति ॥ काश्यपादिभिरयमुदिदुक्तः, माधवादिभिस्तु वृत्तिस्वरसादनुदिदेव स्वीकृतः ।। आदेः ष्णः स्नः।। धात्वाद्योः षकारणकारयोः सकारनकारी भवतः। सेधति । सेधेत् । सेधतु-सेधताद्वा । असेधत । सिषेध । सिध्यात् । सेधिता । (सुबोधिनी)-आदेः ष्णः स्नः॥ष च ण च ष्ण तस्य ष्णास् च नश्च स्नः॥ धातोः किम् । षट् ॥ आदेः किम् । लपति । अणति ॥ षोपदेशानाह-“सेक् सृप स स्तृञ् सृज् स्तृ स्त्यान्ये दन्त्याजेन्तेसादयः ॥ एकाचः षोपदेशाः स्युः वष्क स्विट स्वद् स्वञ्ज स्वप् स्मिङः ॥ १॥” दन्त्यश्च अच्च दन्त्याचौ तौ अन्तौ अव्यवहितो यस्य स दन्त्याजन्त: दन्त्याजन्तश्चासौ सश्च दन्त्याजन्तसः दन्त्याजन्तस Page #44 -------------------------------------------------------------------------- ________________ H (२४) सिद्धान्तचन्द्रिका । [ आख्याते भ्वादयः ] आदिर्येषां धातूनां ते दन्त्याजन्तसादयः। दन्त्यान्तसादयोऽजन्तसादयश्चैकाचः एकस्वरा धातवः षोपदेशाः। कथम्भूताः । सेकृ गतो, सृपल गती, सृ गतौ, स्तृञ् आच्छादने, सृज् विसर्गे, स्तृञ् आच्छादने, स्त्यै शब्दसंघातयोः, एभ्योऽन्ये । उक्तलक्षणस्यातिव्याप्ति वारयितुमिदं विशेषणम् । पुनः कथंभूताः । वष्क गतौ, अिष्विदा गात्रप्रक्षरणे, व्वद आस्वादने, ध्वञ्ज परिष्वङ्ग, त्रिष्व' शये, स्मिक ईषद्धसने, एतैः सहिताः ॥ १॥ एकाचः किम् । सोसून्यते । चुरादावदन्तोऽयम्॥ दन्त्याजन्तति किम् । चुस्कुन्दे । दन्त्यः केवलदन्त्यो, न तु दन्तोष्ठजोऽपि ष्वष्कादीनां पृथग्ग्रहणात् । तेन--स्वाद आस्वादने इत्यस्यासिस्वददित्यादौ षत्वं न ॥णोपदेशानाह । नई नाटि नाथ नाध नन्द नक्क नृ नृतः । नर्द शब्दे, नट अवस्पन्दने, चुरादिः । नट नृत्ताविति घटादिस्तु नेह गृह्यते नाटीति दीर्घनिर्देशात् । नाथू नार्थ यात्रादौ, टुणदि समृद्धौ, नक नाशने, नृ नये, नृती गात्रविक्षेपे 'एभ्योऽष्टाभ्यो भिन्ना णोपदेशाः। 'नाधृ नन्द नृ इति त्रयाणां के चण्णोपदेशतामाहुः ॥' (तत्त्वदी०)-आदरिति ॥ प् च ण् च ष्णू तस्य । स् च पश्च स्नः ॥ प्रादेश्च तथा तौ सुनमाम् ॥ प्रादेः परेषां स्वादीनां नमादीनां च धातूनां सकारनकारयोः षकारणकारौ भवतः, षत्वणत्वनिमित्ते सति । निषेधति ॥ (सुबोधिनी)-प्रादेश्च तथा तौ सुनमाम् ॥ प्रादिसंबन्धिनः किलात् परेषांस्वादीनां सस्य षः, नमादीनां नस्य णश्च । षत्वनिमित्तं क्वि उम् । णत्वनिमित्तं षकाररेफऋवर्णाः ॥ स्वादीनाह-"उपसर्गस्थनिमित्तात् सुनं तिसुवतिस्पतिस्तौतिस्तोभतिस्थासेनयसेधसिचसञ्जस्वञ्जाम्।प्रतिभिन्नात् सदेश्चावादालम्बनाविदूर्ययोः स्तम्भेश्च व्यवाभ्यां भोजने वनश्च परिनिविभ्यः सेवसितसयासिवुसहसुटस्तुस्वञ्जादेः स्कनातेश्च सस्य षः।" व्याख्या-पुञ् अभिषवे, पू प्रेरणे, षो अन्तकर्मणि, ष्टुञ स्तुती, ष्टुभ स्तम्भ एषां तिपा निर्देशाद्यङ्लुकि षत्वंन । तेनाभिसापवीति । अभिसोषोती. त्यादि । ष्ठा गतिनिवृत्तौ । सेनयति ञ्यन्तो नामधातुः। सनया अभियातीति अभिषेणयति। पिधु गत्याम् । षिच क्षरणे । षञ्ज सङ्गे। वञ्ज परिस्वङ्गे । स्तम्भु इति सौत्रो रोधनार्थः । ष्टभि प्रतिबन्धे इति तु न गृह्यते । लक्षणप्रतिपदोक्तन्यायेन सौत्रो हि नोपध इति प्रतिपदोक्तः । इदित्वान्नुमि कृते ष्टभिर्लाक्षणिकर तेन विस्तम्भते इत्यादौ पत्वं न। षद्ल विशरणादौ । प्रतिभिन्नात्किम् । प्रतिसीदति । आलम्बनमाश्रयणम् । अविदूर एवाविदूर्यम् सामीप्यम् । ण्यः । अवष्टब्धा गौः निरुद्धा, समीपे आस्ते इत्यर्थः ॥ एतयोः किम् । अवस्तब्धो वृषलः शीतेन ॥ स्वन शब्दे । विष्वणति । सशब्दं भुङ्क्ते इत्यर्थः ॥ भोजने किम् । विस्वनति वीणा ॥ षे सेवायाम् । परिषेवनम् ॥ पिज बन्धने । क्तान्तः सितशब्दः ॥ सयशब्दस्तु स्वराद इति Page #45 -------------------------------------------------------------------------- ________________ [ आख्याते भ्वादयः ] टीकाद्वयोपेता। (२५) पचादेर्वा अप्रत्ययान्तः। विषयः ॥ पिवु तन्तुसंताने । परिषीव्यति ॥ षह मर्षणे । परिपहते ॥ सुडागमः । परिष्करोति ॥ स्तुस्वञ्जोः पुनर्वचनं सिवादीनामव्यवायेऽपीति विकल्पार्थम् । स्तम्भु रोधने । विष्टभ्नाति । एते स्वादयः । णोपदेशा एव नमादय इति ॥ (तत्त्वदी० )-प्रादेश्च तथा तौ सुनमाम् ॥ यद्यपि किलादित्यस्यैवानन्तरस्येति न्यायेनानुवृत्तिस्तथापि चकारेण पुर्नो ण इत्यनुवर्तते । तदेवानुवृत्तौ किं चकारेण । तथा तावित्यस्य तेन प्रकारेण तौ स्तः ॥ षत्वणत्वनिमित्ते सतीति ॥ षत्वनिमित्तं विलम् । णत्वनिमित्तं षकाररेफऋवर्णाः । तत्र स्वादयः । प्रत्ययस्यप्प्रत्ययान्तेषु षुञ् अभिषवे । ष्टुञ् स्तुतौ । ष्टुभ स्तम्भे । षोऽन्तकर्मणि । षु प्रेरणे । ष्टा गतिनिवृत्तौ । ञ्यन्तसेनाशब्दः । पञ्ज संगे । बञ्ज परिष्वङ्गे । विधु गत्याम् । अतिप्रति र्वः षद्ल विशरणगत्योः । अयङन्तः षिच् क्षरणे । अवपूर्वः ष्टम्भ निरोधे ॥ व्यवपूर्वको भोउ नार्थः । स्वन शब्दे । परिनिविपूर्वकः । षेवृ सेचने । सुदप्रत्ययः । अर्जितः षिवु तन्तुसन्ताने ' अडर्जितः षह मर्षणे ॥ (सेधतेर्गतौ नषः) गङ्गां विसेधाति ॥ (सुबोधिनी) सेधतेर्गतौ न षः॥ उपसर्गस्थनिमित्ताद्गत्यर्थसेधतेः सस्य षत्वं न । स्तिपा निर्देशाद्यलुकि गत्यर्थसेधतेः षत्वम् । निषेषिधीति ॥ (अद्वित्वव्यवधानेऽपि पा) न्यषेधत् । निषि ॥ पिधू शास्त्रे माङ्गल्ये च॥ निषाषाटो (सुबोधिनी) अद्वित्वव्यवधानेऽपि षः ॥ सितशब्दात्प्राक् पञ्चदशानां सुनोत्यादीनामड्व्यवधानेऽपि षवत् । अभ्यषुणोत् । सितशब्दात्याग्दशानां स्थादीनां द्वित्वव्यवधाने षत्वमित्यर्थः । निषिषेध । षिवू शास्त्रे माङ्गल्ये च । शास्त्रं शासनम् । मङ्गलमेव माङ्गल्यम् । ण्यः। मङ्गलक्रियेत्यर्थः॥ (तत्त्वदी०) अत्रान्तरेऽपीत्यन् वर्तते । तेनावित्वव्यवहितेऽपीत्याह-अद्वित्वेत्यादिषिधू शास्त्रे मागल्ये च । शास्त्रं शासनम् । माङ्गल्यं मङ्गलक्रिया ॥ ऊदितो वा ॥ ऊदिती धातोः परस्य वसादेरनपीडा ॥ (सुबोधिनी)-ऊदितो वा ॥ ऊत् इद्यस्य स ऊदित् तस्मात् । अनपति पण्णां लेलिङ्लुट्लङ्लुङां काराणामन्येषामपीत्यादिप्रत्ययानां च संज्ञा । अपुप्रत्ययविषयताऽभावात् ॥ (तत्त्वदी० )-ऊदितो वा ॥ ऊत् इद्यस्य स ऊदित् तस्मात् ॥ स्वरतिसूतिसूयतिधूम्रधनशतृप्पद्रुहमुहस्नुहस्निहां च स्वरतिसूतिसूयतिधूञां किद्धसादेर्णादेर्नित्यमिटू स्यात् । सेधति। सेधेत् । सेधतु-सेधताद्वा । असेधत् । सिषेध । सिषेधिथ ॥ Page #46 -------------------------------------------------------------------------- ________________ (२६) सिद्धान्तचन्द्रिका । [ आख्याते भ्वादयः ] (सुबोधिनी)-स्वरतिसूतिसूयतिधूरधनशतृप्टप्द्रुहमुहस्नुहस्निहां च एभ्योगप परस्य वसादेरनपीड्डा ॥स्वृ शब्दोपतापयोः भ्वादिर्गृह्यतेऽनविकरणत्वात्।। धूङ् प्राणिगर्भविमोचने आदादिको देवादिकश्च गृह्यते, न तु षूङ प्रेरणे तौदादिकः॥ धूञ् कम्पने स्वादिस्थः क्यादिस्थश्च, न तु धू विधूनने सानुबन्धनिर्देशात् ॥ रथ हिंसासंराद्धयोः ॥णश अदर्शने ॥ तृप प्रीणने । हप् हर्षमोहनयोः ॥ द्रुह जिघांसायाम् ॥ मुह वचित्ये ॥ ष्णुह गद्गरणे ॥ ष्णिह प्रीती ॥ स्वरतिसूतिसूयतिधूञां किद्वसादेदेनित्यमिट् ॥ एभ्यः परस्य कितो वसादर्णादेनित्यमिडू भवाति । स्वरत्यादिविकल्पं बाधित्वा कित इतीनिषेधे प्राप्ते कादिनियमादिविधिः॥ (तत्त्वदी०)-वा शब्दस्य व्यवस्थावाचित्वादाह-स्वरीत्यादि । तथोर्धः ॥ झभान्ताद्धातोस्तंकारथकारयोर्धकारो भवति, दधातेन ॥ झभे जबाः। सिषेद्ध । सेधिता-सेद्धा । सेधिष्यति-सेत्स्यति । असेधिष्यत्-असेत्स्यत् । असेधीत् ॥ (सुबोधिनी)-तथोर्धः ॥ तश्च थ् च तथौ तयोः । आदिजबानामित्यतो झभान्तस्येत्यनुवृत्तं पञ्चम्या विपरिणम्यते ॥ झभान्तात् किम् । भूतः ॥ दधातर्ने । डधाञ् धारणादावस्मात् परयोस्तथोझै न । धत्तः॥ (तत्त्वदी०) तथोर्ध इति ॥ तश्च थ् च तथौ तयोः ।। वेत्यनुवृत्तेर्दधातेनिषेधः । यद्वातथोऽधः इति । तत्र तश्च थ् च एतयोः समाहारः तथ् तस्य तथः । अध इति दधातेर्नेत्यर्थः । आदिजबानामित्यतो झभानुवृत्तिः ॥ अनिटोऽनामिवतः॥ अनिटोनामिवतश्च धातोर्वृद्धिः स्यात्पे परे सौ॥ असत्सीत् ॥ निट असा नाभि, . __ (सुबोधिनी) अनिटोऽनामिवतः॥ द्वयमिदं धातोर्विशेषणम् । यद्यपि धातुः सर्वोऽप्यनिडेव, तस्य इविधानाभावात् । तथाऽपि न इट् यस्मात् तस्मात्परस्य तादिप्रत्ययस्योत व्याख्येयम् । अनिटो धातोरुपधाभूतस्य नामिना वृद्धिर्भवति पे सौ। नाम्यन्तस्य तु धातोर्नामिन इति सूत्रेणैव वृद्धिः । कार्यातिदेशोऽयम् । नामि विद्यतेऽस्योत नामिवान् तस्य । तडिदादित्वाद्वतुः ॥ (तत्त्वदी०)-अनिटोऽनामिवत इति ॥अनिटः अनामिवत इति छेदः । नन्वनिट्वं धातुमात्रस्यैव । नहि कस्यापि धातोरिविधीयते, किंतु प्रत्ययस्यै । । तस्मादनिट इति व्यर्थमिति चत्सत्यम् । न इट् यस्मात् परस्य प्रत्ययस्येति व्याख्यानात् । तथा ोडभावः कस्य प्रत्ययस्य ग्राह्यः ? तादेरिति गृहाण, णादेस्तु क्राद्यष्टादशातिरिक्तात्परस्य सेट्वात् । अश्च नामी च अनामिनौ तौ स्तोऽस्यानामिवान् तस्य । द्वन्द्वान्ते श्रूयमाणस्य वतोः प्रत्येकमन्वय इत्याशयेनाह-अवतो नामिवतः। यद्यपि पूर्वेणाकारनामिनोः प्राप्तिः, तथाऽप्यनुपधाभूताकारस्योपधाभूतनामिनश्चाप्राप्तावारम्भः। नन्वत्र Page #47 -------------------------------------------------------------------------- ________________ [ आख्याते भ्वादयः ] टीकाद्वयोपता । (२७) मान्तोपधत्वाभावात्कथं वतुरिति चेत्सत्यम् । अन्यतोऽपि वतुर्भवतीत्यनेनैव ज्ञाम्पते । तेन तडित्वानित्यादि सिद्धमिति । अथ तथाऽप्यनामिन इत्येवास्तु किं वतुना इति चेन्न, नञ्समासभ्रमप्रसङ्गात्। मत्वर्थीयाद्विरूपो मत्वर्थीयो भवतीत्यनन ज्ञाप्यते । तेन हस्तिमती शालेत्यादि सिद्धम् । अथानिट इत्येवास्तु स्वरादेरित्यतः स्वरस्यानुवृत्तस्तस्य च मत्वर्थीयाकारान्तन्त्वेन ग्रहणात्स्वरवतोऽनिटो धातोः सिर्णित्कार्यकृदित्यर्थलाभात् । यद्वा - गित्कार्यं वृद्धिरेव, सा च स्वरस्यैवेति स्वरलाभात् । पूर्वेणाप्राप्तस्यैव स्वरस्य भविष्यतीत्यर्थादनुपधाभृताकारस्योपधाभूतनामिनश्च वृद्धिर्भविष्यतीत्यर्थो लभ्य एवेति चेत्सत्यम् । नामिवदूग्रहणस्योत्तरार्थवादित्यलं पल्लवितेन । झसात् ॥ झसादुत्तरस्य सेर्लोपो झसे ॥ असैद्धाम्, असैत्सुः । असैत्स्व, असैत्स्म ॥ खद स्थैर्ये हिंसायां च ॥ खदति । खदेत् । खदतु - खदताद्वा । अखदत् ॥ ( सुबोधिनी ) - झसात् ॥ लोपो हस्वादित्यतो लोपो झसे इत्यनुवृत्तं सेरिति सूत्रं च ॥ झसात्किम् । अचेष्ट || झसे किम् असैत्सीत् ॥ इट्पक्षे असेधीत् ॥ खद स्थैर्ये हिंसायां च । चाद्भक्षणे । स्थिरस्य भावः स्थैर्यम् । ण्यः ॥ ( तत्त्वदी ० ) - झसादिति ॥ सेरित्यस्यानुवृत्तिः । लोपो हस्वादित्यतो लोपस्य ॥ झसात्किम् । अचेष्ट । झसे किम् । अत्सुरौः ॥ : किम् । अरुधतामित्यत्र ङस्य मा भूत् । अत्र लोपो ह्रस्वझसाज्झसेरिति पठितुं युक्तम् । अत उपधायाः ॥ धातोरुपधाया अतो वृद्धिः ञ्णिति ॥ चखाद ॥ (सुबोधिनी) - अत उपधायाः ॥ आदिस्वरस्येत्यतो णितीति वृद्धिरिति चानुवृत्तम् ॥ अतः किम् । तुतोद ॥ उपधायाः किम् । गणयति ॥ ( तत्त्वदी ० ) - अत उपधाया इति ॥ आदिस्वरस्य ञ्णिति चेति वृद्धेरनुवृत्तिः । अत्रात इति योगं विभज्यादन्तस्य धातोर्वृद्धि, तेन अङ्कापयति इत्यादि सिद्धमिति । पुनरुपधाया इत्यत्र नाम्न इति योजनीयम्। तेन नाम्न उपधाया वृद्धिरिति व्याख्येयमिति त्वादयतीत्यादि सिद्धिरिति । पुनरुभयो नात् धातोरुपधाया अतो वृद्धिरिति ॥ ञ्णिति किम्, पक्ता । उपधायाः किम्, ततक्ष । धातो किम, जगतोऽयम् जागतः । अत्र परत्वादादिवृद्धिं बाधित्वा उपधावृद्धिः प्रसज्येत। गार्ग्यो जगादेत्यादावादिवृद्धयुपधावृद्धयोरवकाशः ॥ ( बुत्तमो वा णित) चखाद - चखद ॥ णित्पे | पे सिणित् ॥ ( सुबोधिनी ) - बुत्तमो वा णित् ॥ उत्तमपुरुषसंबन्धी णबू वा णित् ॥ पे सिरित्यनुकृष्यते ! प परे सिणिद्भवति, ण् इत् यस्य स णित् अणितं णिदित्याह कार्यातिदेशोऽयम् ॥ ( तत्त्वदी ० ) - णित्षे इति ।। ण् इद्यस्य स णित् । अणितो णित्करणाणिद्वदिति गम्यते । अन्यशब्दोऽन्यत्र प्रयुज्यमानोऽपि विनाऽपि वतिं गत्यर्थ गमयति । प्राधान्याच्च कार्यातिदेशोऽयम्। तथाच। Page #48 -------------------------------------------------------------------------- ________________ (२८) सिद्धान्तचन्द्रिका । [ आख्याते भ्वादयः] णितां यत्कार्यमत उपधाया इत्यादिना वृद्धयादि तदतिदिश्यते । यद्यपि णितां णबादीनामातो णब्डावित्यादिना विहितम् अबाद्यपि णित्कार्य,तथाऽपि तन्नात्र तिदिश्यते कार्यविशेषत्वात् । सामान्यातिदेशोऽयम् । णबिणादयस्तु णिद्विशेषाः । यथा ब्राह्मण वदस्मिन् क्षत्रिये वर्तितव्यमित्यत्र यद्वसिष्टे गौतमे च तन्नातिदिश्यते, किं तु ब्राह्मणसामान्यत्वस्थ ! तथाऽत्रापि णिति यद् दृष्ट कार्य तदतिदिश्यते ॥ (अतो हसादेर्लघोर्वा वृद्धिः सेटि सौ) अखदीत-अखादीत् ॥ गद व्यक्तायां वाचि॥ (सुबोधिनी)-अतो हसादेर्लघोर्वा वृद्धिः सटि सौ॥ हसादेर्लघोरकारस्य वा वृद्धिः स्यात् सेटि परस्मैपदे सौ ॥ अतः किम्। अदेवीत् ॥ हसादेः किम् । मा अतीत् ॥ लघोः किम् । अगर्दीत् ॥ सेटि किम् । अपाक्षीत् ॥ पे किम् । अयतिष्ट ।। बद स्थैर्ये । पवर्गीयादिः ॥ (तत्त्वदी०)-अतो हसादरिति अत इत्यस्यैव विशेष गद्वयम् । हस आदिर्यस्य स हसादिस्तस्य । हसादेः किम् । मा भवानतीत् ॥ लघोः किम् । अनन्दीत्॥यद्यचकाशीदित्यत्र चकारादकारस्य वृद्धिवारणाय येन नाव्यवधानमिति न्यायेन यद्येकवर्णव्यवधानमाश्रीयते तदा त्वरक्षीदित्यत्रापि प्रसक्त्यभावाल्लघोरिति न कर्तव्यमिति केचित्।एतच्च अत उपधाया इत्यत्र नो वेत्यतो वानुवृत्त्या लभ्यते । एवमन्यत्रापि वृद्धिनिषेधविकल्पयोरिदमेव मूलमूह्यम् ॥ (प्रादिस्थानिमित्तान्नेनस्य णो गदनदपदातअपिदाधास्थामाङ्मेस्यतिहन्तियातिवातिद्रातिप्सातिवपातेवहतिशाम्यतिचिनोतिदेग्धिषु)॥ (सुबोधिनी)-प्रादिस्थानिमित्तान्नेर्नस्य णोगदनदपदपतअपिदाधास्थामाङ्मेड्स्यतिहन्तियातिवातिद्रातिप्सातिवपतिवहातशाम्यतिचिनोतिदेग्धिषु ॥ प्रादिषु तिष्ठतीति प्रादिस्थः तस्मात् निमित्तात् षकाररेफऋवर्णरूपात् परस्य नेर्णत्वं गदादिषु परेषु ॥ गद व्यक्तायां वाचि । णद अव्यक्ते शब्द। पद गतौ । पल पतने । एषां चतुर्णामपा निर्देशाद्यङ्लकि णत्वं न । प्रनिजागदीति प्रनिनानदीति ॥ अपिदेति चत्वारः । डुदाज़ दाने प्रागेददाति । दाण् प्रणियच्छति । दो प्रणियति । देङ् प्रणिदयते ॥धारूपौ द्वौ । धेट प्रणिधयति । डुधाञ् प्रणिदधाति । ष्ठा गतिनिवृत्तौ । माङ्-माने । मेङ् प्रणिदाने । षो अन्तकर्मणि । हन् हिंसागत्योः । याप्रापणे वागतिगन्धनयोगद्रा कुत्सायाम्। प्सा भक्षणे । टुवY बीजतन्तुसन्ताने । वह प्रापणे । शमु उपशमे । चिञ्चयने।दिह उपचये । स्यत्यादीनामेकादशानां श्तिपा निर्देशाद्यङ्लुकि णत्वं न । प्रनिमासेति । प्रनिजंघनीतीति ॥ Page #49 -------------------------------------------------------------------------- ________________ [ आख्याते म्वादयः ] टीकाद्वयोपेता। (तत्त्वदी०)-प्रादिस्थादिति ॥ प्रादिषु तिष्ठतीति प्रादिस्थम् तस्मात् निमित्तात् णत्वनिमित्तात् षकाररेफऋवरूंपात् नेरुपसर्गस्य नस्य णत्वमित्यर्थः । गदादिषु धातुषु परेषु ॥ यत्तु नेर्णत्वमित्येतावन्मानं वासुदेवेनोक्तं, तन्न; निगदतीत्यादावतिव्याप्तेः । विनिगदतोत्यत्र च ॥ (अन्यत्राकखादावषान्ते आयोचारणे वा ) अकखादौ किम् । प्रनिकरोति । प्रनिखादति ॥ अषान्ते :किम् । प्रनिदुष्यति ॥ वेति किम् । प्रणिभवति । प्रनिभवति ॥ आद्योच्चारणे किम् । प्रनिचकार । प्रनिचखाद । प्रणिगदति । अगदीत् ॥ रद विलेखने । रदति । रदेत् । रदतु । अरदत् । रराद । (सुबोधिनी)-अन्यत्राकखादावषान्ते आद्योञ्चारणे वा ॥ आदौ भवा आद्याः।आद्यानां पाणिनिकात्यायनपतञ्जलीनामुच्चारणमाद्योच्चारणं तस्मिन् । कादिखादिषान्तवर्जे गदनदादरेन्यस्मिन् धातौ परे प्रादिस्थानिमित्तात्परस्य नेर्नस्यणत्वं वा । कश्चखश्च करवौ तावादी यस्य स कखादिः कखादेरन्योऽकखादिस्तस्मिन् । षोऽन्तो यस्य स षान्तस्तस्मादन्योऽषान्तस्तस्मिन् । अकखादौ किम्।प्रनिचकार प्रणिचखाद॥ अषान्ते किम् । प्रनिपेक्ष्यति ॥ रद विलेखने विलेखनं भेदनम् । (तत्त्वदी०)-अन्यत्रेति ॥ अन्यत्र वा अन्यस्मिन् धातौ परे प्रादिस्थनिमित्तपूर्वकस्य नेर्णत्वं वेत्यर्थः । आद्योच्चारणे प्रथमोच्चारणसमये अकखादौ अषान्ते च । कश्च खश्च कखौ लावादी यस्य स कखादिः कखादेरन्योऽकखादिस्तस्मिन् । षः अन्ते यस्य स षान्तस्तस्मिन् । आद्योचारणे इत्युभयत्रान्वेति । तथा चायमर्थः, आद्योचारणे कादिखादिषान्तवर्जगदनदादेरन्यस्मिन् धातौ परे ग्रादिस्थानिमित्तात्परस्य नेनस्य णत्वं वा भवति । प्रणिभवन्ति, प्रनिभवन्ति ॥ अकखादौ किम् । प्रनिकरोति । प्रनिखादति ॥ अान्ते किम् । प्रनिपिनष्टि । विलेखने इति विलेखन भेदनम् । लोपः पचां कित्ये चास्य ॥ पचादीनां लिटयनादेशादीनां पूर्वस्य लोपो भवत्यकारस्य एकहसमध्यस्थस्य चैकारः, किति णादौ सेटि थपि च ॥रेदतुः । रेदिथ ॥ णद अव्यक्ते शब्द । प्रणिनेदुः । नेदिथ ॥ अर्द गतो याचने च । आभ्वोर्णादो॥ (सुबोधिनी)-लोपः पचा कित्ये चास्य ॥पचामिाति बहुवचनेन पचप्रकारा धातवो गृह्यन्ते । यथा पचधातुरेकहसमध्यस्थाकारवान् लिटि अनादेशादिश्च तथाऽन्येऽपि धातवः ॥ अस्य किम् । दिदिवतुः। ररासे॥ अनादेशादीति किम् । चकणतुः॥ एकशब्दोऽत्रासहायवचनः। एकौ च तौ हसौ च एकहसौ तयोर्मध्यस्थः एकहसमध्यस्थस्तस्य ॥ एकहसेति किम् । तत्सरतुः। त्सर छद्मगतौ ॥ आभ्वोर्णादौ ॥ Page #50 -------------------------------------------------------------------------- ________________ ( ३० ) सिद्धान्तचन्द्रिका | [ आख्याते भ्वादयः ] ' (तत्त्वदी ० ) - लोपः पचामिति ॥ पचामिति बहुवचनेन पचप्रकारा धातवो गृह्यन्ते ॥ तथा पचधातुरेकहसमध्यस्थाकारवान् लिटि अनादेशादिश्च तथाऽन्नोऽपि धातुरिति । तथा च पप्रच्छतुरित्यत्र एकहसमध्यस्थत्वाभावान्नैत्वलोपौ ॥ अनादेशादिः किं । चखूनतुः । लिटघनादेशविशेषणात् नेमिथ । सेहे ॥ अस्य किम् । दिदिवतुः ॥ नुगशाम् ॥ अश्नोतेर्ऋकारादेर्हसान्तस्य संयोगान्ताकारादेश्च पूर्वस्य तुग्भवति णादौ । आनर्द | आदत् ॥ नर्द गर्द शब्दे ॥ तर्द हिंसायाम | तर्दति ॥ कर्द कुत्सिते शब्दे । कर्दति ॥ खर्द दन्दशूके खर्दति ॥ ऋदि चेष्टायाम् ॥ क्लिदि परिदेवने । किन्दति ॥ अत सातत्यगमने । आतिथ । खाद्य भक्षणे । अखादीत्। ऋदि आह्वाने रोदने च ॥ अति अदि बन्धने । अन्तति । अन्तेत् । अन्ततु । आन्तत् । आनन्त । आनन्द । अन्द्यात् । अन्दिता । अन्दि यति । आन्दिष्यत् । आन्दीत् ॥ टुणदि समृद्धौ । ननन्द ॥ चf आह्लादने दीप्तौ च । इदितो नुम् । चन्दति । चन्देत् । चन्दतु । अंचन्दत् । चचन्द | चन्द्यात् । चन्दिता । चन्दिष्यति । अचन्दिष्यत् । अचन्दीत् । शुन्ध शुद्धौ । शुन्धति । शुन्धेत्। शुन्धतु। अशुन्धत् । शुशुन्ध । शुध्यात् । शुधिता । शुन्धिष्यति । अशुन्धिष्यत् । अशुन्धीत् ॥ तक्क कक्क इसने । तकि कृच्छ्र जीवने । तङ्कति । ततङ्क । अतीत् ॥ शुक गतौ । शोकति । अशोकीत् ॥ बुक्क भषणे । बुक्कति ॥ ष हसने । कषति ॥ युगि जुगि वर्जने। युङ्गति ॥ इदि परमैश्वर्ये इन्दति ॥ ( सुबोधिनी ) - शाम् ॥ अशूङ् व्याप्तौ । अशामिति बहुवचनमाद्यर्थम् । संयोगोऽन्तो यस्य स संयोगान्तः स्वर आदिर्यस्य स स्वरादिः संयोगान्तश्चासौ स्वरादिश्व संयोगान्तस्वरादिस्तस्य ॥ अत सातत्यंगमने । सततस्य भावः सातत्यम् । सातत्येन गमनं सातत्यगमनं तस्मिन् ॥ खाद्य भक्षणे । ऋदित्वान्न रित इत्यङ्कार्य न । अचखादत् ॥ टुणदि समृद्धौ । टु इति द्वितोऽथुरित्यथुप्रत्ययार्थः । नन्दथुः ॥ दित्वान्नस्य लोपो न । नन्द्यात् ॥ चदि आह्लादने दीप्तौ च । हर्षे तेजसि चेत्यर्थः ॥ क्लिदि परिदेवने । परिदेवनं शोकः ॥ इदि परमैश्वर्ये । ईश्वरस्य भाव ऐश्वर्यम् । ण्यः ॥ परा उत्कृष्टा मा लक्ष्मीर्यस्य तत् परमं परमं च तदैश्वर्यं च परमैश्वर्य तस्मिन् ॥ (तत्त्वदी० ) - नुगशामिति अशामिति बहुवचनेनैतत्सर्वं लब्धमित्याह ऋकारादेरित्यादि ॥ स्वरादेः ॥ स्वरादेर्धातोर्द्वितीयोऽडागमो भवति दिबादौ परे ॥ अइए । ए ऐ ऐ । ऐन्दत् ॥ Page #51 -------------------------------------------------------------------------- ________________ [ आख्याते भ्वादयः ] टीकाद्वयोपेता। (सुबोधिनी)-स्वरादेः॥ दिवादावडित्यनुवृत्तम्। स्वर आदिर्यस्य सः स्वरादिस्तस्य । आरम्मसामर्थ्यात् द्वितीयोऽडित्यर्थः । अहं विना स्वरादित्वमिह विवक्षितम्, अन्यथा दिबादावडित्यग्रे अटि चेति सूज्यताम् ॥ ___ (तत्त्वदी०)-स्वरादेरिति। अाटं विना स्वरादित्वं बोध्यम्, विधानसामर्थ्यात् । अन्य दिबादावडित्यस्याने अट्चेति सूत्रिते। न द्वितीयाटःसंभवात् । यतु वासुदेवेन आद्योच्चारणे खरादेः। अन्यथा सर्वस्यैव प्रथमाटा स्वरादित्वाट व्यावृत्तरित्युक्तम् , तन्न। औष्ट ऐज्यत इत्यादावप्रसङ्गात् ॥ द्वितीय इति । विधानसामर्थ्यात् प्रथमाबाधेन भवतीत्याशयः । कारणसामर्थ्यादेकेनाटा धातुकार्यानन्तरं द्वितीयेन कार्यमित्याह । ए ऐ ऐ॥ कासादिप्रत्ययादाम क्रमभूपरः॥ काम् आम् दय अय गुरुनाम्याद्यनेकस्वरेभ्यो णबादौ परे आम् प्रत्ययो भवति । स च कृ अम् भूपरः प्रयोक्तव्यः। (सुबोधिनी)-कासादिप्रत्य यादाम् क्रमभूपरः।कासृ शब्दकुत्सायाम्।आस् उपवेशने । दय दाने । अय गतौ ।गुरुश्चासौ नामी च गुरुनामी स आदिर्यस्य च गुरुनाम्यादिर्धातुः । प्रत्ययग्रहणम नेकस्वरोपलक्षकम् । एभ्य आम् प्रत्यय: स्यात् । कीदृशः क्रस्भुवः परे यस्मात्स क्रमभूपर इत्यर्थकथनेन विपर्यासव्यवहितयोर्निवृत्तिः कथिता । कथं तर्हि 'तं पातयां प्रथममास पपात पश्चात्' । 'प्रभ्रंशयां यो नहुषं चकार' इत्यादिप्रयोगाः ? प्रमादन एव। क्रस्भुवां क्रियासामान्यवाचित्वादाम्प्रकृतीनां क्रियाविशेषवाचित्वात्, त र्थयोरभेदान्वयो भवति । सामान्यविशेषयोरभेदान्वयो लोकतः सिद्धोऽस्ति । एवं च इन्दांचकार । इन्दांबभूवेत्यादौ एककर्तृकाभतानद्यतनपरोक्षा परमैश्वर्या भिन्नक्रियेति तुल्यो बोधः। ननु करोतिः सकर्मकः, भवतिस्त्वकर्मकः, कथं द्वयोस्तुल्यवोध इति चेदत्राहुः, यदा हि करोतिरुत्पादनार्थकः स्वातन्त्र्येण प्रयुज्यते तदा तस्य नियमन सकर्मकत्वं भवति घटं चक्र, राज्यं चकारेत्यादौ। यदा तु क्रियाऽन्तरसमानाधिकरणःकरातःप्रयुज्यते तदा यत्समानाधिकरणः करोतिस्तत्सकर्मकत्वाकर्मकत्वाभ्यां कृत्वा स्वयमपि तथा सकर्मकाकर्मकभावौ भजते। जुहवांचकारोतिाएवं भ्वस्त्यारप्याम्,प्रकृतिसमानाधिकरणत्वेन क्वचित्सकमकत्वं बोध्यम् । तथा च-'तस्यातपत्रं बिभरांबभूवे' इति माघः॥ 'तपर्तुपूर्तावपि मेदसां भरा विभावरीभिर्बिभरांवभूविरे' इति श्रीहर्षश्च ॥ इत्यत्र क्रियान्तरसमानाधिकरणाद्भवतेः सकर्मकत्वात् कर्मणि लिट । एवं चाम्प्रकृत्यर्थगतकारकसंख्यादिविशेषाभिव्यक्तिरनुप्रयोगस्य फलमिति ॥ गुरुनाम्यादि किम् । इयेष ॥ अनेकस्वरोत किम् । अ इवाचचारेति औ इत्पत्र प्रत्ययान्तत्वेऽप्यनेकस्वरत्वाभावादाम् म ॥ (तत्त्वदी०) कासादिति ॥ गुरुयों नामी स आदिर्यस्य स गुरुनाम्यादिः। प्रत्ययग्रहणमनेकस्वरोपलक्षकम् । तेन अ इवाचचार औ इत्यत्र प्रत्ययान्तत्वेऽप्यनकेस्वरत्वाभावान्नाम् ॥ Page #52 -------------------------------------------------------------------------- ________________ 31.2 (३२) सिद्धान्तचन्द्रिका। [ आख्याते भ्वादयः ] (विददरिद्राजाग्रुषांस॥ वा पूर्वस्य ऋवर्णस्याकारः॥ (सुबोधिनी)-विददरिद्राजाग्रुषां वा॥ एभ्यो वाऽऽन् दरिद्वाजागोरनेकस्वरत्वान्नित्यप्राप्ती वेत्त्योषत्योश्चाप्राप्तौ विकल्पः । विद् ज्ञाने । दरिद्रा दुर्गतौ । जाट निद्राक्षये । उष दाहे । आमो मस्य नेत्वम् । आस्कासोराम्विधानात् ज्ञापकात् ॥ रः॥ ऋ अः इति छेदः । 'पूर्वस्य हसादिः शेषः' इत्यतः पूर्वस्येत्यनुवृत्तम् ॥ (तत्त्वदी०) अनोदितो वेत्यतो वाऽनुवृत्तेराह-विददरिद्राजाग्रुषां वति॥ दारिद्राजागोरनेकस्वरत्वान्नित्यप्राप्ती वेत्त्योषत्योश्चाप्राप्तौ विकल्पः॥र इति।। ऋ: इति छेदः 'पूर्वस्य हसा. दिः शेषः' इत्यतः पूर्वस्येत्यनुवर्तते, यत्तु वासुदेवेन णबादौ पूर्वस्येत्यनुवर्तत इत्युक्तम् ,तन्न । र इत्यत्राख्यातपादस्थे णबादानिति अस्मात्कृत्पादस्थानुवृत्त्यसंभवात् ॥ धातोनामिनः॥ नाम्यन्तस्यादन्तस्य च धातोर्वृद्धिः, णिति परे ॥ इन्दांचकार, इन्दांचक्रतुः, इन्दांचक्रुः । इदांचकर्थ । इन्दामास, इन्दामासतुः, इन्दामासुः। इन्दांबभूव । इन्द्यात् । ऐन्दीत् ।। णिदि कुत्सायाम् । इदितो नुम् । प्रपूर्वः । प्रणिन्दति । प्रनिन्दति । प्रनिन्देत् । प्रणिन्दतु । प्राणिन्दत् । निनिन्द । निन्द्यात । निन्दिता । निन्दिष्यति । अनिन्दिष्यत् । अनिन्दीत ॥ दधि पालने । ददङ॥ उख गतौ । अप् कर्तरि । उपधालघोर्गुणः । ओखति । ओखेत् । ओखतु । औखत् ॥ (सुबोधिनी)-धातो मिनः॥आदिस्वरस्यत्यतो वृ िरिति णितीति चानुवृत्तम् । अत्र हि स्वरस्यति पदमनुवत्ये वाक्यभेदेन व्याख्येयम् । तेन स्वरान्तस्य धातोर्वृद्धिः णिति । तेन श्वानमाचष्टे शावयति विद्वांसं विदावयतीत्यादि सिद्धम्। अदन्तस्येति अत उपधाया इत्यत्रात इति योगविभागात्तस्यहाकर्षणाद्वा लब्धम् । तेन च-अङ्कापयतीत्यादि सिद्धम् ॥ ( तत्त्वदी०) धातोर्नामिन इति ॥ आदिस्वरस्येत्यतोवृद्धि ञ्णितीति चानुवर्तते ।। धातोः किम् । आत्रेयः । नात्रादिवृद्धिर्बाधिका, नापि यस्य लोपः, उ योरन्यत्र सावकाशत्वादत्र परत्वादन्त्यवृद्धिरेव स्यात् । तथाहि-आदिवृद्धेवकाशः आश्वयुज इत्यत्र, अन्त्यवृद्धेःनिनाय । इहोभयप्रसङ्गे परत्वादन्त्यवृद्धिरेव,अतो धातोरित्युक्तम्।अथैवमग्निभुयोऽपत्यमाग्नि व इत्यत्रान्त्यवृद्धिःप्राप्नोति भुवोधातुत्वादिति चेत् , शृणु । धातोरित्येवंशब्देन विहिते णिति : द्विरिति व्याख्येयम् । अत्र तु नाम्नो विहितोऽण, न तु धातोः । एवं चाग्निभुवमिच्छतीति वाक । नाम्नो य ईचास्येति यः। ततः क्विप् । अल्लोपयलोपौ । तस्यापत्यमाग्निभव इत्यत्रापि न भवति । नामशब्देनात्राणो विधानात् । अथात्रादिस्वरस्येत्यतः स्वरस्येत्यनुवर्त्य स्वरान्तस्य धातोरिति व्याख्येयम् । मैवम् । स्वरसहचारतादिशब्दस्याप्यनुवृत्तिप्रसङ्गात् । दरिद्रावित्यादावतिव्याप्तेः । स्वरमात्रावृत्तौ तु गणयतीत्यादावन्त्यवृद्धेर्दुरित्वात् । न चात्र यत इति लोपो बाधकः, तस्यानपि सामान्ये विहितत्वेनास्यानपि Page #53 -------------------------------------------------------------------------- ________________ [ आख्याते खादयः ] टीकाद्वयोपेता। विशेषे णिति विहितत्त्वादपवाद वात् ॥ इन्दामासेतिक्रिस्भूपर इत्यत्र पृथग्ग्रहणादस्ते भावो न, अन्यथा हि कृभूपर इत्येवोच्चंत । आमो मस्येत्वमास्कासोर्विधानान्न, अन्यथा मित्त्वादन्त्यस्वरात्परत्र विधानादास्कासोः सकारात्पूर्वविधाने सवर्णदीर्घत्वे वैलक्षण्याभावात् । (असवणे स्वरे पूर्वस्येवर्णोवर्णयोरियुवौ) उवोख । ऊखतुः। ऊखुः । उवोखिथ । औखीत् ॥ लुश्च अपनयने ॥ अञ्चु गतिपूजनयोः । अञ्चति । अञ्चत् । अञ्चतु । आश्चत् । आनञ्च । अच्यात् । पूजायां अञ्च्यात् । आश्चिता । अश्चिष्यति । आश्चिष्यत् । आश्चीत् ॥ आछि आयामे। आञ्छति । आञ्छेत् । आञ्छत् ॥ (सुबोधिनी)-असवणे स्वरे पूर्वस्येवोंवर्णयोरियुवा ॥ धातोः पूर्वस्येवर्णावर्णयोरियुवौ भवतः, अपवणे स्वरे । पूर्व द्वित्वं पश्चादुकारस्योपधाया लघोरिति गुण कृते पूर्वस्यो । उवोख कित्वाद्गुणाभावे ऊखतुः । अत्र उ उ अतुस् इति स्थिते पर्जन्यवल्लक्षणप्रवृत्तिरिति न्यायात् पूर्वस्य ह्रस्वस्यापि ह्रस्वे कृते सवर्णदीर्घः। ततो 'हस्वः' इति पुनर्हस्वो न, लक्ष्ये लक्षणं सकृदेव प्रवर्तते इत्युक्तत्वात् । नुग-- शामिति नुक् । आनञ्चागतो नो लोप इति नो लोपः ।अच्यात् । आछि आयामे । आयामो दैर्घ्यम् ॥ (आज्छेर्नुग्वा णादौं) आञ्छ आनाञ्छ ॥ हुर्छा कौटिल्ये ॥ (सुबोधिनी) आञ्छेन गवा णादौ ॥ आञ्छेः पूर्वस्य नुर वा णादौ परे । नुगशामिति नित्ये प्राप्ते विकल्पः॥ खोर्विहसे ॥ इति । हुर्छतु । जुहूर्छ । हूछात् । हूर्छिता । हछिष्यति । अहूछिष्यत् । अहूछीत् । युच्छ प्रमादे। युच्छति ॥ वजगतो॥ (शसददवादिगुणभृताकाराणां नैत्वपूर्वलोपौ) ववाज । ववजतुः। अवाजीत् ॥ बज गतौ । व्रजति । व्रजेत् । व्रजतु । अवजत् । वव्राज व्रज्यात । व्रजिता । व्रजिष्यात । अवाजष्यत् ॥ (सुबोधिनी )शसददवादिगुणभूताकाराणां नैत्वपूर्वलोपौ ॥ एषामेत्व. पूर्वलोपौ न ।शसु हिंसायाम् । दन्त्यान्तः। दद दाने । वकारो दन्त्यौष्ठयः आदौ यस्य स वादि। गुणशब्देन भूतः उत्पादितःगुणभूतश्चासौ अकारश्च गुणभूताकारःशशरतुरित्यादौ गुणशब्देन क्रियमाणोऽर् तदवयवोऽकारः। लुलविथेत्यादौ तु गुणशब्देन क्रियमाणो य ओकारस्तत्स्थानिकस्यावादेशस्यावयवोऽकारस्तस्यैत्वपूर्वलोपौ न ॥ Page #54 -------------------------------------------------------------------------- ________________ (३४) सिद्धान्तचन्द्रिका। [ आख्याते भ्वादयः ] __ (तत्त्वदी०)-शसददेति ॥ शशप्लुतगताविति तालव्या तस्य ग्रहणमिति कश्चिद्वभ्राम, तद्भाष्यविरोधादुपेक्ष्यम् ॥ गुणभूतेति ॥ गुणो भवतीति गुण ब्देन भावितो योऽकारस्तस्येत्यर्थः । तथा च शशरतुरत्रापि गुणे कृतेऽवयवस्यास्य नं । लुलन्थेित्यत्र ओकारे गुणे तस्यापि तदवयवस्यास्य न । गुणसूतत्वं साक्षात्परम्परासाधारणम् । तेनोक्ता योगद्वयनिर्वाहः । एतच्च लोपः पचामिति सूत्रे चकारादधिकाराल्लभ्यते ॥ ' (वदिव्रज्योः सौ नित्यं वृद्धिः) अब्राजीत ॥ अज गतौ क्षेपणे च ॥ अजति । अजेत् । अजतु । आजत् ॥ (सुबोधिनी)-वदिव्रज्योः सौ नित्यं वृद्धिः ॥ एतयोर्नित्यं वृद्धिः सौ परे ॥ अतो हसादेरिति विकल्पप्राप्तौ नित्यविधानम् ॥ • (तत्त्वदी०)-वदिव्रज्योरिति । अतो हसादेरिति विकल्पप्राप्तौ नित्यम् ॥ . (अजरचतुषु वीवसादौ वा) विवाय ॥ ( सुबोधिनी )-वदिव्रज्योः सौ नित्यं वृद्धिः॥ तयोर्नित्यं वृद्धिः सौ पर॥ अतो हसादेरिति विकल्पप्राप्तौ नित्यविधानम् ॥ - नुधातोः॥विकरणस्य नोर्धातोश्चेवर्णोवर्णयारियुवा स्वरे । अनेकस्वरस्यासंयोगपूर्वस्य तु य्वौ ॥ (सुबोधिनी)-नुधातोः॥य्वोर्धातोरिति सूत्रं य्वौ वेति चानुवृत्तम् । क्नुप्रत्ययसम्बन्धिनो नु इत्यस्य न ग्रहणं निरनुबन्धकग्रहणे न सान् बन्धकस्येत्युक्तत्वात् । णु स्तुताविति धातोरपि न कृत्रिमाकृत्रिमयोः कृत्रिमस्यैव ग्रह गमिति परिभाषितत्वात्। परिशेषात् नु इत्यस्य विकरणस्य ग्रहणम् । नुप्रत्ययान्तस्य यातोश्चवर्णोवर्णयोरियुवो। अनेकस्वरस्यासंयोगपूर्वस्य तु नोर्धातोश्चवर्णोवर्णयोझै धातोर्विहिते स्वरादौ परे । शक्नुवन्ति । शिश्रियतुः। ब्रुवन्ति । असंयोगपूर्वस्यानेकस्वरस्य तु सुन्वन्ति । निन्यतुः। जुह्वति॥अनेकस्वरस्येति किम् । रियात । पियति । रि पि गतौ ।रुवन्ति । नुप्रत्ययान्तस्यानेकस्वरत्वाव्यभिचारात् प्रत्युदाहरणं न॥धातोविहिते इति किम् । सुधीशौ ॥ (तत्त्वदी०)-तुधातोरिति वोर्धातोरिति य्वौ वेति च पूर्व सूत्रद्वयमनुवर्तते । अत्र च धातोर्विहिते स्वरादौ परे इति बोध्यम् । तेन सुधीशावत्र पदादिस्वरे न । सूत्रे ह्यत्र क्लोरपि न ग्रहणं नुग्रहणेन निरनुबन्धकग्रहणे न सानुबन्धकस्येति परिभाष या विकरणस्यैव नोर्ग्रहणात् । गुस्तुताविति धातोरपि न ग्रहणं कृत्रिमत्वात् ॥ ( उवर्णान्तेषु हुन्वोरेवापि ) विव्यतुः। ( सुबोधिनी )उवर्णान्तेषु हुन्वोरेवापि ॥ अपि अब्विषये चतुषु अनेकस्वरस्यासंयोगपूर्वस्य धातोरुवर्णस्य वत्वं न । हुन्वोरेव वत्वं चतुषु । अनापि तु जुहुवतुः। विव्यतुरित्यत्र य्योर्विहसे इति दी? न यत्वस्यासिद्धत्वात् ।। Page #55 -------------------------------------------------------------------------- ________________ [ आख्याते स्वादयः ] टीकाद्वयोपेता । ( ३५ ) 1 (तत्त्वदी ) - वर्णान्तेषु हुन्वोरेवापीति ॥ दु दानादनयोः । नोर्विकरणस्य अपि अब्विषये इत्यर्थः । तेन जुह्वति चन्वतीत्यत्रैव नतु बोभुवतीत्यत्रापि । एतच्चानुवृत्त्या लभ्यते ॥ (स्वरान्तादत्वतःच तादौ नित्यानिटस्थपो वेट् ) विवयिथ | विवेथ । आजिथ । विव्यथुः । विव्य । आजिव । आजिम वीयात् ॥ ( सुबोधिनी ) - स्वराननादत्वतश्च तादौ नित्यानिटस्थपो वेट् ॥ स्वरातात्तादौ नित्यानिट आधोच्चारणेऽत्वतस्तादौ नित्यानिटश्च धातोः परस्य थप इ वा भवति ॥ अविद्यते यस्य स अत्वान् तस्मात् ॥ स्वरान्तात् किम् । बिभेदिथ ॥ थपःकिम्। पपि ॥ तादौ नित्यानिटः किम् । सस्वरिथ। स्वरतिमूतीत्यनेन कोयम् ॥ आद्योच्चारण इति किम् । चकर्षिथ ॥ अत्वतः किम् । विभेदिथ ॥ तपरः किम् । रराधिथ ॥ ताविति किम्। जग्रहिथ । 'वुः से' इत्यनेन सप्रत्ययेऽयं नित्यमनिः । नित्यानिटः विम् । आनञ्जिथ । ऊदित्त्वाट्कोऽयम् ॥ ( तत्त्वदी ० ) अत्वत इ ते || अद्विद्यते यस्य सोऽत्वान् । तस्मादित्यर्थः । नित्यानिटः किम् | अङ्का । अञ्जिता ॥ नैकस्वरादनुदात्तात् ॥ आद्योच्चारणेऽनुदात्तादेकस्वराद्धातोः परस्य वसादेरिन स्यात् ॥ ( सुबोधिनी ) - नैकस्वरादनुदात्तात् ॥ आद्योच्चारणे इत्युभयत्रान्वेति । आद्योच्चारणेऽनुदात्तादेकस्वर बेत्यर्थः । तेन विभित्सतीत्यत्र सान्ते अनेकस्वरत्वेपीनिषेधो भवत्येव ॥ ( तत्त्वदी ० ) - नैकस्वर र दिति ॥ आद्योच्चारणे इति उभयत्रान्वेति । आद्योच्चारणेऽनुदात्तादेकस्वराच्चेत्यर्थः । तेन विभित्सीत्यत्र सान्ताद् द्वित्वदशायामनेकाल्त्वेऽपि इग्निषेधो भवत्येव ॥ “अनिट् स्वरान्ती भवतीति दृश्यतामिमांस्तु सेटः प्रवदन्ति तद्विदः । अदन्तमृदन्त मृतां च वृवृञौ श्विडीङिवर्णेष्वथ शीश्रिजावपि ॥ १ ॥ गणम्थमृदन्तमुतां च रुस्तुवौ क्षुवं तथोर्णोतिमथो युणुक्ष्णुवः ॥ इति स्वरान्ता निपुणैः समुच्चितास्ततो हसा - न्तानपि सन्निबोधत ॥ २॥ शकिस्तु कान्तेष्वनिडेक इष्यते घसिश्व सान्तेषु वसिः प्रसारणी ॥ रभिश्च भान्तेष्वथ मैथुने यभिस्ततस्तृतीयो लभिरेव नेतरे ॥ ३ ॥ यमिर्ञमान्तेष्वनिडेक इष्यते रमिदिवादावपि पठ्यते मनि॥ नमिचतुर्थी हनिरेव पञ्चमो गमिस्तु षष्ठः प्रतिषेधवाचिनाम् ॥ ४ ॥ दिहिर्दुहिर्मेहतिरोहती वहिर्नहिस्तु षष्ठो दहतिस्तथा लिहिः ॥ इमेऽनिटोऽष्टाविह मुक्तसंशया Page #56 -------------------------------------------------------------------------- ________________ सिद्धान्तचन्द्रिका। [ आख्याते भ्वादयः ] गणेषु हान्ताः प्रविभज्य कीर्तिताः॥५॥ दिशिं दृशिं दंशिमथी मृशिं स्पृशिं रिशिं रुशिं क्रोशतिमष्टमं विशिम् ॥ लिशिं च शान्ताननिटः पुराणगाः पठन्ति पाठेषु दशैव नेतरान् ॥६॥ रुधिः सराधियुधिबन्धिसाधयः धिक्षुधी शुध्यतिबुध्यती व्यधिः ॥ इमे तु धान्ता दश चाऽनिटो मतास्ततः परं सिध्यतिरेव नेतरे ॥७॥शिषि पिर्षि शुष्यतिपुष्यती त्विर्षि विषि श्लिषि तुष्यतिदुष्यतीद्विषिम् ॥इमान् दशैवोपदिशन्त्यनिड्विधौगणेषु षान्तान कृषिकर्षती तथा ॥८॥ तपिं तिपिं चापिमथो वपिं स्वपिं लिपिं लुपिं तृप्यतिप्यती सृपिम् ॥स्वरेण नीचेन शपिं छपिं क्षिपिं प्रतीहि पान्तान् गणितांस्त्रयोदश ॥९॥ अदि हदि स्कन्दिभिदिच्छिदिक्षुदीशदिंसदि स्विद्यतिपद्यती खिदिम्नुदितुदि विद्यविनत्तिकावपिप्रतीहि दान्तान् दश पञ्च चानिटः ॥१०॥पचिं वचिं विचिरिचिरञ्चिपृच्छतीनिजि सिचिं मुचिभजिभञ्जिभृज्जतीन् । त्यजिं यजिं युजिरुजिसञ्जिभज्जतीन् भुजि स्वजि सृजि-विजिविद्धयनिट्स्वरान् ॥ ११॥" इत्यनिट्कारिकाः॥ (सुबोधिनी)-अथानुदात्ताः॥ स्वरान्तो धातुरनिट् भवति । न इट् यस्मात्सोऽनिट् इति भवद्भिदृश्यतां ज्ञायताम् । तु पुनः स्वरान्तेष्विमान् धातून सेटः प्रवदन्ति । तान् विदन्तीति तद्विदः। तानाह--अदन्तं धातुं कथ वाक्यप्रान्धे इत्यादिकम् ॥ ऋदन्तं कृ विक्षेपे इत्यादिकम् ॥ ऋतां मध्ये वृङ्वृजौ सटौ । वृङ् संभक्तौ । वृi वरणे ॥ अथेवणेषु इवर्णान्तेषु श्विडीङ सेट् कथ्यते । श्विश्च डीङ् चानयोः समाहारः श्विडीङ् । टु ओश्वि इर् गतिवृद्धयोः । डीड़ विहायसा गतौ पुनस्तेषु शीशिक्षावाप सेटौ कथ्यते । शी स्वप्ने । श्रिञ् सेवायामिति ॥ १॥ गणे तिष्ठतीति गणस्थस्तं गणस्थम् । ऊदन्तं.धातुं भूलूप्रभृतिम् ॥ किं च पुनः उताम् उकारान्तानां मध्ये रुस्नुवौ सेटौ । रु शब्दे । रुक गतिरेषणयोरित्युभयम् । स्नु प्रस्रवणे । तथा शुवं टुक्षशब्दे । ऊर्णोतिम् । ऊर्गुञ् आच्छादने । अथो युणुक्ष्णुवः धातून सेटः । यु मिश्रणादौ । अयं सेट् । यु बन्धने । भैयादिकस्त्वनिट् । णु स्तुतौ। क्ष्ण तेजने। प्रवदन्तीत्यनेनान्वय इति। अमुना प्रकारेण निपुणैः विक्षणैः स्वरान्ता धातवः समुच्चिताः एकीकृताः । ततोऽनन्तरं हसान्तान् धातून् अनिटः सकाशात् यूयं निबोधत जानीत । लोटो मध्यमपुरुषस्य बहुवचनम् ॥ २ ॥ अथ हसान्तान् धातूनाह । कान्तेषु शकिः एकः, अनिट् । शक्ल शक्तौ । शक मर्षणे देवादिकस्तु सेट्॥ सान्तेषु घसिः। घस्ल अदने।अदादेशो घसिश्च ।। तु पुनः वसिःप्रसारणी। वस निवासे । प्रसारणं संप्रसारणमस्यास्तीति प्रसारणी एतेन वस आच्छादने । आदा Page #57 -------------------------------------------------------------------------- ________________ [ आख्याते दयः ] टीकाद्वयोपता। दिकः सेट् । तस्य संप्रसारणाभावात् ॥ भान्तेषु रभिः । रभ राभस्ये ॥ अथ मैथुने यभिः । यभ मैथुने ॥ ततस्तृतीयो लभिः।अनिट् । डुलभ प्राप्तौ । अनिट् इष्यते इत्यन्वयः ॥ इतर धातवोऽनिटो न ॥३॥ अमान्तेषु ञमप्रत्याहारान्तेषु धातुषु प्रतिषेधवाचिनामिनिषेधकानां मध्ये एकः अनिट् यामः । यम उपरमे । रमिश्च रमु क्रीडायामपि । दिवादौ दिवादिगणे यःमनिः विचक्षणैः पठ्यते स मानः।मन् ज्ञाने देवादिकः। मनु अवबोधने तानादिका सेट् ॥चतुर्थो नमिः।णम् प्रह्वत्वे शब्दे च ॥ पञ्चमो हनिः। हन् हिंसागत्योः । ततस्तु षष्ठो गमिः । गम्ल गतौ । मयेष्यते इत्यन्वयः ॥४॥ इहानिदकारिकायामिमेनिटोऽष्टौ धातवी हान्ता मया कीर्तिताः कथिताः। कीदृशाः मुक्तः संशयो येषु ते मुक्तसंशयाः। किं कृत्वा । गणेषु हान्तान् प्रविभज्य भिन्नीकृत्य । ते के । दिहिः दिह उपचये । दुहिः दुह प्रपूरणे । दुहिरिति दुहिर अर्दने भौवादिको न गृह्यते सानुबन्धकत्वात्।आदादिक एवानिडिति प्राञ्चः। मेहतिरोहती। मिह सेचने । रुह बीजजन्मान प्रादुर्भाव च । वहिः वह प्रापणे। तु पुनः षष्ठो नहिः। णह बन्धने । दहतिः दह भस्मीकरणे । तथा लिहिः लिह आस्वादने ॥५॥ पुराणगाः प्राचीना विद्वांसःगणपाठेषु शान्तान् अनिट्कान् दशव पठन्ति । इतरान्न । तान् कान्। दिर्शि दिश अतिसर्जने । दृशिं दृशिर प्रेक्षणे ॥ दाशिं दंश दशने । अथो मृशिं मृश आमर्शने ॥ स्पृशिं स्पृश संस्पर्शने ॥ रिशिं काशं रिश रुश हिंसायाम् ॥ अष्टमं क्रोशर्ति क्रुश आह्वाने रोदने च ॥ विशिं विश प्रवेशने ॥ लिशिं लिश अल्पाभावे दिवादिस्थो लिश गतौ तुदादिस्थ इत्युभयम् ॥ ६ ॥ तथा धान्ता धातव इमे दशानिटो मताः कथिताः । ते के । रुधिः रुधिर आवरणे, अनो रुध कामे इति देवादिक इत्युभयम् ।। सराधिः राध संसिद्धौ॥ युधिवन्धिसाधयः युध संप्रहारे । बन्ध बन्धने । साध संसिद्धौ। धिक्षुधी क्रुध कोपे । क्षुध बुभुक्षायाम् ॥ शुध्यतिबुध्यती शुध शौचे । बुध अवगमने देवादिको । बुधिर बोधने इति बुध अवगमने इत्येतो भौवादिको तु सेटौ ॥ व्यधिः व्यध ताड़ने ॥ततः परं सिध्यतिरेव । विधु संराद्धौ। अनिट्। विधु गत्याम्। पिधू शास्त्रे माङ्गल्ये चैतौ भौवादिकौ सेटौ॥७॥गणेषुगणपाठेषु अनिाविधौअनिट्टप्रकरणेषान्तान् इमान् दशैवाचार्या उपदिशन्ति तान् कान् शिषि शिष्ल विशेषणे । पिर्षि पिषल संचूर्णने॥ शुष्यतिपुष्यती । शुष शोषणे। पुष पुष्टौ। देवादिकावनिटौ।भौवादिकासेट्। विषि विष दीप्तौ॥विषि विष्ल व्याप्तौ।जौहोत्यादिकः॥श्लिषि श्लिष आलिङ्गने। श्लिष दाहे भौवादिकः सेट्॥तुष्यातिदुष्यती । तुष तुष्टौ । दुष वैकृत्ये। देवादिकौ ॥ द्विर्षि द्विष अप्रीतौ । तथा कृषिकर्षती । कृष विलेखने । भौवादिकतौदादिकौ ॥ ८ ॥ स्वरेण नीचेन अनुदात्तस्वरेण गणितान पान्तान् अनिटस्त्रयोदश वंप्रतीहि जानीहि । तानाहतपिं तप संतापे । तप ऐश्वर्ये । देवादिकः। तप दाहे इति चौरादिकोऽपि । जिप्रत्ययाभावपक्षेऽनिट । तिपिं तिपृ क्षरणे॥च पुनः आपिम् आप्ल व्याप्तौ॥ अथो वर्षि टुवा Page #58 -------------------------------------------------------------------------- ________________ (३४) सिद्धान्तचन्द्रिका। [आख्याते भ्वादयः ] बीजतन्तुसंताने ॥ स्वपिं त्रिष्वप शये ॥ लिपि लिप उपदेहे ॥ लुपिं लुप्ल छेदने ।। तृप्यतिदृप्यती । तृप् प्रीणने । दृप् हर्षमोहनयोः। एतौ देवादिकावनिटौ। तृप् तृप्तौ । दृप उत्क्लेशे । एतौ तौदादिको सेटौ। तृप तृप्तौ । दृप संदीपने । एतौ चौरादिको च सेटौ ॥ सृपि सृपूल गतौ ॥ शपिं शप आक्रोशे ।शप् उपालम्भे च॥छुपिं छुप स्पर्शे ॥ क्षिपि क्षिप प्रेरणे । देवादिकस्तौदादिकश्चानिट ॥९॥ दान्तान् धातून आनिटः पञ्चदश त्वं प्रतीहि अवहि । तानाह-अदि अद भक्षणे॥हदिहद पुरीपोत्सर्गे ॥ स्कन्दिभिदिच्छिदिक्षुदीन् । स्कन्दिर गतिशोषणयोः । भिदिर विदारणे । छिदिर द्वैधीकरणे । क्षुदिर संचूर्णने ॥ शदि शद्ल शातने । सार्द षद्ल विशरणादौ । स्विद्यतिपद्यती । जिविदा गात्रप्रक्षरणे, पद गती देवादिको । जिष्विदा स्नेहनमोचनयोः । भौतादिकः सेट् । पद गतौ चौरादिकः सेट । खिदि खिद दैन्ये । खिद परिघाते।रोधादिको देवादिकस्तौदादिकश्चानिट् ॥ नुदि नुद प्रेरणे ॥ तुाद तुद व्यथने ॥ विद्यविनत्तिकावपि । विद् सत्तायां देवादिः। विद विचारणे रौधादिकः । विद ज्ञाने । विद्ल लाभे । एतो सेटौ॥ विद्यविनत्ती एव विद्यविनत्तिको स्वार्थे कप्रत्ययः ॥१०॥ न विद्यते इट् स्वरों येभ्यस्तेऽनिटस्वराः तान् धातून् त्वं विद्धि जानीहि । तानाह-पचिं डुपचष् पाके ॥ पचिव्यक्तीकरणे च सेट् ॥ वचिं वच परिभाषणे । ब्रुवो वचिरपि ॥ विचिरिचिरञ्चिपृ: च्छतीन् । विचिर पृथग्भावे । रिचिर विरेचने। रिच वियोजनसंपर्चनयोरिति च । रन रागे। प्रच्छ जीप्सायाम्॥निजि णिजिर शौचपोषणयोः। णिजि शुद्धौआदादिकः सेट। सिचिं षिच क्षरणे॥मुचि-भजि-भञ्जि-भृजतीन् । मुचल मोक्षणे।भज सेवायाम्।भञ्जी आमर्दने । भ्रस्ज पाकात्याजि त्यज हानौ ॥ यजिं यज देवपूजादौ ॥ युजिरुजिसञ्जिमज्जतीन् । युजिर योगे । युज समाधौ इति च । भाष्यमते युज समाधौ सेट् । रुजरोगे। पञ्ज सङ्गे। टुमस्जो शुद्धौ । भुजिं भुज पालनाभ्यवहारयोः। भुजोकौटिल्ये इति च। स्वर्जि स्वञ्ज परिष्वङ्गे॥जिविजि । समाहारे एकवचनम् । सृज विसर्गे। देवादिकस्तौदादिकश्चानिट। विजिर पृथग्भावे । ओविजी भयचलनयोः। तौदादिका सेट् ॥ चान्ताः षट् । छान्त एकः। जान्ताः पञ्चदश ॥ ११ ॥ . (तत्त्वदी०)-अनुदात्तस्वरान्संगृह्णाति ॥ अनिट्स्व रान्त इत्यादिना॥ न इट् यस्मात् सोऽनिट स्वरोऽन्तो यस्य स स्वरान्तः स्वरान्तो धातुरनिट् भवति इति दृश्यतामित्यन्वयः॥ इमानिति॥ स्वरान्तेषु इमान् वक्ष्यमाणान् सेटः प्रवदन्ति । तानाह-अदन्तमिति ॥ अदन्ताः कथ इत्यादयः। ऋदन्ताः स्तृप्रभृतयः । ऋतामिति ॥ ऋदन्तानां मध्ये वृसंभक्तौ वृवरणे । टुओश्वि इर गतिवृद्धयोः । डीङ् विहायसा गतौ । शीङ् श्वप्ने । श्रिञ् सेवायाम् ।ऊदन्ता भूप्रभृतयः।रु शब्दे । रुङ्गतौ रेषणे च । ष्णु प्रस्रवणे । टुक्षु शब्दे । ऊर्गुञ् आच्छादने । न चोर्णोतस्विरत्वात्प्राप्तिरेव न संभवति कारिकायां ग्रहणं किमर्थमिति वाच्यम् ऊोतेर्ने डिति निषेधादत्र ग्रहणम् । एतद्बीजं तु वाच्यम् । ऊर्णोतेणुवद्भाव इत्यादिशेषोक्तिरेवेति दिक् । युमिश्रणामिश्रणयोः। णु स्तुतौणु तेजने ॥ Page #59 -------------------------------------------------------------------------- ________________ [ आख्याते भ्वादयः ] टीकाद्वयोपेता | ( ३९ ) स्वरान्तानुक्त्वेदानीं हसान्तान् कान्नादिक्रमेणाह - शक्ल शक्तौ एक एव कान्तेषु नान्य इत्यर्थः । खगघङान्तानां न सन्त्येव । वाल अदने । वस निवासे । द्वावेव सान्तेषु नान्य इत्यर्थः । अदादेशस्य घसेस्तु स्थान्यनिट्त्वेनैव सिद्धम् । रम रामस्ये । यभ मैथुने । डुलभष् प्राप्तौ । भान्तेषु त्रय एव नापरे इत्यर्थः । यमु उपरमे। रमु क्रीडयाम् । मन ज्ञाने । णम प्रहृत्वे शब्दे च । गम्ऌ गतौ । मान्ते चत्वार एव । मन ज्ञाने दिवादिः । हन हिंसागत्योः । तान्तेषु द्वावेव । प्रतिषेधवाचिनाम् । अनिटामिन्यर्थः । दिह उपचये । दुह प्रपूरणे । मिह सेचने । रुह बीजजन्मनि प्रादुर्भावे । वह प्रापणे । णह बन्धने । दह भस्मीकरणे । लिह आस्वादने । हान्तेषु अष्टावनिटः प्रकीर्तिताः कथिता इत्यर्थः ॥ मुक्तः संशयो येषु ते तथा । गणेषु प्रविभज्य गणविभागेनेत्यर्थः । दिश अतिसर्जने । दृशिर् प्रेक्षेणे । देश दशने । मृश आमर्शने । स्पृश संस्पर्शे । रिश रुश हिंसायाम् । कुश आह्वाने । विश प्रवेशने लिश गतौ । लिश अल्पीभावे । धान्तेषु दश ॥ रुधिर् आवरणे । अनोरुध कामे इति दिवादिश्च । सराधिः राधः संसिद्धावेतत्सहितः युध संप्रहारे । बन्ध बन्धने । साध संसिद्धौ । क्रुध क्रोधे । क्षुध बुभुक्षायाम् । शुध शौचे । बुध वगमने । दिबादयः ॥ व्यध ताडने । षिध संराद्धौ । धान्तेष्वेकादश इतरे नेत्यर्थः । शिषूल विशेषणे । पिष्ट संचूर्णने । शुष शोषणे । पुष पुष्टौ । दिबादी । विष दीप्तौ । विष्ट व्याप्तौ । श्लि आलिङ्गने । तुष तुष्टौ । दुष वैकृत्ये । दिवादी । द्विष अप्रीतौ कृषि विलेखने । भौवादिकतौदादि कौ । षान्तेष्वेकादश ॥ तप संतापे । तप् ऐश्वर्ये । दिवादिः । दाहे इत्यपि ञ्यभावपक्षे । तिपृक्षरगे । आपूल व्याप्तौ । टुवप् बीजतन्तुसंताने । ञिष्वप् शये । लिपउपदेहे । लुप्ऌ छेदने । तृप प्रीणने । दृप हर्षविमोहनयोः । दिवादी । सृ गतौ । स्वरेण नीचेन अनुदात्तेनेत्यर्थः । शप उपालम्भे छुप स्पर्शे । क्षिप प्रेरणे । दिवादिस्तुदादिश्च । पान्तान् त्रयोदश प्रतीहि जानीहि | अद भक्षणे । हद पुरीषोत्सर्गे । रकन्दिर् गतिशोषणयोः । भिदिर विदारणे । छिदिद्वैधीकरणे । क्षुदिर् संपेषणे । शल शातने । षद्ऌ विशरणादिषु । ञिष्विदा गात्रप्रक्षरणे । पद गतौ। दिवादी। खिद दैन्ये । खियति । खिन्दति । खिनत्तिश्च । नुद प्रेरणे । तुद व्यथने । विद सत्तायाम् । विद विचारणे । दा तेषु पञ्चदश ॥ डुपचूष पाके । चि व्यक्तीकरणे द्वावपि । वच परिभाषणे । ब्रुवो बंचिरपि । विचिर् पृथग्भावे । रिचिर् विरेके । विच वियोजनसंपर्च्चनयेरिति। षिच क्षरणे । मुल मोचने । चान्तेषु षट् ॥ प्रच्छ ज्ञीप्सायाम् । छान्तेष्वेकः ॥ त्यज हानौ । णिजिर् शौचपोषणयोः । भज सेवायाम् । भो आमर्दने । भुज पालनाभ्यवहारयोः । भुजो कौटिल्ये इति च । भ्रस्ज पाके । टुमस्जो शुद्धौ । यज पूजादौ । युजिर् योगे । रुजो भङ्गे । रञ्ज रागे । विजिर् पृथभावें । ष्वञ्ज परिष्वङ्गे । षञ्ज सं । सृज विसर्गे । जान्तेषु पञ्चदश । अनिट्स्वरान् अनुदात्तानित्यर्थः । I वेत्ता | अवैषीत् ॥ क्षिक्षये चिक्षयिथ- चिक्षेथ ॥ ( सुबोधिनी ) - स्वरान्तादत्वतश्चेति वेट् । विवयिथ - विवेथ । आजिथ । विव्यिव । विव्यम | वीयात् । लुटि वेत्ता - अजिता । वेष्यति - अजिष्यति । अवेष्यत् - आजिष्यत् । धातोर्नामिन इति वृद्धिः । अवैषीत्-आजीत् ॥ क्षि क्षये । अकर्मकः । अन्तर्भावितण्यर्थस्तु सकर्मकः नुधातोरिती । चिक्षियतुः ॥ Page #60 -------------------------------------------------------------------------- ________________ (४०) सिद्धान्तचन्द्रिका। [ आख्याते भ्वादयः ) ये। अनपियकारे परे पूर्वस्वरस्य दीर्घःस्यात ।क्षीयात् । अक्षैषीत्।। तुम्प हिंसायाम् ॥ (सुबोधिनी )-ये-अनपि यकारे परे पे ॥ से दीर्घ इ यतो दीर्घ इति अनपीति चानुवर्तते ॥ अनपि ये किम् । चिनुयात् । संज्ञापूर्वकर। विधेरनित्यत्वाद्वात्र न दीर्घः ॥ क्षि निवासगत्योरिति तौदादिकः ॥ (तत्त्वदी०)-ये इति ॥ दीर्घस्तु से दीर्घ इत्यतोऽनुवर्तते । सप्त मीनिर्देशात्पूर्वस्थेति लभ्यते । वकारस्तु प्रत्ययस्यैव प्रकरणत्वात् तेनेयाजेत्यादौ नातिप्रसंगः । वानुवृ विस्थया वा ॥ (प्रात्तम्पतेः सुट गवि कर्तरि) प्रस्तुम्पति गौः । अद्वित्वव्यव१. २६ धानेऽपि सुट । प्रास्तुम्पत् । प्रतुस्तुम्पीओअपनयने । ओणांच कार । वन षन संभक्तौ । ववनतुः । अवानीत्-अवनीत् । सेनतुः॥ (सुबोधिनी )-प्रात्तुम्पतेः सुट गवि कर्तरि ॥ प्रा पसर्गात् परस्य तुम्पतेः सुट् स्यात् गौः कर्ता चेत् । ऋसंयोगान्नेति लिटः कित्त्वा वात् नस्य लापान । तुतुम्पतुः । आशिषि नो लोपं इति नलोपः । तुप्यात् । विसपा निर्देशात् यङ्लुकि सुट् न । प्रतोतुम्पीति ॥ओ” अपनयने । अपनयनं दूरीकरणम् ॥ वन पन संभक्तीवन शब्दे च। संभक्तिर्भजनम् ॥ (जनसनखनामात्वमनिटि से कृिति झसे यादौ क्िित वा) सायात-सन्यात् । असनीत-असानीत ॥ चमु अदने ॥ (सुबोधिनी )-जनसनखनामात्वमनिटि से क्ङि त झसे यादौ क्ङिति वा ॥ जन जनने जुहोत्यादिः जनी प्रादुर्भाव दिवादिः । उभयोग्रणम् । एषामात्वं स्यात् अनिटि सप्रत्यये किति ङिति झसे च यकारादौ किति व से परे । सिषासति ।। (ष्ठिवुक्लम्वाचमा दीर्घोऽपि) आचामति । अङ् किम् । चमति । विचमति । चेमतुः । अचमीत् । प्ठिवु निरसने । " (सुबोधिनी)-ष्ठिवुक्तम्वाचमां दीर्घोऽपि॥ एषांदीर्घः स्यात् अप्रत्यये । ष्ठित्रु निरसने । निरसनं थूत्करणम् । (नामधातुष्वष्कष्ठिवां सत्वं न ) प्ठीवति । (सुबोधिनी)-नामधातुष्वष्कष्ठिवां सत्वं न ॥ व गतौ। नामधातारुदाहरणानि । षट् दन्ता अस्येति षोडन् तमाचष्टे नानो जिडित करणे इति जिप्रत्यये टिलोपे च षोडयति षण्डमाचष्टे करोति वा षण्डयति । नाम्नो य इति यप्रत्यये षण्डमिच्छतीति षण्डीयति ॥ कटे वर्षावरणयोः । वर्षों वृष्टिः। आवरणमाच्छादनम् ॥ Page #61 -------------------------------------------------------------------------- ________________ [ आख्याते भ्वादयः ] टीकाइयोपेता । ( ४१ ) (तत्त्वदी० ) - नामधातुविति ॥ एतच्च विदो नवानामिति सूत्रस्यैवौनुवृत्तेर्व्यवस्थया बोध्यम् । पण्डमाचष्टे षण्डयतीत्यादौ ॥ (ष्ठवेः पूर्वस्य स्य ठौ वा ) तिष्ठेव - टिष्ठेव । य्वोर्विहसे । ष्ठींव्यात् । अष्ठेवीत् ॥ कटे वर्षावरणयोः ॥ वर्ण (हयन्तक्षणश्वस् जागृव्येदितां सेटि सौ न वृद्धिः ) अकटीत् ॥ हय गर्तौ । अहयीत् ॥ जु म्हसि ॥ (सुबोधिनी ) यन्तक्षणश्वस्जागृश्व्येदितां सेटि सौ न वृद्धिः ॥ ह च म् च यच यः ते अन्ते येषां ते हयन्ताः एत् इत् यस्य स एदित् । यन्तस्यं क्षणादेरेदितश्च वृद्धिर्न सेटि सौ | ग्रह उपादाने । अग्रहीत् ॥ टुवमु उरिणे । अवमीत् ॥ हय गतौ । अहयीत् ॥ क्षणु हिंसायाम् | अक्षणीत् ॥ श्वस् प्राणने । अश्वसीत् ॥ जागृ निद्राक्षये । अजागरीत् ॥ टुओश्विर् गतिवृद्धयोः । अश्वयीत् ॥ सेटि सौ किम् । दह भस्मीकरणे । अधाक्षीत् । जु रंहसि । रंहो वेगः ॥ (तत्त्वदी०) यन्तेति ॥ ह् अ म् च य् च ह्नयः ते अन्ते येषां ते हयन्ताः हकारमकारय-कारान्ता इत्यर्थः । क्षण हिंसादौ । वस प्राणने । जागृ निद्राक्षये । टुओश्वि इर् गतिवृद्धयोः । एत् इद्येषां ते तथा तेषामित्यर्थः ॥ जुजुवतुः । जुजुविथ - जुजोथ । अजाबीत् ॥ गुपू रक्षणे ॥ ( सुबोधिनी ) गुपू रक्षणे । रक्षणं पालनम् ॥ आयः ॥ गुपूधूपविछिपणिपनिभ्यः स्वार्थे आयः प्रत्ययः । अनपितु वा ॥ ( सुबोधिनी ) - आयः ॥ रब्भ्यः इत्यनुवृत्तं पणिपत्योरनुदात्ते च आयाभावे चरितार्थमात्मनेपदुमित्यायान्तान्नाद्भवति ॥ गुपू रक्षणे । धूप सन्तापे । विच्छ गतौ । पण व्यवहारे स्तुतौ च । पन न ॥ ( तत्त्वदी० ) - आय इति । इह गुब्भ्य इत्यनुवर्तत इत्याह--3 इति अपरस्यानिर्दिष्टत्वात् स्वार्थे एव लभ्यते ॥ - गुपूधूपेत्यादि ॥ स्वार्थे स धातुः ॥ यङादिप्रत्ययान्तः शब्दों धातुसज्ञको भवति ॥ गोपायति - गोपायांचकार । जुगोप ॥ (सुबोधिनी ) - स धातुः । तच्छशब्देन यङादिः परामृश्यते । यङादिना च . प्रत्ययग्रहणपरिभाषया तदन्तं गृह्यते । तेषां केवलानां संज्ञाप्रयोजनाभावाद्वा । "य सकाम्या इयङ् चेति यगायञिञिङस्तथा । आचारे क्विवथो यश्च ज्ञेया दश यङनदयः ॥ १ ॥ प्रत्ययविशिष्टस्य धातुत्वात् तिवादिः ॥ Page #62 -------------------------------------------------------------------------- ________________ ( ४२ ) सिद्धान्तचन्द्रिका | [ आख्याते वादयः ] ( तत्वदी ० ) - स धातुरिति ॥ तच्छब्दस्य तदादित्वेन तेषां च प्रधानपरामर्शित्वेन यङादिगृहीतः केवलयङादेश्च संज्ञाप्रयोजनाभावात्तदन्तलाभः । अनन्तरोक्तस्य भेरपि ग्रहणं सग्रहणेन निर्वार्यते । अन्यथानुवृत्यैव तद्ग्रहणे सिद्धे सग्रहणं व्यर्थं स्यात् । आदेशादि विधायकप्रकरणेन विच्छेदाद्व्यवहिततिबादरेपि न ग्रहणमतः परिशेषाद्यङादिरेव गृह्येत इत्याशयेनाह यङादिप्रत्ययान्तइति । यतः ॥ यस्यातश्चानपि लोपः ॥ गोपाय्यात् - गुप्यात् । गोपायिता-गोपिता--गोप्ता । अगोपायीत्-अगौप्सीत् ॥ (सुबोधिनी ) - यतः ॥ य् च अच्चानयोः समाहारो यत् तस्य ॥ धातोर्विशेषणत्वात्तदन्तविधिः । यान्तस्य अदन्तस्य च लोपः अनपि । अदन्तस्य किम् । अय पय गतौ । आभ्यां क्विपि यवयोर्वसे हकारे चेति यलोपे कृते य इत्यलोपो माभूत् । अतपत् । ऊदिवाट् । गोपिता । गोप्ता । इडभावपक्षे अनिटो नामिक्त इति वृद्धिः । अगौप्सीत् ॥ ( तत्त्वदी० ) - यत इति ॥ य् च अच्च अनयोः समाहारः यत् तस्य ॥ झसात् ॥ अगतात् ॥ एवं धूप सन्तापे । तप सन्तापे । तेपिथततप्थ । अताप्सीत् ॥ जप जल्प व्यक्तायां वाचि । जेपिथ | जपिता । अजापीत् ॥ क्रमु पादविक्षेपे ॥ को-वोल (सुबोधिनी) - क्रमु -- पादविक्षेपे । पादविक्षेपः पादविहरणम् ॥ (आशभ्लाशमुकमुकमुत्रसित्रुटियां योगा कर्त्रर्थेषु चतुर्षु) (सुबोधिनी) - भ्राशभ्लाशभ्रमुक्रमुक्कमुत्रसित्रुटिषां यो वा कर्त्रर्थेषु चतुर्षु ॥ प्राप्ताप्राप्तविभाषेयम् । अनवस्थानार्थो 'भ्रमिः क्लमिः त्रसिश्च दिवादयस्तेभ्यो नित्ये प्राप्ते इतरेषामप्राप्तेश्वारम्भः । भ्राट भ्लाट दीप्तों । फणादावेतौ । भ्रमुचलने । भ्वादिलादिश्च । भ्रमु अनवस्थाने दिवादिः पुषादिः शमादिः । तत्र भ्वादेः भ्रमति - भ्रम्यति । शमादेस्तु शमादीनामिति दीर्घे भ्राम्यति । इति त्रैरूप्यम् । मुग्लानौ । त्रसी उद्वेगे । त्रुट छेदने । लष कान्तौ ॥ (क्रमः पे दीर्घाऽविषये ) क्राम्यतिक्रामति । अक्रमीत् It यम उमरमे ॥ अटक (सुबोधिनी ) - क्रमः पे दीर्घाऽविषये ॥ क्रमो दोर्घः स्यात् पे चतुर्षु ॥ प किम् उपक्रमते । प्रोपाभ्यामित्यात् । स्नुक्रमेरिति नेट् । स्नुकमोरुदात्तत्वादिटि सिद्धनियमार्थोऽयम् । आभ्यां परस्य परस्मैपदस्यैवेट् स्यान्नातः । स्नु प्रस्रवणे । उपस्त्रो ब्यते जलेन । उपक्रंस्यते । यमु उपरमे । उपरमो निवृत्तिः ॥ गमां छः ॥ गमयमइषूणां छः स्यादब्विषये ॥ यच्छति । येमिथ-ययंथ ॥ Page #63 -------------------------------------------------------------------------- ________________ [ आख्याते भ्वादयः ] टीकाद्वयोपेता। (सुबोधिनी)-गमा छ। गम्ल गतौ । यम उपरमे । इषु इच्छायाम् । एते गमादयः । बहुवचनमाद्यर्थम ॥ (तत्त्वदी०)-गमामिति ॥ बहुवचननिर्देशस्य फलमाह-गमादय इत्यादि । (यमिरमिनमातां सक्सेरिट पे) अयसीत्, अयंसिष्टाम् ॥ णम . प्रवत्वे शब्दे च।नेमिथ-ननन्थ। अनसीत् ॥ईj ईर्ण्य ईर्ष्यायाम । ईय॑ति । ऐयात् । ऐ-त् ॥ गम्ल गतौ । गच्छति ॥ (सुबोधिनी)-यमिरमिनमातांसक्सरिट पे॥ एषां सक् स्यात् एभ्यःसेरिद प परे ॥ अयसीत्, अयंसिष्टाम । व्यरंसीत्, व्यरंसिष्टाम् । अनंसीत्, अनंसिष्टाम् । फे किम् । उदायत । अरंसाताम् । गमां स्वरे ॥ गम्हन जन्खन्धसामुपधाया लोपः स्यात्स्वरे क्ङिति न तु ङ॥ जग्मतुः। जगमिथ-जगन्थ ॥ (सुबोधिनी)-गमां स्वर ॥गम्ल गतौ । हन् हिंसागत्योः । खनु अवदारणे । घस्ल अदने । एषामुपधाया लापः स्यात् स्वरादौ विकात प्रत्यये न तु ङ । नो वेत्यतो व्यवस्थितार्थकस्यैवानुवर्त्तनात् जग्मतुः । जघ्नतुः । चख्नतुः । जक्षतुः ।। 3 किम अगमत् ॥ . (तत्त्वदी० )गमा स्वर इति॥बहुवचनस्य बहूपलक्षत्वमभिप्रेत्य गणयति गमनहनेत्यादि । नो वेत्यतो वानुवृत्तव्यवस्थया कचियभिप्रत्याह न तु-डे इति॥तेन अगमदित्यत्र लोपो न ॥ हन्नृतः स्यपः॥ हन्तक्रंदन्ताच परस्य स्यप इडू भवति । गमेस्तु पे गमिष्यति ॥ (सुबोधिनी)-हन्नृतः स्यपः॥ अनुदात्तत्वादिनिषेधे प्राप्ते विधिः । हन् च ऋच्चानयोः समाहारो हन्नृतः। तन्मात् हन्नृतः। गमः परस्मैपदस्यैवेट नातः। तेन संगस्यते इत्यादौ न ॥ (तत्त्वदी०) हन्नृतः॥हन् च ऋच हन्नृत् तस्मात् । ऊदितो वेत्यतो वेत्यनुवृत्तेर्व्यवस्थया गमः परस्मैपदमेवेत्याह--गमेस्त्विा ॥ तेन संगस्यते इत्यादौ न ॥ हन्तेः ऋदन्ताचोभयपदेऽपि । आहनिष्यते करिष्यते ॥ लित्पुषादेऊः॥लिता धातोः पुषादेश्च ङः प्रत्ययः स्यात् ।। सेरपवादः॥ अगमत् ॥ ध्रुचु म्लुचु गतौ । म्रोचति ॥ (सुबोधिनी) लित्पुषादेर्डः ॥ल इत् यस्य सलित् । पुष आदिर्यस्य सपुषादिः। लिच्च पुषादिश्चानयोः समाहारो लित्पुषादिः तस्मात् । सौत्रत्वात्पुंस्त्वम् । संज्ञापूर्वक Page #64 -------------------------------------------------------------------------- ________________ (४४) सिद्धान्तचन्द्रिका । [ आख्याते भ्वादयः ] विधेनित्यत्वान्न नुम् । जेरङ् द्विश्चेत्यतोऽङित्यनुवृत्त्यैव सिद्धे ङइति योगविभागेन तु द्युतादिभ्योऽस्यतिवक्तीति च लब्धम्। पुषादिश्च दिवाद्यन्तर्गणे ग्राह्यःलित्साहचर्यात । लितो हि प्रायेणानिट:ऽतत्साहचर्यात्पुषोऽप्यनिड़ ग्राह्यः स दिवादिः न भ्वादिः सेट्त्वात् न चुरादिर्जिना व्यवधानाच्च ॥ ___(तत्त्वदी०)--लित्पुषादेरिति ॥ ल इत् यस्य स लित् । पुष आदिर्यस्य स पुपादिः लिच्च पुषादिश्चानयोः समाहारः लित्पुषादिस्तस्य । नुमोऽनित्यत्वात्क्लीः त्वस्यैव वा पुंस्त्वम् ।। ननु रतिश्चेत्यनन्तरोक्तसूत्रादङनुवृत्तः किं ङग्रहणेनेति चेत्सत्यम् । ङहणं योगविभागेनान्यतोऽपि विधानार्थम् । तेन द्युतादिभ्योऽपि अस्यतिवक्तिख्यातिभ्यश्च भवति । अथैकयोगनिर्दिष्टन्यायेनालि द्वित्वं भवेदिति वाच्यम् । ओरिति ग्रहणात् । ञ्यन्तादेवाङि द्वित्वविधा नात् न त्वन्यस्मात् । अङि लघोह्रस्व उपधाया इति हस्वस्तु लित्पुषादेर्दीर्घोपधत्वाभावादेव न द्वित मावेन पूर्वपदत्वाप्रसङ्गाच॥ (मुचादेर्वा ङः) अघुचत्-अम्रोचीत् । अम्छुचत्-अम्लोचीत् ।। ग्रुचु ग्लुचु चौर्ये । अग्रुचत्-अग्रोचीत् । अग्लु पत्-अग्लोचीत् ॥ ग्लुञ्चु गतौ । अग्लुचत् अग्लुञ्चीत् ॥ त्रिफला विशरणे ॥ (सुबोधिनी )म्रचादेर्वा ङः ॥ मुचु म्लुचु ग्रुचु ग्लुचु छुञ्चु इति सुचादयः॥ त्रिफला विशरण । विशरणमवयवानां विभागः॥ (तृफलभजत्रपां किति णादौ सेटि थपि चत्वपूर्वलोपौं) फेलतुः। फेलिथ ॥ (सुबोधिनी)-तृफलभजत्रपां किति णादो सेटि पि चैत्वपूर्वलोपौ। तरतरकारस्य गुणशब्देन भावितत्वात् फलभजोस्तु वैरूप्यसंपदकादेशत्वात् त्रपतेश्च एकहसमध्यस्थवाभावादप्राप्ते विधिः । तेरतुः । तेरुः । फेलतः फेलुः । भेजतुः । भेजुः । ।पे। पाते ॥ २२ लान्तस्य लूसमीपाकारस्य सौ नित्यं वृद्धिः ॥ अफालीत् ॥ फल निष्पत्तौ । फेलतुः। अफालीत् ॥ चर गतिभक्षणयोः । अचारीत् ॥ जि जये॥ __ (सुबोधिनी)-ट्रान्तस्य लूसमीपाकारस्य सौ नित्यं वृद्धिः ॥ अतोहसादेरिति विकल्पस्यापवादः ॥ लान्तस्य किम् । अलपीत् परणीत् । अत्र लूसमीपत्वेपि लान्तत्वाभावान्न नित्यं वृद्धिः ॥ लूसीपाकारस्थ किन् । श्वल्ल आशुगमने । अश्वल्लीत् । अत्र अस्य लूसमीपत्वेऽपि अन्त्यलूसमीपत्वाभाव न्न वृद्धिः । जि जये। जय उत्कर्षप्राप्तिः। अकर्मकोऽयम् ॥ (तत्त्वदी०)-लान्तस्येति॥लान्तस्य किम् । अलपीन् । अरणीत् । अत्र लूसमीपत्वेऽपि लान्तत्वाभावान्न ॥ लूसमीपाकारस्य किम् । श्वल्ल आशुगभने इत्यस्य अश्वल्लीत् । अत्र Page #65 -------------------------------------------------------------------------- ________________ [ आख्याते भ्वादयः ] टीकाद्वयोपेता | ( ४५ ) लूसमीपत्वेऽपि अन्त्यलूसमीपत्वाभावान्न । अतो हसादेरिति प्राप्त विकल्पस्यापवादः । जि जये इति ॥ जय उत्कर्षप्राप्तिः ॥ (सपरोक्षयोर्जेर्गिः ) जिगाय, जितुः, जिग्युः । जिगयिथजिगेथ | जीयात् । अजैषीत् ॥ कृष विलेखने । कर्षति । चकर्ष । चकर्षिथ ॥ ( सुबोधिनी) - सपरोक्षयोर्जेर्गि: ॥ जोगः स्यात् सप्रत्यये णवादौ च । द्वित्वनिमित्तयोरिति व्याख्येथम् । तेन यङ्लुगन्ताज्जेर्ग्यादेशो न जेजयांचकारेत्यत्र ॥ कृष विलेखने । विलेखनमाकर्षणम् ॥ ( तत्त्वदी०) सपरोक्षयोरिति ॥ परोक्षशब्देन तदर्थकणबादिग्रहः । द्वित्वनिमित्तयोरिति : व्याख्येयम् । यथाश्रुतव्याख्याने तु यङ्लुगन्ताज्जेर्यादेशः स्यात् ॥ रोझसे दृशाम् ॥ दृशस्सृजकृषमृषतृपदृपसृपां झसेऽरों रो भवत्यारो रश्च ॥ ( सुबोधिनी) रारों झसे दृशाम् ॥ अश्व आश्च तयोः समाहारः अं सहितो र अर् तस्य अरः । अरः स्थाने आरः स्थानै च रो भवति । तेन द्रक्ष्यति अद्राक्षीदित्युभयत्रापि गुणवृद्धिस्थाने र आदेशः सिध्यतेि । बहुवचनं त्वाद्यर्थम् दृशिर प्रेक्षणे । सृज विसर्गे । कृष विलेखने । मृश आमर्शने । स्पृश स्पर्शने । तृप प्रीणने । दृप हर्षमोहनयोः । सृपूल गतौ ॥ (कृषादीनां वा ) - ॥ (सुबोधिनी ) - कृषादीनां वा ॥ कृषादीनां षण्णां तु वारः स्थाने रः ॥ पढोः कः से ॥ धातोः षढयोः कत्वं स्यात्से परे ॥ क्रक्ष्यति-कर्क्ष्यति । अकाक्षीत्-अकाक्षत् ॥ ( सुबोधिनी ) - षढोः कः से धातोरित्यनुवृत्तम् ॥ से किम् । ऋष्टा ॥ षढोः किम् । त्रस्यति ॥ धातोः किम् । लिटसु ॥ (तत्त्वदी०) षढोः क सः इति ॥ धातोरिति ॥ अत्र धातुग्रहणद्वयानुवर्तनं विधेयम् : तेन धातोरेव धातोर्नतु नामत्वविशिष्टस्यापि । अतो लिह्य इत्यत्र नातिप्रसङ्गः । न चात्र क्यस्य बाधकत्वं तदपवादकत्वादस्य । न च त्र नामत्वेन धातुस्वमिति भ्रमितव्यम् । तेन तदनपायात् । (कृषमृपस्पृशमृशतृपहपां वा सिः) हशषान्तात्सक । हान्ताच्छान्तात्षान्तान्नाम्युपधादनिटः सकृप्रत्ययः स्यादिबादिपरो न तु दृशः ॥ सेरपवादः । अकृक्षत् ॥ सुप्लृ गतौ । सर्पति । स्रप्तासप्त । असृपत् ॥ क्रुश आह्वाने रोदने च । क्रोशति । क्रोष्टा । अक्रुक्षत् ॥ रुष रिष शिष हिंसायाम् ॥ Page #66 -------------------------------------------------------------------------- ________________ ( ४६ ) सिद्वान्तचन्द्रिका | [ आख्याते भादयः ] (सुबोधिनी ) - कृषमृषस्पृशंमृशतृपदृपां वा सिः ॥ एभ्यो वा सिः स्यात् । पक्षे हशषान्तात्सक ॥ तृपदृभ्यां षादित्वात्तु ङः हशषान्तात्स । अनिटोsनामिवत इत्यनुवृत्तम् ॥ हशषान्तात्किम् । अतिप्त । नाम्युपधात्किम् । गाढ | अनिटः किम् । औहिष्ट ॥ दृशेस्तु अद्राक्षीत् । हश्व शश्च षश्च हशषाः ते अन्ते यस्य स तस्मात् । अत्रान्तग्रहणं चिन्त्यम् । हशषादिति पाठ्यम् । तेन च धातोर्विशेषणादन्तलाभः ॥ ( तत्वदी० ) - शषान्तात्सगिति । हश्व शश्च षश्च अन्ते यस्य स तस्मात् । अत्र चानिटोऽना मित्रत इति पूर्वसूत्रान्नामिवत इत्यनुवर्त्य तस्य च विशेषार्थता विवक्षणान्नाम्युपधात्वलाभः । इत्यभिप्रेत्याह- नाम्युपधादिति । तेन स्तृहेरस्ताक्षीदित्येव रूप मेति बोध्यम् । हशषादित्येव युक्तं धातोर्विशेषणत्वेनान्तलाभात् ॥ (इषुसहलुभरिषरुषामनपि तस्यैडा ) रेषिता-रेष्टा । रोष्टारोषिता । अशिक्षत् ॥ उष गतौ, ओषति । ओषाञ्चकार - उवोष ॥ मिह सेचने ॥ (सुबोधिनी ) - इस हलभरिषरुषामनापि तस्येा ॥ इषु इच्छायाम् । षह मर्षणे । लुभ गायें । रुष रिष हिंसायामेभ्यः परस्य तकारस्य इड्डा भवति अनपि पर ॥ विदरिद्रेत्याम् । उपधाया लघोरिति गुणः । ओपांचकार । असवर्णे स्वरे इत्युव । उवोष ॥ मिह सेचने । सेचनमाद्रीकरणम् ॥ 2 ढढो लोपो दीर्घश्च ॥ ढे परे ढस्य लोपः पूर्वस्य चानृतो दीर्घः । मेढा । षढोः कः से । अमिक्षत् ॥ दह भस्मीक रणे । देहिथ - ददग्ध । धक्ष्यति । अधाक्षीत् । झसात् अदाग्धाम् ॥ हवि व्याप्तौ । इन्वति इन्वांचकार । ऐन्वीत् ॥ हिवि दिवि धिवि जित्रि प्रीणने । हिन्वति ॥ सुबोधिनी) - ढि ढो लोपो दीर्घश्च ॥ अनृतः किम जर्गृठात् ॥ हो ट इति ढत्वम् । तथोध इति तस्य धः । ष्टुभिः ष्टुः इति टः । ढलप मेढा । हशषान्तात् इति सक् । अमिक्षत् ॥ हिवि दिवि धिवि जिवि प्रीणने । प्रीणनं तर्पणम् । इदितो नुमिति नुम् । हिन्वति ॥ ( तत्त्वदी० )-ढि ढो लोप इति ॥ वान्यत्रेत्यतो वानवृत्तेर्व्यवस्थयाऽनृतः पूर्वस्येति बोध्यम् । ढि ढोलोपो दीर्घश्चेति सुवचम् । एवं च रिलोपो दीर्घश् ते न सूत्रणीयम् ॥ प्रीणन इति ॥ प्रीणनं वृत्तिस्तर्पणं च ॥ ( धिन्विकृण्व्योर्वस्य लोपो गुणाभाव उप्प्रत्ययश्चाब्विषये ) विकरणस्य तुप्रत्ययस्योप्प्रत्ययस्य च गुणो भवति पिति परे ॥ धिनोति ॥ Page #67 -------------------------------------------------------------------------- ________________ [ आख्याते भ्वादयः ] टीकाद्वयोपेता । ( ४७) (सुबोधिनी) - धिन्विकृण्ज्योर्वस्य लोपो गुणाभावः उप्प्रत्ययश्चाबूविषये || आभ्यामुप्रत्ययः स्यातू धातोर्वकारस्य लोपो गुणाभावश्च चतुर्षु । अपोऽपवादः ॥ धिवि प्रीणने । कृवि हिंसायाम् । नूप इति गुण धिनोति ॥ ओमोर्वा लोपः ॥ असंयोगपूर्वस्य प्रत्ययोकारस्य लोपो वा वमयोः ॥ धिन्वः-धिनुवः धिन्मः-धिनुमः । मिपि तु गुणो बाधकः । धिनोमि ॥ (सुबोधिनी ) - ओमोर्वा लोपः ॥ उकारः प्रत्ययावयवः प्रत्ययरूपश्च गृह्यते । ओर्वाहेरित्यतो वेत्यनुवृत्तम् । तस्थासंयोगपूर्वस्य प्रत्ययस्येत्यर्थः । प्रत्ययोकारस्य किम् । युवः । युमः ॥ असंयोगपूर्वस्य किम् । शक्नुवः । तणुमः ॥धिनोमीत्यत्र परत्वाद्गुणः ॥ (तत्त्वदी ० ) - ओमोर्वा लोप इति ॥ ओर्वाहेरित्यतो वेत्यनुवर्त्य व्यवस्थया संयोगपूर्वप्रत्ययोकारलाभः । उकारश्च प्रत्य स्तदवयवश्च ॥ ओर्वा हे ॥ असंयोग पूर्वात्प्रत्ययो काराड्रेर्लोपो वा भवति ॥ धिनुधिनुतात् । कृषि हिंसा करणगतिषु । कृणोति । कृण्वन्ति । चकृण्व । अक्षू व्याप्तौ । (अक्षेर्वा तुप्रत्ययोऽविषये ) अक्षणोति । अक्ष्णुवन्ति । अक्षति । आनक्षिथ-आनष्ठ । अक्षिता-अष्टा । अक्षिव्यति- अक्ष्यति | आक्षीत । आक्षिष्टाम् । आक्षीत् । आष्टाम् । आक्षुः । तक्ष त्वक्ष तनुकरणे ॥ (सुबोधिनी ) ओर्वा है: । वेति न विकल्पार्थं किंतु प्रत्ययसंबन्धिनोऽसंयोगपूर्वादित्यस्यार्थस्य प्रतिपादनार्थ न । उः प्रत्ययरूपः प्रत्ययावयवश्च गृह्यते ॥ प्रत्यय संबन्धिनः किम् । युहि । रुहि । ॐ संयोगपूर्वात्किम् । शक्नुहि ॥ अक्षू व्याप्तौ । व्याप्तिः Sara | अक्षेर्वानुप्रत्ययो विषये । अक्षेर्नुप्रत्ययो वा स्यात् चतुर्षु । अपोऽपवादः ॥ टिस्कोरिति कलोपः । षढोः कः से इति कः । षत्वम् । अक्ष्यति । लुङि ऊदित्त्वा । आक्षीत् । आक्षिष्टाम् । इडभावपक्षे तु आक्षीत् । झसादिति सिलोपे आष्टाम् । आक्षुः ॥ ( तत्त्वदी ० ) ओर्वाहेरिति । वाशब्दोऽत्र न विकल्पार्थः किंतु व्यवस्थार्थः । तत्फलं तूक्तमेव ॥ (तस्तनूकरणे gaisव्वषये ) तक्ष्णोति तक्षति वा काष्ठम् । ततक्षिथ-ततष्ठ । अतक्षीत् । अतक्षिष्टाम् । अताक्षीत् । अताष्टाम् । तनूकरणे किम् । वाग्भिः संतक्षति । भर्त्सयतीत्यर्थः णिक्ष || चुम्बने । प्रणिक्षात | निक्षति । ग्लै म्लै हर्षक्षये ॥ ( सुबोधिनी ) तक्षेस्तनूकरणे नुर्वाऽविषये ॥ तनूकरणेऽर्थे तक्षेनुप्रत्ययो चतुर्षु । अपोऽपवादः । ग्लै म्लै हर्षक्षये । हर्षक्षयो धातुक्षयः ॥ INS 7000 Page #68 -------------------------------------------------------------------------- ________________ (४८) सिद्धान्तचन्द्रिका | [ आख्यते भ्वादयः ] संध्यक्षराणामा ॥ अनपि । ( सुबोधिनी ) - संध्यक्षराणाना ॥ सन्ध्यक्षरान्तानां धातूनामा अनपि ॥ धातोः किम् । गोभ्याम् । नौभ्याम् ॥ आतो ण डौ । आदन्ताद्धातोः परो णत्र डौ ॥ जग्लौं । ( सुबोधिनी ) - आतो पत्र डौ । आत इति धातोर्विशेषणात्तदन्ताविधिः । आदन्तादाकाररूपाच्च धातोः परो ण डौ स्यात् अइवाच वारेति औ ॥ ( तत्त्वदी ० ) - आतो णब डाविति ॥ धातोर्विशेषणत्व तदन्तलाभ इत्यभिप्रेत्याह-आदन्तादिति ॥ आदन्तादाकाररूपाच्चेति बोध्यम् । णबित्यत्रानुबन्ध्यग्रहणम् । प्रथमपुरुषबहुवचने • गाते इत्यादावतिप्रसंगवारणाय डित्करणम् । आतो युग्वारणाय णिवं वा स्थानिवच्वात् । तज्ज्ञापक चात्र ग्रहणमेव । नित्यत्वात्प्रथमप्राप्तोऽपि युक् सावकाशन्यायेन वारितः ॥ आतोऽनपि ॥ धातोरातो लोपोऽनपि क्ङिति स्वरे इंडेिच ॥ जग्लतुः । जग्लिथ - जग्लाथ ॥ (सुबोधिनी) - आतोऽनपि ॥ आत इति योगविभागात् सेटि थापे चेति लब्धम् ॥ ( तत्त्वदी० ) - आतोऽनपि ॥ आत इति योगविभागात्लेटि थपि चेत्यस्य लाभः ॥ (संयोगादेरादन्तस्य किति लिङयेकारो वा) ग्लायात् ग्लेयात् । अग्लासीत् ॥ कै गै रे शब्दे । जगौ ॥ (सुबोधिनी) - संयोगादेरादन्तस्य किति लियेकारो वा ॥ संयोगादेरादन्तस्य धातोरेत्वं वा किति लिङि ॥ दादरे ॥ अपिदाधामागैहापिबतिसोस्थामात एकारो भवत्याशीर्यादादौ ये ॥ गेयात । अगासीत् । स्त्यै ष्टयै शब्दसंघातयोः । स्त्यायति । तस्त्यौ | स्त्यायात् - स्त्येयात् । अस्त्यासीत् ॥ दैप शोधने । ददौ । दाया | अदासीत् ॥ धेट् पाने । दधौ । धेयात् । अधासीत् । सिलोपपक्षे । अधात् । अधाताम् ॥ ( सुबोधिनी ) - दादेरे ॥ इह दारूपास्त्रयः । डुदाञ् दाने । दाण दाने । दो अवखण्डने । देङ् रक्षणे गृह्यते लिङि कित्त्वासम्भवात् ॥ धारूपौ द्वौ । डुधाञ् धारणपोषणयोः । धेट्पाने । दाश्व दाश्व दाव दाः धाश्च धश्च धौ दाश्च धा च दाधा इति विग्रहः । दापू लवने । दैप शोधने । एतौ पित्त्वात् न ग्राह्यो । मा माने ॥ माङ्'मेङौ नेह गृह्येते लिङि कित्त्वासम्भवात् ॥ शब्दे । गाङ गताविति तु न गृह्यते लिङि कित्त्वासम्भवात् || ओहाकू त्यागे । पा पाने । षोऽन्तकर्मणि । ष्ठा गतिनिवृत्तौ । एषामेवं किति लिङि । देयात् । धेयात् । मेयात् हेयात् । पेयात् । अवसेयात् । स्थेयात् ॥ किति किम् । दासीष्ट ॥ Page #69 -------------------------------------------------------------------------- ________________ [ आख्याते भ्वादयः ] टीकाद्वयोपेता। (४९) (तत्त्वदी०)-दादेरित्यत्र दार्ट रित्यतो दादरित्यस्यानुवृत्त्यैव सिद्धेऽत्र दादरितिग्रहणसामर्थ्यादेतल्लाभः॥यादादी पे इति॥ एतः युक्तयुक्तेर्लभ्यते ।ष्टयै स्त्यै इति । अत्र वासुदेवः नामधातुष्वकष्टयैष्ठिवां सत्वं नेत्युक्तवान् तद्भाष्य विरुद्धम् । पृथक्पाठस्तु तिष्टयासति अतिष्ट्यासदित्यत्र षत्वार्थः॥ (उस्यालोपः) अधुः ।। (सुबोधिनी )-उस्यालोपः ॥ आदन्तस्य धातोरातो लोप उसि परे॥ ४. (धेटो भूतमात्रे दिबादिपरो ङो वा द्वित्वं च) आतोऽनपि ॥ अदधत् ॥ दृशिर प्रेक्षप । ( सुबोधिनी )-धेटो तमात्रे दिबादिपरो ङो वा द्वित्वं च ॥ धेटो ङप्रत्ययो वा स्यात् । द्वित्वं च ङि । सरपवादः ॥ पक्षे यमिरमिनमातामिति सक् । अधासीत् ॥ शाछेति सिलोपे धात् ॥ दृशिर प्रेक्षणे । प्रेक्षणं दशनम् ॥ दृशादेः पश्यादिः।। चतुर्वपि दृशऋमृशदषदपाघ्राध्मानादाण्स्थां पश्यऋच्छधौरतीयसीदपिबजिघ्रधममनयच्छतिष्ठाः । पश्यति । ददर्श, ददृश तुः॥ (सुबोधिनी )-शादेः पश्यादिः॥ दृशिर प्रेक्षणे । ऋ गतौ । सृ गतौ । शद्ल शातने । षद्ल विशरणादौ । पा पाने । पा रक्षणे इति तु न गृह्यते लुग्विकरणत्वात् । घ्रा गन्धोपादाने । ध्मा शब्दाग्निसंयोगयोः । ना अभ्यासे। दाणू दाने । ष्ठा गतिनिवृत्तौ । एपाकादश नां यथासंख्यमेकादश पश्यादय आदेशा भवन्ति अप्प्रत्यये परे ॥ (तत्त्वदी० )-दृशादेः पश्यादिरिति|पा पाने इत्यस्यैव ग्रहण न तुपा रक्षणे इत्यस्यापि लुग्विकरणालुग्विकरणयोरलुग्विव रणस्यैव ग्रहणमिति केचित् । तन्न । न्यायेन सिद्धौ साहचर्यस्यागतिकव्वात् ॥ . (मृजिदृशोस्थपो वे) ददर्शिथ-दद्रष्ठ । द्रष्टा । अद्राक्षात्, - अद्राष्टाम् ॥ ( सुबोधिनी)-सृजिश स्थपो वट्॥कादेर्णादेरिति नियमान्नित्ये प्राप्ते विभाषेयम् । लुङि इरि तो वो ङः ॥ .. (ऋवर्णदृशोङ गुणः) अदर्शत्। ऋ गतौ । ऋच्छति। आर्च्छत् । ( सुबोधिनी)-ऋवर्णदृशा गुणः ॥ ऋवान्तस्य धातोशेश्च गुणः स्यात ङप्रत्यये ॥ ङाभावे अनिटोऽना मेवत इति वृद्धिः । ततो रारो झसे दृशामित्यारोरः । अत उपधाया इति पुनर्बुद्धौ अद्राक्षीत् ॥ Page #70 -------------------------------------------------------------------------- ________________ (५०) सिद्धान्तचन्द्रिका । [ आख्याते भ्वादयः ] (गुणोऽर्तिसंयोगायोः॥)अर्तेःसंयोगा:दन्तस्य च गुणो यकि ... यङि किति णादावाशीर्यादादौ च ये । आरतुः, आरुः॥ (सुबोधिनी)-गुणोऽतिसंयोगाद्योः ॥ अति भ्वादिद्वाद्योग्रहणम् । लुका निर्देशस्तु सौत्रस्तिनिर्देशो यङ्लनिवृत्त्यर्थः ।व्याख्या गात् ऋत इति लभ्यते । तच्च संयोगादित्वेन विशिष्यते । तेन अर्तेः संयोगादेः ऋदन्त य च धातोर्गुणः यग्यडोः परयोः कितोलिलिडोश्च ॥ संयोगादेरिति किम् । क्रिय त् ॥ (तत्त्वदी०)-गुणोऽतिसंयोगाद्योरिति ।। अर्तिश्च योगादिश्च तौ तयोः ॥ऋदन्तस्य चेति ॥ अर्तिसाहचर्यादेवैतलभ्यते ॥ (अत्यतिव्ययतीनां थपो नित्यमिट्) पारिथ।अर्यात् । अर्ता। अरिष्यति। आरिष्यत् ॥ __ (सुबोधिनी)अत्यतिव्ययतीनां थपो नित्यमि: ॥ अद भक्षण ।ऋगतौ । व्यञ् संवरणे । स्वरान्तादत्वतश्चेति विकल्पे प्राप्त विधिः । ___(सर्तिशास्त्यर्तिभ्यो ङो लुङि सेरपवाद) स्वरादेः । आरत, आरताम् । अर्तेर्वादेरिति केचित् । आर्षीत्, अष्टाम् । स गतौ । धावति । अधावत् । शीघ्रगतावेवायम् । अन्या सरति । ससार । सस्रतुः। ससर्थ । समृव । समृम । (सुबोधिनी)-सर्तिशास्त्यतिभ्यो ङो लुङि॥ह लुका निर्देशात् सर्त्यर्ती जौहोत्यादिकावेव गृह्येत । तेन भ्वाद्योन ङ इति केचित् । शासु अनुशिष्टौ। अस्यैव ग्रहणं न तु आङः शासु इच्छायामित्यस्य । परस्मैपदिसयं तभ्यां साहचर्यात् परस्मैपदिनः शासेर्ग्रहणात् कादरिति नेट् । ससर्थ । ससव ॥ (तत्त्वदी०)-शीघ्रगतावेवेति ॥ एतच्च विदो नवाना त्यतो वेत्यस्यानुवृत्तेर्व्यवस्थया बोध्यम् ॥ यादादौ ॥येयादोधातोःऋतो रिडू भवति ।डो व्यवधानार्थस्तेन ये इति न दीर्घः ॥ स्रियात् । सर्ता । मरिष्यति । असरत्, असरताम् । गतौ । स्रवति । अस्रवत् । सुस्राव । सुसुवतुः। सुस्रोथ । सूयात् । स्रोता॥ ( सुबोधिनी)-यादादौ ॥ ये धातोर्ऋतो रिङ् स्यात् किति लिङि ॥ डकारोऽन्त्यादेशार्थो न किंतु मध्यव्यवधानार्थः ॥ (तत्त्वदी०)-ङो व्यवधानार्थ इति ॥ न त्वन्त्यादेशाथः । धातोरधिकारात्षष्ठीनिर्दिष्टत्वेनैतल्लाभात् । व्यवधानफलमाह-तेनेति ॥ Page #71 -------------------------------------------------------------------------- ________________ I आख्याते म्वादयः ] टीकाद्वयोपेता । (५१) (श्रिखुद्रुभ्यो ङो धागोश्च द्वित्वं लुङि सेरपवादः) असुसुवत् । दु द्रु गतौ । दुदविथ-दुःोथ । दोता। अदौषीत्॥ द्रवति । दुद्रोथ । दुद्रुव । अदुद्रुवत् ॥ श्रु श्रवणे ॥ ( सुबोधिनी )-श्रिखुटुभ्य। ङो धातोश्च द्वित्वं लुङि ॥ एभ्यो ङप्रत्ययः स्यादेषां द्वित्वं च लुङि न तु रिः॥ (श्रुवः शृआदेशो नुत्ययश्चाविषये) नूपाशृणोति। शृणोमि। ओोर्वा लोपः । शगुवा-शग्वः, शृणुमः-शण्मः । शणुयात् । शुश्राव । श्रूयात् । अौर्ष त् ॥ शदल शातने ॥११ :: :: ___ (सुबोधिनी)-श्रुवः शआ शो नुप्रत्ययश्चाविषये॥ श्रुवो नुप्रत्ययः स्यात् धातोःश इत्यादेशश्च चतुर्यु । अपोऽपवादः । षद्ल शातने । शातनं विशीर्णता ॥ ( तत्त्वदी० )-शातन इति ॥ विशीर्णतायामित्यर्थः ॥ (शीयादेश आत ) शीयते । अशीयत । शशाद । शेदिथ- . शशत्थ । शत्ता।अशद ॥षदल विशरणगत्यवसादनेषु । सीदति ॥ (सुबोधिनी )-शीयादेशे आत्॥शदेरात्मनेपदं भवति शीयादेशे कृते सति । षद्ल विशरणगत्यवसादनेषु । शिरणमवयवानां विभागः । अवसादो नाशः ॥ ( सदिस्वोलिटि परस्य न षः) निषसाद । सत्ता । सत्स्यति । असदत् ॥ पा पाने । पेवति । पपौ । पेयात् । पाता । पास्यति । दादेः पे । अपात् ॥ घ्रा गन्धोपादाने । जिघ्रति । जघ्रौ । यात् । - घ्रायात् । घ्रास्यति । अग्रासीत्-अघ्रात्॥ध्मा शब्दाग्निसंयोगयो। धमति । दध्मौ । ध्मेयार-मायात् । अध्मासीत् ॥ ष्ठा गतिनिवृतौ । तिष्ठति । तस्थौ दादेरे । स्थयात् ॥ना अभ्यासे। मनति। मनौ । म्रायात्-नेयात् । अनासीत् ॥ दाणू दाने । यच्छति । ददौ । देयात् । अदात् ।। कौटिल्ये । हरति । जहार । गुणोतिसंयोगाद्योः । जह्वरतु:।.. . (सुबोधिनी )-सदिस्वञ्ज लिटि परस्य न षः॥ द्वित्वात्परस्यैतयोः सस्य पो न लिटि । अद्वित्वव्यवधाने पीति प्राप्तौ निषेधः ॥ लिटि किम् । निषिषत्सति । पिबतीत्यत्र पिबादेशोऽदन्तः । संद इत्यलोपः। अल्लोपस्यासिद्धत्वादुपधाया लघोरिति गुणो न । अकारयुक्तोचाणसामर्थ्यादा ॥ घ्रा गन्धोपादाने । गन्धोपादानं गन्धग्रहणम् । शाच्छासेति वा भिलुक् । यमिरमीतीट्सको । अघ्रात्-अघ्रासीत्॥ध्माशब्दाग्निसंयोगयोः । शब्दशब्देन तदनुकूलो वायुरिह गृह्यते । तेन शङ्ख धमतीतिवत् मृदङ्गं धमतीति प्रयोगो न । अग्रिसंयोगे सुवर्ण धमति अग्निना संयुनक्तीत्यर्थः ॥ ना Page #72 -------------------------------------------------------------------------- ________________ ( ५२ ) सिद्धान्तचन्द्रिका | [ आख्याते भ्वादयः ] अभ्यासे | मनाते विद्याम् अभ्यस्यतीत्यर्थः ॥ अदा देत्यत्र दादेः पे इति सिलुकू ! गुणोऽर्तीति गुणः । जह्वरतुः ॥ (तत्त्वदी० ) सदिस्वञ्जोरिति । लिटि परे परस्य स येति शेषः । स्वजेग्रहणं तु भाष्याननुगुणमपि वृत्त्यादिसंमतत्वात्कृतम् ॥ Ber ( ऋदन्तात्थपो नेट् ) जह्वर्थ । ह्वर्यात ह्वर्ता । हरिष्यति । अह्नरिष्यत् । अह्नार्षीत् ॥ स्वृ शब्दोपतापयं । स्वरति । सस्वरिथ । सस्वर्थ । सस्वरिव । स्वरिता स्वर्ता | स्वरिष्यति । अस्वरिष्यत । अस्वारीत् । अस्वार्षीत्, अस्वाष्टम्, अस्वार्षुः ॥ बुध अवगमने ! बोधति । बोधिता । रुह बीजजन्मनि प्रादुर्भावे च । रोढा । रोक्ष्यति । अरुक्षत् ॥ स्कन्दिर् गतिशोषयोः । स्कन्दति । चस्कन्दिथ-चस्कन्त्थ | स्कद्यात् । स्कन्ता । स्वन्त्स्यति । अस्कान्त्सीव्-अस्कदत् ॥ यभ मैथुने । यमति । याभ, येभतुः, येभुः । 'यभिथ-ययब्ध | यभ्यात् । यब्धा । अयासीत्, अयाब्धाम्, अया प्सुः ॥ तृप्लवनतरणयोः । तरति । ततार । तेरतुः । तेरिथ ॥ (सुबोधिनी ) - ऋदन्तात् थपो नेट् ॥ ऋदन्तात् धातोः परस्य थप इण्न भवति ।। स्वरान्तादीत पाक्षिके प्राप्ते निषेधः । हन्नृत इतीट् । ह्नरेष्यति ॥ स्वृ शब्दोपतापयोः । उपतापो रोगः । स्वरात सूतीति वेटू । सस्वरिथ - सस्वर्थ । गुणोऽतीति गुणः । स्वर्यात् लाटे हन्त इति नित्यमिट् । स्वरिष्यति । लुङि अस्व रीतू, अस्वारिष्टाम् । इडभाव अस्वार्षीत् अस्वाष्टम् ॥ स्वरान्तादत्वत इति वेट् । चकन्दिथ- चस्कन्त्य । आशिषि नो लोप इति नलोपः । स्कद्यात् । लुङि इरितो वेति ङः । अस्कदत् । ङाभावे सावनिटो नित्यं वृद्धिः। अनिटो धातोरनुपधाभूतस्यातं वृद्धिः स्यात् सिप्रत्यये । अस्कान्त्सीत् ॥ तृफलेत्येत्यपूर्व लोपौ | तेरतुः ॥ ऋत इर् ॥ ऋकारस्य इर् भवत्यगुणवृद्धि विषये ॥ तीर्यात् ॥ ( सुबोधिनी) - ऋत इर् ॥ धातोर्ऋकारस्य इर् भवति गुणवृद्धिनिमित्ताभावे ।। ववति दर्घिः । तीर्यात् ॥ ईटो ग्रहम् ॥ ग्रहादीनामिट ईकारो तु णादौ ॥ ( सुबोधिनी ) - ईटो ग्रहाम् ॥ ग्रहादेः परस्येटो दीर्घः स्यान्न तु लिटि । ग्रहामिति बहुवचनेन वक्ष्यमाणव्यवस्था ॥ ( तत्त्वदी ० ) न तु णादाविति । ऊदितो वेत्यतो वानुवृत्तेर्व्यवस्थया लाभः ॥ ( वृङ्वृञ्क्रुदन्तानां वा ) तरिता - तराता ॥ Page #73 -------------------------------------------------------------------------- ________________ [ आख्याते भ्वादयः ] टीकाव्योपेता। (५३) (सुबोधिनी )- वृ त्र दन्तानां वा ॥ एभ्यः परस्पेटो वा दीर्घः न तु लिटि ॥ लिटि किम् । तेरिथ । (पे सेरिटो न दीर्घः सीष्टादेश्च ) अतारीत्, अतारिष्टाम्, अतारिषुः । दश दशने । २०१५ (सुबोधिनी)-पे सेरिटो न दीर्घः सीष्टादेश्च ॥ वृद्धृऋदन्तात्परस्येटो न दीर्घः। पे सौ सीष्टादौ च परे । दश दशने। दशनं दंष्ट्राव्यापारःनिपातनान्नस्य लोपः।। ( तत्त्वदा०)-दशन इति इहैव निपातनान्नलोपः ॥ (अपिरञ्जदंशसञ्जस्वलां नस्य लोपो वाच्यः) दशति । दंष्टा। १९०४ अदाङ्क्षीत् ॥ षञ्ज संगे। ससजिथ-ससक्थ । व्यवाक्षीत् ॥ कित रोगापनयने संशये च । ६२२० । मरे: । (सुबोधिनी)-अपि ॐ दंशसञ्जस्वञ्जाम् ॥ रञ्ज रागे । दंश दशने । सञ्ज संगे । वञ्ज परिष्वङ्गे । एषामु धाभूतस्य नस्य लोपो भवति अप्प्रत्यये । लुङि सावनिट इति वृद्धिः । छशषेति षत्वम् । षढोरिति कत्वम् । यमा यस्येति परसवर्णः । अदाक्षीत् । अद्वित्वव्यवधाने पीति षत्वम् । व्यपाक्षीत् ॥ कित रोगापनयने संशये च । रोगापनयनं व्याधिप्रतीकारः। संशये प्रायेण विपूर्वः। “विचिकित्सा तु संशयः" इत्यमरः ॥ गुब्भ्यः॥ गुपतिज़ तमान्बधदान्शान्भ्यः स्वार्थे सप्रत्ययो भवति धातोश्च द्वित्वा ॥ चिकित्सति । चिकित्सांचकार । चिकित्सिता । अचिकित्सीत् ॥ पल पतने । पपात । पेततुः॥ (पते. पुम् ॥) अपहत् ॥भ्रमुचलने। यो वा। भ्रम्यति । भ्रमति ।। ( सुबोधिनी)-गुब्भ्यः ॥ गुप गोपने । तिज निशाने । मान पूजायाम् । बंध बन्धने । दान आर्जवे।शान ते ने । बहुवचनमाद्यर्थम् । गुपेनिन्दायाम् । तिजे क्षमायाम् । कितेाधिप्रतीकारेनिग्रहे अपनयने नाशने संशयेच।मानेजिज्ञासायाम् ।बधेश्चित्तविकारे । दानेरार्जव । शानेनिशाने वाच्ये नित्यं स्वार्थे सप्रत्ययःधातोत्विं च। गुपिप्रभृतयः किद्भिन्ना अनुदा तः। दानशानौ स्वरितेतौ । अत्र सप्रत्ययस्य सिसतेत्यनेनेण् न भवति। आगमजम नेत्यमित्युक्तत्वात् । 'नानिटि से' इत्युपधाया गुणो ना स धातुरिति धातुत्वात्तिबादिः केतेाधिप्रतीकारादावेव स इत्युक्तम् । तदुदाहरात । चिकित्सति । रोगमपनयतीत्य:॥ शत्रं चिकित्सति । निगृहातीत्यर्थः। क्षेत्रे तृणानि चकित्सति । अपनयति नाभयात वेत्यर्थः ॥ कासादिप्रत्ययादाम् इत्याम् । यत इत्यलोपः । चिकित्सांचकार । भ्रमु चलने । मण्डलाकारेण चलनमेव धात्वर्थों न किंतु चलनमात्रम् । भ्राशभ्लाशिति वा यः। भ्रम्यति-भ्रमति ॥ Page #74 -------------------------------------------------------------------------- ________________ ( ६४ ) सिद्धान्तचन्द्रिका | [ आख्याते भ्वादयः ] (तत्त्वदी ० ) - गुब्भ्य इति ॥ बहुवचनमाद्यर्थमतो गणयति ॥ गुवतिजू इत्यादि ॥ स्वार्थ इति ॥ अन्यार्थानुक्तेरिति भावः ॥ चिकित्सतीति ॥ आगमजस्या नेत्यत्वादिडभावस्ततो 'नानिटि से' इति गुणाभावः । भ्रभु इति ॥ उदित्वं क्त्वाप्रत्यये भ्रमित्वान्त्वतीड्डिकल्पार्थम् ॥ फणराजभ्राजभ्राशृभ्लाशृस्वन् स्यमुजुष्अर त्रसामेत्वपूर्वलोपौ वा ॥ भ्रमतुः - बभ्रमतुः । अभ्रमीत् । टुवम् उरिणे । ( वम एत्वपूर्वलोपो वेति केचित् ) वेमतुः - ववमहः । अवमीत् ॥ फण गतौ । फेणतुः - पफणतुः । अफाणीत्-अफणीत् ॥ स्वन स्यमु शब्दे । स्वेनतुः-सस्वनतुः । अस्वानीत्-अस्वनीत् ॥ स्येमतुः - सस्यमतुः । अस्यमीत् ॥ शसु हिंसायाम् । शशसतुः । शशमिथ ॥ तुहिर् दुहिर उहिर अर्दने । अतुहत्-अतोहीत् । दोहिता । 3 दुहत् अदोहीत् ॥ उवोह, ऊहतुः ॥ वस निवासे । ( सुबोधिनी) - फाभ्राजभ्राशुभ्लाशृस्वनस्य मुषूभ्रमुत्रसमित्वपूर्व लोप वा ॥ फणू गतौ । राजू दीप्तौ । टुभ्रानृ टुभ्राट टुभ्लाट दीप्तौ । स्वन स्यमु शब्दे । इर् वयाहानौ । भ्रमु चलने । त्रसी उद्वेगे । एषामेत्व पूर्व लोपो वा किति लिटि सेटि थाप च । टुवम उारणे । केचिदमुमुदितं पठन्ति । वामनस्तु नोदितम् । गृधातोर्युद्रप्रत्यये गुणे कृते तूहिरण इति स्यात्ततो निपातनादिरिति सुधाकरः । उद्भिरणं वमनम् । वादित्वादेव पूर्वलोपौ न । ववम : । 'वेमुश्च केचिद्रुधिरम्' इत्यादिप्रयोगा भाष्यविरुद्धाः ॥ ( तत्त्वदी ० ) - अभ्रमीदिति यन्तेत्यादिना न वृद्धिः । टुवम उद्गिरण इति ॥ वेमथुरित्यथुप्रत्ययार्थं टित्त्वम् । इहैव निपातनादुद्गिरणे इत्यत्र गुणा-विः ॥ शशसतुरिति ॥ न शशददेति निषेधः ॥ बाद पूर्वस्य ॥ यजादीनां ग्रहादीनां च पूर्वस्य संप्रसारणं बाद || ( सुबोधिनी ) - बादौ पूर्वस्य ॥ यजामिति ग्रहामि ते चानुवृत्तेः । यद्यपि ग्रहवृश्चिपृच्छतिभृज्जतीनां पूर्वस्य संप्रसारणे कृते विशेषो नास्ति तथापि पर्जन्यवलक्षणं प्रवर्त्तते । जग्राह । वश्च । पप्रच्छ । बभ्रज्ज ॥ लिटि कि । विवक्षति । पिपृक्षति | (यवराणामिदुदृतः ) सस्वरस्य संप्रसारणम् । दीर्घस्य दीर्घो ह्रस्वस्य ह्रस्वः । उवास ॥ ( सुबोधिनी )--यवराणामिदुदृतः ॥ यकारवकाररकाराणां स्थाने इकारोकार - ऋकारा भवन्ति । ते संप्रसारणसंज्ञकाः स्युः ॥ Page #75 -------------------------------------------------------------------------- ________________ [ आख्याते भ्वादयः ] टीकाद्वयोपेता। (५५) यजा यवराणां य्वृतः संप्रसारणं किति ॥ यजादीनां संप्रसारणं किति “यजिर्वपिर्वहिव वेव्येनौ ह्वयतिः स्वपिः । वद्वसी श्वयतिर्वक्तिरेकादश यजा इयः॥" ' (सुबोधिनी)-यजां यवाणां स्वृतः संप्रसारणं किति ॥ यजादिधातूनां यकारवकाररकाराणामिकारोक रऋकाराःसंप्रसारणे भवन्ति किति प्रत्यये परे॥"यजिवैपिहिश्चैव वेजव्येह्वेस्वप्व इस्तथा॥वसिश्च श्वयतिर्वक्तिरेकादश यजादयः॥१॥" यज देवपूजादौ । टुवप् बीजतन्तुसंताने। वह प्रापणे। वे तन्तुसन्ताने । व्यञ् संवरणे। हृञ् स्पर्द्धायाम्। त्रिष्वप शये। वद व्यक्तायां वाचि । वस निवासे । टुओश्वि इर गतिवृद्धयोः। वच परिभाषणे एते एकादश धातवो यजादयो ज्ञेयाः॥ घसादेः षः॥घसिसासिवसीनां सस्य षो निमित्ते सति ॥ ऊषतुः । उवसिथ-उवा थ । उस्यात् । वस्ता ॥ (सुबोधिनी)-घसादेः रासस्याकृतत्वादप्राप्ते विधिरयम्।घस्ल अदने । शासु अनुशिष्टौ । वस निवासे । क्विात्परस्यैषां सस्य षः । स्वरान्तादत्वत इति वेट् । उपसिथ-उवस्थ ॥ (तत्त्वदी०)निमित्त इति । किलात्परस्येत्यर्थः ॥ सस्तोऽनपि ॥ सस्य तोऽनपि से ॥ वत्स्यति । अवात्सीत्, अवात्ताम् ॥ वद व्यक्तायां वाचि । वदति । उवदिथ । उद्याथ । वदितज्योः सौ नित्यं वृणिः । अवादीत् । टुओश्विइर् गतिवृद्धयोः । ( सुबोधिनी)-सस्तोऽनपे । धातोः सस्य तोऽनपि सकारे परे ॥ से किम् । वस्ता ॥ सस्योत किम् । रप्स्यते ॥ धातोः किम् । वेधः॥ से लुङि 'णित्पे' इति सेणित्वादत उपधाया इति वृद्धिः। वात्सीत्। सस्य ते कृते झसादिति सिलोपः। अवात्ताम्। वदिव्रज्योरिति वृद्धिः। अवादीन् ॥ टुओश्विइ गतिवृद्धयोः ।टु इतीत्संज्ञकः । द्वितो थुरित्येतदर्थः। श्वयथुः।ओरिति ल्वाद्योदितश्चैतदर्थः। इरितीरितो वेति ङप्रत्ययार्थः॥ (श्वयतेर्णादौ यङि च संप्रसारणं वा) ततो द्वित्वम् । शुशाव, शुशुवतुः। शुशविथ । शिश्वाय, शिश्वियतुः । शिश्वयिथ । शूयात् । श्वयिता । अवर्यात् ॥ (सुबोधिनी)-श्वयतेदो याङिच संप्रसारणं वा । ततो द्वित्वम् । श्वयते: पूर्व संप्रसारणं स्याद्वा पश्चाद् हित्वं लिटि । नुधातोरित्युत् । शुशुवतुः । आशिषि यजामिति संप्रसारणे कृते ये इति दीर्घः । शूयात् । यन्तेतिन वृद्धिः अश्वयीत् । पक्षे इरितो वोत ङप्रत्यये ॥ Page #76 -------------------------------------------------------------------------- ________________ रेवा ( ५६ ) ( श्वयतेरितो लोपो ङे ) अश्वत् ॥ (सुबोधिनी) - श्वयतेरितो लोपो ङे । श्वयतेरिकारस्य लोपः स्यात् ङप्रत्यये । अश्वत् ॥ ( श्वयते द्वित्वं वा एरलोपः ) अशिश्वियत् ॥ घस्ले अदने । घसति । घसेत् । घस्ता । घत्स्यति । अघत्स्यत् ॥ इति पप्रक्रिया ॥ (सुबोधिनी ) - श्वयतेर्डे द्वित्वं वा एरलोपः । श्वय्र्वा द्वित्वं भवति इकारस्य लोपाभावश्च ङे परे । नुधातोरितीय् । अशिश्वियत् । इते सुबोधिन्यां पप्रक्रिया ॥ (तत्त्वदी०)—श्री विद्यानगरस्थायिलोकेशकरशर्मणा । कृतायां दीकायां हि परस्मैपदपूरणम् ॥ इति तच्वदीपिकायां पप्रक्रिया || एध वृद्धौ ॥ धते । एधांच (सुबोधिनी ) - एध वृद्धौ ॥ ( तत्त्वदी० ) - एध वृद्धाविति ॥ अकारोऽनुदात्त आत्मनेपदार्थ: ॥ ( आमो वसोर्नात्कर्तरि ) एधामास । एधां भूव । ऐधिष्ट । ईक्ष दर्शनाङ्कनयोः । ईक्षांचक्रे । ऐक्षिष्ट | tara ant । ष्वष्कते । ष्वष्किर्षाष्ट । अष्वष्किष्ट । वेष्ट वेष्टने । विवेष्टे | वेष्ट चेष्टायाम्। अचेष्टिष्ट । ऋज गतौ स्थैर्ये च । अर्जते । आनृजे । आर्जिष्ट । ष्वञ्ज परिष्वङ्गे । स्वजते ॥ सिद्धान्तचन्द्रिका | Phot पार [ आख्याते भ्वादयः ] ( सुबोधिनी ) - आमो भ्वसोर्नात्कर्तरि । आम्प्रत्यः न्तात्परयोर्ध्वसोः कर्तआत्मनेपदं न भवति । भावकर्मणोस्त्वात्मनेपदमेव । न मधातुष्वष्कष्ठिवामिति सत्वाभावः। ष्वष्कते ॥ आनृजे इत्यत्र द्वित्वम् । हसादिः शेषः रइत्यत्वम् । आवोरित्यात्वम् । नुगशामिति नुक् ॥ ष्वञ्ज परिष्वङ्गे । परिष्वङ्ग आलिङ्गनम् । अपि रचेति नलोपः ॥ (तत्त्वदी०) - नात्कर्तरीति ॥ आत् आत्मनेपदम् । कर्तरीत्युक्ते विादात्मनेपदमेव ।। ष्वष्केति॥नामधातुष्वष्कष्टिवामिति सत्वनिषेधः ॥ आनृजे इति ॥ द्वित्वं हसादिः शेषः र इत्यत्वम् । आम्वोरित्यात्वम् । नुगशामिति नुक् ॥ ( स्वजतेर्णादेव कित्त्वम् ) सदिस्वञ्जलिटि परस्य न षः । परिषस्वजे - परिषस्वजे । स्वङ्क्षीष्ट । स्वता । स्वङक्ष्यते । अस्वङ्क्त, अस्वङ्क्षाताम् । पर्यष्वक्त- पर्यस्वक्त । त्रपूषू लज्जायाम् । त्रपते । त्रेपे । ऊदितो वा । त्रपिषीष्ट - त्रप्सीष्ट । अत्रपिष्ठ-अत्रप्त ।। तिपृ तेपृ ष्टिपृ ष्टेट क्षरणे । तेपते । तितिपे । तिप्सीष्ट । अतिप्त ॥ तेपृ । १--नाऽयं सर्वत्रेति लक्ष्यानुसारिणी व्यवस्था, यत्र लिङ्गं वचनं चास्ति त्रैवास्य प्रयोगः ॥ Page #77 -------------------------------------------------------------------------- ________________ [ आख्याते धादयः ] टीकाद्वयोपेता। तेपते । तितेपे । तेपिषीष्ट । अतेपिष्ट ॥ ष्टिपू । स्तेपते । तिष्टिपे । तेपिषीष्ट ॥ष्टेपृ । स्तेपते । तिष्टेपे । स्तेपिषीष्ट ॥ जभीजृभीगात्रविनामे । (रधिजभोः स्वरे नुम् ) जम्भते । अजम्भिष्ट ॥ जृम्भते - जजृम्भे ॥ ष्टुभ स्तम्भे । विष्टोभते । तुष्टुभे । स्तोभिता । स्तोभिषीष्टे ॥ क्षमूष सहने । क्षमते । चक्षमे । चक्षमिषे-चक्षसे ॥ मोनो धातोः॥ मान्तस्य धातोर्मकारस्य नः स्यात् झसे पदान्ते वमयोश्च ॥ चक्षमिवहे--पक्षण्वहे । चक्षमिमहे-चक्षण्महे । अक्षमिष्टअक्षस्त ॥ क्नूयी शब्दे उन्दे च। क्रूयते । अक्नूयिष्ट ॥ क्ष्मायीं विधूनने । क्ष्मायते । चल्माये । अक्ष्मायिष्ट ॥ स्फायी ओप्यायी वृद्धों। स्फायते । पस्फाये । अस्फायिष्ट । प्यायते ॥ (सुबोधिनी)-स्वजतेर्वाि कित्त्वम्॥स्वजतेः परस्य लिटो वा कित्त्वं भवति। सदिस्वचोरिति परस्य नषः। पारेपस्वजे । झसादिति सिलोपः । अस्वङ्क्त।।तृफलभजत्रपामित्येत्वपूर्वलोपौ । त्रेपे । उदितो वेति वेट् । त्रप्सीष्ट-त्रपिषीष्ट । लुङि झसादिति सिलोपः।अत्रप्त॥तिपृ तेपृ ष्टिपृपृक्षरणे।आद्योऽनिटाक्षीरस्वामी त्वयं सेडिति बभ्राम। कादर्णादरिति नित्यमिट् । तितिपिये। सिस्यो।उपधाभूतस्य नामिनो गुणो नानिटि। सिप्रत्यये सीष्टादौ च परे। लुडि सादिति सिलोपः। अतिप्त॥जभी भी गात्रविनामें गात्रस्वंदे इत्यर्थः। ईदित्त्वात् पादीदित इति क्तक्तवत्वोर्नेट् । रधिजभोः स्वरे नुम् । एतयोर्नुमागमः स्यात् स्वरे ॥ र हिंसायाम । जिप्रत्यये तु रन्धयतीत्यत्र जिनिमित्ता परापि वृद्धिनित्येन नुमा बाध्यत । स्वरे किम् । रब्धा । जब्धा॥ष्टभ स्तम्भे । स्तम्भो निरोधः ॥ क्षमूषु सहने । षका: विद्भिदामङ इत्यङ्प्रत्ययार्थः । मो नो धातोरिति मस्य नः। अवकुप्वन्तरेऽपीति णत्वम् । चक्षण्वहे ॥ क्नूयी शब्द उन्दे च । उन्दः क्लेदनमाद्रीभाव इत्यर्थः ॥ (तत्त्वदी० )--परिषस्वजे इति । कित्त्वान्नलोपः । सदिस्वोरिति परस्य षत्वनिषेधः ॥ त्रप्सीष्टेति ॥ ऊदितो वेति वेट् । चक्षण्महे इति ॥ इडभावपक्षे वयोश्चति मस्य नत्वम् ।। क्नूयी शब्दे उन्दे चेति । ई दित्त्वं तक्तवत्वेरिडभावार्थम् । (लिड्यङोः प्यायः पी) पिप्ये ॥ (सुबोधिनी)-लिड्यङोः प्यायः पी ॥ लिटि यङि च प्यायः पी। आदौ परत्वात् पाभावे पश्चात् पीशब्दस्य द्वित्वे कृते नुधातोरिति यः । पिप्य । यङि पेपायत ॥ ___(तत्त्वदी०)-पिप्ये इति ॥ आदौ परत्वात्पीभावे पुनः प्रसङ्गविज्ञानात्पीशब्दस्य द्वित्वम् । ततोऽनेकस्वरपूर्वकत्वाद्यत्वम् ॥ Page #78 -------------------------------------------------------------------------- ________________ (५८) सिद्धान्तचन्द्रिका | [ आख्याते भ्वादयः ] (दीपजनबुध पूरितायिष्यायिभ्यो वा इण् तनि कर्तरि सेरपवादः) (सुबोधिनी) - दीपजनबुधपूरितायिष्यायिभ्यो वाइण् तनि कर्तरि सेरपवादः ॥ दीपी दीप्तौ । जनी प्रादुर्भावे । बुध अवगम ने। पूरी आप्यायने । एते दिवा - दयः ॥ ता संतान पालनयोः । ओप्यायी वृद्धौ । एतौ नौवादिकौ ॥ एभ्य इण प्रत्ययां वा स्यात् कर्त्रर्थे तनि परे । सेरपवादः ॥ 1 ( तत्त्वदी ० ) - दीपजनेति ॥ अत्र पण्डिताः । दीपपूरा देभिरात्मनेपदिभिः साहचर्यात् बुध बोधने बुध जनने इति परस्मैपदिनो न ग्रहणम् । तेनाभ्यां कर्मव्यतिहारे आत्मनेपदे तनि न भवति || लुक् ॥ इणः परस्य तनो लुक् ॥ अप्य यि - अप्यायिष्ट ॥ तान संतानपालनयोः । तताये । अतायिष्ट ॥ वल वल्ल संवरणे । वलते । वल्लते ॥ टुभ्राज टुभ्राशु टुभ्लाशृ दीप्तौ । भेजे - बभ्राजे । भ्राश्यते-भ्राशते । भ्रंशे -- बभ्राशे । भ्लाश्यते । भ्लाश ।। म्लेशे बभ्लाशे ॥ तिज निशाने क्षमायां च । गुब्भ्यः । तितिक्षते । तितिक्षांचक्रे ॥ गुपः गोपनकुत्सनयोः । जुगुप्सते ॥ मान विचारणे ॥ (सुबोधिनी) - लुक् ॥ इणू तनीत्यत इणिति तनीति चानुवृत्तम् । इणिति पञ्चम्या विपरिणमनीयं तनीति षष्ठ्या च । अध्याय- अप्यायिष्ट ॥ ना संतान पालनयोः । संतानः प्रबन्धः॥ टुभ्राजू टुभ्राट टुभ्लास्ट दीप्तौ । दीप्तिस्तेजः । फ णराजभ्रानृ इत्येत्वपूर्वलोपो ! जे-बाजे । भ्राशभ्लाशिति वा यप्रत्ययः भ्राश्य । ॥ तिज निशाने । निशानं तीक्ष्णीकरणम् । गुब्भ्य इति तिजेः क्षमायां सः । तितिक्षते क्षमां करोतीत्यर्थः ॥ गुप गोपनकुत्सनयोः । गोपनं रक्षणम् । गुपेनिन्दायां सः । जुगुप्सते । निन्दां करोतीत्यर्थः ॥ ( तत्त्वदी०) लुक् ॥ अत्रेण तन्यकर्तरीति पूर्वसूत्रादनुवृत्तं तनीति षष्ठ्या विपरिणमनीयमिणिति पञ्चभ्या । तत्र षष्ठीनिर्देशादन्त्यलोपः । आदेरित्यस्यानुवृत्त्या आदेरपि लोप इति सूत्रपाठपक्षे । कचित्तु लुगिति पाठः । तत्र सर्वस्य तनो लुग्भवतीति । अत्रेदं व कव्यम् । अत्र तनीति नानुवर्त्यम् । इणः परस्य लुक् स्यात् इत्येव व्याख्येयम् । तथा चेणः परस्याः यस्यासंभवात्तन एव लुग्भविष्यति न चाकारितरामित्यत्रातिप्रसङ्गः । तत्रासिद्धत्वेन तनः इण्परत्व भावात् !! निशाने इति ॥ निशानं तीक्ष्णीकरणम् ॥ यः से ॥ पूर्वस्यात इत्से ॥ ( सुबोधिनी ) - यः से ॥ इ अः से इति पदच्छेदः । पूर्वस्येत्यनुवृत्तम् ॥ तपरः किम् । पापचिषति । यङन्तात्सः ॥ (तत्त्वदी ० )- यः से इति ॥ इ अः से इति छेदः ॥ Page #79 -------------------------------------------------------------------------- ________________ [ आख्याते भ्वादयः ] टीकाद्वयोपेता। (मानादीनां पूर्वस्येतो दीर्घः) मीमांसते । बध निन्दायाम्। आदिजबानामिति भः। बीभत्सते॥ पण व्यवहारे स्तुतौ च । पन च। पणायति। स्तुतावेजायः। पणते। पणायांचक्रे । पेणे॥एवं पन । कमु कान्तौ ॥ (सुबोधिनी)-मानादान पूर्वस्येतो दीर्घः ॥ एषां पूर्वस्येकारस्य दीर्घः स्यात् । मान विचारणे । बध निन्दायाम् । दान आर्जवे। शान तेजने । इत्यादि । मानर्जिज्ञासायां सः।मीमांसते । जिज्ञासां करोतीत्यर्थः। बध निन्दायाम् । निन्दा परापवादः । बधेश्चित्तविकारे सः । आदिजबानामिति भः । खसे चपा इति तः। बीभत्सते । ग्लानिं करोतीत्यर्थः॥ण व्यवहारे स्तुतौ च । पन च । क्रयविक्रयरूपो व्यवहारःपनेति स्तुतावित्यनेन बध्यते। पृथग निर्देशात्।पनिसाहचर्यात पणेरपिस्तुतावेवायप्रत्ययः । स्तुतावनुबन्धस्य केवले चरितार्थत्वादायप्रत्ययान्तादात्मनेपदंन भवति । पणायति । यत इत्यल्लोपे पणार ांचकार।भट्टिस्तु व्यवहारेऽप्यायप्रत्ययं कृतवान् । “न चापलेभे वणिजा पणायाम्" इ त । व्यवहारमित्यर्थः। आयान्तादप्रत्यये आप्॥कमु कान्तौ । कान्तिरिच्छा।जिङभावे उदित्त्वात् क्त्वायामिड्विकल्पः। कमित्वा--कान्वा क्तक्तवत्वोस्तु कचिद्वेट् इात निधात् । कान्तः । कान्तवान् ॥ (तत्त्वदी०)-पन चेति ॥ व्यवहारे स्तुताविति चार्थः । पणायतीति । व्यवहारे पणते. इत्यत्र चरितार्थत्वादनुबन्धस्यायप्रत्य मान्न त्वात् ॥ . (कमः स्वार्थे ञिङ नपि तु वा) कामयते । कामयांचक्रे । चकमे। (सुबोधिनी)-कमेः स्वार्थे ञिङनपि तु वा ॥ कमर्जिङ स्याच्चतुर्यु नित्यमनाप वा धात्वर्थे । अरङ् द्विश्च ॥ ज्यन्ताद्धातोः कर्तरि अडू लुङि ॥ सेरपवादः । धातोश्च द्वित्वम् ॥ (सुबोधिनी)-ओरङ् द्विश्च ॥ रित्यस्य प्रत्ययत्वात्तदन्तलाभः । अप् कर्तरीत्यतो मण्डूकप्लुत्या कर्तरीत्यनुवृत्तम् । डकारोङ लघाविति विशेषणार्थः। आङि परे चकारात् ञ्यन्तस्य धातोत्विम् । तच्च नित्यत्वात् जिलोपे कृते प्रवर्त्तते ॥ कर्तरि किम् । अकारयिषातां घटौ कुलालन ॥ (तत्त्वदी०)नेर द्विश्च ॥ अस्य प्रत्यययत्वात्तदन्तलाभः । अप् कर्तरीत्यतो मण्डूकप्लुत्या कर्तरीत्यनुवर्तते ॥ कर्तरि किम् । अकारयिषातां घटौ कुलालेन । अत्राहुः । ङकारोङि लघाविति विशेषणार्थः । चकारस्य वाक्यभेदेन व्याख्यानात् श्रिश्रद्रुभ्यो ङः कचिद्विकल्पेनेत्यादि । अत्रेद वक्तव्यम् । अशिश्रियदित्यादौ डकारस्य गणप्रतिषेधार्थतया दृष्टत्वेनान्यार्थताया अन्याय्यत्वात् । अचूचुरदित्यादौ तु ह्रस्वविधिसामर्थ्यादेव न ॥ Page #80 -------------------------------------------------------------------------- ________________ (६०) सिद्धान्तचन्द्रिका । [ आख्याते म्वादयः ] ः॥ अनपि नेर्लोपो न विडामन्ताल्वाय्येन्विष्णुषु । ___(सुबोधिनी)--जेः॥ जेरिति जिजिङोः सामान्येन ग्रहणम् । इडादिषु प्रत्ययेषु परेषु जेर्लोपो नान्यत्र।अनपि जेलोपः स्यात् इटि । कामयिता । आनि कामयामास । विशादेरन्त इत्यौणादिकेन्त मण्डयन्तः। आलुप्रत्यये स्पृहयाः । वादेराय्य इत्यौ णादिके आय्ये स्पृहयाय्यः। इत्नुप्रत्यये औणादिके स्तनयित्। इष्णुप्रत्यये छान्दसिके वीरुधः पारयिष्णवः ॥ (तत्त्वदी०)--ओरिति ॥ त्रिनिङोः सामान्येन ग्रहणम् । विडियादि । इट् कारयिता । आम् कारयामास । अन्तः । मण्डयन्तः । औणादिकोऽन्तः । आलुः । स्पृहयालुः । स्पृहीत्यादिनोक्त आलुः । आय्यः स्पृहयाय्यः । औणादिक आय्पः । इ नुः स्तनयित्नुः । इष्णुः । पारयिष्णवः । एषु ओर्लोपो नेत्यर्थः ॥ अङि लघौद्रस्व उपधायाः॥ अङि सत्युपाया ह्वस्वो भवति पूर्वस्यातो लघुनि धात्वक्षरे इकारः ॥ (सुबोनिनी०)-अङि लघौ हस्व उपधायाः॥ येन नाव्यवधानं तेन व्यवहितेऽपीति वचनसामर्थ्यात् धात्वक्षरस्थककारे व्यवधानेऽपि पृस्यातोऽत्रेत्वम् । अजजागरदित्यत्र वनेकवर्णव्यवधानत्वान्नेत्वम् ॥ उपधायाः किम । अचकासत् । (तत्त्वदी०)अङि लघौ द्वस्व उपधायाः॥ धात्वक्षरस्य ककारेण व्यवधानेऽपि येन नाव्यवधानं संभवति तेन व्यवहितेऽपीति वचनसामर्थ्याद्भवति । अजजागर देत्यत्र त्वनेकवणव्यवधानत्वान्न भवति । न चाचिक्षणदित्यत्राप्यनेकवर्णव्यवधानत्वान्न भविष्यतीति वाच्यम् । अत्स्मृदृत्वरेतीत्वबाधनार्थमत्वेन संयोगव्यवधाने भवतीति ज्ञापितत्वात्।तेन स्वरहससमुदाय एव न भविष्यतीतिबोध्यम् । लघोर्दीर्घः ॥ अङि सति पूर्वस्य लघोर्दी! भ प्रति लघुनि धात्व क्षरे परे ॥ अचीकमत । ओरभावे ॥ ___ (सुबोधिनी)-लघौ दीर्घः ॥ अङि लघावित्यतो लघा वित्यनुवृत्तम् ॥ लघोः किम् । अचिक्षणत् । अरभावे ॥ (तत्त्वदी०)-लघोर्दीर्घः ॥ अत्राङि लघावित्यनुवर्तते इ याह-लघुनीत्यादि ।। अत्र प्राञ्चः हसादेर्धातोः पूर्वस्य लघोर्दी? भवति । तेनारिर इत्यादावप्रसङ्ग इति । वस्तुतस्तु अत्र दीर्घाप्राप्तिरेव लघुधात्वक्षरपरत्वाभावात् ॥ (कमेरद्वित्वे ) अचकमत । अय गतौ । अयते ॥ (सुबोधिनी)-कमरेडू द्वित्वे ॥ अञ्यन्तात्कमेरङ ग्यात् धातोदित्वं लुङि सेरपवादः ॥ Page #81 -------------------------------------------------------------------------- ________________ [ आख्याते भ्वादयः] टीकाद्वयता । (६१) ( अयतौ प्रादेरेफस्य त्वम्) प्लायते । अयांचक्रे । आयिष्ट ॥ दय दानगतिरक्षणहिंस दानेषु । दयते । दयांचक्रे ॥ घट चेष्टायाम् । घटते । जघटे । अघटिष्ट || ईह चेष्टायाम् । ईहांचक्रे ॥ ऊह वितर्के । ऊहांचक्रे ॥ कासृ शब्दकुत्सायाम् । कासांचक्रे ॥ षेवृ सेवने । सिषेवे | अविष्ट ॥ प्रुङ् प्लुङ् च्युङ् गतौ । अप्रोष्ट । अप्लोष्ट | अच्योष्ट ॥ गा गतौ । गाते । अन्तरङ्गत्वात्सवर्णे दीर्घः सह । गाते, गाते । गै, गाव, गामहे । जगे । अगास्त ॥ रुङ् गतौ भाषेण च । रवते । रुरुवे | अरविष्ट । अनियमित्येके ॥ मुङ् बन्धने । मविता । अमविष्ट ॥ पूङ् पवने । अपविष्ट ॥ दे त्रै पालने । दयते ॥ (सुबोधिनी ) - अयतौ प्रा दे रेफस्य लत्वम् ॥ प्रादिस्थरेफस्य लत्वमयतौ । अयताविति रेफस्य विशेषणं न तु प्रादेः । येन नाव्यवधानमिति वचनादेकव्यवधाने लत्वम् । पलायते । प्रत्यय इलादौ त्वनेकव्यवधानान्न । कासादिप्रत्ययादाम् । अयांचक्रे । आशिषि सेटो हल होते वा ढः | अयिषीढम् - अयिषीध्वम् । लुङि आयिष्ट । आयिदम्-आयिध्वम् । अथ कथम् ' उदद्यति विततोर्ध्व रश्मिरज्जौ' इति माघः ॥ अत्र शानप्रत्ययेन भाव्यमिति शङ्कितुराशयः । उच्यते । अनुदात्तेत्त्वलक्षणमात्मनेपदमनित्यं चक्षिङो ङित्करणाज्ज्ञापितम् ॥ दय दानगतिरक्षणहिंसादानेषु । हिंसा हननम् । आदानं ग्रहणम् । कासादिप्रत्यवादित्याम् । दयांचक्रे । ऊह वितकें । वितर्कों विचारः॥ गाते इत्यत्र पूर्व प्रत्ययनं सह सवर्णदीर्घे कृते पश्चादादाथ इरिति न आतोन्तो. दनतइति तु प्रवर्तते एव । ते अन्ते परतः तुल्यं रूपमिति भावः । गातेऽत्र आदादिकोऽयमिति हरदत्तादयः । पले तु न भेदः । रुङ् गतौ रेषणे च । रेषणं हिंसा । देङ् त्रैङ् पालने । पालनं रक्षणम् ॥ (तत्त्वदी० ) - अयताविते रेफस्य विशेषणं न तु प्रादेरित्यभिप्रेत्याह-प्रादेरेफस्येति ।। तेन रेफस्याव्यवधानेन पतौ परे लत्वं नान्यत्र । प्रत्ययत इत्यादौ तिशब्देन व्यवधानात् । न च प्लायत इत्यत्राप्यकारेण व्यवधानमेवास्तीति वाच्यम् । येन नाव्यवधानमिति वचनादेकव्यवधानेऽपि प्रवृत्तिसंभवात् । अथ नि रोर्व्यवधानसंभवः । तदर्थं निर्दुरोरित्येव ब्रूयात् || अन्तरङ्गत्वादिति गा अ आते इति सि ते प्रकृत्याश्रयले सवर्णदीर्घे आदाथ इरिति न भविष्यतीति भावः ॥ गैइति ए ऐ ऐ इति वृद्धिरेव । यत्तु कैश्चिदालोपे गे इत्युक्तम् तद्रभसात् ॥ (दङो णादौ दिग्या रेशो द्वित्वाभावश्च) दिग्ये । दासीष्ट ॥ ( सुबोधिनी ) - देङो ण दौ दिग्यादेशो द्वित्वाभावश्च ॥ देङ: स्थाने दिगिः स्यात् दिगेर्द्वित्वाभाव: । लिटि नुधातोरित यत्वम् । दिग्ये ॥ Page #82 -------------------------------------------------------------------------- ________________ ( ६२ ) सिद्धान्तचन्द्रिका | [ आख्याते भ्वादयः ] ( अपिद्दाधास्था मित्सङित्वमाति न तु दीङ: ) (सुबोधिनी) - अपाधास्थाभित्सेर्डित्वमाति तु दीङः ॥ एभ्यः परस्य सेर्डित्त्वं भवति । एषामात् इच्च आत्मनेपदे लुङि ॥ लोपो ह्रस्वाज्झसे ॥ ह्रस्वात्परस्य सेर्लोपो झसे || अदित, अदि`षाताम् ॥ त्रायते । तत्रे । अत्रास्त ॥ प्मिङ ईषद्धने । स्मयते । सिष्मिये । स्मेषीष्ट । स्मेता । अस्मेष्ट । डी बेहायसा गतौ ॥ डयते । डिडये | अडयिष्ट ॥ द्युत दीप्तौ । द्योतते ॥ • KAA ( सुबोधिनी ) - लोपो ह्रस्वाज्झसे ॥ सेः इति सूत्रम वृत्तमं ॥ ह्रस्वात्किम् । अष्टाम् ॥झसे किम् । अकृषाताम् ॥ डीङ्ग विहायसा गतौ । आकाशेन गमने ॥ ( तत्त्वदी ० ) - लोपो हस्वाज्झसे ॥ लोपो ह्रस्वझसा रित्येव सूत्रयितुमुचितम् । पृथक्करणस्य व्यर्थत्वात् | डीङ् विहायसा गतौ ॥ विहायसा आकाशेनेत्यर्थः । ' वा तु पुंस्याकाशविहायसी' इत्यमरोक्तेः ॥ विहायसमिति त्वपपाठः || (द्युतः पूर्वस्य संप्रसारणं स्वापेश्व) दिद्युते । सुबोधिनी)-ते: पूर्वस्य संप्रसारणं स्वापेश्च ॥ : पूर्वरूपस्य स्वापेश्च संप्रसारणं भवति । सस्वरयकारस्य इः ॥ (घुतादिभ्यो लुङि वा पं पे ङः ) अद्युतत् द्योतिष्ट॥ श्वितावर्णे । अश्वितत्-- अश्वेतिष्ट ॥ ञिष्विदा स्नेहनमो नयोः । अश्वि दत्--अश्वेदिष्ट॥ ञिक्ष्विदा च । अक्ष्विदत्--अवे दुष्ट ॥ ञिमिदा स्नेहने । अभिदत्--अमेदिष्ट ॥ रुच दीप्तावभिप्रीत्तौ च । अरुचत्अरोचिष्ट ॥ घुट परिवर्तने । अघुटत्-- अघोटिष्ट | रुट लुट लुठ प्रतिघाते । अरुटत्-अरोटिष्ट | अलुटत्- अलोष्टि ॥ अलुठत्अलोठिष्ट || शुभ दीप्तौ । अशुभत्-अशोभिष्ट || क्षुभ संचलने । अक्षुभत--अक्षोभिष्ट ॥ णभ तुम हिंसायाम् । नेभे । अनभत्-अनभष्ट ॥ स्रं ध्वंसु भ्रंसु अवस्रंसने । अस्त्रसत् अरु सिष्ट ॥ ध्वंसु गर्तौ च । अध्वसत् - अध्वंसिष्ट ॥ स्त्रम्भु विश्वासे । अस्त्रभत्--अस्त्रभिष्ट ॥ वृतु वर्तने । वर्तते ॥ (सुबोधिनी ) - तादिभ्यो लुङि वा पं पे ङः ॥ ता यः कृषिपर्यन्तास्त्रयोविंशतिधातवस्तेभ्यः परस्मैपदं वा भवति । पक्षे आत्मनेपदं च लङिपे । पक्षे लित्पुषादेरिति ङप्रत्ययः । अनिट्कारिकायां स्विद्यतिरिति निर्देशादयं नेट् । स्वेदिता ॥ घुट् परिवर्तने । परिवर्तनमितस्तो भ्रमणम् । णादिः किदिति कित्त्वात गुणाभावः । जुघुटे ॥ शुभ संचलने । संचलनं प्रकृतिविपर्यासो मथनं च । क्षोभते । दैवादिकः क्र्यादिश्च ॥ Page #83 -------------------------------------------------------------------------- ________________ [ आख्याते भ्वादयः ] टीकाद्वयोपेता। (६३) णभ तुभ हिंसायाम् । आद्योऽ विऽर्थेऽपि । 'नभन्तामन्यके समे । मा भूवन्नन्यके सर्वे' इति निरुक्तम् । इमौ दिव दी ज़्यादी च ॥ स्रंसु ध्वंसु भ्रंसु अवस्रंसने । अवस्रंसनमधःपतनम् । परस्मैपदपदं ङः। नो लोप इति नलोपः । अस्रसत् 'नास्त्रसत् करिणां ग्रैवम्' इति रघुकाव्ये। नालंसदित्यपपाठ एव । न चैवं लडो रूपं तत्र परस्मैपदासम्भवादिति भावः ॥ भ्रा भंसु अधः पतने इति देवादिको च । ऋजी भृजी भर्जने । भर्जनं जलं विन तण्डुलादेः सन्तापविशेषः । ईदित्त्वादादीदित इति क्तक्तवत्वानेंट । भृक्तः। भृक्तवान् ॥ ( तत्त्वदी०)-क्षुभ सचल ने । सचलन प्रकृतिविपर्यासो मथनं च ॥ (वृतादिभ्यः स्यसयोर्मा पं पेऽनिटत्वं च) वय॑ति-वतिष्यते । अवृतत्-अवर्तिष्ट ॥ वृधु वृद्धौ । वय॑ति--वधिष्यते । अवय॑त्अवर्धिष्यत । अवृधत्-अपर्धिष्ट ॥ शधु शब्दकुत्सायाम् । शर्धते ॥ स्यन्दू प्रस्रवणे । स्यन्द ते । स्यन्त्स्यति-स्यन्दिष्यते-स्यन्तस्यते । अस्यदत्--अस्यन्दिष्ट-अस् पन्त ॥ कृपू सामर्थे ॥ २ . (सुबोधिनी)-वृतादिभ्य स्यसयोर्वापंपेनिट्त्वं च॥वृतु वृधु शृधु स्यन्दू कृपू इात वृतादयः । स्यन्दिकृप्वं रूदित्त्वादिड्विकल्पे प्राप्ते इतरेषां नित्यामति प्राप्ते निषेधः। वृतादिभ्यः परस्मैपदं व स्यात् । परस्मैपदे इडभावश्च । स्याप सप्रत्यये च गणकार्यत्वादुभयोर्यलुक्यप्रवृतिः। वर्तिष्यति । विवर्तिषते ॥ शृधु शब्दकुत्सायाम् । शब्दकुत्सा पदेनम् । शद्धजहा पाः । अपानशब्दं त्यजन्तीत्यर्थः॥ कृपो रो लः॥ कृपो फस्य लः ऋकारस्य लकारः॥ कल्पते । चक्लपे । कल्पिषीष्ट ॥ (सुबोधिनी)-कृपो रो लः॥ कृपः उः रः लः इति छेदः । कृपति लुप्तषष्ठीक पदम्। आवृत्त्याऽत्र वाक्यद्वयं बंाध्यम् । उः ऋकारस्येत्यर्थः॥ (तत्त्वदी०) कृपो रो लः इति । कृपः उः रः ल इति छेदः । कृपति लुप्तषष्ठीकम् । आवृत्या वाक्यद्वयसिद्धिरित्याह-ऋकारस्येति ॥ तत्फलं तु अक्ल्पदित्यादिसिद्धिः । यद्यपि क्लपू सामर्थ्य इति पाठेनैव रूपसिकिः सूत्राकरणलाघवं च । कृपणादिसिद्धिस्तु कृप कृपायामित्यस्योगादयो बहुलमिति बहुलग्रहणा प्रसारणे तथापि अचीक्लपदिति सिद्धयर्थः तथा पाठः । तथाहि । ऋलवर्णयोः सावर्यादुपधा तलकारस्य ऋदादेशे अचीक्लपदिति स्यात् । लत्वविधौ ल सिद्धम्, कृपेत्यादौ कृपेः संप्रसारण चेत्यादि कृपेर्बोध्यम् ॥ सिस्योः ॥ उपाधाया गुणो न सिस्योरनिटोः परतः॥क्लप्सीष्ट ॥ (कृपेस्तादौ पं वा पेऽनिटत्वं च) कल्प्ता । आति । कल्पिताकल्प्ता । कल्प्स्यति-कल्पिष्यते--कल्प्स्यते । अक्लपत्-अकल्पिष्ट Page #84 -------------------------------------------------------------------------- ________________ (६४) सिद्धान्तचन्द्रिका | [ आख्याते भ्वादयः ] अक्लृप्त ॥ एते द्युतादयो वृतादयश्च । व्यथ दुःखसंचलनयोः । व्यथते ॥ (सुबोधिनी ) - कृपेस्ताद पं वा पेनिट्टत्वं व॥ कृपः परस्मैपदं वा भवति । परस्मैपदे इडभावश्च । लुटि कल्प्ता - कल्पिता । लुङि परस्मैपदे लित्पुषादेरिति ङः अक्लृपत् । ऊदितो वेति वेट । अकल्पिष्ट । इडभावे इ सादिति सिलोपे अक्लृप्त ॥ व्यथ दुःखसंचलनयोः । संचलनं प्रकृतिविपर्यासो मनं च ॥ व्यथेर्णादौ पूर्वस्य यस्य इः ॥ विव्यथे । अव्यथिष्ट ॥ ज्युङ् गत । ज्यवते । जुज्युवे । अज्योष्ट । रमु क्रीडायः म् । रमते ॥ (सुबोधिनी ) - व्यर्णादौ पूर्वस्य यस्य इः । व्यथतेः पूर्वरूपस्य यकारस्येंत्वं भवति लिटि । पूर्वस्य हसादिः शेषः इत्यस्यापवादः इस्ततः थस्य हसादिशेषेण निवृत्तिः । विव्यथे ॥ रमु क्रीडायाम् । माधवस्तूदि माह । पचाद्यप्रत्यये आप | रमा । घञि तुः रामः ॥ व्यापर्युपेभ्यो रमः पम् । विरमति । नरमति । पररमति । उमेरमति । रेमे । बैरंसीत् - अरंस्त ॥ लोक दर्शने । लुलोके ॥ श्लोक संघाते । अश्लोकिष्ट ॥ शकि शङ्कानाम् । शशङ्के । अशङ्किष्ट ॥ अकि लक्षणे । आनङ्के ॥ ठौकृ त्रौ रधिगतौ । डुढाँके । तुत्रौ । अत्रौकिष्ट ॥ लधि भोजननिवृत्तौ ललङ्घे । अलघिष्ट बाधृ विलोडने । बाधते । बबाधे । अबाधि: । नाव नाधृ याच्ञोपतापैश्वर्याशीःषु ॥ स् मांगवुः रोगीपूर ( सुबोधिनी ) - व्यापर्युपेभ्यो रयः ॥ एभ्यः परस्माद्रमतेः परस्मैपदं भवति ॥ श्लोक संघाते । संघातो ग्रन्थः । स चेह ग्रथ्यानस्य व्यापारो ग्रन्थितुर्वा । आisaर्मकः । द्वितीये सकर्मकः ॥ अकि लक्षणे । क्षणं चिह्नम् । नुगशामिति नुकू । आनङ्के ॥ बाधृ विलोडने । विलोडनं प्रतिघातः । नानाधृ याच्ञोपतापैश्वयाशीःषु । याच्ञा भिक्षा । उपतापो रोगः ॥ ( नाथ आशिष्येवात्मनेपदम् ) नाथते । अन्यत्र नाथति। ननावें । अनष्टि ॥ दुध धारणे । देधे । अदधिष्ट । स्कुदि आप्लवने । चुस्कुन्दे । अस्कुन्दिष्ट ॥ वदि अभिवादन स्तुस्योः । वन्दते । ववन्दे | अवन्दिष्ट । भदि कल्याणे सुखे च । भन्दे ॥ मदि स्तुतिमोदमदस्वप्नकान्तिगतिषु । मन्दते । ममन्दं । अमन्दिष्ट || पदि किंचिच्चलने । पस्पन्दे ॥ मुद हर्षे । मुमुदे ॥ दद दाने । दददे । Page #85 -------------------------------------------------------------------------- ________________ [ आख्याते भ्वादयः ] टीकाद्वयोपेता। (६५) यती प्रयत्ने । येते ॥ नित्वरा संभ्रमे । त्वरते। तत्वरे । अत्वरिष्ट । षह मर्षणे । सहते । सेहे । सहिता । इषसहलुभरुषरिषामनपि. तस्येड्वा ॥ (सुबोधिनी )-नाथ आशिष्यवात्मनेपदम् ॥ नाथतेरात् स्यादाशीर्वादेऽर्थे एवान्यत्र तु पम् ॥ स्कुदि आप्रवणे । आप्रवणमुत्प्लवनमुद्धरणं च । इदितो नुमिति नुम् । स्कुन्दते । वदि अभिवादनस्तुत्योः । अभिवादनं नमस्कारः ॥ मदि स्तुतिमोदमदस्वप्नकान्तिगतिषु । मोदः संतोषः । मदो गर्वः। स्वप्न आलस्यम् । कान्तिः शोभा । गतिःप्रसिद्धा ॥ यती प्रयत्ने । प्रयत्न उद्यमः ॥ षह मर्षण । मर्षणम् अपराधे सत्यपि कोपाद्यनाविष्करणम् ॥ (तत्त्वदी०)-भदि कल्याणे सुखे च ॥ कल्याण मङ्गलम् । सुखमात्मगुणः ॥ मदीति । मोदो हर्षः। मदो गर्वः । स्वप्न आलस्यम् ॥दददे इति॥न शसददेत्येत्वपूर्वलोपाभावः॥ षह मर्षणे ॥ मर्षणं क्षमा । सहिता । इषसहेति वेट् ॥ (सहिवहोरोदवर्णस्य ढलोपे सति ) सोढा । असहिष्ट ॥ गाहू विलोडने । गाहते । जगाहिषे-जघाक्षे । जगाहिव-जगाहिध्वेजघाटे । गाहिषीष्ट-घाक्षीष्ट । गाहिता-गाढा । गाहिष्यते-घाक्ष्यते । अगाहिष्ट-अगाढ । अघाताम् । अघादम् ॥ गृहू ग्रहणे । जगृहिषेजघृक्षे ।जगृहिद्वे-जगृहिध्व-जवृद्धे । गहिषीष्ट-वृक्षीष्ट । गर्दा । गर्हिष्यते । घर्ध्यते । अगर्हिष्ट-अक्षत ॥ (सुबोधिनी)-सहिवहोरोदवर्णस्य ढलोपे सति ॥ सहिवहारवर्णस्यौत्वं भवति ढस्य लोपे सति । इषसहेति वट् । सहिता । इडभावे हो ढ इति ढत्वम् । तथोर्द्ध इति धत्वम् । ष्टुभिः ष्टुरितिष्टुत्वम् । ढि ढो लोप इति ढलोपः । ततोऽनेन ओत्वे सोढा॥ गाहू विलोडने । ऊदित्त्वादिड्वा । जगाहिषे । इडभावे तु हो ढ इति ढत्वम् । आदिजवानामिति घः। षढोः कः से इति कः । कात्परस्य सस्य षत्वम् । जघाक्षे । सेटो हलादिति वा ढः। जगाहिट्वे-जगा इव । इडभावे तु आदिजवानामिति घः। ढि ढो लोप इति ढलापः । जघाट्वे । लुङि अगाहिष्ट । इडभावे तु ढत्वे कृते झसादिति सिलोपः। ततो धत्वष्टुत्वढलोपाः । अगाढ ।। गृहू ग्रहणे । ऊदितो वेति वेद । इडभावे हो ढ इति ढत्वम् । आदिजवानामिति घः । षढोरिति कत्वम् । षत्वं च । जिघृक्षे । सेटो हलादिति वा ढः। जगृहि-जगृहिध्वे । इडभावे जघृढ़े। आशिषि गर्हिषीष्ट सिस्योरीत गुणाभावे घृक्षीष्ट । लुटि गर्हिता-गर्दा । लाट गर्हिष्यते-घयते । लङि अग Page #86 -------------------------------------------------------------------------- ________________ (६६) सिद्धान्तचन्द्रिका । [ आख्याते भ्वादयः ] हिष्यत-अघयंत । लुङि अगर्हिष्ट। इडभावे हशषान्तादिति सक । हो ढ इति ढत्वम् । आदिजबानामिति घः । षढोरिति कः । षत्वं च । अघृक्षत ।। (तत्त्वदी० )-सोढेति इडभावपक्षे ॥ (आति सको लोपः स्वरे )अवृक्षाताम्, अवृक्षन्त । अघृक्षध्वम् । इत्यात्प्रक्रिया ॥ - (सुबोधिनी )--आति सको लोपः स्वरे ॥ स्वराद वात्मनेपदे परे सको लोपः। षष्ठीनिर्दिष्टस्येत्यन्त्यलोपः । अघृक्षाताम् ॥ इति सुबोधिन्यामात्प्रक्रिया ॥ (तत्त्वदी०)-आति सक इति ॥ षष्ठीनिर्दिष्टत्वादन्त्य य ॥ लोकेशकरसंज्ञेन विद्यानगरवासिना । कृतायामिह टीकायामगादातो निरूपणम् ॥ ___ इति तत्त्वदीपिकायामात्प्रक्रिया ॥ राज दीप्तौ । रेजतुः-रराजतुः। रेजे-रराजे। अराजीत्, अराजिष्टाम् । अराजिष्ट ॥ खनु खनने । चखान, चतुः, चख्नुः । खायात खन्यात् । अखानीत्, अखनीत् ॥ हृञ् हरणे । जहार । ऋदन्तात्थपो नेट् । जहर्थ । जहे । ह्रियात् ॥ । (सुबोधिनी )-राज दीप्तौ ॥ दीप्तिस्तेजः । फणराज़ इत्येत्वपूर्वलोपौ । रेजतुः, रराजतुः ॥ खनु खनने । खननमवदारणम् । उदित्त्वात क्वायां वेट् । खनित्वा खात्वा । गमां स्वरे इत्युपधालोपः । चख्नतुः । जनसनख नामित्यात्वं वा । खाया खन्यात्। अतो हसादेरिति वा वृद्धिः। अखानीत्,-अखनीत ॥हज हरणे। हरणं-प्रापणं, स्वीकारः, स्तेयं, नाशनं चेति चत्वारोऽर्थाः। भारं हरति-प्रापयतीत्यर्थः । अंशं हरतिस्वीकरोतीत्यर्थः। स्वर्ण हरति-चोरयतीत्यर्थः।पापं हरति-नाशयतीत्यर्थः। ऋदन्तात्थप इति नेट् । जहर्थ । कादेर्णादेरितीट् जहिव । यादाविति कि । हियात् ॥ (तत्त्वदी० )-राज़ ऋदित्त्वमङ्युक्तोपधाह्रस्वादिनिवृत्त्यर्थम् ॥ हनु हरणे ॥ हरण प्रापण, स्वीकारः, स्तेयं, नाशनं च । ग्रामं हरति । अंशं हरति । पर्ण हरति । पापं हरति । उः॥ ऋवर्णस्य सिस्योरनिटोन गुणः॥ हृषीष्टाअहार्षीत्। अहृत॥ दान आर्जवे । गुब्भ्यः । दीदांसति । दीदासांचकार ॥ शान तेजने । शीशांसांचक्रे ॥ गुहू संवरणे ॥ - (सुबोधिनी)-उः ॥पष्ठयेकवचनान्तमिदम् । ऋवर्णान्तस्य धातोर्गुणो न स्यात् अनिटि सिप्रत्यये सीष्टादौ च । हन्नृतः स्यप इतीट । हरिष्यति । लोके स्वदिति सिलोपः। अहृत ॥ दान आर्जवे। ऋजोर्भाव आर्जवम् तस्मिन्नर्थे । अस्मात् गुब्भ्यः इति सः । यः से इति पूर्वस्येत्वम् । मानादीनामिति पूर्वस्य दीर्घः । दीदांसति ॥ शान Page #87 -------------------------------------------------------------------------- ________________ आख्याते भ्वादयः ] टीकाइयोपेता | ( ६७ ) तेजने । तेजनं तीक्ष्णीकरणम् । धानेर्निशाने सः । अर्थान्तरे त्वननुबन्धकौ चौरादिका - विमौ । दानयति । शानयति ॥ (तत्त्वदी ० ) - उः ॥ षष्ट्येान्तम् । सिस्योरिति ॥ भूते सिः सीष्टादिः सी तयोर्डित्वादेगुणाप्राप्तौ नियमार्थमिदम् । ऋवर्णस्वानयोः परतो गुणो न । तेन वेवेष्टीत्यादौ भवत्येव । विशेषाप्रतिपादकलिङ्गाभावादृवर्णमात्रं गृह्यते न तु ऋगताविति । आरम्भसामर्थ्यादुपधाया न । अन्यथा सिस्योरित्येव सिद्धे किममेन ॥ ( गुहेरुपधाया ऊद् गुणहेतौ स्वरे ) जगूहतुः । जुगू हिथ-जुगोठ । जुगुर्हिषे- जुघुक्षे । जुगुहिध्वे-जुगुहिङ्खे-जुघूङ्खे | गूहिषष्टि- घुक्षीष्ट । गूहिता - गोढा । गूहिष्यति, घोक्ष्यति ॥ (सुबोधिनी ) - गुहेरुपधाया ऊगुणहेतौ स्वरे । । गृह उपधाया ऊत्स्यात् गुणविधायके स्वरादौ प्रत्यये परे । र हति । ऊदितो वेति वेट् । जुगू हिथ । इडभावे हो ढ इति ढत्वम् । तथोर्द्ध इति थस्य धः 'टुत्वं च । जुगोढ । हो ढ इति ढत्वम् । आदिजवानामिति घः । षढोरिति कः षत्वं च । जुघुक्षे । जुगुहिध्वे । सेटो हलादिति वा ढः । जुगुहि । इडभावे हो ढ इति ढत्वम् । आदिजबानामिति घत्वं ष्टुभिःटुरिति ढः । ढिढो लोप इति ढलोपदीर्घौ जुघूढे । लुङि अग्रहीत् । इडभावे हशषान्तादिति सकू। आदिजानामिति घः । अघुक्षत् । आति अगूहिष्ट । इडभावे तु स || ( दुह दिहलिहगुहूभ्यः राको लुग्वा वकारतवर्गयोराति) अगूढअघुक्षत, अघुक्षाताम् अक्षन्त । अगूढाः - अघुक्षथाः । अघुक्षाथाम् । अघूढम् - अघुक्षध्वम् । अनुक्षावहि-अगुह्वहि, अघुक्षामहि । अगूहिष्ट । अधुक्षत् - अगृहीत् । भज सेवायाम् । भेजिथ - बभक्थ | भेजे । भक्षीष्ट । अभाक्षीत् । अभक्त ॥ श्रिञ् सेवायाम् । शिश्रियतुः । शिश्रिये । श्रीयात् । श्रयिषीष्ट । श्रयिता । अशिश्रियत् । अशिश्रियत। त्विष दीप्तौ । तित्विषे । त्विक्षीष्ट । त्वेष्टा । वेक्ष्यते | अविक्षत् ॥ स्पर्श बाधनस्पर्शनयोः । पस्पाश । पस्पशे । अस्पशीत् - अस्पाशीत् । अस्पंशिष्ट ॥ लष कान्तौ । लष्यति-लषति । लप्यते -लषते । लषिता ॥ रञ्ज रागे । रजति । ररविथ = ररथ । ररञ्जे । रज्यात् । रङ्क्षीष्ट । अराङ्क्षीत् । अरक्त ॥ भृ भरणे । भरति । बभर्थ । बभृव । बभृढ़े | भर्ता ॥ धृञ् धारणे । दधर्थ । दधिध्वे-दधिढे । अधात् । अधृत ॥ णी प्रापणे । निनयिथ-निनेथ । निन्ये । अनैषीत् । अनेष्ट ॥ टुयाच याच्ञायाम् । याचति । ययाचे । अयाचीत् । अयाचिष्ट ॥ यज देवपूजासंगतिकरणदानेषु । इयजिथ इयष्ठ । अयाक्षीत् । अयष्ट । अयडू Page #88 -------------------------------------------------------------------------- ________________ (६८) सिद्धान्तचन्द्रिका। [आख्याते भ्वादयः ] ढम ।। टुवप् बीजसंताने । उवपिथ-उवप्थ । ऊपे । उप्यात् । वप्सीष्ट। अवाप्सीत्, अवाप्ताम् । अवप्त । वह प्रापणे। वहति । उवहिथ-उवोढ । ऊहे । उह्यात् । वक्षीष्ट । वोढा । अवाक्षीत, अवोढाम् । अवोढ, अवक्षाताम् ॥ वे तन्तुसन्ताने ॥ __ (सुबोधिनी)-दुहदिहलिहगुहूभ्यः सको लुग्व' वकारतवर्गयोराति॥ लोप इत्यनुवर्तमाने लुग्ग्रहणं सर्वलोपार्थम् । दुह प्रपूरणे। दिह उपचये। लिह आस्वादने । गुहू संवरणे । एभ्यः सको लुग्वा आत्मनेपदस्थवकारे तव च परे । अदुग्ध-अधुक्षत । अदिग्ध-आधिक्षत । अलीढ-अलिक्षतेत्यादि । ढत्वधत्वष्टुवढलोपदीर्घाः अगूढ । पक्ष अघुक्षत । आतिसको लोप इत्यल्लोपे अघुक्षाताम्-अघुक्षन्त तृफलभजेत्येत्वपूर्वलोपौ । भजतुः । स्वरान्तादत्वत इति वेट । भेजिथ-वभक्थ ।कुवषत्वे भक्ष्यति । झसादिति सिलोपः। अभक्त॥ श्रिश्रुद्रभ्योङ इति को द्वित्वं च । अ शेश्रियत् । अशिश्रियत ।। त्विष दीप्तौ। दीप्तिस्तेजः। हशषान्तादिति सक।कत्वषत्वे । सत्विक्षत् । आतिसको लोप इत्यल्लोपः। अत्विक्षाताम् ॥ स्पश बाधनस्पर्शनयोः । स्पर्शनं ग्रन्थनम् ॥ लष कान्तौ। कान्तिरिच्छा । भ्राशभ्लाशिति वा यः । लष्यति-लषति । लोपः पचामित्येत्वपूर्वलोपौ। लेषतुः ॥ आपि र ति नलोपः । जति । कुत्वष वे । अरावीत् । सावनिटो नित्यमिति वृद्धिः। अरक्त । स्याविद इत्यन उस् । अराक्षुः॥कादेर्णादेरितीण न । बभर्थ । आशिषि यादादाविति रिङ् । भ्रियात् । उरिति न गुणः । भृषीष्ट । लुटि हन्नृतः स्यप इट् । भरिष्यति । लोपो ह्रस्वादिति सिलोपः। अभृत ॥ यज देवपूजासंगतिकरणदानेषु । देवपूजा त्विह देवतोदेशेन विधिबोधितद्रव्यत्यागः । संगतिकरणं मैत्रीकरणम् । णबादौ पूर्वस्येति पूर्वस्य संप्रसारणम् । अत उपधाया इति वृद्धिः। इयाज । यजामिति संप्रसारणम् । ईजतुः । छशषेति षः । षढोरिति कः। यक्षीष्ट । लुङि । अयाक्षीत् । अयष्ट । ध्वे चेति सलोपः । अयमडवप बीजसन्ताने। बीजसंतानं क्षेत्रे विकिरणं, गर्भाधानं च । अयं छेदनेऽपि। केशान् वपति । ड्डितस्त्रिमागति त्रिम प्रत्ययः। उखिमम् ॥ वहतेलिङि हो ढ इति ढः । पढोरिति कत्वम् । वक्षीष्ट । लुटि ढत्वं तथोर्द्ध इतिधत्वं ष्टुत्वं ढि ढो लोप इति ढलोपः।स हिवहोरादित्योत्वम् । वोढा। लुङि पूर्व वृद्धिस्ततो ढत्वे कृते झसादिति सिलोपः। धत्व टुत्वढलोपाः । ओत्वं च । अवोढाम् । ध्वे चोत सलोपः। अवोदम् ॥ (तत्त्वदी० )-डुवप् बीजसंताने ॥ बीजसंतानं-क्षेत्रे वेस्तारण गर्भाधानं चाकेशान्वपतीति प्रयोगाच्छेदनेऽपि । त्रिमगर्थ ड्डित्वम् । तनोत्रिममिति सि यति ॥ (वेजो णादौ न संप्रसारणम् ) वा । व ॥ Page #89 -------------------------------------------------------------------------- ________________ आख्याते भ्वादयः ] टीकाद्वयोपेता । (६९) (सुबोधिनी ) - वेो णादौ न संप्रसारणम् ॥ वेञः संप्रसारणं न स्यात् णादौ ॥ णादौ किम् । उतः । उतवान् । संध्यक्षराणामित्यात्वम् । आतो डौ इति पो डत्वम् । ववौ ॥ णब् ( वेञो वय वा णादी ) उवाय ॥ ( सुबोधिनी ) - वेञ वय् वा णादौ ॥ वेञो वय् वा स्यात् णादौ । अत उपधाया इति वृद्धिः । उवाय ॥ ग्रहां ङिति च ॥ ग्रहिज्यावयिव्यधिवष्टिवृश्चतिपृच्छतिविचतिभृज्जतीनां संप्रसारणं किति ङिति च ॥ वयो यस्य नेत्वम् । ऊयतुः ऊयुः । ऊवयिथ । ऊये ॥ ( सुबोधिनी ) - ग्रहां ङिति च ॥ यजामित्यतः कितीति संप्रसारणमिति चानु वृत्तम् । एषां किति ङिति च सम्प्रसारणं स्यात् ॥ ग्रह उपादाने । ज्या वयोहानौ ! वेञ तन्तुसन्ताने । व्यध ताडने । वशू कान्तौ । ओत्रश्चू छेदने । प्रच्छ ज्ञीप्सायाम् । व्यच व्याजीकरणे । भ्रस्ज पाके । ङिति गृह्णाति । जिनाति । किति गृहीतः । जीनः । ङिति वयेरुदाहरणं न । किति तु यजामिति सम्प्रसारणं सिद्धं यजादिषु वेञः पाठात् । अत एव णवादाविति पूर्वसंप्रसारणमपि सिद्धम् । वेजो णादाविति संप्रसारणनिषेधस्तु वयो यस्येति निषेधारम्भान्न प्रवर्तते । तस्मात् ग्रहिज्यादिषु वयिग्रहणं स्पष्टार्थम् । वयो यस्य नेत्वम् । ग्रहामिति यकारस्य संप्रसारणे प्राप्ते निषेधः । लिटि वयो यस्य संप्रसारणं नेत्यर्थः । वयेस्ताद वभावात् थपि नित्यमिटू । उवयिथ । स्थानिवद्भावेन ञित्त्वादात्मनेपदम् । ऊये ॥ ( वयो यस्य किति लिटि वो वा ) ऊवतुः । ऊवें । ऊयात् । वासीष्ट । अवासीत् । अवास्त ॥ व्येञ संवरणे ॥ ( सुबोधिनी ) - वयो यस्य किति लिटि वो वा ॥ वयो यकारस्य वत्वं वा भवति किति लिटि ॥ ऊवे । वयादेशाभावे । ववे । आशिषि संप्रसारणे कृते । ऊयात् । संध्यक्षराणामित्यात्वे । वासीष्ट ॥ ( व्येञो लिटि नात्वम् ) विव्याय । विव्ययिथ । वीयात् । व्यासीष्ट । अव्यासीत् । अव्यास्त ॥ ह्वे स्पर्धायां शब्दे च । द्विरुक्तस्य ह्वयतेः संप्रसारणम् । जुहाव । जुहविथ- जुहोथ । जुहुवे । हूयात् । ह्रासीष्ट ॥ (सुबोधिनी ) - व्येञ लिटि नात्वम् ॥ व्येञ आत्वं न भवति लिटि । संध्यक्षराणामित्यस्यापवादः । लिटि किम् । व्याता । व्यांस्यति । व्येव्ये णपू इति स्थिते परत्वात् हसादिः शेषं बाधित्वा यस्य संप्रसारणम् । यजादीनां ग्रहादीनामित्युभयेषां ग्रहण Page #90 -------------------------------------------------------------------------- ________________ ( ७० ) सिद्धान्तचन्द्रिका | आख्याते भ्वादयः ] सामर्थ्याच्च । धातोर्नामिन इति वृद्धिः । विव्याय । नुधातोरिति यः । विव्यतुः । अत्त्यर्तिव्ययतीनामिति नित्यमिटू । विव्ययिथ । यमिरमिनमातामितीट्सकौ । अव्यासीत् । अव्यासिष्टाम् ॥ हे स्पर्द्धायां शब्दे च । शब्दे इति सामान्योक्तावपि संबोधनरूपः शब्द एवात्र गृह्यते । तथा च माघे - ' यन्तोऽन्यतः प्लुतकृतस्वरमाशु दूरादुद्वाहुना जुहुविरे मुहुरात्मवयः" इति कर्मणि प्रयोगः ॥ द्विरुक्तस्य यतः संप्रसारणम् । ह्वेञः पूर्वं द्वित्वम् । तेन उभयत्र संप्रसारण स्यात् ॥ ( लिपिसि चिह्नयतीनां ङो लुङि वा आते ) अह्वत् । अह्वास्तअह्नत ॥ डुपचष् पाके । पचति । पेचिथ- पपक्थ | पेचे । अपाक्षीत्, अपाक्ताम्, अपाक्षुः ॥ षच समवाये । सेचे । असाचीत् । असचिष्ट ॥ शप आक्रोशे । शेपे । शप्ता । अशाप्सीत् । अशप्त ॥ हिक्क अव्यक्ते शब्दे । जिहिक्क । अहिक्कीत् ॥ अञ्चु गतौ याचने च । आनचे | आञ्चीत् ॥ रेट्ट परिभाषणे । रि टे । अरेटीत् ॥ चते चदे याचने च । चेते । अचतीत् । चंदे | अदीत् । अचेदिष्ट ॥ प्रोट पर्याप्तौ । पुप्रोथ । पुप्रोथे । अप्रोथीत् । अप्रोष्टि ॥ मिह मेह मेधाहिंसनयोः । मिमिदे | अमेदीत् । अमेदिष्ट । मिमेदे | अमेदीत् । अमेदिष्ट ॥ मेघृ संगमे च । मिमधे । मेधिता ॥ णिह पेट कुत्सासनिकर्षयोः । निनेदे । नेदिता ॥ शृधु मधु क्केदने । शर्द्धति | शशर्द्ध । शशृधतुः । शशृधे । मर्द्धति । मम्धे । अमद्धत् । अमद्विष्ट ॥ बुधिर् बोधे । बोधति । बोधते । अबुधत्- अबोधीत् । अबधिष्ट | उबुन्दिर् निशामने | बुन्दति । बुबुन्दे । अबुदत् । अबुन्दीत् ॥ अबुन्दिष्ट । वेणू गतिज्ञानचिन्तानिशामनवादित्रग्र• हणेषु । वेणते । विवेण । अवेणीत् । अवेणिष्ट । नान्तोऽप्ययम् । वेनति ॥ ची आदानसंवरणयोः । चीवति । चिचीव । चिचीवे । अचीवीत् । अचीविष्ट ॥ चायृ पूजानिशामनयोः । चायति ॥ चचाय । चचाये । अचायीत् । अचायिष्ट ॥ व्यय गतौ । व्ययति । वव्याय । वव्यये । अव्ययीत् । अव्ययिष्ट | दाट दाने । दाशति । दाशते । ददाश । ददाशे । अदाशीत् । सदाशिष्ट ॥ भ्रट भ्लेट गतौ । शति । भ्लेशति । भेषृभ्लेष्ट गतौ भये च भेषति । बिभेषे । बिभेष । बिभ्लेष | अभेषीत् । अभेषिष्ट ॥ अस गतिदी प्त्यादानेषु । असति । आस । आसे । आसीत् । आसिष्ट । अयं षान्तोऽपि । अषति ॥ चष भक्षणे । चचाष । चेषतुः । चेषे । अचानीत्-अन्नषीत् । अचषिष्ट । छष हिंसायाम्। छषति । छषते । चच्छाष । चच्छषे । अच्छाषीत् -अच्छषीत् । Page #91 -------------------------------------------------------------------------- ________________ [ आख्याते भ्वादयः ] टीकाद्वयोपेता। (७१) अच्छषिष्ट ॥ झष आदानसंवरणयोः । झषति । जझाष । जझषे । अझाषीत्-अझषीत् । अइषिष्ट ॥ भ्रक्ष भ्लक्ष अदने । बभ्रक्षे । अभ्रक्षीत् । अभ्रक्षिष्ट ॥ द स्मृ दाने । दासते । ददासे ॥ माह माने । ममाह । ममाहिषे । अमाहीत् । अमाहिष्ट ॥ इत्युभयपदप्रक्रिया ॥ (सुबोधिनी)-लिपिसिनियतीनांडोलुङिवा आति॥एभ्यो ङप्रत्ययो नित्यं स्यात्परस्मैपदे लुङि । आत्मनेपदे लुाङ तु वा ॥ लिपि उपदेहे । षिच क्षरणे । अलिपत् । असिचत् ॥ आतोनपीत्यालोपः अह्वत् ॥ षच समवाये । समवायः संबन्धः। शप आक्रोशे। आक्रोनो विरुद्धाऽनुध्यानम्।अञ्चुगतो याचने च । नुगशामिति नुक् । आनश्चे । नो लोप:ति नलोपः।अच्यात् । अयमिदिदिति मते तु इदितो नलोपो नेति निषधात् ।अञ्च्यात् ॥ रेट्ट परिभाषणे । 'यः सनिन्द उपालम्भस्तत्र स्यात्परिभाषणम्' इत्यमरः ॥ऋदित्वात् नरित इत्युपधाया ह्रस्वो न । अरिरेटत् ॥ ग्रोथै पर्याप्तौ । पाप्तिः समाप्तिः । मेह मिहमेधाहिंसनयोः। थान्ताविमाविति स्वामी। धान्ताविति न्यासः ॥ मेधृ संगमे च । चात्पूर्वोक्तेऽर्थे । 'प्रजायै गृहमेधिनाम्' इत्यत्रगृहैदारैर्मेधंते संगच्छन्ते इति विग्रहः। णिन्प्रत्ययान्तः॥ णि णेह कुत्सासंनिकर्षयोः। संनिकर्षः सम्बन्धः॥ शृधु मृधु उन्दने । उन्दनं क्लेदनम् । आीभाव इत्यर्थः ।उदित्वात् क्त्वायां वेट । शद्धित्वा । शृद्धा ॥ बुधिर बोधने । बुध्यतेरेवानिटकारिकासु पाठादयं सेट। इरितो वेति वा ङः। अबुधत्-अबोधीत् । दीपजनेतीण्तु न पूर्वोत्तरसाहचर्येण देवादिकस्यैव सूत्रे ग्रहणात् । उबुन्दिर निशामने। निशामनं चाक्षुषं ज्ञानमित्यर्थः । वेणू गतिज्ञानचिन्ता शामनवादित्रग्रहणेषु । गत्यादयः पदार्थाः । वाद्यभाण्डस्य वादनार्थ ग्रहणं वादित्रग्रह गम् । वणिः वेणी वेणुरित्यादिरूपाण्यस्यैव धातोः ॥ चीवृ आदानादौ । चीवते । औगादिके रप्रत्यये चीवरं वस्त्रम् । इम्यन्तेति न वृद्धिः। अव्ययीत् ॥भेष भये च । चा. तौ ॥ इति सुबोधिन्यामुभयपदप्रक्रिया ॥ - (तत्त्वदी०)-शप आक्रोका इति ॥ आक्रोशो विरुद्धानुध्यानम् ॥ अचदीदिति ॥एदित्वान्न वृद्धिः । प्रोथ इत्यादीनाम् ऋदि मङ्युक्ताभावार्थम् ॥ अबोर्धादिति ॥ दीपजन इत्यात्मनेप दिभिः साहचर्यात्तथाभूतस्यैव ग्रहणात् ॥ उबुन्दिर् । उदित्वाद्वेट् । बुन्दित्वा बुत्त्वा । निशामनं चाक्षुषज्ञानम् । वेणू । वाद्यभा डस्य वादनापादनं वादिग्रहणम् ॥ इति तत्त्वदीपिकायामुभयपदप्रक्रिया ॥ ऋत जुगुप्सायां कृपा यां च ॥ (सुबोधिनी )-ऋत जुगुप्सायां कृपायां च ॥ 'अर्तनं चऋतीया च हृणीया च घृणार्थकाः' इति ॥ 'जुगुप्सा करुणे घृणे' इति चामरः॥ (ऋतरीय स्वार्थेऽपि तु वा ) ऋतीयते । ऋतीयेत । ऋतीय ताम् । आयत ।ऋतीयांचक्रे । ऋतीयिषीष्ट । ऋतीयिता । Page #92 -------------------------------------------------------------------------- ________________ ( ७२ ) सिद्धान्तचन्द्रिका | [ आख्याते अदादयः ] ऋतीयिष्यते । आतयिष्यत । आनर्त । ऋत्यात् । अर्तिता । अर्तिष्यति । आर्तिष्यत् । आर्तीत् । आर्तीयिष्ट ॥ ॥ इति भ्वादिप्रक्रिया ॥ ( सुबोधिनी ) - ऋतेरीयङ् स्वार्थेऽनपि तु वा ॥ ऋतिः सौत्रस्तस्मादीयड् स्यात् स्वार्थे अनपि तु वा । सधातुरिति धातुत्वम् । आदनुदात्तङित इत्यात्मनेपदम् । ऋतीयते । ईयङभावे परतोऽन्यदिति परस्मैपदम् ॥ नुगशामिति नुक् । आनर्त ॥ इति सुबोधिन्यां भ्वादिप्रक्रिया ॥ ( तत्त्वदी ० ) - रामाश्रमेण विहिता याहि सिद्धान्तचन्द्रिका । तट्टीकायामगादेतद्भव्यं भ्वादिनिरूपणम् ॥ इति तत्त्वदीपिकायां स्वादिप्रक्रिया ॥ १ ॥ अथाऽदादयः । अद भक्षण || अदादेर्लुक् ॥ अदादेः परस्यापो लुक् ॥ अत्ति, अतः, अदन्ति । अत्सि, अत्थः, अत्थ । अनि, अद्वः, अनः। अधात् ॥ ( सुबोधिनी ) - अद भक्षणे ॥ भक्षणं खादनम् || अदादेर्लुक् ॥ अप कर्तरीत्यतः अवित्यनुवृत्तम् । तच्च षष्ठचा विपरिणम्यते । अ आदिर्यस्य सोऽदादिस्तस्माददादेः ॥ ( तत्त्वदी०) - अदादेर्लुक् ॥ अद आदिर्घस्य सोऽदादिम्तस्मात् । अप् कर्तरीत्यतोऽनुवृत्तमबिति षष्ठ्या विपरिणम्यते । चतुर्थी तु न तत्रापोऽभावात् । तद्गुणसंविज्ञानबहुव्रीहेरदेरप्यपो लुक् ॥ झसाद्धिः ॥ झसाद्धकाराच्च परस्य हेर्धिर्भवति ॥ अद्धि अत्तात्, अत्तम्, अन्त ॥ (सुबोधिनी ) - झसाद्धिर्हेः ॥ झसात् ह् धिः होरीते पदच्छेदः । हस्य हो झभा इति धत्वे झवे जबा इति दत्वे हसात्परस्य झसस्येति दलोपः । अत्तादित्यत्र स्थानिव - द्भावेन तातङो हित्वेऽपि सकृद्गताविति न्यायेन धिरादेशो न ॥ (तत्त्वदी ) - झसाद्धिः ॥ झसात् हृधिः हेरिति छेदः । स्य हो शभा इति धत्वे झबे जबा इति दत्वे हसात्परस्य झसस्येति लोपेन सिद्धेः । इह लुप्तपञ्चमीकं पदमित्यभिप्रेत्याह-हकाराच्चेति ॥ अत्र स्थानिवद्भावेन तातङो हित्वेऽपि सकृद्गतावितिन्यायेन न विरादेशः ॥ अद्भुदादेरट् ॥ अत्तेरुदादेश्च परयोर्दिप्सिपोरडागमः ॥ आदत् । आदः ॥ Page #93 -------------------------------------------------------------------------- ________________ [ आख्याते अदादयः ] टीकाद्वयोपेता । (सुबोधिनी)-अद्रुदादेरट् ॥ अत्तेरुदादेश्च परयोदिपसिपोरडागमः स्यात् ।। (सिसयोरदेघस्ल लिटि तु वा) जघास। गमा स्वरे । घसादेरिति षः। जक्षतुः। जघसिर । जक्षथुः । जक्ष । आद, आदतुः, आदुः। आदिथ । अत्ता। लदित्वात् ङः। अघसत् ॥ प्सा भक्षणे । प्साति। प्सायात् । प्सातु। अप्सात् ॥ __ (सुबोधिनी)-सिसयोरदेवस्ल लिटितु वा॥अदो घस्ल इत्यादेशः स्यात्। सिप्रत्यये सप्रत्यये च लिटि तु पा॥ सप्रत्यये जिघत्सति । जघास । गमामित्युपधालोपः । खसे चपा इति घस्य कः। घसादेरिति षत्वं कत्वं च । जक्षतुः। घसस्तादावभावात् थपि नित्यमिट् । जनिथ । पक्षे अत्यत्तिव्ययतीनामिति नित्यमिट् । आदिथ।। (आदन्ताद्विषोऽन उम् वा) अप्सुः-अप्सान् । पप्सौ । आतोऽनपि पप्सुः । प्सायात्-सेयात् । अप्सासीत् ॥ मा माने । माति । अमात् । अमुः, अमान् । मौ ॥ मेयात् । अमासीत् ॥ या प्रापणे । याति । ययौ । अयासीत ॥ वा गतिगन्धनयोः। वाति । रा दान । राति ॥ ला दानग्रहणयोः। लाति । ललौ। अलासीत् ॥ श्रा पाके ।श्राति। श्रायान्, श्रेयात् ॥ दाप लवने । दाति । ददौ । दायात् । अदासीत् ॥ख्या प्रकथन । ख्याति । ख्यायात् । ख्यातु। अख्यात्। द्रा कुत्सायाम् । द्राति । द्रेयात् । दायात् । अद्रासीत् ॥ पा रक्षणे । पाति । पौ । पायात् । अपासीत् ॥भा दीप्तौ । भाति । बभौ ॥ ष्णा शौचे । नाति । स्यात्, स्नेयात् ॥ वश कान्तौ । वष्टि, उष्टः उशन्ति । वक्षि, उष्ठः, ष्ठ । वश्मि, उश्वः, उश्मः। उश्यात् । वष्ट, उष्टात्, उष्टाम्, उशन्तु । ढि, उष्टम्, उष्ट । वशानि, वशाव, वशाम।। (सुबोधिनी)-आदन्ता विषोऽन उम् वा ॥ आदन्ताद्धातोषिश्च परस्यानो वा उस् स्यात्।उस्यालोप इत्यालोपः। अप्सुः । लिटि आतो ण डावित्यौ। पप्सौ । संयोगादेरादन्तस्यैकारो वा । सेयात्-प्सायात् । यमिरमिनमातामितीट्सकौ । अप्सासीत् ॥ मा माने । अकर्मकः । 'तनौ ममुस्तत्र न कैटभद्विषः' इति माघे । उपसर्गवशेनार्थान्तरे सकर्मकः। 'उद परिमाति मुष्टिना' इति नैषधे॥ या प्रापणे।प्रापणामह गतिः॥ रा दाने ॥लाआदाने आदानं ग्रहणम्।दावपि दाने इति चन्द्रः।ख्या प्रकथने। चतुर्वेवास्य प्रयोग इति भाष्यम्॥द्रा कुत्सायाम् । पा रक्षणे । भा दीप्तौ। ष्णा शौचे। वश कान्तौ। कान्तिरिच्छा। उशषति षत्वम् । वष्टि । ग्रहामिति संप्रसारणम् । उष्टः । उश्यात् । वष्टु-उष्टात्, उष्टाम्, रशन्तु । हौ संप्रसारणम् । छशषेति षत्वम् । झसादिर्हेरिति धः । षो ड इति डत्वम् । ष्टुभिः ष्टुरिति ढत्वम् । उढि ॥ Page #94 -------------------------------------------------------------------------- ________________ सिद्धान्तचन्द्रिका | [ आख्याते अदादयः ] दिस्योर्हसात् ॥ हसात्परयोर्दिप्सिपोर्लोपः ॥ अवटू - अवड्, औष्टाम्, औशन् । अवट्-अवड्, औष्टम्, और । अवशम्, औश्व, औश्म । उवाश, ऊशतुः । उवशिथ । उयात् । वशिता । अवाशीत् । अवशीत् ॥ हन हिंसागत्योः । हन्ति ॥ (७४) ( सुबोधिनी) - दिस्योर्हसात् ॥ दिप्सहचरितस्य सेर्य णान्नेह | असि ॥ ननु संयोगान्तलोपेनैव गतार्थमिदम् । सत्यम् । सभिन्नस्य रान्नेति सूत्रमनेन ज्ञाप्यते । तेन अभिभर्भवानित्यादौ संयोगान्तलोपाभावादस्यारम्भः । अवटू, औष्टाम्, औशन् । उवाश, ऊशतुः । उश्यात् । वशिता । वशिष्यति । अवशिष्यत् । अतो हसादेोरिति वा वृद्धिः । अवाशीत्-अवशीत् ॥ (तत्त्वदी ० ) - दिस्योर्हसात् ॥ दिश्च सिश्च दिसी तयोः । नत्र दिसाहचर्यालङ एव सिपू गृह्यते न त्वन्यः । तेनात्सीदित्यादौ नातिप्रसंग: । संयोगान्तलोपेनैव निद्धे सभिन्नस्य रान्नेतिज्ञापयितुमस्यारम्भः ॥ सिग्रहणं तूत्तरार्थम् ॥ ननु अरोदीदरोददित्यत्रातिप्रसंग : दागमास्तद्गुणी भूतास्तदुग्रहणेन गृह्यन्त इति न्यायादिति चेन्न । तेन विभक्तित्वप्रत्ययत्वयोरेव ग्रहणान्न तु दिव्वसित्वयोः ॥ लोपस्त्वनुदात्ततनाम् | अनुदात्तानां तनादीनां वनतेश्च समस्य लोपो भवति झसे क्ङिति हकारे च ॥ हतः, घ्नन्ति । हन्यात् । हन्तुहतात्, हताम्, घ्नन्तु ॥ (सुबोधिनी) - लोपस्त्वनुदात्ततनाम्। यमिरमिनमिर्गामहनिमन्यतयोऽनुदात्ताः षट् । तनु पणु क्षणु क्षिणु ऋणु तृणु घुणु वनु मनु इति तनोत्य दयो नव । अनुदात्तेति षष्ठीकं पदम् । तुशब्देन समान्तानां ग्रहणम् । वन संभक्तौ वनति । इह हवत्योनेंडिति इनिषेधात् किति झसे नस्य लोपः ॥ झसे किम् । गम्यते ॥ क्ङितीति किम्, गन्ता । 'गमां स्वरे' इत्युपधालोपः । 'हनो ने' इति वः । घ्नन्ति ॥ (तत्त्वदी ० ) -- लोपस्त्वनुदात्ततनाम्॥ यमिरमिनमिगभिः निमन्यतयोऽनुदात्ताः । तनु णु क्षणु क्षिणु ऋणु तृणु घृणु वनु मनु इति तनोत्यादयः । अनुदात्तेति लुप्तषः किं पृथक्पदम् । तु शब्दोऽपरलाभार्थ इत्याह--तनादीनामिति ॥ लुप्तषष्ठीनिर्दिष्टन्यायेनान्त्यलोपत्याशयेनाह ञमस्येति॥ अन्यथा जम्यादिष्वनन्त्यस्यापि ञमस्य संभवालोपः स्यात् ॥ जह्येधिशाधि ॥ हन्तेर्जहिरस्तेरेधि शास्तेः शाधिर्निपात्यते हिविषये ॥ जहि । हनानि । अहन्, अहताम्, अघ्नन् । (सुबोधिनी) - जह्येधिशाधि ॥ हिसहितानां हनासशासीनां यथासंख्यमेते स्युः॥ (पूर्वार्द्धन्तेर्हस्य घः ) जघान, जघ्नतुः । जघ्नुः । घानथ, जघन्थ ॥ (सुबोधिनी) - पूर्वाद्धन्तेर्हस्य घः ॥ द्वित्वे सति पूर्वरूपान् परस्य हन्तेर्हस्य घत्वं. भवति । जघनिथ ॥ Page #95 -------------------------------------------------------------------------- ________________ [ आख्याते अदादयः ] टीकाद्वयोपेता । (हनो लुलिङोवधो लुङयाति वा ) वध्यात्, हनिष्यति॥ (सुबोधिनी)-हनो लुइलिश्रोर्वधो लुङयाति वा ॥ लुङ्लिङोः परतो हन्तेर्वधः स्यात् आत्मनेपदे लुङि तु वा ॥ वध्यात् । हनृत इतीट् । हानष्यात ॥ (तत्त्वदी०)-हनइति।लुङ्साहचर्यादनब्बिषय एव लिङ् गृह्यते । तेन विधौ नातिप्रसङ्गः । यत्तु विधावतिप्रसंगवारणाय किदिति लिङो विशेषणमुपन्यस्तं तद्रभसात् । वृश्चिकभियेति न्यायेन कर्माण पक्षे वाधषीप्टेत्यत्रातिव्याप्तेरनिवारणात् ॥ . (जनिवध्योर्न वृद्धिः) अवधीत् ॥ यु मिश्रणे अमिश्रणे च ॥ (सुबोधिनी)-जनिवध्योर्न वृद्धिः॥ अनयोर्वृद्धिर्न भवति । जन जनने। जनी प्रादुर्भावे च । वध हिंसायाम् । वधादेशोऽदन्तः । तेनाद्योच्चारणेऽनेकस्वरत्वात् नैकस्वरादितीशनिषेधो न प्रवर्तते । यत इत्यल्लोपः। अवधीत् ॥ ओरौ॥ उकारस्याऽद्विरुक्तस्याकारो भवत्यबादौ पिति॥ यौति, युतः, युवन्ति । यौषि । यौमि, युवः । युयात् । यौतु । युहि । अयोत् । अयौः। युयाव । युयविथ । यूयात् । यविता । अयावीत् ॥ तु गतिवृद्धिहिंसासु ॥ __(सुबोधिनी)-ओरी ॥ आद्विरुक्तस्य धातोरुत औः स्यात् पिति तकारसकारईकारादौ लुग्विविषये । उतः किम् । एति । एष । लुकि किम्।सुनोति । पिति किम्, रुतः। अद्विरुक्तस्य किम् । योयोत । नुधातोरित्युत् । युवन्ति । ये दीर्घः स्यात् । यूयात् । धातार्नामिन इति वृद्धिः । अयावीत् ॥ तु इति सौत्रो धातुः गतिवृद्धिहिं. सासु । अयं च लुग्विकरण इति स्मरन्ति ॥ _(तत्त्वदी० )-ओरौ इति ॥ विदो नवानामित्यतो वेत्यनुवर्त्य व्यवस्थयाऽद्विरुक्तस्येति बोध्यम् । तेन जुहोतीत्यादौ नातिप्रसंगः ॥ (तुरुस्तुभ्योऽद्विरुक्तभ्यो हसादीनां चर्गुणामीड्डा ) तोति-तवीति, तुतः-तुवीतः, तुवन्ति । तौषि-तवीषि, तुथ:--तुवीथः, तुथ, तुवीथ । तौमि-तवीमि । तुयात्-तुवीयात् । तौतु-तवीतु । तुकीतात्-तुवीताद्, तुतात्-तुताद् । तुहि-तुवीहि । अतोत्-अतवीत् । तुताव । तोता । तोष्यात । अतौषीत् ॥ रु शब्दे । रौतिरवीति । रुरविथ । अरावीत् ॥ णु स्तुतो । नोति, नुतः । नुनाव । नुनविथ । अनावीत् ॥ टुक्षु शब्दे । क्षति । क्षुयात् । क्षातु। अक्षौत् । चुक्षविथ ॥क्षविता । अक्षावीत् ॥ क्ष्णु तेजने । णोति। चुक्ष्णविथ । अक्षणावीत् । ष्णु प्रस्रवणे। नौति । सुष्णविथ । अस्त्रावीत् ॥ छु अभिगमने । द्यौति । दुद्यविथ-दुद्यौथ । अद्यौषीत् ॥ Page #96 -------------------------------------------------------------------------- ________________ (७६) सिद्धान्तचन्द्रिका | [ आख्याते अदादयः ] षु प्रसवैर्श्वययोः । सौति । सुषाव । सुषविथ - सुषोथ । असौषीत् ॥ कुशब्दे | कौति | चुकविथ - चुकोथ । अकौषीत ॥ वी गतिव्याप्तिप्रजननकान्त्यसनखादनेषु । वेति, वीतः, वियन्ति । | वे वीहि । अवेत्, अवियन् । विवयिथ - विवेथ । अवैषीत् ॥ एति, ईतः । ईयात् । ऐतू, ऐयन् । आयम् । अयांचकार । एता । ऐषीत् ॥ इण गतौ । एति, इतः ॥ ( सुबोधिनी ) - तुरुस्तुभ्योऽद्विरुक्तेभ्यो हसादीनां चतुर्णामी वा ॥ अद्विरुक्तेभ्य एभ्यः परेषां हसादिचतुर्णामीडागमो वा भवति । क्ष्णु तेजने । तेजनं तीक्ष्णीकरणम् । ष्णु प्रस्रवणे । प्रस्रवणमुत्कण्ठा । षु प्रसवैश्वर्ययोः । प्रसवोऽभ्यनुज्ञानम् । वी गतिव्याप्तिप्रजननकान्त्यसनखादनेषु । प्रजननं- गर्भग्रहणम् । असनं - क्षेपणम् । अडागमामाग् नु धातोरिती । अवियन् । नित्यत्वादडागमे कृते सत्यनेकस्वरत्वाद्य इति केचित् । अव्यन् । अत्र ईकारोऽपि धात्वन्तरं प्रश्लिष्यते । तथा च प्रयुञ्जते । 'नहि तरणिरुदीते दिपराधीनवृत्तिः' इति । व्याख्यातं च मनोरमायाम् । कर्मव्यतिहारे आत् । न च गतिहिंसार्थेत्यान्निषेधः शङ्कयः । उत्पूर्वस्याविर्भावार्थत्वादिति । इण गतौ ॥ (तत्त्वदी ० ) - तुरुस्तुभ्य इति । यत्तु प्राचा युरुणुस्तुभ्य युक्तं यच्च वासुदेवेन व्याख्यातम् । यु मिश्रणे । रु शब्दे । णु स्तुतौ । ष्टुञ् स्तुतौ । एभ्यः पिति त्स्मि ईकारो वक्तव्य इति तत्सर्वं प्रामादिकम् । णु एतयोरत्राग्रहणस्य सर्वसंमतत्वात् । पितिस्मीति निमित्तोपादानमप्ययुतम् रुवीत इत्यादावव्याप्तेः ॥ 1 ( इणः क्ङिति स्वरे यः ) यन्ति । एषि । इयात् । एतु, यन्तु । इहि । आयम्, ऐव, ऐम, । इयाय ॥ (सुबोधिनी) - इणः क्ङिति स्वरे यः ॥ इणो यत्वं भवति किति ङिति च स्वरे । यन्ति । लिटि वृद्धौ च कृतायाम् असवर्णे स्वरे इतीय इयाय ॥ अगा ( इणः किति णादौ पूर्वस्य दीर्घः ) ईयतुः, ईयुः । इययिथइयेथ । ईयात् । एता । दादेः पे । इणः सिलोपे गा । अगात्, ताम्, अगुः ॥ इक् स्मरणे । इङिकावध्युपसर्गतो न व्यभिचरतः । अध्येति, अधीतः, अधियन्ति । अध्यैत्-अध्यैद् ॥ (सुबोधिनी ) - इणः किति णादी पूर्वस्य दीर्घः । इणः पूर्वरूपस्य दीर्घो भवति किति लिटि । आशिषि ये इति दीर्घः । ईयात् । इक स्मरणे । ककार इहेण्वदिक इति विशेषणार्थः । अयमधिपूर्वः । तथा च भट्टिः 'ससीतयो राघवयोरधीयन् ।' स्मरन्नित्यर्थः । राघवयोरित्यत्र कर्मणि षष्ठी । इङि काविति । इङिकावध्युपसर्गे विना प्रयोगं नाईत इत्यर्थः ॥ Page #97 -------------------------------------------------------------------------- ________________ [ आख्याते अदादयः] टीकाद्वयोपेता। (७७) (इण्वदिकः) अधीयाय । अधीयतुः । अधीययिथ--अधीयेथ । अधीयिव । अधीयात् । अध्येता। अध्यगात् ॥ विद ज्ञाने। वेत्ति, वित्तः, विदन्ति । वेत्सि, वित्थः, वित्थ । वेद्मि॥ ( सुबोधिनी)-इण्वदिकः ॥ इणो यत् कार्यमुक्तं तदिकोऽपि भवति । कार्यातिदशोऽयम् ॥ विद ज्ञाने । ज्ञप्तिर्ज्ञानम् ॥ विदो नवानां त्यादीनां णबादिर्नवको वा ॥ विदः परेषां त्या: दीनां नवानां णबादिर्नवको वा ॥ वेद, विदतुः विदुः। वेत्थ, विदथुः, विद । वेद, विद्व, विद्म । विद्यात् । वेत्तु । विद्धि ॥ (सुबोधिनी)-विदो नवानात्यादीनांणबादिर्नवको वा॥वर्तमानार्थकणादियोगे धातोदित्वं न उक्तार्थणादियोगे इत्युक्तत्वात् । झसादिति धिः। विद्धि। (तत्त्वदी० )-वेदेति ॥ अन तरस्येति न्यायादुक्तार्थणादियोग एव द्वित्वं नान्यत्र ॥ (वेत्तेलेंॉट्याम्गुणाभावः करोत्यनुप्रयोगश्च वा) (सुबोधिनी) वेत्तेर्लोट्याम् गुणाभावः करोत्यनुप्रयोगश्च वावेत्तेराम्य प्रत्ययो गुणनिषेधः करोतेरनुप्रयोगश्च वा स्याल्लोटि ॥ तनादेरुप् ॥ विदांकरोतु ॥ (सुबोधिनी)-तनादेरुप् ॥ तन आदिर्यस्य स तनादिस्तस्मात्तनादेरुप् प्रत्ययः स्यात् कर्तरि चतुषु । नूप इति गुणे कृते विदांकरोतु ॥ डित्यदुः॥ कृञोऽत उत् डिति ॥ विदांकुरुतात् । विदांकुर्वन्तु । अवेत्-अवेद् । स्याविदः । अविदुः॥ (सुबोधिनी)-डित्यदुः कृतो ये इत्यतः कृज इत्यनुवृत्तम् । लङि दिस्योरिति दिसिपोर्लोप: स्यात् । अवेत् स्याविद इत्यन उस अविदुः॥ (तत्त्वदी०)-डित्यदुः॥ ति अत् उरिति च्छेदः । कृञो ये इत्यतः कृञ् इत्यनुवर्तते । विदांकुरुतादित्यत्र तपरत्वादुप्रत्ययनिमित्तो गुणो न । कुर्वन्त्वित्यत्र तु संज्ञापूर्वकत्वेनानित्यत्वात् बोर्विहस इति दी? न । तपरः किम् । अकारि । तपरकरणं सुखमुखोचारणार्थमिति वासुदेवः। तन्न । ङित्यउरिति पाठेऽपि सुखोच्चारस्याव्याहतत्वात् ॥ . दः॥ पदान्ते दस्यगे वा सिपि ॥ अवेः-अवेद-अवेत् ॥ (सुबोधिनी)-दः ॥ पदन्ते धातोर्दस्य रो वा स्यात् सिपि ॥ सिपि किम् । अवेद् । पदान्ते किम् । वेत्सि ॥ (तत्त्वदी० )दः इति ॥अत्र रोऽरात्रिष्वित्यतो मण्डूकप्लुत्या र इत्यनुवर्तते अजर्घा इत्यादि. सिद्धयर्थम् । स इति त्वव्यवहितमणि न । दोषादिकल्पने च गौरवम् । यदि दोषादिकल्पने व्यवहितानुवृत्त्या गौरवं समानं तदा सानुवृत्तिरप्यस्तु । Page #98 -------------------------------------------------------------------------- ________________ (७८) सिद्धान्तचन्द्रिका। [आख्याते अदादयः ] (आमि विदेन गुणः) विदांचकार । अवेत् ॥ अस भुवि । अस्ति ॥ __ (सुबोधिनी)-आमि विदेर्न गुणः॥ वेत्तेर्गुणो न यात् आमि । विददरिद्रेत्याम् । विदांचकार । अस भुवि । सत्तायामित्यर्थः ॥ नमसोऽस्य ॥ प्रत्ययस्य नमोऽस्तेश्चाकारस्य लोपो डिति । स्तः, सन्ति ॥ - (सुबोधिनी)-नमसोऽस्य ॥ नम् च अस् चानयोः समाहारो नमस् तस्य । नमिति प्रत्ययो गृह्यते प्रतिपदोक्तत्वात् । न धातुः लाक्षणिकत्वात् । तस्य हि आदेः ष्णः स्त्र इति कृते नमिति रूपम् । अस्तेरीडित्यतोऽस्तेरित्यनुवृत्त्याऽस्तेरित्यस्य योऽस् तस्येति व्याख्यानात् अस्प्रत्ययस्य अस दीप्तौ, असु क्षेपणे इत्यादीनां च ग्रहणं न भवति । ङित्यदुरित्यतो कितीति ओव्मोरित्यतो लोप इति वानुवृत्तम् ॥ (तत्त्वदी०) नमसोऽस्य ॥ नम् च अस् चानयोः समाहार नमस् तस्य । नमधातोरादेः ष्णः स्न इति सूत्रेण नत्वकरणालाक्षणिकत्वेनाग्रहात् । अस्तेरीडित्यतोऽ तेरित्यनुवृत्तरस्तेरिति रूपस्य प्रकृतिभूतो योऽसू तस्येति व्याख्येयम् । तेनास्प्रत्ययः । अस्दीप्तौ, असु क्षेपणे, इत्यादीनां न ग्रहणम् । यत्तु वासुदेवेन नन्वसा धातुना साहचर्यान्नमपि धातुरेव गृ पताम् इत्युक्तम् तन्न अस्प्रत्ययस्यापि संभवेन धातोर्ग्रहणमिति निर्णयाभावात् ॥ सि सः॥ अस्तेः सस्य लोपो भवति सादौ ॥ असि, स्थः, स्थ । अस्मि, स्वः, स्मः । स्यात् । अस्तु-स्तात, सन्त । जह्यधिशाधि । एधि । असानि॥ (सुबोधिनी)-सि सः॥ नमसोऽस्येत्यतोऽस्ग्रहणमप्यनुवृत्तम् ॥ ज धीति एध्यादेशः । एधि॥ (तत्त्वदी०)-सि सः॥ अत्र नमः सकारासंभवादस ऐवानुवृ त्तेः ॥ - अस्तेरीट् ॥ विद्यमानादस्तेः रुदादश्च परसोदिप्सिपोरीट् ॥ आसीत्, आस्ताम् । आसीः। आसम् ॥ (सुबोधिनी )-अस्तेरीट् ॥ दिस्योर्हसादित्यतो दिस्यो रेत्यनुवृत्तम् ।अस्तेरिति तु तन्त्रादिना व्याख्येयम् । तेन विद्यमानादस्तेरिति लभ्यते॥द्यमानात्किम् । अस्तेभूरित्यादेशेऽभूदित्यादौ मा भूत्। स्थानिवद्भावेन नमसोऽस्येत्या ओठैवेत्यतो वानुवृत्त्या व्यवस्थया लोपाभावे स्वरादित्वात् द्वितीयोऽट आस्ताम् ॥ . (तत्त्वदी०)-अस्तेरीट् ॥ अत्रानुदादेरिति सूत्रात् रुदादेरित्येकदेशोऽनुवर्तते । न त्वदिति। कचिदेकदेशोऽनुवर्तत इति स्वीकारात् । अस्तेरित्यस्य तन्त्रादिना लब्धं विद्यमानादिति । तेन भ्वादेशे Page #99 -------------------------------------------------------------------------- ________________ [ आख्याते अदाददयः ] टीकाइयोपेता 1. अभूदित्यादौ नातिप्रसंग: ॥ आस्तामिति ॥ अत्र ओव्यत्यतो वानुवृत्त्या लोपाभावे द्वितीयोsट् | उपदेशस्वरादि ते तु न अगादित्यत्रातिव्याप्तेः ॥ ( अस्तेरनपि भूः ) बभूव इत्यादि सिद्धम् ॥ मृजू शुद्धौ ॥ (सुबोधिनी) - अस्तेरनपि भूः ॥ अस्तेर्भूरादेशः स्यादचतुर्षु । मृजू शुद्धौ । अयं न षित् भिदादिपाठसामर्थ्यात् ॥ (मृजेर्वृद्धिः क्ङिति स्वरे वा ) मार्ष्टि, मृष्टः, मृजन्ति मार्जन्ति । माक्षिं । मृज्यात् । मार्छु । मृढि । मार्जानि । अमार्टू - अमार्ड | ममार्ज, ममृजतुः - ममार्जतुः । ममार्जिथ- ममाष्ठ I मृज्यात् । मार्जिता, माष्टा ॥ अमार्जीत् ॥ वच परिभाषणे 1 वक्त नहि वचिरन्तिपरः । वक्षि, वक्थः । वच्मि । वच्यात् । वक्तु वग्धि । अवक- अवग् । उवाच, ऊचतुः । उवचिथ उवक्थ । उच्यात् ॥ वक्ता । वक्ष्यति । अवक्ष्यत् अस्यतिवक्तीति ङः ॥ (सुबोधिनी ) - मृजेर्वृद्धिः क्ङिति स्वरे वा ॥ गुणापवादः । अक्ङिति प्रत्यये परे मृजेर्वृद्धिर्भवति ङ्किति परे वेष्यते । छशषेति षत्वम् । माष्टिं ॥ झसादिति हेर्धिः ॥ छशषेति षत्वम् ष्टुत्वम् । झबे जवा इति षस्य डः स्थानैकत्वात् । मृढि।दिस्योरिति दिसिपोर्लोपः । अमार्टू- अमाई । लुङि इडभावे षत्वकत्वे । अमाक्षत् । झसादिति सिलोपः । अमाष्टम् । स्थाविद : त्यन उस् । अमाक्षुः । वच परिभाषणे । अयमन्तिपरो न प्रयुज्यते इत्येके । बहुवचनपरे न प्रयुज्यते इत्यपरे । झसादिति हेधिः । चोः कुरिति कः । झवे जबा इति गः । वग्धि ।। दिस्योरिति दिसिपोर्लोपः । अवक् । णबादौ पूर्वस्योत संप्रसारणम् । अत उपधाया इति वृद्धिः । उवाच । अस्यतिवक्तिख्यातिभ्य इति ङः ॥ ( तत्त्वदी० ) - नहि वचिरिति ॥ बहुवचनपर इत्येके । अन्तमात्रपर इत्यन्ये ॥ (ङे वचेरुम् ) अवोचत् अवोचताम् अवोचन् ॥ रुदिर् अश्रुविमोचने ॥ ( ७९ ) व्यवस्थया (सुबोधिनी ) - ङे वचेरुम् || वचेरुमागमः स्यात् ङप्रत्यये । अवोचत् ॥ रुर्दिर् अश्रुविमोचने । अश्रुविमोचनं रो नम् ॥ रुदादेश्चतुर्णां सादेः ।। रुदादेः परस्य तिवादिचतुर्णां मध्ये हकारवसादेः प्रत्ययस्येट् ॥ रोदिति, रुदितः, रुदन्ति । रोदिषि रुदिथः, रुदिथ । रुद्यात् । रोदितु । रुदिहि | अरोदीत् -- अरोदत् । अरुदिताम्, अरुदन् । इरितो वा अरुदत् ॥ ञिष्वप् शये । स्वपिति । Page #100 -------------------------------------------------------------------------- ________________ (८०) सिद्धान्तचन्द्रिका। [ आख्याते अदादयः ] स्वप्यात् । स्वपितु । अस्वपीत्-अस्वपत् । सुष्वाप । स्वप्ता । अस्वाप्सीत् ॥ श्वस् प्राणने । श्वसिति । श्वस्यात् । श्वसितु । अश्वसत् । अश्वसीत् । शश्वास ॥ अन प्राणने । अनिति ॥ (सुबोधिनी)-रुदादेश्चतुर्णा ह्रसादेः॥ हू च सश्च द्वसौ तौ आदी यस्य स ह्वसादिस्तस्य ॥“रोदितिः स्वपितिश्चैव श्वसितिः प्राणितिस्तथा। जक्षितिश्चेति विज्ञेयो रुदादिः पञ्चको गणः ॥” ह्रसादेः किम् । रुदन्ति ॥ चतुर्णा किम् । स्वप्ता । हो परत्वादिटि कृते धिरांदेशो न । रुदिहि । लुङि इरित इति वा ङः । अरुदत् । णबादौ पूर्वस्येति संप्रसारणम् । यजामिति संप्रसारणम् । सुषुपतुः। अत उपधाया इति वृद्धी अस्वाप्सीत् । हुम्यन्तेति न वृद्धिः । अश्वनीत् ॥ (तत्त्वदी०)-रुदादेरिति ॥ ह च वसश्च हसौ तौ भादी यस्य स तथा । “रोदितिः स्वपितिश्चैव श्वसितिः प्राणितिस्तथा । जक्षितिश्चेति विज्ञेयो रुदादिः पञ्चको गणः ॥ १ ॥ अरोदीदिति । अद्रुदादेरडित्यट् । अस्तेरीडिति पक्षे ईट् ॥ (प्रादे रेफादनितेर्नस्य णत्वम् ) प्रापिति । प्राणिहि। आनीत् । आनत् । आन, आनतुः। अन्यात् । अनिता । आनीत् ॥ जक्ष भक्ष हसनयोः । जक्षिति, जक्षितः॥ (सुबोधिनी)-प्रादे रेफादनितेर्नस्य णत्वम् ॥ प्रादिस्थरकारात्परस्यादेर्नस्य णत्वं स्यात् ॥ (जक्षादेरन्तोऽदन उस्) जक्षजागृदा रद्राशास्चकामृभ्यः परस्यान्तोऽत् अन उस् च ॥ जक्षति । जक्ष्यात । जक्षितु । जक्षिहि । अजक्षीत् । अजक्षत् । जक्षिता ॥ इति रुदादयः । जागृ निद्राक्षये । जागर्ति, जागृतः, जाग्रति । जागृगात । जागर्तु । अजागः, अजागृताम् ॥ (सुबोधिनी)जक्षादेरन्तोऽदन उम् ॥ जक्षप्रभृतयः सप्त । उक्तं च । “जक्षजागृदरिद्रातिचकास्तिशास्तयस्तथा । दीधीङ वेवीलच विज्ञेयो जक्षादिः सप्तको गणः ॥ १॥" दिस्योरिति दिसिपोर्लोपः । अजागः ॥ (उसि गुणः) अजागरुः । जजागार ॥ (सुबोधिनी)-उसि गुणः॥ नाम्यन्तस्य धातो णः स्यादनादेशे उसि परे । विददरिद्रेति वाम् । जागरांचकार ॥ __ (जागर्तेर्वीण्णङिद्भिन्नेषु गुणः) जजागरतुः, जजागरुः । जजागरिथ । जागराञ्चकार । जागर्यात् । जागरिता । जागरिष्यति । अजगरिष्यत् । अजागरीत् ॥ दरिद्रा दुर्गतौ । दरिद्राति ॥ Page #101 -------------------------------------------------------------------------- ________________ [ आख्याते अदादयः ] टीकाद्वयोपेता। (८१) (सुबोधिनी)-जागर्तेर्वीण्णबङिद्भित्रेषु गुणः ॥ जागतेर्विइण्णवङिद्भिन्नमत्यये गुणः स्यात् । विइण्णङिद्भयोऽन्यस्मिन् वृद्धिविषये प्रतिषेधविषये च । विशब्देन वादिः प्रत्ययो गृह्यते। इकारस्तु उच्चारणार्थः । कसुप्रत्यये जजागृवान्, जजागृवांसौ इति । इणि अजागारि । णाप जजागार । डिति जागृतः । वृद्धिविषये वुणि जागरकः घजि जागरः । जिप्रत्यये जागरयति न चैतेषु गुणे कृतेऽप्यत उपधाया इति वृद्धिः स्यादीत वाच्यम् । गुणविधेरिण्णप्रतिषेधस्य चानर्थक्यापत्तेः । लुङि जागृ इ स् ईदित्यत्र रत्वं प्राप्तं तद्गुणो बाधते । तं णित्पे इति सेर्णित्वाद्धातो मिन इति वृद्धिबाधते । तां जागतेरिति गुणो बाधते । तत्र गुणे कृते अतो हसादोरीत विकल्पं बाधित्वा लूान्तस्येति वृद्धिः प्राप्ता हुम्यन्तति सूत्रेण निषिध्यते ॥ अजागरीत् ॥ दरिद्रा दुर्गतौ ॥ दरिद्रातेरिदालोपश्च डिति ॥ दरिद्रातरातो लोपो डिति स्वरे इकारश्च डिात हसे ॥ दरिद्रितः, दरिद्रति । दरिद्रियात् । दरिद्रातु । अदरिद्रात्, अदरिद्रिताम्, अदरिद्रुः॥ (सुबोधिनी)-दरिद्रातेरिदालोपश्च ङिति॥ हसे इति स्वरे इति चानुवृत्तम् ।। (तत्त्वदी०)-अदरिद्रुरिति जक्षादेरित्यन उस् दरिद्रादेरिदालोप इत्यनेन परत्वादालोप आदन्तत्वाभावादादन्ताद्विष इत्यादिलक्षणविकल्पाप्रवृत्तिः ॥ (दरिद्रातेरनप्यालोपः सौ वा णवुणनिट्रसयुटूसु न)ददरिद्रौ, ददरिद्रतुः । दरिद्रांचकार । दरिद्रयात् । दरिद्रिता । अदरिद्रीत्, अदरिद्रिष्टाम् । अदरिद्रासीत् ॥/ शासु अनुशिष्टौ शास्ति । __(सुबोधिनी)-दरिद्रातेरनप्यालोपः सौ वा णवुणनिट्सयुटसु न ॥ दरिद्रातरातो लोपः स्यात् अचतुर्पु सिप्रत्यये तु वा णवादिषु परेषु न । वुणि दरिद्रायकः ॥ अनिटि सप्रत्यये दिदरिद्रासति ॥ युटि दरिद्राणः । लाङ आलोपाभावे यमिरमीतीट्सकौ।अदरिद्रासीत् ।अदरिद्रासिष्टाम्।शासु अनुशिष्टौ।अनुशिष्टिरनुशासनम् ॥ शासरिः॥ शासेरातो हसे क्डिति डे च इद्भवति। घसादेः षः। शिष्टः, शासति । शास्सि,शिष्ठः,शिष्ठ । शास्मि । शिष्यात्।शास्तु । जह्येधिशाधि । शाधि ॥ दिपि ॥ धातोः सस्य तः स्यादिपि ॥ अशाद्-अशात्, अशिष्टाम्, अशासुः ॥ सिपि वा ॥ धातोः सस्य वा तः स्यात्सिपि ॥ अशा:-अशात्-अशाद् । शशास । शिष्यात् । शासिता । अशासिष्यत् । अशिषत् ॥चकासृ दीप्तौ । चकास्ति, चकास्तः, चकासति । झसाद्धिहेः । धे सलोपः। चकाधि । Page #102 -------------------------------------------------------------------------- ________________ ( ८२ ) सिद्धान्तचन्द्रिका | [ आख्याते अदादयः ] अचकात् । अचकासुः I अचका:- अचकात -अचकाद् । चकासांचकार । अचकासीत् ॥ इति परस्मैपदम् ॥ (सुबोधिनी) - शासेरिः ॥ शास उपधाया इत् स्यात् त्यये हसादौ क्ङिति । च । ङस्यानुवर्तनात् आङः शासु इच्छायामित्यस्य तु न ग्रहम् । अर्तिसर्तिसाहचयत्परस्मैपदिन एव शासेङविधानात् । तेन पे एवेत्वम् । नेह आशास्ते । अन्ये तु व्यतिशिष्टे । व्यतिशिढे । इत्यात्मनेपदेऽपि इत्वं स्वीकुर्वन्ति । हौ जह्येधिशाधीति शाधि - रादेशः । शाधि । सर्तिशास्तीति ङः । अशिषत् ॥ चकासृ द तौ । दीप्तिस्तेजः । चक्षादेरित्यन्तोऽत् । चकासति । धे च सलोपः । धातोः सकारस्य लोपः स्यात् धकारे परे । दिस्योरिति दिप्सपोर्लोपः । दिपि सस्येति तः । अचकात् । सिपि तु वा तुः । अचकाः-अचकात् । कासादिप्रत्ययादित्याम् । चकासांचकार । दीधीङ दीप्तिदेवनयोः । देवनं शोकः । वेवीङ् वेतिना तुल्ये । वीगतीत्यनेन तुल्येऽर्तित इत्यर्थः । छान्दसाविमौ । अत एव न व्याख्यातौ ॥ इति सुबोधिन्यां परस्मैपदम् ॥ (तत्त्वदी० ) - शासेरिः ॥ ङे चेति ङानुवृत्तेराङ्: शासु इच्छायामित्यस्य त्वम् । अर्तिसाहचर्यात्परस्मैपदिन एव शास्तेर्डविधानात् । भाष्यमतमाह-धे सलोप इति ॥ कृतायामिह टीकायां लोकेशकरशर्मणा । अगाददादिमध्यस्ः । परस्मैपदसाधनम् ॥ इति तत्त्वदीपिकायां परस्मैपदम् ॥ चक्षिङ् व्यक्तायां वाचि । स्कोराद्योश्च । च न्तोऽदनतः। चक्षते । चक्षे, चक्षाथे, चढे । चक्षीत । चष्टाम् अचष्ट ॥ (सुबोधिनी) -- चक्षि व्यक्तायां वाचि ॥ अयं दर्शने । इकारोऽनुदात्तः । इदितो नुमिति नुम् तु न अन्ते इदित इति व्याख्यानात् । ङ्कारस्तु अनुदात्तेत्त्वप्रयुक्तमात्मनेपदमनित्यमिति ज्ञापनार्थः । स्कोरिति कलोपः । ष्ट्रत्वम् । चष्टे । अतोऽन्तोऽदनत इत्यत् । चक्षते । मध्यमे तु स्कोरिति कलोपः । षढोरिति कः । षत्वम् । चक्षे | कलोपे ष्टुत्वे झबे जबा इति ङः चढे । लङि अचष्ट ॥ ( तत्त्वदी ० ) - चक्षिङ् ॥ अनुदात्तेत्त्वलक्षणमात्मनेपदम नित्य मेति ज्ञापनार्थो ङकारः । तेन ' अनुक्तमप्यूहति पण्डितो जनः' इत्यादि सिद्धम् । इदित इति नु तु न भवति अन्ते इदिति व्याख्यानात् । अकारस्तु वक्तुमुचितः ॥ ( चक्षिङोsपि ख्याञ्कशात्रौ णादौ तु वा ) चख्याँ, चख्यतुः । चख्ये, चख्याते । चक्शा । चक्शे । चचक्षे ख्येयात् - ख्यायात् । ख्यासीष्ट । कशायात्- क्यात् । ( अस्यतिवक्तिख्यातिभ्यो ङो लुङि सेरपवादः ) अख्यत् - अख्यत - अक्शात ॥ ईर् गतौ चक्षाते । आतोऽचक्ष्वहे, चक्ष्महे । Page #103 -------------------------------------------------------------------------- ________________ [ आख्याते अदादयः ] टीकाद्वयोपेता। कम्पने च । ईर्ते, ईराते । ईम्,ि ईराताम् । ऐर्त । ईरांचक्रे॥ ईरिषीष्ट । ऐरिष्ट ॥ आङः शासु इच्छायाम् । आशास्ते । आशशासे । आशासिष्ट ॥ कसि गतिशासनयोः । कंष्टे, कंसाते । अयमनिदिदित्येके । कस्ते । तालव्यान्तोऽप्यनिदित् । कष्टे, कशाते । कक्षे, कड्ढे । अकशिष्ट ॥ णिसि चुम्बने । निस्ते, निंसाते । निस्ते । निसिता॥ णिजि शुद्धौ । चोः कुः । निङ्क्ते । निक्ष्ये । निञ्जिता ॥ शिजि अव्यक्ते शब्दे । शिक्ते । शिक्षे । शिञ्जिता ॥ पिजि वर्णे संपर्चने च। पिङ्क्ते । पिपिर्छ । पिञ्जिता ॥ पृचि संपर्चने । पृङ्क्ते । पपृश्चे । पृश्चिता ॥ पृची संपर्चने । पृक्ते । पपृचे । अपर्चिष्ट ॥ ईड स्तुतौ । ईट्टे ॥ __ (सुबोधिनी)-चक्षिङोऽनपि ख्याक्शानौ णादौ तु वा॥ चक्षिङ ख्या कुशाजावादेशौ भवतः अचतुषु । लिटि परे तु वा॥ जित्त्वात्पदद्वयम् ॥ (अस्यतिवक्तिख्यातिभ्यो ङो लुङि सेरपवादः) असुक्षपणे।ब्रुवोवचिः।वच परिभाषणे । इत्युभयोHहणम्।एभ्यो ङप्रत्ययःस्याल्लुङि सेरपवादः॥आतोणब्डावितिडौ। चख्यौ। आतोऽनपीत्यालोपः । चख्ये । चकूशौ । चकूक्षे । चचक्षे । संयोगादेरादन्तस्यैकारो वा ।ख्यायातू-ख्येयात् कूशायात्-क्शेयात्ाख्यासीष्टाकूशासीष्ट । ख्याता । कूशाता । ख्यास्यति । ख्यास्यते । क्शास्यति क्शास्यते । अख्यास्यत् । अख्यास्यत। अक्शास्यत् । अक्शास्यत । अस्यतिवक्तीति ङः। आतोऽनपीत्यालोपः । अख्यत्-अख्यद् । अकशासीत् । अक्शास्त । वजेने ख्याशाजी नेष्टी । समचविष्ट ॥ आङः शासु इच्छायाम्।आपूर्वकत्वं प्रायिकम् । तेन 'नमो वाकं प्रशास्महे' इति सिद्धम्॥ वचेर्घञ् ॥ चजोरिति कः॥ कसि गतिशासनयोः। शासनमाज्ञा।तालव्यान्तोऽप्यनिदित्। छशषति षत्वम् । ष्टुत्वम् कष्टे । षढोरिति कः षत्वं च कक्षे । पत्वष्टुत्वे । झवे इति डः। कडढे।णिजि शुद्धौ । अनिटकेषु णिजिरिति जौहोत्यादिकस्य ग्रहणादयं सेट् । चोः कुरिति जस्य गः खसे चपा इति कः निङ्क्त। गत्वकत्वषत्वानि । निङ्के । शिचि अव्यक्ते शब्द । क्तप्रत्यये शिञ्जितम् । णिन्यन्तादीपि कृते शिञ्जिनी 'भूषणानां तु शिञ्जितम्' इत्यमरः । 'मौर्वी ज्या शिञ्जिनी गुणः' इतिः चामरः॥ चोः कुरिति जस्य गः । खसे चपा इति कः। शिफ्ते ॥ पिजि वर्णे । संपर्चनं मिश्रीभावः ॥ . (ईडीशिभ्यां सध्वयोरिट् ॥) ईडिपे । ईडिध्वे । हाम्॥ (सुबोधिनी)-ईडीशिभ्यां सध्वयोरिट्॥ आभ्यां परयोःसध्वशब्दयोरिटस्यात्। (लङो ध्वस्य नेट) ऐड्ढम् । ईडांचक्रे । ऐडिष्ट ॥ ईश ऐश्वर्ये । ईष्टे । ईशिषे । ईशिध्वे । ईशांचक्रे । ईशितासे ॥ आस उपवेशने । Page #104 -------------------------------------------------------------------------- ________________ (८४) सिद्धान्तचन्द्रिका। [आख्याते अदादयः ] आस्ते । आध्वे । आसांचक्रे ॥ वस आच्छादने । वस्ते । ववसे। अवसिष्ट ॥ फूड प्राणिगर्भविमोचने । सूते । नुधातोः । सुवाते । सूताम् ॥ (सुबोधिनी) लङो ध्वस्य नेट्रं ॥ ईडीशिभ्यां परस्य लङो ध्वशब्दस्य इण्न स्यात् ॥ आस उपवेशने । उपवेशनं स्थितिः । धे चंति सलोपे आध्वम् । कासादिप्रत्ययादित्याम् । आसांचक्रे ॥ वस आच्छादने । धे चंति सलोपे । बध्वे । शसददेत्येत्वपूर्वलोपौ न । ववसे ॥ षूङ प्राणिगर्भविमोचने । पाणिगर्भविमोचनं प्रसवः ॥ (सुवो न गुणश्चतुर्ष) सुवावहै । सुषुवे । सविषीष्ट-सोषीष्ट । सविता--सोता ॥ शी स्वप्ने ॥ (सुबोधिनी)-सुवो न गुणश्चतुषु ॥ सुवो गुणा न स्यात् त्यादिषु चतुषु । स्वरतिसूतीति विकल्पं बाधित्वा कित इति निषेधे प्रा' कादेर्णादेरिति नित्यमिट् ॥ नुधातोरित्युत् । सुषुविषे ॥ स्वरतिसूतीति वेट । सविष्टि-सोषीष्ट ॥ शीङ स्वप्नं । स्वप्नमालस्यं निद्रा च ॥ . (शीङो गुणश्चतुर्ष ) शेते, शयाते ॥ (सुबोधिनी)-शीको गुणश्चतुषु ॥विडत्यासीत्यस्यापवादः॥ ... (शीङोऽतो रुट् ॥) शीङः परस्यातो रुडागमः॥शेरते । शेताम्।। अशेत, अशेरत । शिश्ये । अशयिष्ट ॥ इडू अध्ययने । अधिपूर्वः। अधीते, अधीयाते, अधीयते । अधीयीत,अोयीयाताम् । अध्ययै । अध्यैत, अध्यैयाताम् ॥ (सुबोधिनी)-शीङोऽतो रुट् ॥ शीङः परस्यातः प्रत्ययस्य रुडागमः स्यात् । नुधातोरिति यः। शिश्ये ॥ इङ अध्ययने । अध्ययनं ठनम् । नुधातोरितीय।अधीयाते । आतोन्तोऽदनत इत्यत् । अधीयते । लोटि उत्तम् पुरुषे गुणायादेशयोः कृतयोरुपसर्गस्य इ यं स्वरे इति यत्वम् । अध्ययै । लङि । यध्यैत । प्रथममिय ततोऽटो अध्ययाताम् । अध्यैयत । उत्तमे तु । अध्यैयि, अध्यैवहि ॥ ( तत्त्वदी०) अध्ययातामिति ॥ परत्वादियादेशे ' नरडागमद्वयेन सिद्धिः ॥ (इङो णादौ गाङ्) अधिजगे । अध्येर्ष ष्ट ॥ ___ (सुबोधिनी)-इङो णादौ गाङ्क॥ इङो गाङाशः स्यालिटि ॥ आतोऽनपी: त्यालापे अधिजगे ॥ ( इङो वा गौटुंङ्लङोर्गुणाभावश्च ) अध्यगीष्यत-अध्यैष्यत। अध्यगीष्ट-अध्यष्ट ॥ Page #105 -------------------------------------------------------------------------- ________________ [ आख्याते अदादयः ] टीकाद्वयोपेता । (८५) (सुबोधिनी ) - इङो वा गीर्लुङ्लङोर्गुणाभावश्च ॥ इङो गी इत्यादेशो वा स्यात् गुणनिषेधश्च लुङ्लङोः परयोः ॥ इति सुबोधिन्यामात्मनेपदम् ॥ ( तत्त्वदी० ) - कृतायामिह टीकायां लोकेशकरशर्मणा । अगाद्ददादिमध्यस्थमात्मनेपदसाधनम्॥ इति तत्त्वदीपिकायामात्मनेपदम् । द्विष अप्रीतौ । द्वेष्टि, द्विष्टः । द्वेष्टु । द्विढि | अद्वेट्-अद्वेड्, अद्विष्टाम्, अद्विषुः - अद्विषन् । दिद्वेषिथ । द्विक्षीष्ट । अद्विक्षत् ॥ दुह प्रपूरणे । दादेर्घः । तथोर्धः । दोग्धि, दुग्धः, दुहन्ति । धोक्षि | दुग्धे । दोग्धु । दुग्धि । दोहानि । अधोक्-अधोग । दुदोंह | धुक्षीष्ट । अधुक्षत् । अदुग्ध-अधुक्षत, अधुक्षाताम् । अदुग्धाःअधुक्षथाः । अधुग्ध्वम् - अधुक्षध्वम् । अदुह्वहि अधुक्षावहि ॥ दिह उपचये । देग्धि | लिह आस्वादने । लेढि, लीढः ॥ टु स्तुतौ । स्तौति - स्तवीति, स्तुतः - स्तुवीतः, स्तुवन्ति । स्तौषि - स्तुवीषि । स्तुते - स्तुवते । स्तुवीष्व । अस्तौत् । तुष्टोथ । तुष्टुव । तुष्टुम । स्तोषीष्ट ॥ (सुबोधिनी) - द्विष अप्रीतौ ॥ अप्रीतिः शत्रुता । ष्टुत्वम् । द्वेष्टि । द्विष्टे । द्विष्यात् । द्विषीत । द्विष्टाम् । हौ ष्टुत्वम् । झभे जबा इति डत्वम् । द्विड्ढि | द्वेषाणि । द्वेषे | दिस्योरिति दिसिपोर्लोपः । वावसाने इति वा टः । अद्वेट - अद्वेड् । आदन्ताद्दिष इत्यन उस वा । अद्विषुः - अद्विषन् । आति तु अद्विष्ट । दिद्वेष । दिद्विषे । द्विष्यात् । षढोरिति कः षत्वं च । द्विक्षीष्ट । द्वेष्टा । द्वेक्ष्यति । द्वेक्ष्यते । अद्वेक्ष्यत् । अद्वेक्ष्यत । हशषान्तादिति स । अद्विक्षत् । अद्विक्षत । आति सको लोप इत्यलोपे अद्विक्षाताम् । दुह प्रपूरणे । प्रपूरणं त्यजनम् । दादेर्घ इति घः । तथोरिति तस्य धः । झभे जबा इति गः । दोग्धि । सिपि तु घत्वम् । आदिजबानामिति घः । खसे चपा इति कः षत्वं च । धोक्षि । लङि दिस्योरिति दिसिपोर्लोपः । घत्वधत्वकत्वानि । अधोकू । लुङि हशषान्तादिति सः । घत्वधत्वकत्वषत्वानि । अधुक्षत् । आति तु अधुक्षत । दुहदिति सको लुकपक्षे तन्थासुध्वं वहिषु लङवत् । घत्वं तथोर्ध इति धत्वम् । झभे जबा इति गः । अदुग्ध । अदुग्धाः । धत्वे अदुग्धम् । अदुह्वहि || दिह उपचये । उपचयो वृद्धिः ॥ लिह आस्वादने । हो ढ इति ढः । तथोर्द्ध इति धः। ष्टुत्वम् । ढि ढो लोप इति ढलोपः। लेढि । सिपि ढत्वम् । षढोरिति कः । षत्वम् | लेक्षि । हौ ढत्वं झसादिति हेर्धिः । ष्टुत्वम् । ढि ढ इति ढलोपपूर्वदीर्घौ । लीढि । लुङि हशषान्तादिति सकू । अलिक्षत् । आति तु अलिक्षत । दुहदिहति सको लुकपक्षे ढत्वधत्वष्टुत्वढलोपपूर्वदीर्घाः । अलीढ । आति सक इत्यलोपे । अलिक्षाताम, अलिक्षन्त । अलीढाः - अलक्षथाः । अलोपः । Page #106 -------------------------------------------------------------------------- ________________ (८६) सिद्धान्तचन्द्रिका। [आख्याते अदादयः) अलिक्षाथाम्।अलीद्वम्-अलीक्षध्वम् । अलिक्षि, अलिबाह -अलिक्षावहि,अलिक्षामहि। ओरौ इत्यौ । स्तौति । तुरुस्तुभ्य इतीड् वा । स्तवीति । नुधातोरित्युत् । स्तुवन्ति ॥ (स्तुसुधुजां पे सेरिटू) अस्तावीत् । अस्तोष्ट ॥ ब्रून व्यक्तायां वाचि॥ (सुबोधिनी)-स्तुसुधूनां पे सेरिट् ॥ ष्टुञ् स्ट तौ । षुञ् अभिषवे । धूत्र कम्पने । एषां परस्मैपदस्य सेरिट आति तु न । धातोर्नाग्नि इति वृद्धिः। अस्तावीत् । आति तु गुणः । षत्वष्टुत्वे । अस्तोष्ट ॥ 'अबादावीप्पिति स्मि ॥ ब्रुव ईप्प्रत्ययो बादौ पिति स्मि । ब्रवीति, ब्रूतः, अवन्ति ॥ (सुबोधिनी)-अबादावीप्पिात विस्म ॥ ब्रुवः परेषां पितां तिवादीनां चतुर्णा तकारसकारमकारादिप्रत्ययानामीबागमः स्यात् । (तत्त्वदी०)-अबादाविति ।। अप आदिः स्थानीयस्य तथा अब्लुक् तेन लुग्विषय इत्यर्थः । स्मीत्यत्र हि सतकारको निर्देशः। दस्य खसे चपा इति नः । तेनाब्रवीदिति सिद्धयति॥ ब्रव आहश्च पञ्चानाम् ॥ ब्रुवः परेषां तिवादीनां पञ्चानां णबादयः पञ्चादेशा वा स्युः ब्रुव आहश्च ॥ आह, आहतुः, आहुः॥ (सुबोधिनी )ब्रुव आहश्च पञ्चानाम् ॥ ब्रुवः धातं राहादेशः । अकार उच्चारणार्थः । तिबादीनां पञ्चानां क्रमेण णवादयः पञ्चादेाश्च ॥ अत्र द्विश्चेति द्वित्वं न उक्तार्थ इत्युक्तत्वात् ॥ (तत्त्वदी०)-पञ्चानामिति ॥आदेशादेशिनोः संख्यासाम्पादादेशा अपि पञ्चैव ग्राह्याः । द्विश्चेत्यत्र परोक्षार्थणादियोगे द्वित्वविधानादेतद्योगे द्वित्वं न ॥ तस्थे॥ आहो हस्य तस्थे परे ॥ आत्थ, आहए। ब्रूते । ब्रवीतु । अब्रवीत् ॥ __ (सुबोधिनी)-तस्थे ॥ आह इत्यनुवर्तते । तच्च षष्ठ या विपरिणम्यते । षष्ठीनिर्दिष्टत्वेनान्त्यस्य हस्येत्यर्थः ॥ (तत्त्वदी०)-तस्थ इति ॥ आह इत्यनुवर्त्य तच्च षष्ठया विपरिणम्य षष्ठीनिर्दिष्टत्वेनान्त्यस्येत्याह-हस्येति॥ (ब्रुवोऽनपि वच् ) उवाच । ऊचे। अवोचत् । अवोचत । आदाथ इः॥ अवोचेताम्, अवोचत । अवचिथाः। अवौचथाम्, अवोचध्वम् ॥ अवोचे । अवोचावहि ॥ उणु आच्छादने ॥ Page #107 -------------------------------------------------------------------------- ________________ [ आख्याते अदादयः] टीकाद्वयोपेता। (८७) (सुबोधिनी)-ब्रुवोऽनपि वच् ॥ ब्रुवो वचादेशः स्यादचतुषु । णबादौ पूर्वस्येति पूर्वस्य संप्रसारणम्। उवाच ! यजामिति संप्रसारणम्। ऊचतुः अस्यतिवक्तीङः । डे वचेरित्युम् । अवोचत् ॥ ऊर्ण आच्छादने । आच्छादनमावरणम् ॥ (ऊर्णोतेर्वा वृद्धिहसादौ पिति चतुषु ) ऊर्णोति,ऊौति,ऊर्गुतः, ऊर्णवन्ति । ऊर्गुते । ऊर्णयात् । ऊर्णवीत । ऊ तु । ऊर्णोतु । ऊर्गुहि ॥ (सुबोधिनी)-ऊर्णतेर्वा कृद्धिहसादौ पिति चतुर्षु ॥ ओरौ इति नित्ये औत्वे प्राप्ते इति विभाषा ॥ हरादौ किम् । ऊर्णवानि । पिति किम् । ऊर्णतः । वृद्धयभावे गुणः । ऊोति । दुधातोरित्युवे ऊर्गुवन्ति ॥ (तत्त्वदी० )--उोतेरिति ।' स्तिपा निर्देशो यङ्लुग्व्यावृत्त्यर्थः ॥ (ऊर्णोतेर्गुणो दिस्योद्धरपवादः) और्णोत् । और्णोः॥ (सुबोधिनी) ऊर्णोतेर्गुणं दिस्योवृद्धेरपवादः ॥ ऊोतेर्गुणः स्यात् दिपि सिपि च ऊर्णोतेर्वा इत्यस्यापवा:॥ ऊर्णोतेराम्न ॥ (सुबोधिनी)-उर्णोतेराम्न ॥ अनेकस्वरत्वात्प्राप्त आम् अनेन निषिध्यते ॥ स्वरादेः परः॥ स्वादेर्दातोद्वितीयोऽवयवोऽद्विरुक्तः । सस्वरो द्विभवति ॥ (सुबोधिनी)--स्वरादेः परसस्वर आदिरित्यस्यापवादः। अद्विरुक्तेत्युक्तत्वात्। ' ( तत्त्वदी० )--स्वरादरिति सस्वर आदिरित्यस्यापवादः॥अद्विरुक्तइति ॥तेन इयाजेत्यादौ नातिप्रसंगः ॥ ( स्वरात्पराः सयोग दयो नदरा द्विर्न ) ऊर्जुनाव, ऊर्जुनुवतुः॥ (सुबोधिनी)- स्वरात्परः संयोगादयो नदरा द्विर्न ॥ संयोगस्यादयः संयोगादयो नकारदकाररकारास्तषां द्वित्वं नेत्यर्थः ॥ यथा । उन्दी । उन्दिदिषति । इन्दि । इन्दिदिषति । अड्ड । अड्डिडिपति । अर्च । अचिचिषति ॥ इयायेत्यादौ नातिप्रसंगः ॥ (तत्त्वदी० )-आद्योचारणनवार एव णत्वं तु मर्न इत्यनेन विधीयते तेन नुशब्दस्य द्वित्वम्। ( ऊर्णोतरिडादिप्रत्ययो वा ङित् ) ऊर्णनुविथ-ऊर्णनविथ । ऊर्णविता-ऊर्णविता । ऊोतेर्वा वृद्धिः सौ पे । पक्षे वा गुणः। और्णावीत्, और्णाविष्टाम् । और्णवीत्,-और्णवीत्, और्णविष्टाम् । और्णविष्ट-और्णविष्ट ॥ इयदादयः॥ Page #108 -------------------------------------------------------------------------- ________________ (८८) सिद्धान्तचन्द्रिका । [ आख्याते ह्वादयः ] (सुबोधिनी)--उर्णोतेरिडादिप्रत्ययो वा डित ॥ ङित्त्वपक्षे तु नुधातोरित्युत् । ऊर्णनुविथ । पक्षे गुणः । ऊर्जुनविथ । और्णावीन्-और्णवीत्-और्णवीत् ॥ इत्यात्पे ॥ ॥ इति सुबोधिन्यामदादयः ॥ (तत्त्वदी० )-कृतायामिह टीकायां लोकेशकरशर्मणा । गणऽदादिरगादेष शेषभाषितपृष्ठगः॥ इति तत्त्वदीपिकायामदादयः ॥ २ ॥ % 3D अथ ह्वादयः । हु दानादनयोः। ह्वादेर्दिश्च ॥ त्यादेरुत्पत्रस्यापो लुक् धातोश्च द्वित्वम् ॥ जुहोति, जुहुतः॥ (सुबोधिनी) हु दानादनयोः॥ आदाने चेत्येके । प्रीणनेऽपीति भाष्यम् । दानं चेह प्रक्षेपः ॥ हादेश्चि ॥ हु आदिर्यस्य स हा देस्तस्य द्वादेः।अदादेरित्यतो लुगित्यनुवृत्तं सप्तम्या विपरिणम्यते द्वादेरिति कर्मणि पो । उच्चारणक्रियायाः कर्मत्वात् । तथा च लुकि सति ह्वादिििदवारमुच्चारणीय इति फलितम् । द्विः प्रयोगो द्विवचनमिति सिद्धान्तः ॥ __(तत्त्वदी०)-हु दानादनयोगदानमिह प्रक्षेपमात्रम्। अग्नौ हविषश्चेति स्वभावालभ्यते। अस्य च नित्यपरस्मैपदित्वात् कुत्रचिरोष्यत इत्यादिप्रयोगाः प्रासादिका एव । 'स्मराग्नौ जुह्वाना' इत्यत्र न शानः किंतु आनशप्रत्ययान्तम् ॥ हादेः॥हु आदियम्प स तथा तस्य । द्वौ वाराविति द्विः । योग्यतयेहोचारणक्रिया लभ्यते । तदावृत्तौ द्विशब्दात्सुः । लुगित्यनुवृत्तं सप्तम्या विपरिणम्यते। तस्मिन्सतीत्यर्थः ॥ द्वः ॥ द्विरुक्तात्परस्यान्तोऽत् ॥ जुह्वति । जुहोषि, जुहथः, जुहुथ । जुहोमि, जुहुवः, जुहुमः । जुहुयात् ।। (सुबोधिनी)-द्वेः॥ द्वेः किम् । युवन्ति । हुन्वोरिति वः जुह्वति ॥ (तत्त्वदी०) द्वः॥ द्विवचनमस्यास्तीति विग्रहे मत्वर्शयः प्रत्ययोऽव्ययस्य तद्धिते यस्वरयोष्टिलोपश्चास्मादेव लिङ्गात् द्विस्तस्मात् । अन्तोऽन्त् इति द्वयमप्यनुवृत्तम् ॥ (जुहोतर्हेधिः) जुहुधि । अजुहोत् ॥ (सुबोधिनी) जुहोतेधिः ॥ जुहोतेः परस्य हेर्धि: स्यात् ॥ लोडुत्तमे तु परत्वाद् गुणः । जुहवानि ॥ अन उस ॥ द्विरुक्तादन उम् ॥ उसि गुणः॥ अजुहवुः। जुहाव । (सुबोधिनी)- अन उम् ॥ रित्यनुवृत्तम् । परत्वादुसि चेति गुणः । अजुहवुः । (तत्त्वदी०)-अन उम् ॥ द्वरित्यनुवृत्तेराह-द्विरुक्ता दिति ॥ Page #109 -------------------------------------------------------------------------- ________________ [ आख्याते हादयः ] टीकाद्वयोपेता। (८९) (भीतीभृहुवामाम्वा स च लुग्वत् ) जुहवांचकार। ये।हूयात् । होता। होष्यति । अहौषीत। जिभी भये । बिभेति ॥ __ (सुबोधिनी)-भीहीभृहुवामाम्वा स च लुग्वत् ॥ एभ्यश्चतुभ्यो वाम प्रत्ययो भवति लिटि स चाम् लुग्वत् ॥ कार्यातिदेशोऽयम् । तेन लुकि सति यत्कार्य द्वित्वादि तदामि परेऽपि भवतीत्यर्थः । जुहवांचकार।पक्षे जुहाव। ये इति दीर्घः। हूयात्। होता। होष्यति । अहोष्यत् । धातोर्नामिन इति वृद्धिः । अहौषीत् ॥ (डिति हसे भीहाकोग्द्विा) बिभीतः--बिभितः, बिभ्यति । बिभीयात्-बिभियात् । बिभेतु-विभतिात्-बिभितात् । अबिभयुः। बिभयांचकार-बिभाय । अभेषीत् ॥ ही लज्जायाम् । जिद्वेति । अजिहृयुः। जिह्रयांचकार-जिह्वाय । ह्रीयात् । दूता। अद्वैषीत् ॥पू पालनपूरणयोः ॥ (सुबोधिनी)-ङिति हसे माहाकोरिद्वा ॥ अनयोः स्वरस्य वेकारो भवति ङिति हसे परे ॥ ऋपोरिः पूर्वस्य ॥ ऋोः पूर्वस्यात इत् लुकि ॥ पिपर्ति ॥ ( सुबोधिनी)-ऋप्रोरिः पूर्वस्य॥ ऋ गतौ।प पालनादौ गुणे कृते । पिपति ।। पोरुर ॥ पवर्गात् वकागच्च ऋत उर् अगुणवृद्धिविषये । य्वोर्वि हसे । पिपूर्तः, पिपुरति । पिपूर्यात् । पिपर्तु-पिपूर्तात्, पिपूर्ताम्, पिपुरतु । दिस्योर्हसात् । अपिपः । पपार, पपरतुः । पपरिथ । पूर्यात् । परिता-परतिा। परिष्यति-परीष्यति । अपारीत् ॥ पृपालनपूरणयोः । पिपर्ति, पिपृतः, पिप्रति । पिपृयात् । पिपर्तुपिपृतात्, पिपृताम्, पिप्रतु । पिपृहि-पिपृतात् । पिपृतम्, पिपृत । पिपराणि, पिपराव, पिपराम । अपिपः, अपिताम् । पपार, पप्रतुः, पाः। पपर्थ । प्रियात् । पता । परिष्यति । अपरिष्यत् । अपार्षीत, अपार्टीम् ॥ ओहाक त्यागे । जहाति ॥ (सुबोधिनी)-पोरुर ॥ पर्गात् वकारादुत्तरस्य ऋत उर् अगुणवृद्धिविषये ।। यथा वुवूर्षति । य्योर्वि हसे इति दीर्घः। पिपूर्तः। द्वेरित्यन्तोऽत्। पिपुरति । दिस्योरिति दिपसिपोलकाअपिपः।उसि तुगुणः।अपिपरुः। ऋसंयोगादित्यकित्वाणः । पपरतुः । वृबृञिति वेटो दीर्घः। परिता-परीता॥ (तत्त्वदी०)-पोरुर॥ धात्वव पवात्पवर्गादिति बोव्यम्। तेन समीर्णमित्यादौ नातिप्रसंगः । Page #110 -------------------------------------------------------------------------- ________________ (९०) सिद्धान्तचन्द्रिका | [ आख्याते ह्रादयः ] स्तौ ॥ द्वरुक्तस्य धातोरातो लोपो ङिति स्वरे ईकारश्च ङिति इसे ॥ जहितः- जहतिः । जहति ॥ (हाको यादादावालोपः) जह्यात् ॥ (सुबोधिनी) - ॥ द्वौ वाराविति द्विरुच्चारणे सुप्रत्ययः । द्विरकारि इति ञिर्डित्करणे इति ञिः । ञौ स्वन्तस्य टिलोपः । औणादिके इप्रत्यये ञिलोपः । अत्रानुवृत्त्यैव ईलोपयोलभेऽपि अनन्तरत्वादीकारस्यैव ग्रहणं मा भूदित्येतदर्थं तावित्युक्तम् ॥ ननु तर्हि द्वेश्चोत पाठ्यम् अनन्तरत्वादीश्वालोपोऽनुवर्तताम् । एवं ङिति हसे लोपः । ङिति स्वरे ईरिति विपर्ययस्यापि संभवात् । तावित्युक्ते तु नातः ईहसे अनयोर्यादृशौ दृष्टौ तावेवास्तइति न दोषः । पक्षे भीहाकोरिति इत्वम् । जाहितः । हाको यादादावालोपः । (तत्त्वदी ० ) - स्तौ ॥ देरित्यस्य पूर्ववत्प्रक्रिया | अनुवृत्त्यैव: इलोपयोर्लाभेऽपि अन्तरत्वादीकारस्यैव ग्रहणे मा भूदित्येतदर्थं तावित्युक्तम्॥ ओमरितो लोपः । ई हसे इत्यत ईकारस्तस्य ह इत्यनेन योगाद्धसे ईकारः । परिशेषात्स्वरे लोपः ॥ ईर्वाह ॥ जहातेर्हो परे इकार ईकारश्च वा । जहिहि - जहीहि-जहा - हिं । अजहात्, अजहिताम्- अजहीताम् अजहुः । जहौ । दादेरे । हेयात् । अहासीत् ॥ ऋ गतौ । असवर्णे स्वरे इय् ॥ इयर्ति, इयृतः, इयरति । इयृयात् । इयर्तु । ऐयः, ऐमृताम्, ऐयरुः । आर, आरतुः आरुः । अत्यर्तिव्ययतीनामितीट् ॥ आरिथ । आरत् ॥ सृ गतौ । सति । ससर्थ । स्त्रियात् । असरत् ॥ इति पम् ॥ (सुबोधिनी) - ईर्वा हौ ॥ जहातेर्हो परे इत्वमीत्वमात्वं च भवति । अत एव भट्टि प्रायुङ्क्त । 'जहिहि जहीहि जहाहि रामभार्याम्' इति ॥ दादेरित्येत्वम् । हेयात् । यामरमिनमातामितीट्सकौ । अहासीत् । ऋमोरीत पूर्वस्येत्वम् । असवर्णे स्वरे इतीय् । इयात् । लङि अडागमो दिस्यांोरीत दिपूसिपोर्लोपः । ऐयः । उसि तु गुणः । ऐयरुः । अत्त्यर्तिव्ययतीनामिति थपि नित्यमिट् । आरिथ । आशिषि गुणोऽतीति गुणः । अर्यात् । हन्त इतीट् । आरष्यति । सर्तिशास्त्यर्तिभ्य इति ङः । ऋवर्णदृशोरिति गुणः । आरत्, आरताम्, आरन् ॥ इति सुबोधिन्यां परस्मैपदम् ॥ ( तत्त्वदी ० ) - ईर्वा हौ ॥ ई इरिति छेदः, तयोरभावपक्षे आकारः स्थित एव ॥ कृतायामिह टीकायां लोकेशकरशर्मणा । अगमद्ध्वादिमध्यस्थपरस्मैपदसाधनम् ॥ इति तचदीपिकायां परस्मैपदम् ॥ Page #111 -------------------------------------------------------------------------- ________________ [आख्याते ह्वादयः ] टीकाद्वयोपेता। ओहाङ् गतौ । भृञां लुकि ॥ डुभृहाङ्माङो पूर्वस्यात इत् लुकि ॥ जिहीते, जिहाते, जिहते । जहे । अहास्त ॥ माङ माने ।' मिमीते । ममे । अमास्त ॥ इत्यात् ॥ __ (सुबोधिनी)-भृञां लुकि।बहुवचनेन डुभहाङ्माङामिति त्रयाणां ग्रहणम् । द्धरित्यन्तोऽत् । जिहते । आतोऽनपीत्यालोपः। जहे, जहाते॥इति सुबोधिन्यामात्मनेपदम् ॥ (तत्त्वदी०)-भृञामिति॥ कपिञ्जलाधिकरणन्यायेन धातुत्रयमेव लभ्यत इत्याह--दुभृञ्हाङ्माङामिति ॥ कृतायामिह टीकायां लोकेशकरशर्मणा। अगमद्ध्वादिमध्यस्थमात्मनेपदसाधनम् ॥ ___ इति तत्त्वदीपिकायामात्मनेपदम् ॥ डुभृञ् धारणपोषणयोः। बिभर्ति, बिभृतः, बिभ्रति । बिभृयात् । बिभर्तु । अबिभः । बिभरांचकार । बभर्थ । बभृव । बभ्रे । बभृम । बभृट्वे । भृषीष्ट । अभार्षीत् । अभृत॥ डुदाज दाने । ददाति ॥ (सुबोधिनी)-डुभृञ् धारणपोषणयोः ॥ ड्वितंत्रिमक इति त्रिमक । भृत्रिमम् । भृञां लुकि इति पूर्वस्येत्वम् । विभात । विभृते । विभृयात् । विभ्रीत । बिभर्तु, बभूताम् ।दिस्योरिति दिसिपोर्लोपः। अविभः । उसि तु गुणः ।अबिभरुः। आविभृत । भीहीभृहुवामामिति वाम् । बिभरांचकार । बिभरांचक्रे । पक्षे बभार । बभ्रे । यादादौ इति रिङ् । भ्रियात् । उरिति न गुणः । भृषीष्ट भाहिन्नृत इतीड्। भरिष्यते।अभरिष्यत् । अभरिष्यत । धातोर्नामिन इति वृद्धिः। अभार्षीत् । लोपो ह्रस्वादिति सिलोपः। अभृत ॥ (तत्त्वदी०)-डुभृमिति । वितस्त्रिमगर्थो डुः ॥ दादेः ।। द्विरुक्तानामपिदाधामातो लोपो डिति ॥ दत्तः, ददति । दत्ते । ददातु ॥ (सुबोधिनी)दादेः॥रित्यनुवृत्तम्।देस्तौ इत्यस्यापवादो येन नाप्राप्तिन्यायात् । (तत्त्वदी०)-दादेरिति ॥ द्वेस्तावित्यस्यापवादो येन नाप्राप्तिन्यायात् ॥ दां हौ ॥ अपिदाधामेत्वं पूर्वस्य च लोपो हो॥ देहि । अददात् । ददौ । ददिथ-ददाथ । देयात् । अदात् । अदित, अदिषाताम् ॥ दुधाचूधारणपोषणयोः । दधाति ॥ (सुबोधिनी)-दां हो॥बहुवचनेन धाजो ग्रहणम् । लिटि आतो णबित्यौकारः । ददौ । आतोऽनपीत्यालोपः । ददे । दादेरिस्येत्वम् । देयात् । दादेः पे इति सेलृक् । Page #112 -------------------------------------------------------------------------- ________________ (९२) सिद्धान्तचन्द्रिका। [ आख्याते ह्रादयः ] अदात् । आति तु अपिदाधास्थामितीत्वम् । लोपो हस्वादिति सिलोपः । अदिति।। डुधाञ् धारणपोषणयोः । दानेऽपीत्येके ॥ (तत्त्वदी०)-दामिति बहुवचनेन दारूपाणां ग्रहणं धाग्रहणं च ॥ . पूर्वस्य ङिति झसे धः ॥धाञः पूर्वस्य दकारस्य धो भवति डिति झसे परे ॥ धत्तः, दधति । धत्ते । धेहि । अधात् । धेयात् । "अधित, अधिषाताम् ॥ णिजिर शौचपोषणयोः॥ (सुबोधिनी)-पूर्वस्य ङिति झसे धः॥धाञ्धातोरेवेत्यर्थः॥ङिति झसे किम्। दधाति । दधति । दादरित्यालोप तथोर्ध इति धत्वं न दधातर्नेत्युक्तत्वात् । धत्तः । धत्ते । दादेरित्यालोपः। दध्यात् । दधीत । दधातु । धत्ताम् । अदधात् । अधत्त । दधौ । दधे । धेयात् । धासीष्ट । धाता । धास्यति । धास्यते । अधास्यत् । अधास्यत । दादेः पे इति सिलोपे । अधात् । अपिदास्थामितीत्वम् । अधित ॥ (तत्त्वदी०) धत्त इति॥तथोध इत्यत्र वावसान इत्यतो वानुवृत्तर्व्यवस्थया तस्य धत्वाभावः । निजां गणः॥ णिजिविजिविषां पूर्वस्य गुणो लुकि ॥ नेनेक्ति, नेनिक्तः, नेनिजति । नेनेक्षि । ननिक्ते । नेनिज्यात् । नेनेक्तु । ननिग्धि ॥ (सुबोधिनी)-निजां गुणः॥ बहुवचनमाद्यर्थम् । बहुवचनेन त्रयाणां ग्रहणम् । णिजिर शौचपोषणयोः। विजिर पृथगभावे । विश्ल व्याप्तौ । । एषां पूर्वस्य गुणो लुकि॥ द्वेः स्वरेऽपि नोपधागुणः॥ द्विरुक्तस्य धातोगविषये स्वरे परे उपधाया गुणो न ॥ नेनिजानि । अनेनेक्-अनेनेग् । निनिजिषे । निनेज । निनिजे । निक्षीष्ट । अनिजत्-अनैक्षीत् , अनैक्ताम् । अनिक्त ॥ विजिर् पृथग्भावे । वेवेक्ति । विवेजिथ । विक्षीष्ट । अविजत्-अवैक्षीत् । अविक्त ॥ विष्ल व्याप्ती । वेवेष्टि । विविाषीध्वे । विक्षीष्ट । अविषत् । तनि हशबान्तात्सक् । अविक्षत, अविक्षाताम्, अविक्षन्त ॥ इत्युभयपदप्रक्रिया ॥ इति हादयः॥ (सुबोधिनी)-द्वेः स्वरेऽपि नोपधागुणः॥ द्विरुक्तस्य धातोरुपधाया गुणो न चतुषु पिति स्वरे ॥ द्विरुक्तस्य किम् । देषाणि । स्वरे किम् । वेवेष्टि ॥ चतुर्पा किम् । निनिज ॥ नेनेक्ति । नेनिक्त।नेनिज्यात् । नेनिजीत ।नेनेक्तु । नेनिक्ताम्। दिस्योरिति दिसिपोर्लोपः । अनेनेक् । अन ऊसि अनेनिजुः । अनेनिक्त । निनेज । निनिजे । 'निज्यात् । सिस्योरिति न गुणः। निक्षीष्ट । नेक्ता । नेक्ष्यति । नेक्ष्यते । अनेक्ष्यत् । अनेक्ष्यत । इरितो वेति वा ङः । अनिजत् । अनिटोनामीति वृद्धिः। अनैक्षीत् । Page #113 -------------------------------------------------------------------------- ________________ [ आख्याते दिवादयः ] टीकाद्वयोपेता । आत तु । झसादिति सिलोपः । अनिक्त, अनिक्षाताम् ॥ विजिर पृथग्भावे । विवेजिथ । अत्र विजेरिडादिप्रत्यय इति ङित्त्वं न । ओविजी भयचलनयोरित्यस्यैव तत्र ग्रहणात् । णिजिविजी रुधादावपि ॥ विष्ल व्याप्तौ । व्याप्तिः कात्य॑म् । लित्पुषादरिति ङः । अविषत् । आति तु । हशषान्तादिति सक् । षढोरिति कः । अविक्षत । आति सको लोपः स्वरे इति अल्लोपः । अविक्षाताम्, अविक्षन्त ॥ इत्यात्पे ॥ इति सुबोधिन्यां ह्वादयः॥ (तत्त्वदी० )-कृतायामिह टीकायां लोकेशकरशर्मणा । संक्षिप्तो बालबोधार्थं जुहोत्यादिगणोऽगमत् ॥ इति तत्त्वदीपिकायां हादयः ॥ ३ ॥ अथ दिवादयः । दिवु क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिषु॥ दिवादेर्यः ॥ कर्तरि चतुषु । अपोऽपवादः ॥ य्वोर्वि हसे ॥ दीव्यति । दीव्येत् । दिदेव । दीव्यात् । अदेवीत् ॥ षिवु तन्तुसंताने। सीव्यात । (सिवादेरव्यवाये वा षः ) न्यषेवीत् ॥ न्यसेवीत् ॥ नितु गतिशोषणयोः । स्त्रीव्यति । सिस्नेव ॥ ष्ठिवु निरसने । ष्ठीव्यति ॥ ष्णुसु अदनादानदर्शनेषु । सुष्णोस ॥ ष्णसु निरसने । स्नस्यति ॥ क्नसु कौटिल्ये दीप्तौ च । चक्नसिथ । अक्नासीत्। अक्नसीत् ॥ व्युषु प्लुषु दाहे । व्युव्योष ॥ नृती गात्रप्रक्षेपे । नृत्यति । ननर्त ॥ (सुबोधिनी)-दिवु क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिषु ॥उदित्करणं क्त्वाप्रत्यये इड्विकल्पार्थ क्तक्तवत्वोरनिडर्थच। क्ङिति झसे क्वौ जमे चेत्यूः। द्यूत्वा-देवित्वा । द्यूतेन दीव्यन्ति माणवकाः क्रीडन्तीत्यर्थः। शत्रु दीव्यात विजिगीषतीत्यर्थः । कान्तिरिच्छा, द्युतेः पृथग्ग्रहणात्। दिवादेर्यः । दिव आदिर्यस्य स दिवादिः तस्माद्यप्रत्ययः स्यात् कर्बर्थेषु चतुर्यु परतः। वोरिति दीर्घः। दीव्यति ॥ पिवु तन्तुसंताने । आदेः ष्णः स्न इति सः। सीव्यति । सिवादेरड्व्यवाये वा षः। उपसर्गस्थानिमित्तात्परस्य सिवादेः सस्याव्यवधाने वा षः स्यात् ॥ प्रादेश्चेत्यत्र सिवादिरुक्तः॥ नृती गात्रविक्षेपे । नर्तने इत्यर्थः । ईदित्करणमादीदित इत्यनेन क्तक्तवत्वोरिणनिषेधार्थम् । यद्यपि नृततृदेतीटो विकल्पितत्वात् क्वचिद्वेट् इत्यनेनैवेष्टं सिद्धयति तथापि क्वचिद्धेट इति सूत्रस्यनित्यत्वज्ञापनार्थमीदिकरणम् । तेन धावु गतिशुद्धयोरित्यस्मात् क्तप्रत्यये इटि च 'धावितमिभराजधिया' इत्यादि सिद्धम् ॥ Inel Page #114 -------------------------------------------------------------------------- ________________ (९४) सिद्धान्तचन्द्रिका । [आख्याते दिवादयः ] - (तत्त्वदी०)-दिवु ॥-व्यवहारः यादिः । उकारः क्तप्रत्यये इड्किल्पार्थः॥ दिवादेर्यः 'दिव आदिर्यस्य स तथा तस्मात् ॥ अपोऽपवाद इति। अपो गणविशेषाकाङ्क्षाभावात्प्राप्तेः॥ दीव्यतीति ॥ यप्रत्ययस्य ङित्त्वाद् गुणो न ॥ .. (नृततृदछदचूतकृद्भूयोऽसेः सादेरिडा) नर्तिष्यति-नर्त्यति। अनीत् ॥ त्रसी उद्वेगे। भ्राशभ्लाशेति वा यः। त्रस्यति-त्रसति । तत्रास, तत्रसतुः॥ कुथ पूतीभावे । कुथ्यति । चुकोथ-चुकोथिथ ॥पुथ हिंसायाम् । पुथ्यति । अपोथीत् ॥ गुध परिवेष्टने । गुध्यति । अगोधीत् ॥ क्षिप प्रेरणे । क्षिप्यति । क्षेप्ता । अप्सीत् ॥ पुष्प विकसने । पुष्प्यति ॥ पुपुष्प ॥ तिम् तीम् ष्टिम् ष्टीम् आर्दीभावे । तिम्यति । तीम्यति । तितेम । तिष्टीम ॥ ब्रीडलज्जायाम् । वीडयति । विव्रीडा इष गतौ । इष्यति । इयेष । ईषतुः। एषिता । ऐषीत् ॥ षह षुह तृप्तौ । सह्यति । ससाह, सेहतुः, सेहुः । असहीत् । सुह्यति ॥ जृषिर् झुष् वयोहानौ । जीर्यति । जजरतु:-जेरतुः । जीर्यात् । जरिता-जरीता। ऋवर्णदृशोरित्यनेन गुणः । अजरत्-अजारीत् 1 झीर्यति । जझरतुः। अझारीत् ॥ शो तनूकरणे ॥ us .... ( सुबोधिनी)--नृततृदछुदतृतकृद्भयोऽसेः सादेरिडा॥एभ्यः परस्य सिभिनस्य-सादेः प्रत्ययस्येडा स्यात् ॥ उतृदिर हिंसानादरयोः। उछृदिर दीप्तिदेवनयोः। कृती छेदने । असेरित्युक्तत्वादिह नित्यमिट् । अनीत् । सप्रत्यये निनर्तिपति-निनृत्सति । भ्राशभ्लाशति वा यः। त्रस्यति-त्रसति ।फणराज इत्येवपूर्वलोपौ । त्रसतुः । अतो हसादेरिति वा वृद्धिः । अत्रासीत्--अत्रसीत् ॥ कुथ पूतीभावे । पूतीभावः पवित्रभवनम् । कुथ्यति भूमिः पवित्रीभवतीत्यर्थः । पुष्प विकसने । षान्तोऽयम् । शतृप्रत्यये पुष्प्यन् । पचाद्यप्रत्यये पुष्पम् । संज्ञायां कप्रत्यये पुष्पकम् ॥ व्रीड चोदने लज्जायां च । चोदनं प्रेरणम् । गुरोर्हसादित्यप्रत्यये आवत इत्याप् । ब्रीडा । घनि तु वीडः । अत एव 'ब्रीडादिवाभ्यासगतैर्विलिल्ये' इति माघः ॥ 'व्रीडमावहति मे स संपति' इति कालिदासः॥ षह षुह तृप्तौ । तृप्तिस्तर्पणम् । इषुसहेतीविकल्पस्त्वस्य न भवति सहेत्यपा निर्देशात् । नपुंसके भावे क्तप्रत्यये सुहितं तृप्तिः।।जृषिर झष् वयोहानौ । पित्त्वात षिद्भिदामित्यङ्प्रत्यये जरा । ऋत इर् इतीर । वोरिति दीर्घजीर्यति।ऋसंयोगाण्णादिरित्यकित्त्वाद्गुणे कृते शशददेति गुणशब्देन भावितस्य निषेधालोपःपचामित्यस्याप्रवृत्तौ फणराज इत्येत्वपूर्वलोपविकल्पोजेरतुःजजरतुः । वृद्धृऋदन्तानामिति वा दीर्घाजरिता-जरीता । इरितो वेति वा ङः। ऋवर्णदृशोरितिगुणः।अजरत् पक्षेणित्पे इति णित्त्वाद्धातोर्नामिन इतिवृद्धिः अजारीत्॥ Page #115 -------------------------------------------------------------------------- ________________ [ आख्याते दिवादयः ] टीकाद्वयोपेता । (९५) . (तत्त्वदी०)--नृतेति ॥ उतृदिर् हिंसानादरयोः । उच्छृदिर् दीप्तिदेवनयोः। त्रस्पति । प्राशे'ति वा यः । पक्षेऽ । पुष्प विकसने। पान्तः । 'तया नभः पुष्प्यतु कोरकेण" इति श्रीहर्षः।।बीड ॥ 'ब्रीडादिवाभ्यासगतैर्विलिल्ये' इत्यत्र घ । 'मन्दाक्षं हीस्त्रपा ब्रीडा' इत्यत्र गुरोश्चेत्यः ॥ षह । अत्रेषुसहेतीडिकल्पः कस्यचिन्मते न भवति, अबन्तनिर्देशाद्भौवादिकस्यैव तत्र ग्रहणात । महान्तस्तु विकल्पं मन्यन्ते अकारस्योचारणाथत्वात्।। ऋषिर ॥ षकारो जरेत्यत्रार्थः । अजरत् । ऋवर्णदृशोरिति गुणः ॥ ___य्योः॥ यत्प्रत्यये परे धातोरोतो लोपः ॥ श्यति । शशौ ।। शाता । अशात्--अशासीत् ॥ छो छेदने । छयति । अच्छात्-- अच्छासीत् ॥ षो अन्तकर्मणि । स्यति । सेयात् । असात्-असासीत् ॥ दो अवखण्डने । यति । देयात् । अदात् ॥ राध साध संसिद्धौ ॥ । (सुबोधिनी)-य्योः॥ यि ओरिति च्छेदःोधातोरोतो लोपः स्यात् दिवादिविकरणे ये परे ॥ तेन लव्यमित्यादौ न । शाछेति वा सेर्छक । अशात् । लुगभावे यमिरमीतीट्सकौ । अशासीत् ॥ षोऽन्तकर्मणि । अन्तकर्म नाशः । दादरे इत्येत्वम् । सेयात् । 'राधवस्य शरै||रं रावणमाहवे'इत्यत्र राघवेति संबोधनम् । स्येति लोटो मध्यमस्यैकवचनान्तम् ॥दादेरित्येत्वम् ।देयात् । उपसर्गस्थानिमित्तान्नेरिति णत्वम् । प्रणिदाता। 'दादें: पे' इति सिलुक । अदात् ॥ ___ तत्त्वदी०)-य्योः ॥ यि ओरिति च्छेदः । विकरणप्रकरणत्वाद् दिवादेर्य इति विहित एवं गृह्यते न त्वन्यः । तेन लव्यमित्यादौ नातिप्रसंगः ॥ षो ॥ अन्तकर्म नाशः ।। . (राधोऽकर्मकादेव यः) राध्यति । रराधिथ । राद्धा।रात्स्यति। अरात्सीत् ॥ व्यध ताडने । ग्रहां क्ङिति च । विध्यति । विव्याध । विविधतुः। विव्यधिथ-विव्यद्ध । व्यद्धा । अव्यात्सीत् ॥ पुष पुष्टौ । पुष्यति । पुपोषिथ । पोष्टा । पोक्ष्यति । पुषादित्वात् ङः । अपुषत् ॥ शुष शोषणे । शोष्टा । शोक्ष्यति । अशुषत् ॥ तुष तुष्टौ। तोष्टा । तोक्ष्यति । अतुषत् ॥ दुष वैकृत्ये । दोष्टा । अदुषत् ॥ श्लिष आलिङ्गने । श्लेष्टा॥ सुप्रील २४ (सुबोधिनी)-राधोऽकर्मकादेव यः ॥ अकर्मकाद्राधेर्यप्रत्ययः स्यात् सकमकात्तु न। 'यन्मह्यमपराध्याति' द्रुह्यतीत्यर्थः । 'विराध्यन्तं क्षमेत कः' दुह्यन्तमित्यर्थः । राद्धयत्योदनः सिध्यतीत्यर्थः॥ अकर्मकात् किम् । शत्रुमपरानोति हिनस्तीत्यर्थः। राध संसिद्धौ हिंसायां च स्वादिश्चुरादिश्चायम् । राधो हिंसायामित्यनेनैत्वपूर्वलोपाविह न हिंसार्थकस्य सकर्मकतया दैवाकित्वाऽयोगात् ॥ ग्रहामिति संप्रसारणम् । विध्यात । लित्पुषादेरिति ङः। अपुषात् ॥ षढोरीित कत्वं षत्वं च । शोक्ष्यति ॥ Page #116 -------------------------------------------------------------------------- ________________ (९६) सिद्धान्तचन्द्रिका। [ आख्याते दिवादयः ] (आलिङ्गने श्लिषे सक् ङाऽपवादः) अश्निक्षत्कन्यां चैत्राअनालिङ्गिते तु समाश्लिषज्जतु काष्ठम् ॥ विदा गात्रप्रक्षरणे । स्वेत्ता । अस्विदत् ॥ क्रुध क्रोधे । क्रोद्धा । अक्रुधत् ॥ क्षुध बुभुक्षायाम् । क्षोद्धा। अक्षुधत् ॥ शुध शौचे। शोद्धा । अशुधत् ॥ षि संराद्धौ । सेद्धा। असिधत् ॥ रध हिंसायां च । रध्यति । ररन्ध, ररन्धतुः ।ररन्धिथररद्ध । ररन्धिव-रेव । ररन्धिम-रेम ॥ (सबोधिनी)-आलिङ्गने श्लिषेः सक् ङाऽपवादः॥अनिटःश्लिषः सक् प्रत्ययः स्यात् आलिङ्गनेऽर्थे । नान्यत्र। प्राणिकर्तृकमुपगृहनमालिङ्गनम् । लित्पुषांदरित्यस्यापवादः ॥ अनिटः किम् । श्लिष दाहे इति सेटो भावाादिकस्य मा भूत् । अश्लेषीत् । इशषान्तादिति सकि सिद्धे पुनः सको विधानं नियमार्थग । तेन कर्मणि आतांप्रभृतिषु परतोनालिङ्गने सिरेव न तु सकू । यथा इणतनीती । । अश्लेषि, अश्लिक्षाताम्, आश्लिक्षत। आश्लष्ठाः, आश्लिक्षाथाम्, आश्लडढ़म् ।आश्लिक्षि आश्लिक्ष्वहि,अश्लिक्ष्माहि।। विदा गात्रप्रक्षरणे । गात्रप्रक्षरणं धर्मस्नुतिः । जीदिति न्यासकारः। नेति हरदत्तः । जीतां तक वर्तमानेऽपति तक। आदीदित इति नेद् । स्विन्नः। भावे कतरि चादित इतीड़ वारास्विन्नम्-स्वेदितम्॥क्षुध बुभुक्षायाम् । भोक्तुमिच्छा बुभुक्षा । अनिडयम् । कथं तहि क्षुधित इति । विबन्तादितो जातार्थे इतीतप्रत्यय इति माधवः ॥ वस्तुतस्तु वसिक्षुध्योरिडात वक्ष्यते ॥ पिधु संरादौ । संगाद्धीन तिः । उदितः क्त्वा वात क्त्वाप्रत्यये इड्विकल्पः । सिद्धा । इटपक्षे इवोवोंपधा सादारीत वा कित्त्वम् । सेधित्वा-सिधित्वा ॥ रधिजभोः स्वरे इति नुम् । ररन्ध । नुम कृते सयागात् परत्वेना. कित्त्वात् नलोपो न । ररन्धतुः । स्वरात सूतीति सूत्रे रध द्यष्टकोऽन्तर्गणो ज्ञेयः । तेन गणनिर्दिष्टत्वाद्यङ्लुकि न वेट् । राराधिता । स्वरतीति वे: । ररान्धिथ-रद्ध । लोपः पचामित्येत्वपूर्वलोपौ । रध्व । इट्पक्षे ररन्धिव ॥ ___ (तत्त्वदी०)-अनालिङ्गने त्विति ॥ आलिङ्गनं प्रागकर्तृकमुपगृहनम् ॥ पिधु ।। उदितो वेति वेटकत्वार्थ उः । संराद्धिनिष्पत्तिः ॥ रध हिंसायां चेति । चात्संराद्धावित्यर्थः ।। ररान्धवति ॥ नित्यत्वान्नुमि संयोगात् कित्त्वाभावे नलोपो न । (लिर्जिते इटि रधेर्नम्न ) रधिता-रद्धा रधिष्यति--रत्स्यति। अरधत् ॥णश् अदर्शने । नश्यति । ननाश । शतुः। नेशिथ ॥ (सुबोधिनी)-लिड्वर्जिते इटि रधेर्नुम्न ॥रधेर्नुन स्यात् इटि परे । लिट् संबन्धिनीटि तु नुम् स्यादेव ॥ इटि किम् । रन्धकः॥ लिन्पुषादेरिति ङः । नुम् । 'नो लोपः' इति नस्य लोपः । अरधत् ॥ Page #117 -------------------------------------------------------------------------- ________________ [ आख्याते दिवादयः ] टीकाद्वयोपेता। (९७) (मस्जिनशोझसे नुम् ) ननंष्ठ । नेशिव-नेश्व, नेशिम-नश्म. नशिता-नंष्टा । नशिष्यति-नक्ष्यति । अनशत् ॥ तृपू प्रीणने । तृप्यति । ततर्पिथ-तत्रप्थ-ततर्थ । तर्पिता-त्रता-तप्र्ता । तर्पिष्यति त्रप्स्यति--तप्य॑ति । अतृपत्-अतीत्-अत्राप्सीत्-अताप्सीत् ॥ दृप् हर्षगर्वयोः । दृप्यति । अद्राप्सीत्-अपत् ॥ द्रुह जिघांसायाम् । दुद्रोहिथ--दुद्रोढ-दुद्राग्ध । दुद्रुहिव-दुदुह्व, दुद्रुहिम-दुद्रुह्म । द्रोहिता-द्रोग्धा-द्रोढा । द्रोहिष्यति-ध्रोक्ष्यति । अद्रुहत् ॥ मुह वैचित्य । मुह्यति । मुमोहिथ-मुमोढ-मुमोग्ध ॥ ष्णुह उद्दिरणे । स्नुह्यति । सुष्णोहिथ-सुष्णोढ-सुष्णोग्ध ॥ निह प्रीतौ । सिष्णे: हिथ-सिष्णेढ-सिष्णेग्ध ॥ शमु उपशमे ॥ ( सुबोधिनी)-मस्जिनशोझसे नुम् ॥ अनयोर्नुम् स्यात् झसे परे ॥ टुमस्जो शुद्धौ । णश अदर्शने । छशषेति षत्वम्।ष्टुत्वम् । ननंष्ठ । नशोरिति कत्वमिह कर्तुं न शंक्यं पदान्त एव तद्विधानात् । अन्यथा नष्टं नष्टिरित्यादि न सिध्यति॥तृप् प्रीणने । प्रीणनं तृप्तिस्तर्पणं च । 'नाग्निस्तृप्यति काष्ठानाम्। करणस्य संबन्धविवक्षायां षष्ठी। पितृन् अतार्सीत् इत्युभयत्र दर्शनात्। स्वरतीति वेट् । ततर्पिथ । कृशादीनामिति वा रततर्पथ तत्रपथ । कृष्स्पृशमृगतृपढपामिति वा सिः। अतीत् । इडभावे अनिटो नामिवत इति वृद्धिः । अताप्र्सीत् । रत्वे अत उपधाया इति पुनर्वृद्धिः। अत्राप्सीत् । अतृपत् ॥ दृपे हर्पमोहनयोः । मोहनं गर्वः॥ मुह वैचित्ये । वैचित्यमविवेकः । द्रुहादेरिति घत्वढत्वे । तथोर्द्ध इति थस्य धत्वम् । झबे इति गः। मुमोग्ध । ष्टुत्वे ढि ढ इति ढलोपः । मुमोढ-मुमोहिथ । लटि घत्वढत्वयोस्तुल्यं रूपम् । खसे इति षढोरिति च कत्वविधानात् । मोक्ष्यते ॥ शमु उपशमे । उदित्वात् क्त्वात्प्रयये वेट् । शमित्वा । शान्त्वा । क्वचिद्वेट इति क्तक्तवत्वोरनिट् । शान्तः॥ (तत्त्वदी०)--नंष्टेति। अत्र नशेः को वेति पक्षे ककारोऽस्त्विति न भ्रमितव्यं तस्य पदान्त एव विधानात् । स्याद्यधिकाराच्च । शमा दीर्घः ॥शमादीनामष्टानां दीर्घः कर्तरि ये ॥ शाम्यति । शमिता । अशमत् ॥ तमु काङ्क्षायाम् । ताम्यति । तताम । तेमतुः। अतमत् ॥ दमु शमनायाम् । दाम्यति । देमतुः । अदमत् ॥ श्रम तपसि खेदे च । श्राम्यति । शश्राम, शश्रमतुः । अश्रमत् ॥? भ्रमु अनवस्थाने । भ्राम्यति-भ्रमति । बभ्राम । भ्रमतुः-बभ्रमतुः। अभ्रमत् ॥ क्षमू सहने । क्षाम्यति । चक्षमिथ-चक्षन्थ । अक्षमत् ॥ कमु ग्लानौ। भ्राशूभ्लाशेति यो वा । क्लाम्यति । ष्ठिवुकम्वाचमा Page #118 -------------------------------------------------------------------------- ________________ (९८) सिद्धान्तचन्द्रिका। [ आख्याते दिवादयः ! दीर्घोऽपि । क्लामति ॥ मदी हर्षे । माद्यति ॥ मेदिथ । अमदत् ॥ शमादयोऽष्टौ॥ असु क्षेपणे। अस्यति । अस्येत् । आस,आसतुः,आसिथ।। ' (सुबोधिनी )शमां दीर्घः ॥ शमादीनामष्टानां दीर्घः स्यात् ये परे ॥ लोपः पचामित्येत्वपूर्वलोपौ । शेमतुः ॥ दमु शमनायां सकर्मकः । भ्राशभ्लाशिति यो वा । भ्राम्यति-भ्रमात । फणराजुइत्येत्वपूर्वलोपौ वा । भ्रमतुः ॥ क्षमू सहने । नाय पित् । भ्वादिस्तु पित् । 'अपितः क्षाम्यतेः शान्तिः क्षमूपः क्षमतेः क्षमा ।' ऊदित इति वेट । चक्षमिथ-चक्षन्थ । मोनो धातोरिति मस्य नत्वणत्वे । चक्षण्य ॥लमु ग्लानौ । अत्रापि यप्रत्ययेऽपि ठिवुक्लम्वाचमामित्येव दीर्चे सिद्ध शमादिपाठः शमादिभ्य इति घिनुणर्थः। .. (अस्यतेस्थुकू डे) आस्थत् ॥ यसु प्रयत्ने ॥ (सुबोधिनी)-अस्यतेस्थुक् ॥असे थुगागमः स्यात् डे परे। असेः पुषादित्वात् प्रत्यये सिद्ध अस्यतिवक्तीति वचनमात्मनेपदार्थम् । उपसर्गादस्यत्यूहोरित्यात्मनेपदं वक्ष्यते । पर्यास्थत ॥ (अनुपसर्गायसः सम्पूर्वाच्च यो वा) यस्यति-यसति । संयस्यति । संयसति । ययास। येसिथ । अयसत् । उपसर्गे तु प्रयस्यति ॥ जसु मोक्षणे । जस्यति । जजास। जेसिथ । अजसत् ॥तसु दसु उपक्षये । तस्यति । दस्यति । ददास । देसिथ । अदसत् ॥ वसु स्तम्भे । वस्यति । ववास, ववसतुः । अवसत् ॥ बिम् प्रेरणे । बिस्यति। बिबेस । अबिसत् ॥ कुश संश्लेषेणे । कुश्यति । चुकोश । कोशिता । अकुशत् ॥ बुस उत्सर्गे । बुस्यति । बुबोस । बोसिता । अबुसत् ॥ मुस खण्डने । मुस्यति । मोसिता । अमुसत् ॥ मसी "समी परिणामे । मस्यति । मेसिथः । अमसत् ॥ लुठ विलोडने । लुठयति । लोठिता। अलुठत् ॥ उच समवाये । उच्यति । उवोच, ऊचतुः। औचत् ॥ धृशुभ्रंशु अधःपतने । भृश्यति । बभर्शिथ । अभृशत् । भ्रश्यति । बभ्रंश । अभ्रशत् ॥ वृश वरणे । वृश्यति । ववशिथ । अवृशत् ॥ कृश तनूकरणे । कृश्यति । चर्शिथ । अकृशत् ॥ जितष पिपासायाम् । तृष्यति । ततर्षिथ । अतृषत् ॥ हृष तुष्टौ । हृष्यति । जहर्षिथ । अहषत् ॥ रुष रिष् हिंसायाम् । रुष्यति । रोषिता-रोष्टा । अरुषत् ॥ रिष्यति। रेषिता-रेष्टा । अरिषत् ॥ डिप क्षेपे । डिप्यति । अडिपत् ॥ कुप् क्रोधे । कुप्यति । अकुपत् ॥ गुप् व्याकुलत्वे । गुप्यति । अगुपत् ॥ युप् रुप् लुप् 'विमोहने । युप्यति । युयोपिथ । अयुपत् ॥ रुप्यति । रुरोपिथ । 25A." Page #119 -------------------------------------------------------------------------- ________________ [ आख्याते दिवादयः ] टीकाद्वयोपेता । (९९) अरुपत् ॥ लुप्यति । लुलोपिथ । अलुपत् ॥ लुभ आकाङ्क्षायाम् । . लुभ्यति । लुलोभ । लोभिता-लोब्धा । अलुभत् ॥ शुभ संचलने । क्षुभ्यति । चुक्षोभ । अक्षुमत् ॥ क्लिदू आर्दीभावे । क्लिद्यति । चिक्लेद। क्लेत्ता। अक्किदत् ॥ जिमिदा स्नेहने । __ (सुबोधिनी)-अनुपसर्गाद्यसः संपूर्वाच्च यो वा॥अनुपसर्गात संपूर्वाच्च यसेर्यप्रत्ययो वा स्यात् ॥ वादित्वान्नैत्वपूर्वलोपौ । ववसतुः॥ बुस उत्सर्गे। उत्सर्गस्त्यागः।। मसी समी परिणामे । परिणामो विकारः॥ इषु सहोति वेट । रोषिता--रोष्टा॥ लुष्यति । सेटकः । अनिटकारिकासु लिपिसाहचर्यात् तौदादिकस्यैव ग्रहणात् । इषुसहेति वेट । लोभिता-लोब्धा ॥ (मिदेर्गुणो ये) मेद्यति । मिमेद । मिद्यात् । अमिदत् ॥ जिश्विदा स्नेहनमोचनयोः । श्वेदिता । अश्विदत् ॥ ऋधु वृद्धौ । ऋध्यति । आय॑त् । आनर्ध । ऋध्यात् । आर्धत् ॥गृधु अभिकाङ्क्षायाम्। गृध्यति। जगर्धिथ । अगृधत् । इति पुषादयः॥ इति परस्मैपदम् ॥ (सुबोधिनी)-मिदेर्गुणो ये ॥ मिदेर्गुणः स्यात् दिवादिविकरणे ये परे ।। नुगशामिति नुक् । आनई ॥ इति सुबोधिन्यां परस्मैपदम् ॥ (तत्त्वदी०)-कृतायामिह टीकायां लोकेशकरशर्मणा । अगादिवादिमध्यस्थपरस्मैपदसाधनम् ।। इति तत्त्वदीपिकायां परस्मैपदम् ॥ खूङ प्राणिप्रसवे। सूयते।सुषुवे । सुक्षुविषे । सविता-सोता। असविष्ट॥ दूङ् परितापे । दूयते। दुदुविठू-दुदुविध्वे । अदविष्ट ॥ दीडू क्षये। दीयते ॥ __ (सुबोधिनी)-धूङ प्राणिप्रसवे ॥ प्रसव उत्पत्तिः। मृत्पिण्डोघट सूयते इत्यादि प्रयोगाभावात् प्राणीत्युक्तम् ॥ स्वादय ओदितः । वक्ष्यमाणत्वात् ल्वाद्योदितश्चति नत्वम् । प्रसूनम् ॥ नुधातोरित्युव । सुषुवे । स्वरतिसूतीति विकल्पं बाधित्वा कित इतीणूनिषेधे प्राप्त क्रादिनियमान्नित्यमिट सुषुविषे॥ (तत्त्वदी० )-सवितेति॥स्वरतिसूतीति वेट् ओदित इति फलं तुक्तक्तवत्वोस्तस्य नत्वम् । (दीङो युट् क्ङितः स्वरस्य) दिदीये। (सुबोधिनी)-दीडो युट क्डितः स्वरस्य ॥ दीङः परस्य स्वरादेः क्ङितः प्रत्ययस्य युट स्यात् । स्वरादेः किम् । देदीयते । क्डितः किम् ॥ उपादानम् ॥ (मिनातिमिनोतिदीङगुणवृद्धिविषयेक्यपि चात्वम्) दासीष्ट । दाता । दास्यते । अदास्त ॥ डीङ् विहायसा गतौ । डीयते । डायप्यते । अडयिष्ट ॥धी धारणे। धीयते। दिध्यिढ़े-दिध्यिध्वे । अधेष्ट। Page #120 -------------------------------------------------------------------------- ________________ (१००) सिद्धान्तचन्द्रिका। [आख्याते दिवादयः ] मीङ् प्राणवियोगे । मीयते । मेता ॥ रीङ्ग स्रव ।रीयते । रिये । अरेष्ट ॥ लीङ श्लेषणे । लीयते । लिल्ये ॥ (सुबोधिनी)-मीनातिमिनोतिदीङी गुणवृद्धिविषये क्यपि चात्वम्॥ एषामात्वं स्यात् गुणवृद्धिविधायके प्रत्यये क्याप च । मी हिंसायाम्। डुमित्र प्रक्षेपणे । दीङ क्षये ॥ घञि उपादायः । तव्यप्रत्यये प्रमातव्यम । लुङि आदास्तेत्यत्रापिदाधास्थामितीत्वं न दीडोऽनुकरणे दारूपासंभवात् । डीङ वेहायसा गतौ । आकाशेन गमने। डीनः । डीनवान् । डीङः स्वादिषु पाठसामर्थ्य न क्तक्तवत्वोरिति इट् । इटि सति व्यवधानात् ल्वाद्योदितश्चेति नत्वं न स्यादित्यर्थः ॥ मीङ् प्राणवियोंगे। मीयते । प्राणैर्वियुज्यते इत्यर्थः ॥ (लीलीडोरात्वं वा गुणवृद्धिविषये क्यपि व ) लाता-लेता। अलास्त-अलेष्ट ॥ बीङ् वरणे । बीयते। विवि । वेष्यते । अवेष्ट ॥ स्वादय ओदितः ॥ पी पाने । पीयते । अपेष्ट ॥ माङ् माने । मायते। ममे । अमास्त, अमासाताम् ॥ईङ् गतौ। ईयते । अयांचवे ॥प्रीङ् प्रीती प्रीयते । पिप्रिये । अप्रेष्ट ॥ जनी प्रादुर्भावे ॥ (सुबोधिनी)-लीलीङोरात्वं वा गुणवृद्धिविषये क्यपि च ॥ अनयोरात्वं वा स्यात् गुणवृद्धिविधायके प्रत्यये यपि च परे । ली श्लेषणे । क्यादिः। ली श्लेषणे । दिवादिः ॥ क्यपि विलाय--विलीय ॥ ब्रीङ् वरण । वरणमङ्गीकारः ॥ त्री वरणे । क्यादिः ॥ स्वादयः ओदित इति ॥ तत्फलं तु क्तक्तवत्वोस्तस्य नत्वम् वाद्योदित इत्यनेन वक्ष्यते ॥ प्रीङ् प्रीतौ । सकर्मकः ॥ ज्ञाजनोर्जा॥ कर्तरि चतुर्षु ॥ जायते । गमां स्वरे जज्ञे । जनिता। दीपजनेति इण वा । जनिवध्योर्न वृद्धिः । अजनि-अजनिष्ट ॥ तरी गतित्वरणहिंसनयोः। सूर्यते-तुतूरिष॥ दीपी दीप्तौ। दीप्यते । अदीपिअदीपिष्ट । पूरी आप्यायने । अपूरि । अपूरिष्ट ॥ तप ऐश्वर्ये । तप्यते । तेपे । तप्ता । अतप्त ॥ वावृतु वरणे। वावृत्यते । वावर्ताचक्रे ॥ पद गतौ ॥ पेदे । पत्ता ॥ ( सुबोधिनी)-ज्ञाजनोर्जा॥ अनयोर्जादेशः स्याच्च तुषु । ज्ञा अवबोधने । जनी प्रादुर्भावे । चतुर्यु किम् । ज्ञाता । दीपजनेतीण् वा । अजान ॥ वावृतु वरणे । 'ततो वावृत्यमाना सा रामशालां न्यविक्षत' इति भाट्टः॥ (तत्त्वदी०) अजनि ॥ दीपजनेति वा इण ॥ Page #121 -------------------------------------------------------------------------- ________________ [ आख्याते दिवादयः ] टीकाद्वयोपेता। . (१०१) (पदेरिण्तनि) अपादि, अपत्साताम् ॥ खिद् दैन्ये । खेत्ता ॥ विद सत्तायाम् । विद्यते । वित्सीष्ट । वेत्ता। अवित्त ॥ बुध अवगमने। बुध्यते । भुत्सीष्ट । दीपजनेति इण वा । अबोधि-अबुद्ध ॥ युध संप्रहारे । युध्यते । युयुधे । युत्सीष्ट । अयुद्ध ॥ (सुबोधिनी)-पदेरिण्तनि ॥ पदेरिण प्रत्ययः स्यात्क-थै तनि परेराअपादि ।। दीपजनेतीण वा । लुगिति तनो लुक । अबोधि । झसादिति सिलोपः। अबुद्ध । आदिजबानामिति भः। अभुत्साताम् ॥ (अनो रुध कामे ) अनुरुध्यते । अनुरुरुधे । अनुरुत्सीष्ट। अनुरोद्धा । अन्वरुद्ध ॥ मन ज्ञाने । मन्यते । मेने । मेनिषे । मन्ता। अमंस्त ॥ युज समाधौ । युज्यते । योक्ता । अयुक्त ॥ सृज विसर्गे। सृज्यते । रारो झसे दृशाम् । स्रष्टा । अस्सृष्ट, अमृक्षाताम् ॥ लिश 'अल्पीभावे । लिश्यते । लिक्षीष्ट । लेष्टा । अलिक्षत, अलिक्षाताम् ॥ इत्यात् ॥ (सुबोधिनी)-अनो रुध कामे ॥ अनूपसर्गात् परो रुध धातुरिच्छायामस्ति । दिवादिपाठसामर्थ्यात् रुधादेरिति नमं बाधित्वा यः॥ युज समाधौ। समाधिश्चित्तवृत्तिनिरोधः। अकर्मकः ॥ सृज विसर्गे । अकर्मकः । 'संसृज्यते सरसिजैररुणांशुभिन्नैः' इति कालिदासः । सिस्योरिति न गुणः। सृक्षीष्ट । छशषेति षत्वं ष्टुत्वं झसादिति सिलोपः।असृष्ट॥ लिश अल्पीभाव । अनल्पस्याल्पत्वेन भवनमल्पीभावः । सिस्योरिति न गुणः । छशषेति षत्वम् । षढोरिति कत्वम् । लिक्षीष्ट । लुडि हसषान्तादिति सकू । आलिक्षत । इति सुबोधिन्यामात् ॥ ( तत्त्वदी०)-कृतायामिह टीकायां लोकेशकरशर्मणा अगादिवादिमध्यस्थमात्मनेपदसाधनम्।। ____ इति तत्त्वदीपिकायामात् ॥ मूष् तितिक्षायाम् । मृष्यति । मृष्यते । ममर्ष । ममृषे । अमर्षीत् । अमर्षिष्ट ॥ ईशुचिर् केदने । शुच्यति । शुच्यते । अशुचत्-अशोचीत् । अशोचिष्ट ॥ रच रागे। अपि रञ्जदंशेति नलोपः । रज्यति । रज्यते । अराङ्क्षीत् । अरङ्कत ॥ शप् आक्रोशे । शप्यति । शप्यते शेपतुः । शेपे । शप्ता । अशाप्सीत् । अशप्त ॥शक् मर्षणे । शेकिथ-: शशक्थ । पुषादित्वात् ङः अशकत् । अशक्त । सेट्कोऽयमित्येके। शकिता ॥ णह बन्धने । नाति । नह्यते । नेहिथ-ननद्ध । नत्सीष्ट । ८ नद्धा । अनात्सीत् । अनद्ध । इत्युभयपदम् ॥ इति दिवादयः॥ . Page #122 -------------------------------------------------------------------------- ________________ (१०२) सिद्धान्तचन्द्रिका। [ आख्याते स्वादयः । (सुबोधिनी)-ईशुचिर क्लेदने । आदीदित इति नेट । शुक्तम्-क्लिन्नम् । इरित इति वा ङः॥ अशुचत् ॥ स्वरान्तादत्वतश्चेति वेट । नहिथ । नह इति धः । तथोरिति थस्य धः ननद । अत उपधाया इति वृद्धिः। अनात्सीत् ॥ इति दिवादिगणः ॥ ( तत्त्वदी० )ननद्धेति ॥ नहो ध इति धत्वे तथोर्द्ध इति धत्वमित्यर्थः ॥ कृतायामिह टीकायां लोकेशकरशर्मणा । अगात्समाप्ति संक्षिप्तं दिवादिगणसाधनम् ॥ इति तत्त्वदीपिकायां दिवादयः ॥ ४ ॥ अथ स्वादयः। षुञ् अभिषवे ॥ स्वादेर्नुः ॥ कर्तरि चतुषु ॥ नूपः॥ नुप्रत्ययस्य उप्प्रत्ययस्य च गुणो भवति पिति ॥ सुनोति । सुनुते । ओोर्वा लोपः । सुन्वः-सुनुवः । सुनोतु । ओर्वा हेः । सुनु । सुनवानि । सुनवै । असुनोत, असुनुताम् । सुषाव, सुषुवतुः । सोषीष्ट । असावीत् । स्तुसुधूञां पे सेरिट । असोष्ट ॥ षिञ् बन्धने । सिनोति । सिनुते । सिष्ये, सिष्याते, असैषीत् । असेष्ट ॥ शिञ् निशाने । शेता। अशेषीत, अशेष्ट ॥ डुमिन् प्रक्षेपे । मीनातिमिनोतीत्यात्वम् ममौ, मिम्यतुः, ममिथ-ममाथ । मिम्ये । अमासीत् । अमास्त॥ चिन् चयने । चिनोति ॥ __ (सुबोधिनी)-पुत्र अभिषवे ॥ स्नपनं स्नानं पीडनं सुरासंधानं चाभिषवः । स्नानेकर्मकः ॥ स्वादेर्नुः॥सुरादिर्यस्य स स्वादिस्तस्मान्नुप्रत्ययः स्यात् कर्बर्थेषु परेषु नूपः॥ उप्साहचर्यान्नुः प्रत्यय एव गृह्यते न धातुः। हुन्वोरिति वः । सुन्वन्ति । ओमोरित्युकारलोपो वा । सुन्वः, सुनुवः। ओर्वाहेरिति हेलक । सुनु । नुधातोरि त्युत् । सुषुवे । स्तुसुधूञामितीट । असावीत ॥ मीनातिमिनोतीत्यात्वम् । आतो णवित्यौकारः। ममौ । नुधातोरिति यः । मिम्यतुः । यमिरमीतीदसकौ । अमासीत् । चिञ् चयने । चयनं रचनाविशेषः॥ . (तत्त्वदी०)-घुञ् ॥ अभिषवः स्नपनं स्नानं पीडनं सुरासंधानं च । तत्र स्नानेऽकर्मकः । स्वादेर्नुः॥ सुः आदिर्यस्य स तस्मात् ॥ नूपः ॥ उपा साहचर्यान्नुः प्रत्यय एवं गृह्यत इत्याह । नुप्रत्ययेति ॥ (चिनोतेःसणादौ किर्वा) चिकाय--चिचाय । चिच्यतुः । अचैषीत् । अचेष्ट ॥ स्तृञ् आच्छादने । स्तृणोति, स्तृणुतः, स्तृण्वन्ति । तस्तार । गुणोतिसंयोगाद्याः । तस्तरतुः । ऋदन्तात्थपो नेट् । तस्तर्थ । तस्तरे । स्तर्यात् ॥ Page #123 -------------------------------------------------------------------------- ________________ [ आख्याते स्वादयः ] टीकाद्वयोपेता। ( सुबोधिनी)-चिनोतेः सणादौ किर्वा ॥ चिनोतेः किरादेशः स्यालिटि सप्रत्यये च से परे। चिकीर्षति--चिचीषति । णादौ तु चिकाय-चिचाय । गुणोर्तिसंयोगाद्योरिति गुणः । तस्तरतुः । स्तर्यात् ॥ (ऋन्तात्संयोगादेः सिस्योरिडाति) स्तरिषीष्ट--स्तृषीष्ट । अस्तार्षीत् । अस्तरिष्ट-अस्तृत । लोपो हस्वाज्झसे ॥ कृञ् हिंसायाम् । कृणोति । कृणुते । चकर्थ । चकृवहे । अकार्षीत् । अकृत ॥ वृञ् वरणे । ववार । वव्रतुः॥ ___(सुबोधिनी) ऋदन्तात्संयोगादेः सिस्योरिड्वाति ॥ ऋदन्तात्संयोगादेर्धातोः परयोः सिस्योरिड्डा स्यादात्मनेपदे परे। स्तरिषीष्ट। उरिति न गुणः । स्तृषीष्ट।। ऋदन्तात्थपो नेट । चकर्थ । यादादौ इति रिङ् । क्रियात् । उरिति न गुणः। कृषीष्ट।। (वृञस्थप इट) ववरिथ ॥ (सुबोधिनी)-वृञस्थप इट ॥ वृञः परस्य थप इट स्यात् । ववरिथ.॥ ( वृ ऋदन्तात्सिस्योरिड्वाति) वरिषष्टि-वृषीष्ट । वरितावरीता । वरिष्यति-वरीष्यति । अवारीत् , अवारिष्टाम् । अवरिष्ट-अवरीष्ट-अवृत ॥ धुञ् कम्पने । धुनोति । धुनुते । दुधाव, दुधुवतुः। धोष्यात । अधौषीत् । अधोष्ट । दीर्घान्तोऽप्ययम् । धूनोति । स्तुसुधूञामितीट् ॥ अधावीत् । स्वरतिसूतीति वेट । अधविष्ट-अधोष्ट ॥ इत्युभयपदिनः ॥ टुदु उपतापे । दुनोति । दुदाव, दुदुवतुः । अदौषीत् । हि गतौ वृद्धौ च । हिनोति ॥ (सुबोधिनी)- वृनऋदन्तात्सिस्योरिडाति ॥ वृबृञ्भ्यामृदन्ताच्च परस्य सिप्रत्ययस्य सीष्टादेश्चड् वा स्यादात्मनेपदे परे । पे सेरिटो न दीर्घः । सीष्टादेरिति न दर्घिः। वरिषीष्ट । वृजिति वा दीर्घः। वरिता, वरीता स्वरतिसूतीति वेट । दुधविथ-दुधोथ । किति लिटि तु कित इतीणनिषधं बाधित्वा क्रादिनियमानित्यामिट् । नानप्योरित्युत् । दुधुविव । स्तुसुधूजामितीट् । अधावीत् ॥ इत्यात्पे॥ __ (तत्त्वदी०)-धुञ्॥दीघोन्तोऽप्ययमिति॥तथा च कविरहस्ये-"धूनोति चम्पकवनानि धुनोत्यशोकं चतं धुनाति धुवति स्फुटितातिमुक्तम् । वायुर्विधूनयति चम्पकपुष्परेणून्यत्कानने धवति चन्दनमञ्जरीश्च ॥” इति ॥ हि गतौ वृद्धौ च ॥ (पूर्वाद्धिनोतेर्हस्य घो न त्वङि) जिघाय, जिध्यतुः। अहैषीत्॥ आप्ल व्याप्तौ। आप्नोति, आप्नुवन्ति । आप्नुहि । आप, आपतुः । आप्ता। आपत् ॥ शक्ल शक्तो।शक्नोति । शशाक, शेकतुः। शक्ता। Page #124 -------------------------------------------------------------------------- ________________ (१०४) सिद्धान्तचन्द्रिका। [आख्याते स्वादयः ] अशकत् । राध साध संसिद्धौ । रानोति, राध्नुवन्ति ॥ (सुबोधिनी)-पूर्वाद्धिनोतेर्हस्य घो न त्वङि॥दित्वे सति पूर्वात्परस्य हिनो. तेर्हस्य घः स्यादङि तु न । अङि किम् । अजीहयत् । संयंगपूर्वकत्वादोर्वा हेरिति न हेर्लक् । आप्नुहि ॥ (तत्त्वदी०)-नत्वङीति||अङीतिकिम्।।अजीहयत्। ज्यन्तस्य धात्वन्तरत्वेन हिग्रहणादग्रहणेऽपि जिघाययिषतीत्यत्र ज्यधिकस्यापि कुत्वज्ञापनार्थमिदमिति बो व्यम् ।। (राधो हिंसायामेत्वपूर्वलोपौ किति लिटि सेटि थपिच) रराध, रेधतुः। रेधिथ । अरात्सीत् ॥ निधृषा प्रागल्भ्ये । धृष्णोति । दधर्ष । अधर्षीत् ॥ दम्भु दम्भे । दभ्नोति ॥ (सुबोधिनी)--राधो हिंसायामेत्वपूर्वलोपौ कितिलिटि सेटिथपि च ॥ हिंसार्थकस्य राध एत्वपूर्वलोपौ स्तः नान्यार्थकस्य ॥ दम्। दम्भे । लोकवञ्चनाय विहितकर्मानुष्ठानं दम्भः॥ (श्रन्सिग्रन्थिदम्भिभ्यो लिटः कित्त्ववा)(दम्भेलिटयेत्वपूर्वलोपौं)। ददम्भ, देभतुः-ददम्भतुः । देभिथ ददम्भिथ । अदम्भीत् ॥ ऋधु वृद्धौ । आनर्द्ध । नुगशाम् । आनृधतुः। अद्धिता॥ क्षि हिंसायाम् । क्षिणोति, क्षिवंति । क्षेता ॥ इति पम् ॥ ___ (सुबोधिनी)-श्रन्थिग्रन्थिदम्भिभ्यो लिटः किवं वा॥एभ्यः परस्य लिटः कित्त्वं स्याद्वा । श्रन्थ ग्रन्थ संदर्भे । दम्भु दम्भ। स्वञ्ज पार्रवङ्गे । दम्भः किति लिट्येत्वपूर्वलोपौ । श्रन्थीति कित्संज्ञायां नो लोप इति नलोपस्तस्यासिद्धत्वादेत्वपूर्वलोपयोरप्राप्तौ सत्यामारम्भः ॥ इति सुबोधिन्यां पम् ॥ अशूङ् व्याप्तौ संघाते च । अश्नुते।नुगशाम्।आनशे। अशिषीष्टअक्षीष्ट । अशिता-अष्टा । आशिष्ट । आक्षाताम् ॥ ष्टिघ आस्कन्दने । स्तिघ्नुते, स्तिघ्तुवाते । तिष्टिषिध्वे । अस्तेघिष्ट ॥ इति स्वादयः॥ (सुबोधिनी)-नुगशामिति नुक । आनशे ॥ ष्टि व आस्कन्दने आस्कन्दनं संग्रामः । स्तिघ्नुते ॥ इत्यात् ॥ इति सुबोधिन्यां स्वादर ः॥ (तत्त्वदी०)-कृतायामिह टीकायां लोकेशकरशर्मणा । वाधनं दुष्टबुद्धीनामगमत्स्वादिसाधनम् ।। । इति तत्त्वदीपिकायां स्वादयः ॥ - Page #125 -------------------------------------------------------------------------- ________________ [ आख्याते रुधादयः ] टीकाद्वयोपेता। (१०५) अथ रुधादयः। रुधिर् आवरणे ॥ रुधादेनम् ॥ कर्तरि चतुषु ॥ रुणद्धि । नमसोऽस्य । रुन्द्धः, रुन्धन्ति । रुणसि । रुन्धे, रुधाम्ते । अरुधत्अरौत्सीत् । अरुद्ध ॥ भिदिर् विदारणे । अभिदत्-अभैत्सीत् । अभित्त ॥ छिदिर द्वैधीकरणे। अच्छिदत्-अच्छेत्सीत् । अच्छित्त ।। रिचिर विरेचने । रिणक्ति । अरिणक-अरिणगू । अरिचत्-अरक्षीत् । अरिक्त ॥ विचिर पृथग्भावे । विडूक्ते । अविचत्-अवैक्षीत् । अविक्त ॥ क्षुदिर संप्रेषणे । अक्षुदत्-अक्षौत्सीत् । अक्षुत्त ॥ युजिर योगे । अयुजत्-अयोक्षीत् । अयुक्त ॥ उछदिर दीप्तिदेवनयोः। कृणत्ति । छन्ते । नृततृद इति वेट । छुत्सीष्ट छर्दिषीष्ट । अच्छृदत्अच्छर्दीत् । अच्छर्दिष्ट ॥ उतृदिर हिंसानादरयोः । अतृदत्-अतर्दीत् । अतर्दिष्ट ॥ इत्युभयपदक्रिया ॥ सुबोधिनी)-रुधिर आवरणे ॥ रुधादेर्नम् ॥ रुधू आदिर्यस्य स रुधादिस्तस्माद्धादेर्नम् प्रत्ययः स्यात् कर्बर्थषु चतुर्षु ॥ मित्त्वादन्त्यात्स्वरात्परः। नित्यत्वाद्गुणं बाधते । तथोरिति धत्वम् । णत्वम् । रुणद्धि। नमसोऽस्य इत्यल्लोपः।रुन्द्रः। दिस्योरिति दिपसिपोर्लोपः। 'वावसाने' इति धस्य दकारतकारौ । सिपि 'दः' इति दस्य वा सः । अरुणत्-अरुणः । नृततृदोत वेट । चच्छृदिषे चच्छृत्से॥इति सुबोधिन्यामात्पे ॥ . . (तत्त्वदी०)-रुधिर ॥रुधादेर्नम् ॥ रुधू आदिर्यस्य स तथा तस्मात् । न च रुदादेरिति भविष्यति अन्तर्वर्तिविभक्त्या पदत्वादिति वाच्यम् । असंदेहार्थमिदम् । अन्यथा रुध् आदि रुद् आदिरिति वा संदेहः स्यात्। यद्यपि व्याख्यानतो विशेषप्रतिपत्तिरिति न्यायाद्रुधादिरेव गृह्यते तथापि कचिदान्तरं पदकार्य नेति ज्ञापनार्थमिदम् । नमःप्रत्ययत्वेऽपि मित्त्वसामर्थ्यादन्त्यस्वरस्य परत्वम् अन्यथा मित्त्वं व्यर्थं स्यात्।नच नम इति विशेषणार्थ तदिति वाच्यम् । अनुबन्धान्तरस्यैव सुवचत्वाता अथ नमि मध्येऽपि तिबादिपरत्वस्यावाधनादपा भाव्यमिति वाच्यम् । न, दधि ब्राह्मणेभ्यो दीयता तक्रं कौण्डिन्यायेति तक्रकौण्डिन्यन्यायेन तक्रदानेन दधिदानस्येव नमापो बाधनात् । नमानित्यत्वादूगुणो बाध्यते । उच्छृदिर् उः क्त्वायामिडिकल्पार्थः । कृत्त्वा-ॐदित्वा ॥ इत्यात्पे ॥ . शिष्ल विशेषणे। शिनष्टि, शिंष्टः, शिंषन्ति । शिढि । शेष्टा । शेक्ष्यति । अशिषत् ॥ पिष्ल संचूर्णने । पिनष्टि । पेक्ष्यति । अपिषत् ॥ भञ्जो आमर्दने । भनक्ति । बभञ्जिथ-बभङ्क्थ । भत्ता । अभाङ्क्षीत् ॥ भुज पालनाभ्यवहारयोः । भुनक्ति, भुङ्क्तः । अभुनक्-अभुनगू। अभीक्षीत् ॥ तृह हिसि हिंसायाम् ॥ Page #126 -------------------------------------------------------------------------- ________________ ( १०६ ) सिद्धान्तचन्द्रिका | [' आख्याते रुधादयः ] ( सुबोधिनी ) - झसादिति हो: । झबे इति षस्य डत्वम् । टुत्वम् । अनुस्वारपरसवर्णौ । शिण्डार्ट । हसात्परस्य झसस्योत डलोपे शिढि । लिपादेरिति ङः । अशि षत् ॥ भञ्ज आमर्दने । ओदित्करणं त्वाद्येोदिति इति नत्वार्थम् । भग्नः॥ भुज पाल नाभ्यवहारयोः । भुजोऽपालने इत्यात्मनेपदं वक्ष्यते ॥ ( गृहो नमि कृते इमागमः पिति इसे ) तृर्णोः । अतृणेट् । अतह | इदितो नुम् ॥ नमः ॥ नम्प्रत्ययात् परस्य नस्य लोपः ॥ हिन स्ति, हिंस्तः, हिंसन्ति । धे सलोपः । हिन्धिं । अहिनः । जिहिंस | अहिंसात्॥उदी केदने । उनत्ति, उन्तः, उदन्ति, औनत् । औन्दन् । उन्दांचकार । औन्दीत् ॥ अजू व्यक्तिम्रक्षणकान्तिगतिषु । अनक्ति । नुशाम् । ऊदितो वा । आनञ्जिथ-आनथ | अञ्जिता - अक्ता ॥ (सुबोधिनी ) - तृहों नमि कृते इमागमः पिति इसे ॥ तृहेः पूर्वं नम् । ततः इम स्वात् पति से परे । नमः प्रकरणात्प्रत्ययस्य ग्रहणम् । उन्ही क्लेदने । क्लेदनमार्द्रीभावः । नम इति नलोपः । उनत्ति । उन्द्यात् उनत्तु । औनन् । उन्दांचकार । उद्यात् । उन्दिष्यति । औन्दिष्यत् । औन्दीत् ॥ अज्जू व्यक्तिम् क्षणकान्तिगतिषु । व्यक्तिर्विवेचनम् । म्रक्षणं स्निग्धता । नुगशामिति नुंकू आनञ्ज ॥ दात (तत्त्वदी ० ) - तृही नमि कृते इति ॥ यद्येवं न स्यात्तर्हि येन नाप्राप्त यायेन मा नम् बाध्यते । अबाधने वा पूर्वमिमेव स्यादिति शंकानिवृत्तये नमि कृते इति । नमः प्रकरणतत्प्रत्ययस्य ग्रहणम् ॥ ( अः सेर्नित्यमिट् ) आश्रीत् । तञ्च संकोचने । तनक्ति । अतश्चीत् । अताङ्क्षीत् । ओविजी भयचलनयोः । विनक्ति ॥ (सुबोधिनी) -अञ्जेः सेर्नित्यमिट् ॥ अञ्जः परस्य सप्रत्ययस्य इडागम ऊदित्वाद्विकल्पे प्राप्ते इदम् ॥ ( विजेरिडादिप्रत्ययो ङित् ) विविजिथ । विधिता । अविजीत् ।। 'वृजी वर्जने । वृणक्ति । अवर्जीत् ॥ पृची संपर्के । पृणक्ति । अपर्चीत् ॥ इति पम् ॥ (सुबोधिनी) - विजेरिडादिप्रत्ययो ङित् ॥ विजेः परस् । इट्सहितस्य प्रत्ययस्य ङित्त्वं स्यात् ॥ इति सुबोधिन्यां पम् ॥ ञिइन्धी दीप्तौ । इन्द्रे । इन्धति । ऐन्द्व । इन्धांचक्रे । ऐन्धिष्ट । खिद दैन्ये । खिन्ते । खित्सीष्ट । अखित्त ॥ विद विचारणे । विन्ते । वित्सीष्ट । अवित्त ॥ इति रुधादयः ॥ Page #127 -------------------------------------------------------------------------- ________________ [ आख्याते तनादयः ] टीकाइयोपेता। (१०७) (सुबोधिनी)-जिइन्धी दीप्तौ । तथोर्द्ध इति धत्वम् ।झबे जबा इति दत्वम् । इन्धेनेमो नकारस्यानुस्वारपरसवर्णौ । नो लोप इति नलोपस्तु न भवत्यल्लोपस्यासिद्धत्वात् स्थानिवत्वाद्वा ॥ इत्यात् ॥ इति सुबोधिन्यां रुधादयः॥ __ ( तत्त्वदी० )-त्रिइन्धीति ॥ जीतां तगित्येतदर्थो भिः । इद्ध इत्यत्रेग्निषेधार्थः । इन्धी इति नम इति नलोपः । नमसोस्येति सलोपः। कृतायामिह टीकायां लोकेशकरशर्मणा । मता भाष्यकृतो भव्या रुधादिप्रक्रिया गता ॥ इति तत्त्वदीपिकायां रुधादयः ॥ ६ ॥ ... अथ तनादयः । तनु विस्तारे ॥ तनादेरुप ॥ करि चतुषु।।नूपः। तनोति, तनुतः, तन्वन्ति । ओमौर्वा लोपः। तनुवः-तन्वः । तनुते । ततान, तेनतुः। तेने । अतानीत्-अतनीत् ॥ (सुबोधिनी)-तनु विस्तारे ॥ तनादेरुपातन् आदिर्यस्य स तनादिस्तस्मादुप्कत्रर्थेषु चतुर्यु अपोऽपवादः॥ तनोति । तनुते। तनुयात् । तन्वीत । तनोतु । तनुताम् । अतनोत् । अतनुत। ततान । तेने।तन्यात्। तनिषीष्ट ।तनिता । तनिष्यति ।तनिष्यते । अतनिष्यत् । अतनिष्यत । अतो हसादेलेघोरिति वा वृद्धिः। अतनीत्-अतानीत् ॥ (तत्त्वदी०) तनु ॥ उकारः क्त्वायामिड्किल्पार्थः॥ तनादेरुप् । तन् आदिर्यस्य स. तनादिस्तस्मात् । नलोपाभावस्वसंदेहार्थः। यदि व्याख्यानत इति न्यायादसंदेहस्तदा कचिन्नलोपो नेति ज्ञापनार्थः । तेन सन् आदिर्येषां ते सनादय इत्यादि सिद्धम् । उपः पित्वं कुरुत इत्यादौ गुणार्थम् । यदि ङित्यदुरिति सामर्थ्याद्गुणः । अन्यथाऽकारस्यासंभव इति विभाव्यते तदा घर्णातीत्यत्र गुणार्थमिति बोध्यम् ॥ (तनादेस्तथासोा सेलक) लोपस्त्वनुदानतनाम्॥अतत-अतनिष्ट । अतथा:-अतनिष्ठाः॥ षणु दाने । सनोति। सनुते । सेनतुः। सेने । जनसनखनामात्वमिति आत्वम् । सायात्-सन्यात् । असातअसनिष्ट । असाथा:-असनिष्ठाः॥ क्षणु क्षिणु हिंसायाम् । क्षणोति। यन्तक्षणेति न वृद्धिः । अक्षणीत् । अक्षत-अक्षणिष्ट । अक्षथा:अक्षणिष्ठाः ॥ __ (सुबोधिनी)-तनादेस्तथासोर्वा सेर्लुक् ॥ तनादेः परस्य से ग् वा भवति तानि थासि च परे॥अतत-अतनिष्ट॥षणु दाने ।नान्तोऽयम् । णकारस्तु लाक्षणिकः । तेन यङ्लुकि संसन्ति, संसन्तः । इत्यादावनुस्वारपरसवर्णौ स्तः । जनसनेत्यात्वम् । सायात्-सन्यात् । असात-असनिष्ट । असाथाः-असनिष्टाः ॥ क्षणु क्षिणु हिंसायाम् । Page #128 -------------------------------------------------------------------------- ________________ (१०८) सिद्धान्तचन्द्रिका । [ आख्याते तनादयः ] इमावपिलाक्षणिकौ णकारौ । तेन यङ्लुकि चंक्षन्ति । इत्यत्रानुस्वारपरसवर्णौ। ह्यन्तेति न वृद्धिः। अक्षणीत् । तनादेस्तथासोरिति वा सेलृक् । लोपस्त्वनुदात्ततनामिति न लोपः । अक्षत-अक्षणिष्ट॥ ( तत्त्वदी० )-क्षणु । द्वावपि दन्त्यान्तौ । णत्वं तु सूत्रबलात् । अन्यथा यङ्लुकि चंक्षन्तीत्यत्रानुस्वारो न स्यात् ॥ (तनादेरुपधाया गुणो वोपि) क्षिणोति-क्षणोति । अक्षेणीत्॥ अक्षित । अक्षेणिष्ट । अक्षिथा:-अक्षेणिष्ठाः ॥ ऋणु गतौ । ऋणोतिअर्णोति । ऋणुतः। आनर्ण । आनृणे । आर्णीत । आर्त-आणिष्ट । आर्थाः-आणिष्ठाः॥ तृणु अदने । तृणोति-तर्णोति । तृणुते । तणुते । अतीत् । अतृत-अतर्णिष्ट । अतृथाः-अर्णिष्ठाः॥ घृणु दीप्तौ। घृणोति ।घर्णोति । जघर्ण । अघीत् । अघृत- अघर्णिष्ट । अथा:अघर्णिष्ठाः॥ डुकृञ् करणे । करोति । ङित्यदुः । कुरुतः॥ (सुबोधिनी) तनादेरुपधाया गुणो वोपि॥ तनुपणुक्षणुधातूनां गुणासंभवात् क्षेण्वादिष्वस्य प्रवृत्तिर्बोध्या।अतद्गुणसंविज्ञानो बहुव्रीहिः । उवमिति वाकुर्वन्ति ।। ( कुरुछुरोन दीर्घः) कुर्वन्ति ॥ (सुबोधिनी) कुरुछुरोर्न दीर्घः ॥ कृत्रः कुरुरूपम्य छुरछेदने इत्यस्य च दी? न भवति । कुर शब्दे इत्यस्य तु न निषेधः ॥ (कृमो नित्यं वमोरुलोपः) कुर्वः, कुर्मः। (सुबोधिनी)-कृञो नित्यं वमोरुलोपः॥ कृञः परस्य उपप्रत्ययस्य लोपः स्यात वमयोः परयोः ॥ (तत्त्वदी०) कृमो नित्यमिति । कृत्रो ये इत्यत्र वेत्यनु गर्व्यवस्थया बोध्यम् ॥ कृञो ये ॥ कृत्र उप्प्रत्ययस्य लोपो यि ॥ कुर्यात् चकर्थ क्रादेनेट । क्रियात् । कृषीष्ट । अकार्षीत् । अकृत । अकथाः॥ (सुबोधिनी) कृञो ये ॥ लोप इत्यनुवृत्तम् । आशिषि यदादौ इति रिङ् । क्रियात्।उरित न गुणःकृषीष्टातनादेरिति सेढुंगभावेलोपोह्रस्वादिति सिलोपःअकृत। (संपर्युपेभ्यः करोतेभूषणे सुट) संस्करोनि । अद्वित्वव्यवधानेऽपि कात् पूर्वः सुट् । समस्करोत् । संचस्कार। (सुबोधिनी)-संपर्युपेभ्यः करोतेर्भूषणे सुट्॥संपर्युपपूर्वस्य करोतेः सुट्स्यात्। भूषणे संघे चार्थे संस्करोति । अलंकरोतीत्यर्थः। संस्कुर्वन्ति संघीभवन्तीत्यर्थः॥ अङ्द्वित्वव्यवधानेऽपि कात् पूर्वःसुट । संपर्युपेभ्यः परस्य कृञोऽड्व्यवधाने द्वित्वव्यवधाने च कात्पूर्वः सुट् भवति । Page #129 -------------------------------------------------------------------------- ________________ [ आख्याते तुदादयः ] टीकाद्वयोपेता । ( १०९ ) ( तत्त्वदी ० ) - संपर्युपेभ्य इति ॥ वृत्तिकारमतेनायं पाठः । भाष्यवार्त्तिककारादिमते तु संपरिभ्यामित्येव ॥ (ससुटः कृञ लिट इट् ) संचस्करिथ । संचस्करिव । संस्क्रियात् । संस्कृषीष्ट । एवं परिष्कुरुते । उपस्कुरुते । परिष्करिष्यते । पर्यस्कार्षीत् पर्यष्कार्षीत् ॥ इत्यात् ॥ (सुबोधिनी) - सटः कृञो लिट इट् । सुद्रसहितात् कृञो लिट इट् भवति । इत्यात्पे । वतु याचने । वनुते । ववने । परस्मैपद्ययमित्येके । वनोति । शस दद इति । ववान | ववनिथ । अवानीत् - अवनीत् ॥ मनु अवबोधने । मनुते । मेने । मनिषीष्ट । अमत-अमनिष्ट ॥ इति तनादयः ॥ (तत्त्वदी ० ) - कृतायामिह टीकायां लोकेशकर शर्मणा । मता भाष्यकृतो भव्या तनादिप्रक्रिया गता ।।। इति तच्चदीपिकायां तनादयः ॥ ७ ॥ " अथ तुदादयः । "तुद व्यथने । तुदादेरः ॥ कर्तरि चतुर्षु ॥ तुदति । तुदते । तुत्सीष्टा अतौत्सीत् । अतुत्त ॥ शुद प्रेरणे । नुदति । नुत्सीष्ट । अनौत्सीत् । अनुत्त ॥ दिश अतिसर्जने । दिशति दिक्षीष्ट । अदिक्षत् ॥ भ्रस्ज पाके । ग्रहां ङिति च । झबे जबाः । भृज्जते ॥ 1 (सुबोधिनी) - तु व्यथने । तुदादरः। तुद आदिर्यस्य स तुदादिः तस्मादप्रत्ययः स्यात् कर्त्रर्थेषु चतुर्षु ॥ अपोऽपवादः ॥ तुदति । तुदते । तुदेत् । तुदेत । तुदतु । तुदताम् । अतुदत् । अतुदत, अतुदेताम्, अतुदन्त । तुद्यात् । तुत्सीष्ट । सिस्योरिति न गुणः । तोत्ता । तोत्स्यति तोत्स्यते । अतोत्स्यत् । अतोत्स्यत । अतौत्सीत् । झसादिति सिलोपः | अतुत्त ॥ दिश अतिसर्जने । अतिसर्जनं दानम् । हशषान्तात् । सगिति सक् । छशषेति षत्वम् । षढोरिति कत्वं च । अदक्षत् | आदक्षत || भ्रस्ज पाके । भर्जनरूपः पाकोss धात्वर्थो न त्वोदनादेः पाकस्तत्र प्रयोगाभावात् । ग्रहामिति संप्रसारणम् । सस्य श्चुत्वेन शः । शस्य झबे जबा इति जः । भृज्जति । भृज्जते । भृज्जेत् । भृज्जेत । भृज्जतु । भृज्जताम् । अभृज्जत् । अभृजत ॥ (तत्त्वदी० ) - तुदादेर इति ॥ तुद आदिर्यस्य स तथा तस्मात् । अप्रत्ययस्यापित्वादपित्तादिर्जेिदिति ङित्त्वं तेन गुणो न । भ्रस्ज इत्ययं पाठः । भ्रस्जो इति पाठे तु भृष्टः भृष्टवानि त्यत्र त्वाद्योदित इति नत्वं स्यात् ॥ Page #130 -------------------------------------------------------------------------- ________________ ' (११०) सिद्धान्तचन्द्रिका । [ आख्याते तुदादयः] (अस्जो रसो रमनपि वा) बभर्ज-बभ्रज, बभर्जतुः-बभ्रजतुः। बभर्जिथ-बभ्रजिथ-बभष्ठ-बभ्रष्ठ । स्वरान्तादत्वतश्चेति वेट । क्ङिति संप्रसारणं बाधकम् । भृज्यात् । अभ्राक्षीत्-अभाीत् । अंभ्रष्ट-अभष्ट ॥ क्षिप प्रेरणे । क्षिप्सीष्ट । अझैप्सीत् । अक्षिप्त ॥ कृष विलेखने । कृक्षीष्ट । क्रष्टा-कष्टी । अक्राक्षीत्-अकार्षीत् । अकृक्षत, अकृक्षाताम् , अकृक्षन्त ॥ मिल संगमे । मिलति । मिमिले । अमेलीत् । अमेलिष्ट ॥ मुचल मोचने। मुचादेर्मम ॥ मुच्लुस्विलिषिचकृतिपखिदामप्रत्यये मुम् ॥ मुन्नति । मुक्षीष्ट । लित्पुषादेडे: । अमुचत् । अमुक्त ॥ लुपल छेदने । लुम्पति । लुलोप। लुप्सीष्ट । अलुपत् । अलुप्त ॥ विद्ल लाभे । विन्दति । अविदत् । अवेदिष्ट । अनिडयमित्येके । वेत्ता ॥ लिप उपदेहे । लिम्पति । लिपिसिचीति ङः । अलिपत् । अलिपत-अलिप्त ॥ षिच क्षरणे । सिञ्चति । सिषिचिषे । असिचत् असिचत,-असिक्त॥ इत्यात्पे ॥ (सुबोधिनी)-भ्रस्जो रसो रमनपि वा ॥ भृजे रेफस्योपधायाश्च स्थाने रमागमो वा स्यात् अनपि ॥ मित्वादन्त्यात् स्वरात्परो भवति ॥ स्थानषष्ठीनिर्देशात् रकारोपधयोनिवृत्तिः। बभर्ज-बभ्रज,बभर्जतुः-बभ्रज्जतुः । थपि बभर्जिथ । स्वरान्तादत्वतश्चेति वेट् । बभ्रजिथ । स्कोरिति सलोपः । छषति पावभष्ट-बभ्रष्ट । आति । बभर्जे। बभ्रजे। काङति रमागम बाधित्वा संप्रसारणम् । भृज्यात । भीष्ट-भ्रक्षीष्ट । भा-भ्रष्टा । भगति--भ्रक्ष्यति भ्रयते। भक्ष्यते । अभयत्- अभ्रक्ष्यत् । अभयंतअभ्रक्ष्यत । अभाीत्-अभ्राक्षीत् । अभष्र्ट-अभ्रष्ट ॥ कृष विलेखने । कृषादीनां वेति वारः। ऋष्टा-की । सिस्योरति न गुणः । कृक्षीष्ट । कृषस्पृशमृशति वा सिः । अनिटो नामिवत इति वृद्धिः। अक्राक्षीत्-अकार्षीत् । पक्षे हशषान्तादिति सक् । अकृक्षत् । सिस्योरिति न गुणः। अकृष्ट । सकि अकृक्षत । आति सको लोपः स्वरे इत्यलोपः। अकृक्षाताम् ॥ मिल संगमे । अस्मिन्नेव गणे परस्मैपदिषु मिल संश्लेषणे इति धातुपाठे पठ्यते इह तस्य पुनः पाठः कर्तर्यात्मनेपदार्थः । मिलात । मिलते । मुचादेमुम् । मुच्ल मोचने । लुप्ल छेदने । विद्ल लाभे । लिप उपदेहे । षिच क्षरणे । कृती छेदने । पिशअवयवे । खिद परिघाते । विदुल व्याघ्रभूतिमते सेटकः । वेदिता । भाष्यमते त्वनिटकः । वेत्ता ॥ लिप उपदेहे । उपदेहो वृद्धिः। लिपिसिचीति ङः । अलिपत् । आति तु वा ङः । अलिपत । झसादिति सिलोपः । अलिप्त ॥ इत्यात्पे । (तत्त्वदी० )-रसोरिति ॥ रश्च सू च रसौ तयोः। रेफसकारयोरादेशोभवतीत्यर्थः । Page #131 -------------------------------------------------------------------------- ________________ [ आख्याते तुदादयः ] टीकाद्वयोपेता । (१११) ऋषी गौ । ऋषति । आनर्ष ॥ ओवश्चू छेदने । वृश्चति । वव्रश्च, वव्रश्चतुः, वव्रश्चुः। वव्रश्चिथ-वव्रष्ठ। व्रश्चिता-व्रष्टा। ब्रश्चिष्यति-व्रक्ष्यति । अवश्चीत्-अव्राक्षीद, अव्राष्टाम् ॥ व्यच् व्याजीकरणे । विचति ।। विव्याच, विविचतुः। विच्यात् । व्यचिता । व्यचिष्यति । अव्याचीत् अव्यचीत् । उछि उञ्छे । उञ्छति । उञ्छांचकार । औञ्छीत् ॥ उच्छी विवासे । उच्छति । उच्छांचकार। औच्छीत् ॥ ऋच्छ गतीन्द्रियप्रलयमूर्तिभावेषु । ऋच्छति ॥ ___ (सुबोधिनी)--नुगशामिति नुक् । आनर्श। ओवश्चूछेदने । ग्रहामिति संप्रसारणम् । वृश्चति ॥ लिटि णबादौ पूर्वस्येत्यनेन पूर्वरेफस्य ऋकारः । ततो न संप्रसारणे संप्रसारणमिति परिभाषया निषेधात्सकृत्सूत्रं प्रवर्तते इति न्यायाद्वा पुनर्वस्य संप्रसारणं न वव्रश्च । उदितो वेति वेट् । वव्रश्चिथ । स्कोरिति सलोपः । छशषति पत्वं ष्टुत्वम् । वव्रष्ठ । ऊदितो वेतीटि अवश्चीत् ॥ इडभावे स्कोरिति सलोपः । छषेति षत्वं षढोरिति कः । ततः सस्य षत्वम् । अवाक्षीत् ॥ नन्वत्र शकारस्य कथं लोपः । उच्यत । "नकारजावनुस्वारपञ्चमी झलि धातुषु । सकारजः शकारश्च वर्गस्तवर्गजः॥१॥" इति । व्यच व्याजीकरणे । व्याजीकरणं छद्मकरणम् । ग्रहामिति संप्रसारणं णबादौ पूर्वस्यति पूर्वस्य संप्रसारणं च । विविचतुः। अतो हसादेरिति वा वृद्धिः। अव्याचीदअव्यचीत् ॥ उछि उञ्छे । उच्छी विवासे । स्वदेशं परित्यज्य देशान्तरे गमनं विवासः। संप्रति धातुपाठे इमौ भ्वादिगणे पठितौ । इह पुनः पाठस्तु उञ्छन्तीत्यत्र वादीपोः शतुरिति नुविकल्पार्थः । अप्प्रत्यये तु अप्यपोरान्नित्यमिति नित्यं नुम् । उञ्छन्ती ॥ (ऋच्छेर्नाम् ) (ऋच्छोर्लिटि गुणः)नुगशाम् । आनछु,आनर्छतुः । ऋच्छिता । उब्ज आर्जवे । उब्जांचकार ॥ उज्झ त्यागे । उज्झांचकार ॥ लुभ विमोहने । लुभति-लोभिता-लोब्धा । अलोभीत् ॥ तृप तृम्प तृफ तम्फ तृप्तौ । तृपति । अतीत् । (तफादीनामप्रत्यये नुम् ) तृम्फति ॥ तुप तुम्प तुफ तुम्फ हिंसायाम् । तुपति । तुतोप । अतोपीत् । तुम्पति । अतुम्पीत् । तुफति । तुतोफ । अतोफीत् । तुम्फति । तुतुम्फ। अतुम्फीत्॥ दृप दृम्फ उत्क्लेशे । दृपति । दृम्फति ॥ ऋफ ऋम्फ हिंसायाम् । ऋफति । ऋम्फति । ऋम्फांचकार ।। गुफ गुम्फ ग्रन्थे । गुफति गुम्फति । अगुम्फीत् ॥ उभ उम्भ पूरणे । उभति । उवोभ । औभीत् । उम्भति । उम्भांचकार । औम्भीत् ॥शुभ शुम्भ शोभार्थे । शुभति । अशोभीत् । शुम्भाति । अशुम्भीत् ॥ भी Page #132 -------------------------------------------------------------------------- ________________ ( ११२ ) सिद्धान्तचन्द्रिका | [ आख्याते तुदादयः ] ग्रन्थे । हभाते अदर्भीत् ॥ वृती हिंसाग्रन्थनयोः । वृतति । नृततृदतेर्ताद्वा । चर्तिष्यति चत्स्यति । अचर्तीत् ॥ विध विधाने । विधति । वेधिता ॥ लिख अक्षरविन्यासे । लिखति लेखिता ॥ कुट कौटिल्ये । कुटति । चुकोट ॥ (सुबोधिनी) - ऋच्छेर्नाम् ॥ ऋच्छतेराम् प्रत्ययो न लिटि । गुरुनामित्वादाम्प्राप्ते निषेधः ॥ ऋच्छेर्लिटि गुणः॥ ऋच्छतेर्गुणः स्याल्लिटि ॥ लुभ विमोहने । विमोहन - माकुलीकरणम् । इषसहोते वेट् । लोभिता = लोब्धा ॥ तृप्त तृम्फ तृप्तौ । कृषस्पृशमृशति सिविकल्पस्तु पौषादिकस्यैव ङस्यापवादत्वात् । तेनात्र नित्यं सिः । अतपत् ॥ तृम्फादीनामप्रत्यये नुम् । आदिशब्दः प्रकारे । तेन येऽत्र नकारानुषक्तास्ते तृम्फादयः । अप्रत्ययस्य ङित्वान्नो लोपः इति नलोपे कृते नुम् । तृम्फति । दृप हेम्फ उत्क्लेशे उत्क्लेशः पीडा । चृती हिंसाग्रन्थनयोः । ईदित्करणमादीदित इतीनिषेधार्थम् । यद्यप्यस्य वेटकत्वादिनिषेधः सिद्धयति तथापि क्वचिद्वे इत्यस्यानित्यतां ज्ञापयितुमीदित्करणम् तेन ' धावितमिभराजधिया ' इत्यादि सिद्धमिति ॥ नृततृदेति वै । चस्र्त्स्यति ॥ विध विधानं । विधानं करणम् ॥ कुट कौटिल्यै । कुटिलस्य भावः कौटिल्यं तस्मिन् ॥ (तत्त्वदी ० ) - गुरुना मित्वादाम्प्राप्त इत्याह--ऋच्छेरिति ॥ ह्रस्वच्छकारस्य द्वित्वे संयोगपरत्वालघूपधत्वाभावाद् गुणाप्राप्तौ लिटि गुण इति ॥ ( कुटादेर्जिः प्रत्ययो ङित् ) चुकुटिथ । कुटिता । अक्कु-टीत् ॥ पुट संश्लेषणे । पुटति । पुपोट । अपुटीत् ॥ कुच संकोचने । कुचति । चुकोच | अकुचीत् ॥ गुज शब्दे । गुजति । गुजिता । अगुजीत् । गुड रक्षायाम् । गुडति । गुडिता । अगुडीत् ॥ कुड शब्दे | कुडति । कुडिता ॥ डिप क्षेपे । डिपिता ॥ छुर छेदे । कुरुछुरोर्न दीर्घः । छुर्यात् । छुरिता ।। स्फुट विकसने । स्फुटति ॥ मुट आक्षेपप्रमर्दनयोः । मुटति । मुमोट । मुटिता ॥ त्रुट छेदे । त्रुट्यति त्रुटति । तुत्रोट । त्रुटिता ॥ तु कलहकर्मणि । तुटति । तुटिता । तुटिष्यति ॥ चुट छुट छेदे । चुटिता । छुटाते। छुटिता॥जुट बन्धने । जुटति । जुटिता ॥ कड मदे । कति । अकडीत् ॥ लुठ संश्लेषणे । लुठति । लुठिता ॥ कुड घनत्वे । कृडिता ॥ कुड बाल्ये । कुडति ॥ पुड उत्सर्गे । पुडिता ॥ घुट प्रतीघाते । घुटिता ॥ स्फुर स्फुरणे । स्फुरिता ॥ स्फुल संचलने । स्फुलिता ॥ ( सुबोधिनी ) - कुटादेर्किंणद्वजः प्रत्ययो ङित् ॥ कुटादेर्गणात्परः प्रत्ययो ङित् स्यात् ञितं णितं च वर्जयित्वा ॥ ङित्त्वान्न गुणः । चुकुटिथ ॥ छुर छेदने । Page #133 -------------------------------------------------------------------------- ________________ [ आख्याते तुदादयः ] टीकाद्वयोपेता। (११३) य्वोर्वि हसे इत्यनेन दीर्घ प्राप्ते कुरुछुरोरिति निषेधः । छुर्यात्॥त्रुटछेदे। भ्राशभ्लाशिति वा यः । त्रुट्यति-त्रुटति ॥ कडेर्धातुपाठे भ्वादौ पठितस्य पुनरत्र पाठः शतप्रत्यये वादीपोरिति नुविकल्पार्थः । पूर्वपाठस्तु कडन्तीति नित्यनुमर्थः ॥ कृड घनत्वे । घनत्वं सान्द्रता ॥ (निनिविभ्यः स्फुरतिस्फुलत्योः सस्य षो वा) निष्ष्फुरतिनिस्स्फुरात-नि:स्फुरति । निष्फुरति-निस्फुरति । निष्ष्फुलति । निस्स्फुलात-निःस्फुलति । निष्फुलति-निस्फुलति॥णू स्तवने । अनुवीत् ।। धू विधूनने । अधुवीत् ॥ गु पुरीषोत्सर्गे । जुगुविथ-जुगुथ ।। गूयात् । गुता ॥ध्रु गतिस्थैर्ययोः ।ध्रुता । अध्रषीत् ॥ इति कुटादयः॥ कृती छेदने । मुचादेर्मुम्। कृन्तति । नृततृदवृतछदकृयोऽसे: सादेरिडा। कर्तिष्यति-कय॑ति । अकीत् ॥ गृ निगरणे ॥ ' ( सुबोधिनी)-निनिविभ्यः स्फुरतिस्फुलत्योःसस्यषो वा ॥ एभ्यः परस्यानयोः सस्य वा षत्वं भवति ॥ णू दीर्घान्तः। परिणूतगुणोदयः' इत्यत्र कित इतीनिषेधः । कुटादेरिति ङित्त्वान्न वृद्धिः । नुधातोरित्युत् । अनुवीत् । लोपो ह्रस्वादिति सिलोपः । अगुताम् । वृत्ताः कुटादयः ॥ कृती॥ मुचादेरिति मुम् । कृन्तति। नृततदेति वेटू । कतिष्यति-कति ॥ (गिरतेः स्वरे रस्य लो वा ) ऋत इर् । गिरति-गिलति। गरिता-गरीता-गलिता-गलीता । अगारीत्-अगालीत्॥ स्पृश स्पर्शने । स्प्रष्टा-स्पष्टों।अस्पाक्षीत्-अस्पाक्षीत्-अस्पृक्षत् ॥प्रच्छ जीप्सायाम्। ग्रहां डिति च। पृच्छति । पप्रच्छिथ-पप्रष्ठ । अप्राक्षीत् ॥ मृज वि. सर्गे। सृजति । स्मृजिहशोस्थपो वेट् । ससजिथ-सनष्ठ । स्रष्टा । अस्राक्षीत् ॥ टुमस्जो शुद्धौ । मज्जात । मस्जिनशोझसे नुम् । ममज्जिथ- ममथ । मङ्क्ता । अमाक्षीत् ॥ विच्छ गता। आयः । विच्छायति । विच्छायांचकार-विविच्छ ॥ इषु इच्छायाम् । गमां छः । इच्छति । इच्छेत् । इच्छतु । ॥ ऐच्छत् । इयेष । इयेषिथ । एषिता-एष्टा । ऐषीत् ॥ विश प्रवेशने। वेष्टा । अवि. क्षत् ॥ मृश आमर्शने । अम्राक्षीत्-अमासत्-अमृक्षत् ।रि पि गतौ । रियति । पियति । रेता। पेता ॥ धि धारणे । धियति ॥ क्षि निवासगत्योः। क्षियति । प्रेरणे । सुवति । सविता ॥ कृ विक्षेपे ॥ किराति । चकार, चकरतुः, चकरुः॥ Page #134 -------------------------------------------------------------------------- ________________ (११४) सिद्धान्तचन्द्रिका। [ आख्याते तुदादयः ] : (सुबोधिनी)-गिर०॥गिरतेः रेफस्य लत्वं वा स्यात् स्वरे परे॥वृद्धृऋदन्तानां वोत वा इटो दीर्घः। गरिता-गरीता॥स्पृशकृषादनिां वेति वा रकारः । छशषेति षत्वं ष्टुत्वम् । स्प्रष्टा-स्पी । कृषस्पृशेति वा सिः । अनिटो नामिवत इति वृद्धिः । अस्माक्षीत्-अस्पार्षीत् । पक्षे हशषान्तादिति सक । अस्पृक्षत् ॥ प्रच्छ जीप्सायाम् । ज्ञातुमिच्छा ज्ञप्सिा । वुणप्रत्यये प्रच्छकः। षिद्भिदामङिति भिदादित्वादप्रत्यये संप्रसारणे च पृच्छा। ततो जिडित्करणे इति ज्यन्तात् वुण्प्रत्यये तु पृच्छकः । ग्रहामिति संप्रसारणम् । पृच्छति । ऋसंयोगादित्यकित्त्वान्न संप्रसारणम् ॥ पप्रच्छतुः। स्वरान्तादत्वत इति वेट् । पप्रच्छिथ-पप्रष्ठ । सृजिदृशोस्थपोवेति थाप वेटाससजिथ । रारो झसे दृशामिति रः। सस्रष्ठ ॥ टुमस्जो शुद्धौ । तितोऽथुः । मज्जथुः । श्चुत्वेन सस्य शः। झवे जबा इति शस्य जः। मज्जति । मस्जिनशोरिति नुम् । स्कोरिति सलोपः ॥ मङ्क्ता ॥ विच्छ ॥ तुदादिपाठसामर्थ्यादायप्रत्ययान्तादपि अन त्वा । तेन विच्छायन्तीति विच्छायतीत्यत्र वादीपोरिति नुविकल्पः । आय इत्यायप्रत्ययः। विच्छायाति । आयादयोऽनपि वेति वा आयः । कासादिप्रत्ययादित्याम् । यत इत्यलोपः। विच्छायांचकार ॥ इषु ॥ भाष्यवार्तिकमतेऽनुदित् । गमां छ इति छ। इच्छति । इषुसहेति वेटा एपिता-एष्टा ॥ विश प्रवेशने ॥ हशषान्तादिति सक् । अविक्षत् ॥ मृश आमर्शने । आमर्शनं स्पर्शः। कृषस्पृशमृशति वा सिः। कृषादीनां वेति वा । अम्राक्षीत्-अमाीत् ।हशषान्तादिति सक् । अमृक्षत्॥रि पि । नुधातोरितीय । रियति । पियति ॥कृ॥ऋत इती॥किरति । ऋसंयोगादित्याकित्त्वाद्गुणः । चकरतुः । वृद्धृऋदन्तानामिति वेटो दीर्घः। करिता-करीता ॥ ( तत्त्वदी० )-गिरतेरिति व्यवस्थितविकल्पोऽयम् । तेन गल इति कण्ठे नित्यं विषे तु गर इत्यत्र न ॥ प्रच्छ ॥ अथ कथं 'वक्तारं पृच्छकं श्रोतृन्' इति । प्रच्छकमित्येव पाठ इति बहवः । पृच्छकमिति पाठे तु भिदादेराकृतिगणवादङिः पृच्छा तत्करोतीति ञ्यन्ताद्रुणि बोध्यम् ॥ विच्छ॥ तुदादिपाठसामर्थ्यादायप्रत्ययान्तादपि अ एव न त्वम्। तेन विच्छायती विच्छायन्तीत्यत्र वादीपोरिति नुम्विकल्पः। केचित्तु तुदादिपाठादिदमेव विकल्पयन्ति तन्मते तुदादिपाठस्य केवले 'विच्छती विच्छन्तीत्यत्र चरितार्थत्वादायप्रत्ययान्तादबेव न त्वः । तेन विच्छायन्तीत्यत्र नित्यमेव नुम् ! इषु ॥अनुदित्पाठस्तु भाष्यवार्तिकसंमतः ॥ रियतीति ॥ रि अ ति इति स्थिते उपधाया लघोरिति । गुणः प्राप्तो बहिरङ्गत्वान्निवारितः । तथा हि । इय् अकारापेक्षत्वेन अन्तरङ्गः अल्पाश्रितत्वात् । गुणस्तु अकारतिबपेक्षत्वेन बहिरङ्गः बलपेक्षत्वात् ॥ ( उपात्किरतेः सुट् छेदेऽर्थे) (सुबोधिनी )-उपात्किरतेः सुट् छेदेऽर्थे । उपोपसर्गात् परस्य किरतेः सुडागमः स्यात् छेदे वाच्ये नान्यत्र ॥ Page #135 -------------------------------------------------------------------------- ________________ [ आख्याते तुदादयः ] टीकाद्वयोपेता। ( ११५) (हिंसायां प्रतेश्च ) उपस्किरति । प्रत्यस्किरत् ॥रुजोभङ्गे । अरौक्षीत् । अरौक्ताम् ॥ भुजो कौटिल्ये । भोक्ता । अभौक्षीत्, अभौक्ताम् ॥ छप स्पर्श । छोप्ता। अच्छौप्सीत् ॥ रुश रिश हिंसायाम् । रोष्टा, रोष्टारौ । अरुक्षत् ॥ रेष्टा । अरिक्षत् ॥ लिश गतौ । लेष्टा । अलिक्षत् ॥ खिद परिघाते । मुचादेर्मुम् । खिन्दति । खेत्ता । अखैत्सीत् ॥ पिश अवयवे । पिंशति । पेशिता ॥ इति पम् ॥॥ जुषी प्रीतिसेवनयोः । जुषते ॥ ओविजी भयचलनयोः। विजते ॥ ___ (सुबोधिनी)-हिंसायां प्रतेश्च ॥ उपात् प्रतेश्च किरतेः सुट स्यात् हिंसायाम् । अद्वित्वव्यवधानेपि मुटु कात्पूर्व इति वक्तव्यम् ॥ उपस्किरत् । उपचस्कार । 'उरोविदारं प्रतिचस्करे नखैः' इति माघः। कर्मणि लिट ॥ लिश् गतौ । हशपान्तादिति सक् । अलिक्षत् ॥ मुचादेरिति मुम् । खिन्दति । अयं दैन्येऽपि । दिवादौरुधादौ च वर्तते ॥ पिश अवयवे ॥ मुचादेरिति मुम् पिंशति । अयं दीपनायामपि । 'त्वष्टा रूपाणि पिंशतु' । दीपयत्वित्यर्थः ॥ इति मुबोधिन्यां पम् ॥ओविजी॥ प्रायेणायमुत्पूर्वः। द्विजते ॥ __ (विजेरिडादिप्रत्ययो ङित् ) विजिता ॥ ओलजी ओलस्जी ब्रीडे । लेजे ॥ ललज्जे । पृडू व्यायामे ॥ (सुबोधिनी)-विजेरिडादिप्रत्ययो डित्॥विजेः पर इडादिःप्रत्ययो ङित् । इह ओविजी तुदादिः रुधादिश्च गृह्यते न तु विजिर् पृथग्भाव इति जुहोत्यादिः व्याख्यानात् ॥ पृङ व्यायामे । प्रायेणायं व्यापर्वः ॥ अयकि || ऋतो रिङ्भवत्यकारे प्रत्यये यकि च ॥ नुधातोः । व्याप्रियते। व्यापरिष्यते । व्यापृत, व्यापृषाताम्॥मृङ् प्राणत्यागे । (सुबोधिनी)-अयकि ॥ निर्दिष्टत्वाहकारस्यैव रिङि सिद्धे डकारग्रहणं व्यवधानार्थम् । तेन ये इति न दीर्घः ॥ (म्रियतेललिङोश्चतुर्वेवात) म्रियते । ममार । ममर्थ । मृषीष्ट। अमृत ॥ दृङ् आदरे । आद्रियते । आदद्रे । आदृषीष्ट । आदर्ता । आहत ॥धृ अवस्थाने । ध्रियते । अध्रियत । लोपो द्वस्वाज्झसे । अधृत ॥ इति तुदादयः॥ (सुबोधिनी)-म्रियतेलुंलिङाश्चतुर्वेवात् ॥ मृङश्चतुर्यु लुलिङोश्च परत आत्मनेपदं स्यादन्यत्र पम् । अयकीति रिङ् । नुधातोरितीय । म्रियते । उरिति न Page #136 -------------------------------------------------------------------------- ________________ सिद्धान्तचन्द्रिका। [आख्याते ज्यादयः ] गुणः।मृषीष्ट । हन्नृतः स्यप इतीट् । मरिष्यति ।लोपोह्रस्वादिति सिलोपः। अमृत । शानप्रत्यये म्रियमाणः॥ङ् प्रायेणापूर्वः । 'तथाद्रियन्ते न बुधाः सुधामपि' इति श्रीहर्षः ॥ इत्यात् ॥ इति सुबोधिन्यां तुदादयः॥ (तत्त्वदी०)-कृतायामिह टीकायां लोकेशकरशर्मणा।मताभाष्यको भव्या तुदादिप्रक्रियागता।। इति तत्त्वदीपिकायां तुदादयः ।। ८ ॥ अथ ज्यादयः । डुक्रीन द्रव्यविनिमये ॥ ना ज़्यादेः॥ कर्तरि चतुषु ॥ क्रणिति॥ (सुबोधिनी)--डुक्री द्रव्यविनिमये॥विनिमयो व्यतिहारः॥ना ज़्यादेः॥ क्रीरादिर्यस्य स यादिस्तस्मात् ना प्रत्ययः स्यात् कर्बर्थे' चतुर्षु ॥ ( तत्त्वदी०)-डुक्री ॥ विनिमयः परिवर्तः ॥ ना:यादेः॥ ऋीरादिर्थस्य स. तथा तस्मात् ॥ ई हसे ॥ ना इत्यस्याकारस्य ई डिति हग ॥ क्रीणीतः ॥ (सुबोधिनी )-ई हसे ॥ ङित्यदुरित्यतो कितीत्यनुवृत्तं नात इति च ॥ (तत्त्वदी०)-ई हसे ॥ नात इत्यनुवर्तते ॥ नातः॥ना इत्यस्याकारस्य लोपो डिति स्वरे ॥ क्रीणन्ति । कोणीते । चिक्रयिथ-चिक्रेथ । अषीत् । अवेष्ट॥प्रीञ् तर्पणे कान्तौ च। पिप्रिये ॥ श्रीन पाके । अझैषीत् ॥ मीच हिंसायाम् । मीनातिमिनोतीत्यात्वम् । ममौ । मिम्यतुः । मनिथ-ममाथ । मासीष्ट । माता-अमासीत् ॥ स्कुन आप्रवणे ॥ (सुबोधिनी)-नातः॥ ना आत इति छेदः। ङित्पदुरित्यतो कितीत्यनुवृत्तम् । ओमौरित्यतो लोप इति च । डिति हसे ईविधानात्परिशेषात्स्वरे इति लब्धम् ॥ ना इत्यविभक्तिकम् । आतोऽन्तोऽदनत इत्यति नात इत्यालोपे क्रीणते । बुधातोरितीय । चिक्रिये । वृद्धिः। अषीत् । अवेष्ट ॥ प्रीञ् तर्पणे कान्तौ च ॥कान्तिः कामना ॥ मीञ् ॥ मीनातिमिनोतीत्यात्वम् । ममौ । नुधातोरिति यः। मिम्ये।मीयात्। मासीष्ट । माता । मास्यात । मास्यते । अमास्यत् । अमास्यत यमिरमिनमातामितीसकौ । अमासीत्, अमास्त ॥ (तत्त्वदी०)-नातः ॥ ना आत इति छेदः । नेत्या भक्तिकम् । षष्ठीनिर्दिष्टत्वेनान्त्यस्यैव स्यादात इत्युत्तरार्थं स्पष्टार्थमिहैव कृतम् । हसे ईविधानात्प िशेषात्स्वर इति लभ्यत इत्याह ॥ स्वरे परे इति ॥ स्कुञ्ज ॥ आप्रवणमुद्धरणम् ॥ Page #137 -------------------------------------------------------------------------- ________________ [ आख्याते क़्यादयः ] टीकाद्वयोपेता। (११७) ( स्तम्भुस्तुम्भुस्कम्भुस्कुम्भुस्कुञ्भ्यो नुर्ना च) स्कुनोति, स्कुन्वन्ति। स्कुन्वीत।स्कु.तुताम् । स्कुनाति । अस्कुनीत । चुस्कुविषे। अस्कौषीत् । अस्कोष्ट ॥ स्तम्भुइर् स्तम्भु स्कम्भु स्कुम्भु रोधने । एतेपवन्तः (वेः स्तम्भादीनां सस्य षः स्यात् ) विष्टन्नोति, विष्टभ्राति । व्यष्टनात् । वितष्टम्भ, वितष्टम्भतुः । विष्कन्नोति ॥ (सुबोधिनी)-स्तम्भुस्तुम्भुस्कम्भुस्कुम्भुस्कुञ्भ्यो तुर्ना च॥स्तम्भादयश्चत्वारः सौत्राः सर्वे रोदनार्था इत्येके । माधवस्तुं प्रथमतृतीयौ स्तम्भार्थों द्वितीयो निष्कोषणार्थः चतुर्थो धारणार्थ इत्याह । एते पवन्तः । नो लोप इति नलोपः । स्तनोति, स्तनाति ॥ (तत्त्वदी०)-स्तम्भु पन्त इति ॥ पं परस्मैपदमस्त्येषामिति पवन्तः । (हसादान हौ) हान्ताद्धातो स्थाने आनः स्याद्धौ परे ॥ स्तुभान । स्कभान । असाभत्-अस्तम्भीत् ॥ युञ् बन्धने । युनाति । योता ॥ पूञ पवने ॥ (सुबोधिनी) हसादान हो॥ हसादिति धातोविशेषणम् । तेन तदन्तलाभः । अत इत्यारम्भसामथ्योत्संनिपातपरिभाषाया अप्रवृत्तेहेलक। स्तभान । इरितोवेति वा ङः । अस्तभत्--अस्तम्भीत् ॥ (तत्त्वदी० )-हसादान हो॥ हसादिति धातोविशेषणात्तदन्तलाभ इत्याशयेनाहहसान्तादिति। येन नाप्राप्तन्यायेन नाप्रत्ययं बाधित्वा एवायं न तु नुमपि । तेन पक्षे स्तभ्नुहीत्येव ॥ प्वादेवस्वः॥ कर्तरि चतुषु ॥ पुनाति । अपावीत् ॥ लूञ् छेदने । लुनाति । अलावीत् ॥ तृञ् आच्छादने । स्तृणाति । तस्तार, तस्तरतुः। स्तीर्यात्। स्तरिषीष्ट-स्तीढुष्ट । अस्तारीत्। अस्तरिष्ट-अस्तीष्टकृत्र हिंसायाम् ॥ कृणाति । चकरे । करिषीष्ट-कीर्षीष्ट । अकरिष्ट-अकरीष्टअकीष्टं । (पेसेरिटो न दीर्घः सीष्टादेश्च) वृक्ष वरणे। वृणाति। बर्यात्। वरिषीष्ट-चूर्षीष्ट । अवरीष्-अवष्टं ॥ धू- कम्पने । धुनाति । दुधविथदुधोथ । धविता-धोता । अधावीत् । अधविष्ट-अधोष्ट ॥ ग्रह उपादाने । गृहाति । गृहाण । जग्राह, जगृहतुः ग्रहीषीष्ट । ग्रहीता । अग्रहीष्ट ॥ इत्यात्पे ॥श हिंसायाम् ॥ शृणाति ॥ (सुबोधिनी)-प्वादेईस्वः॥ प्वादेर्हस्वो भवति चतुर्पु परेषु ॥ ऋसंयोगादित्यकित्त्वाद्गुणः । तस्तरतुः । ऋत इरितीर । वोवि हसे इति दीर्घः। स्तीर्यात् । सीष्टादे Page #138 -------------------------------------------------------------------------- ________________ (११८) सिद्धान्तचन्द्रिका। [ आख्याते ज़्यादयः ] श्चेतीटो न दीर्घः। स्तरिषीष्ट । वृद्धृऋदन्तात्सिस्योरिड् वा इति वेटपक्षे उरिति गुणो न ऋत इरितीर । वोर्विहसे इति दीर्घः।स्तीर्षीष्ट । वृद्धृजिति वेटो दीर्घः । स्तरितास्तरीता । पेसेरिटो न दीर्घः । अस्तारिष्टाम् ॥ वृञ् ॥ पोत्युिर् य्वाोर्वे हसे इति दीर्घः। र्यात् । लुङि अवारीत् । पे सोरीत न दीर्घः। अवारि म्॥आति तु वृजऋदन्तात् सिस्योरित वेट् । अवरिष्ट-अवरीष्ट । उरितो गुणो न । पोरुरित्युर । य्वोरित दीर्घः । अवष्टं ॥ धू, स्वरतिसूतीत वेट् । दुधविथ- धोथास्तुसुधूञामितीद। अधावीत् । ग्रहामिति संप्रसारणम् । गृह्णाति-गृहीते। ईटोग्रहा मितीटो दीर्घः । ग्रहीपीष्ट। यन्तेति न वृद्धिः।अग्रहीत्।ईटो ग्रहामस्मिन्सूत्रे एकस्वराद्ग्रहेर्विहितस्येटो दीर्घ इति वक्तव्यम् । एकस्वरादिति किम् । जाग्रहिता, जाग्रति ष्यतीत्यादौ यङ्लाके मा भूत् । ग्रहेर्विहितस्य किम् । ग्राहितः । अत्र बेर्विहितत्व न दीर्घः । प्रकृतस्येटो ग्रहणात् ग्राहिष्यते इत्यादाविण्वदिटो न दीर्घः ॥ इत्यात्पे ॥ (शृदृप्रां द्वस्वो वा लिटि किति) शशरतुः-शश्रतुः । शीर्यात्। शरिता-शरीता ॥ पालनपूरणयोः। पृणाति । एपरतुः। पूर्यात् ॥ वृ वरणे। वृणाति।ववरतुः वूर्यात्॥भृ भर्त्सनभरणयोभणाति॥मृहिंसायाम् मृणाति॥ विदारणाहणातिाददरतुः-दद्रतुः॥जृ क्योहानौ। जृणाति॥ नृ नये नृणाति ॥ कृ हिंसायाम् । कृणाति ॥ ऋ गतौ । ऋणाति । अरांचकार । ईर्यात् । आरेता-अरीता । आरीत् । शब्दे । गृणाति॥ ज्या वयोहाना । ग्रहां ङिति च । जिनाति । जिज्यो, जिज्यतुः। जीयात् । अज्यासीत् ॥री गतिरेषणयोः। रिणाति । रिर्यतुः॥ ली श्लेषणे। लिनाति । ललौ-लिलाय,लिल्यतुः। ललि-ललाथ-लिलयिथलिलेथ । लाता-लेता। अलैषीत्-अलासीत्॥ली वरणे । ग्लिनाति। प्ली गतौ प्लिनाति ॥ इति प्वादयः ॥ वी वरग । वीणाति ॥ श्री भयभरणयोः। भ्रीणाति ॥ क्षीष् हिंसायाम् । एषां त्रयाणां वा द्वस्वः॥ ज्ञा अवबोधने । ज्ञाजनोर्जा । जानाति । जज्ञौ । ज्ञायात-ज्ञेयात् । अज्ञासीत् । बन्ध बन्धने । बध्नाति।बबन्धिथ-बबन् ।बन्द्धाभन्त्स्यति। अभान्त्सीत् । सकारलोप आदेश इति न तु मात्रविधौ । तेन अबान्धाम् ॥ मन्थ विलोडने।मथ्नाति। मथान॥श्रन्थ ग्रन्थ संदर्भ।श्रथ्नाति। शश्रन्थ । जग्रन्थ । श्रन्थिग्रन्थीत्यादीनां वा लिटः कित्त्वम् । शश्राथ । जग्राथ ॥ कुथ कुन्थ संश्लेषणसंक्लेशनयोः।चुकोथ । चुकुन्थ ॥ मृद मृड क्षादे । मृदान । मृडान ॥ गुध रोषे । गुध्नाति ॥ कुष निष्कर्षे|कुषाण॥ Page #139 -------------------------------------------------------------------------- ________________ [ आख्याते क्र्यादयः 1 टीकाद्वयोपेता । ( ११९ ) (सुबोधिनी) --शुदां ह्रस्वो वा लिटि ॥ एषां वा हस्वो लिटचेव । शश्रतुः । अन्यत्र ऋसंयोगादित्यकित्त्वाद् गुणः । शशरतुः । कित इति निषेधस्य क्रादिनियमेन बाधः । शशरिव-शश्रिव । ऋत इरितीरि कृते खोविं हसे इति दीर्घः । शीर्यात् वृवृञइति वेटो दीर्घः । शरिता- शरीता । ऋ । ऋणाति । ऋणीयात् । ऋणातु । आर्णीत् । अरांचकार । ईर्यात् । अरिता - अरीता । अरिष्यति--अरीष्यति। आरिष्यत् । आरीत् ॥ ज्या ॥ ग्रहामिति संप्रसारणम् । दीर्घस्य दीर्घ इति दीर्घे कृते प्वादेर्हस्व इति ह्रस्वः । जिनाति ॥ री गतिरेषणयोः । रेषणं वृकशब्दः । लीलीङोरित्यात्वं वा । ललौ - लिलाय । लेता । इति ल्वादयः । प्वादयोऽपि ॥ क्षीषु ॥ षित्त्वादे | क्षिया । ज्ञाजनोर्जेति जादेशः । जानाति ॥ बन्ध । नोलोप इति नलोपः । बध्नाति । हसादान हावित्यानः । अत इति हेलुक । बधान । आदिजबानामिति भत्वम्।भन्त्स्यति। सानो नित्यमिति वृद्धिः । अभान्त्सीत् । तथोर्ध इति तस्य धत्त्वम् । झसादिति सिलोपः । अबान्धाम् । अभान्त्सुः ॥ श्रन्थ विमोचनप्रतिहर्षयोरित्यस्य श्रन्थ ग्रन्थसंदर्भे इत्यर्थभेदात् श्रन्थेः पुनः पाठः । श्रन्थग्रन्थीत्यादिना कित्त्वपक्षे एत्वपूर्वलोपावप्यत्र वक्तव्याविति हरदत्तादयः । श्रेथतुः श्रेथुः । इदं कित्त्वं पितामपीति सुधाकरमते श्रेथिथ । अस्मिन्नपि पक्षे णपि शश्राथ । उत्तमे तु शश्राथ, शश्रथेति माधवः । तत्र मूलं मृग्यम् ॥ मृद् मृड क्षोदे । ष्टुत्वम् । मृद्भाति ॥ कुष निष्कर्षे | अन्तर्गतस्य बहिनिष्कासनं निष्कर्षः ॥ ( निरः कुषो वसादेरनपीड़ा ) निष्कोषिता - निष्कोष्टा । निरकोषीत्-निरक्कुक्षत् ॥ क्षुभ संचलने ( क्षुम्नादिषु न णत्वम् ) क्षुभाण ॥ णभ तुम हिंसायाम् । नभान । तुभान ॥ क्विशू विबाधने । किइनाति । अक्लेशीत् । अक्किक्षत् ॥ अश भोजने । अश्नाति । आशीत् ॥ उधम् उञ्छे । धस्नाति । उकारो धात्ववयव इत्येके । उध सांचकार । औध्रासीत् - औध्रसीत् ॥ विष विप्रयोगे । विषाण । वेष्टा | अविक्षत् ॥ पुष् पुष्टौ । पोषिता ॥ मुष स्तेये ॥ खच् खबू हिठू भूतप्रादुर्भावे । खच्ञाति ॥ प्रगत ध. ( सुबोधिनी) - निरः कुषो वसादेरनपीडा ॥ निरपूर्वात् कुषेः परस्य वसादिप्रत्ययस्य इड्वा स्यात् अनपि ॥ इड्भावे हशषान्तादिति सकू । निरकुक्षत्॥क्षुम्नादिषु न णत्वम् । क्षुम्नादिराकृतिगणः ॥ णभ तुभ भ्वादौ दिवादौ च ॥ क्लिशू विबाधने । न शादिति श्चुत्वनिषेधः । क्लिश्नाति ऊदितो वेति वेट् । अक्लेशीत् । इडभावे हशषान्तादिति सक्| अक्लिक्षत् ॥ पुष· पुष्टौ । अनिट्केषु पुष्यतीति यप्रत्ययेन निर्देशादयं सेडिति भावः । पोषिता ॥ खच् खवू हिदू भतप्रादुर्भावे । भूतप्रादुर्भावः अतिक्रान्तोत्पत्तिः । शत्रुत्वम् ॥ खच्ञाति ॥ Page #140 -------------------------------------------------------------------------- ________________ (१२०) सिद्धान्तचन्द्रिका । [ आख्याते चुरादयः ] (तत्त्वदी०)-खच् इति ॥ भूतप्रादुर्भावोऽतिक्रान्तोत्पत्तिः । खच्नातीति ॥ स्तो श्चुभिच्चुरिति ञः ॥ (खवो वस्य औ ने) खौनाति । हिठ्णाति ॥ इति पम् ॥ वृङ् संभक्तौ । वृणीते । ववे । वरिषीष्ट-टषीष्ट । अवरिष्टअवृत ॥ इति क्रयादयः॥ (सुबोधिनी )-खवो वस्य औ ने खवे तोर्वकारस्य औत्वम् भवति नाप्रत्यये परे॥ परत्वादौत्वे हसान्तत्वाभावात् हसादान हाविति नाखौनीहि।ष्टुत्वम् । हिठ्णाति ॥ ॥ इति पम् ॥ वृक संभक्तौ ॥संभक्तिर्भजनम् । क्रादेरिति नट् । ववृषावृवृऋदन्तात्सिस्योरिड् वा । वरिषीष्ट-वृषीष्ट । वृबृऋदन्तानामिति वेटो दीर्घः । वरितावरीता । इडभावे लोपो हस्वादिति सिलोपः । अवृत । इत्यात् ॥ इति सुबोधिन्यां ज्यादयः॥ ... (तत्त्वदी०) कृतायामिह टीकायां लोकेशकरशर्मणा। बाधनं दुष्टब हीनामगमत्त्वयादिसाधनम्।। इति तत्त्वदीपिकायां क़्यादयः ॥ ९ ॥ अथ चुरादयः । चुर स्तेये ॥चरादेः॥ स्वार्थे ञिः॥ चोरयति । चोरयते । चोरयांचकार । चोर्यात् । अचूचुरत् ॥ चिति स्मृत्याम् । चिन्तयति । अचिचिन्तत् । चुरादेनिति केचित् ॥ चिन्तति । यत्रि सङ्कोचने । यन्त्रयति । अययन्त्रत । ओलडि उत्क्षेपणे । ओलण्डयति । ओलण्डति । ओलण्डांचकार । औललण्डत् । ओकार इदित्येके । लण्डयति । अललण्डत् । लण्डति ।अलण्डीत् ॥ पीड अवगाहे । पीडयति । पीडयते । पीडयांचक्रे ॥ (सुबोधिनी)-चुर स्तेये ॥ चुरादेः॥स्वार्थे निः॥चुर आदिर्यस्य स चुरादिस्तस्मात् चुरादेर्गणात् स्वार्थे ञिः स्यात् ॥ उपधाया लघोरिति गुणः । धातुत्वात् तिगुणायादेशौ । 'जित्स्वरितेत उभे' इत्युभयपदम् । चोग्यति । चोरयते । चोरयेत् । चोरयेत । चोरयतु । चोरयताम् । अचोरयत् । अचोरर त । चारयामास । चोरयांचवे । ओरिति जिलोपः।चोर्यात् । चोरयिषीष्ट । चोरयित । चोरयिष्यति । चोरयिष्यते । अचोरयिष्यत् । अचोरयिष्यत । लुङि अचूचुरत् । अचूचुरत॥ चिति स्मृत्याम् । चिन्तेति पठितव्ये । इदित्करणं जिप्रत्ययस्य पाक्षिकत्वं ज्ञापकम्।सर्वेऽपि चुरादयो विकल्पेन जिप्रत्ययं लभन्ते इत्यर्थः। तेन चिन्त्यात्. चिन्त्यते इत्यादौ 'न लोपः' इत्यनेन लोपो न ॥ यत्रिं संकोचने।यन्त्रेति पठितुं शक्यम् । यत्त इदित्करणा Page #141 -------------------------------------------------------------------------- ________________ [ आख्याते चुरादयः ] टीकाद्वयोपेता ।। (१२१) द्यन्त्रतीति माधवेनोक्तं तच्चिन्त्यम् । यन्त्र इत्यत्र नकारे पठितेऽपि नो लोप इति न. लोपो न लभ्यते नकारस्यानुपधात्वात् । चिन्त्यादित्यत्रतु चिन्त स्मृत्यामितिनकारोपधपाठे नस्य लोपः स्यादेवति तद्वारणाय क्रियमाण इकारस्तु ज्ञापक इति भावः। ओलडि उत्क्षपणे ओदित्करणं वाद्योदितश्चेति धातोरव्यवहितस्य तकारस्य नत्वार्थमितितबलात् नेडित्येके । ओदिद्भलादिड्व्यवधानेऽपि नत्वमित्यन्ये । लण्डिनः । (तत्त्वदी०) चुरादेः॥ वुर आदिर्यस्य स तस्मात् । तद्गुणसंविज्ञानोबहुव्रीहिः । अनुद्भूतावयवभेदसमुदायस्यान्यपदार्थत्वेनाश्रयणादेकवचनम् । ननु धातोः प्रेरणे इत्यनेनैव चुरादेरपि स्यात्किमनेनेत्यत आह-स्वार्थ इति । निर्वेति। अयं भावः । चिन्तेति पठितव्ये इदित्करणं : पाक्षिकत्वे लिङ्गम् । तेन चिन्त्यादित्यादौ नलोपो न ॥ यत्रि ॥ यन्त्रेति पठितुं युक्तम् । इदित्त्वाभावेऽपि उपधाभूतनकाराभा । नलोपाभावात् ॥ (भाजभासभाषदीप जीवमीलपीडां वोपधाया ह्रस्वोऽपरेनौ) अपीपिडत्-अपिपीडत् ॥ प्रथ प्रख्याने । प्राथयति ॥ (सुबोधिनी)-भ्राजभासभाषदीपजीवमीलपीडां वोपधायाद्वस्वोऽङ् परे औ॥ एषामुपधाया ह्रस्वो वा स्यात् अङ्परो यस्मात् सोऽङ्परस्तस्मिन् जिप्रत्यये परे ॥ भ्रातृ भासू दीप्तौ । भाष व्यक्तायां वाचि । दीपी दीप्तौ । जीव प्राणधारणे। मील निमीलने । पीड अवगाहे । ह्रस्वपक्षे लघोर्दीर्घ इति पूर्वस्य दीर्घः। अपीपिडत । हूस्वाभावे अपिपीडत् ॥ प्रथ प्रख्याने । प्रख्यानं कथनम् । स्वार्थे जो ज्ञपादिभ्य इति वक्ष्यमाणेन मित्त्वाभावान ह्रस्वः । प्राथयति ॥ (स्मृहत्वरप्रथम्रदस्तस्पशां पूर्वस्याऽदपरे नौ इत्वापवादः) अपप्रथत् ॥ पृथ प्रक्षेपे । पर्थयति ॥ (सुबोधिनी) स्मृहत्वप्रथम्रदस्तृस्पशां पूर्वस्यादपरे औ इत्वापवादः ॥ एषां द्वित्वे पूर्वस्य अत्वं स्यात् अपरे जौ अङि लघावित्यस्यापवादः॥ स्मृ चिन्तायाम् । दृ भये । जित्वरा संभ्रमे । प्रथ प्रख्याने । म्रद मर्दने । स्तृज आच्छादने । स्पशू बाधनग्रन्थनयोः। (उपधाया ऋवर्णस्य ऋद्रापरे जौ इररारामपवादः)अपीपृथत्अपपर्थत् ॥ भक्ष अदने । अबभक्षत् ॥श्रण दाने । विश्राणयति । अशिश्रणत्-अशश्राणत् ॥ तड आघाते। अतीतडत् ॥ (सुबोधिनी)-उपधाया ऋवर्णस्य ऋद् वाडूपरेऔइररारामपवादः ।। ऋवर्णोपधस्य धातोरुपधाया ऋद्धा स्यात् अङ्गपरे जो इररारामपवादः॥धातोरुपधाया ऋत इरिति । अचीकृतदित्यादौ इप्राप्तः, अमीजदित्यत्र मृजेवृद्धिरित्यारप्राप्तः, Page #142 -------------------------------------------------------------------------- ________________ (१२२) सिद्धान्तचन्द्रिका। [आख्याते चुरादयः ] इतरेषामृदुपधानामुपधाया लघोषित अपीपृथादित्यादावर प्राप्त इति विवेकः ॥ श्रणदाने ॥ प्रायेणायं विपूर्वः। विश्राणनं वितरणम् ॥ (तत्त्वदी०) इररारामिति ॥ दीर्घोपधे उपधाया ऋत इति इर् प्राप्तः । मृजेवृद्धिरित्यार प्राप्तः । लघूपधत्वे त्वर प्राप्तः ॥ . ज्ञप ज्ञानज्ञापनयोर्मित् । (सुबोधिनी)-ज्ञप ज्ञानज्ञापनयोर्मित् ॥ज्ञप धातुज्ञ ने ज्ञापने च जिप्रत्ययं लभते मित्संज्ञकश्च । 'प्रतिपज्ज्ञप्तिचेतनाः' ॥ मितां द्वस्वः॥ मितां धातूनामुपधाया द्वस्वो औ ॥ ज्ञपयति । अजिज्ञपत् ॥/ (सुबोधिनी)-मितां स्वः ॥ म् इत् येषां ते मितः तेषाम् । घटादयो मित इत्यादि मित्संज्ञकानां ग्रहणम् ॥ (तत्त्वदी० )-मितां द्वस्वः॥ म् इत् येषां ते तथा तेषाम् । यम वेष्टने मित । यमयति । अयीयमत् ॥ (सुबोधिनी)-यम वेष्टने मित् ॥ चुरादौ यमधातुर्वेष्टने मित् न तु भोजने । यमयाति चन्द्रम् । परिवेष्टते परिवषं करोतीत्यर्थःायमधातुश्चुरादौ घटादौ च। घटादौं तु यच्छति जनतोऽन्यत्र । मिन्नोत भोजने एव मित्संज्ञकः । यमयति ब्राह्मणान भोजयतीत्यर्थः । अन्यत्र आयामयाति द्राघयति व्यापारयति त्यर्थः । जनी जृषित्यमन्तत्वादेव सर्वार्थेषु मित्त्वे सिद्ध विशेषार्थं वचनम् ॥ १. (तत्त्वदी०) यमयति ॥ परिवेष्टत इत्यर्थः ॥ २। चह चप परिकल्कने मित् । चहयति । अचीचहत् । चपयति । अचीचपत् । (सुबोधिनी)-चह चप परिकल्कने मित् । परिकल्कनं दम्भः शाठ्यं च । अदन्तेषु कथादिषु वक्ष्यमाणस्य तु अदन्तत्वेनावृलोपित्वान्नाकार्यम्। अचचहत् ॥ (तत्त्वदी०) परिकल्कने ॥ परिकल्कनं दम्भः शाठयं च ' कथनमित्यन्ये ॥ रह त्यागे मित् । रहयति । अरीरहत् ॥ ( सुबोधिनी) रह त्यागे मित् ॥ कथादेस्तु अररहत् । । बल प्राणने मित् । बलयति । अबीबलत् ॥ चिञ चयने मित् । (सुबोधिनी)-चिञ् चयने मित् ॥ रचनायां मिदयम् ॥ (चिस्फुरो वात्वं वा) Page #143 -------------------------------------------------------------------------- ________________ [ आख्याते चुरादयः ] टीकाद्वयोपेता। (सुबोधिनी)-चिस्फुरो वात्वं वा ॥ अनयोरात्वं वा स्यात् जिप्रत्यये परे। रातो ौ पुक् ॥ ऋधातोरादन्तस्य च पुज्ञो॥ चपयति । अचीचपत । चययति । अचीचयत् ॥ स्वार्थे औ ज्ञपादिभ्योऽन्ये मितो न॥कृत संशब्दने ॥ .. (सुबोधिनी)-रातो औ पुक्॥ आ च आञ्चानयोः समाहारो रात् तस्य आत्वे पुकि हस्वे चपयात । आत्वाभावे चययति । स्वार्थे जो ज्ञपादिभ्योऽन्ये मितो न । तेन शमादीनाममन्तत्वप्रयुक्तं मित्त्वं न । मुख्यमते पञ्च ज्ञपादयः । मतान्तरे सप्त । कृत संशब्दने ॥ (तत्त्वदी०)-रातोऔ-॥ आ च आच्च रात् तस्य रातः। ऋ इत्यनेनोभयोरपि ग्रहणम् ।। तेन ऋच्छन्तम् इयतं वा प्रेरयतीति विग्रहे अर्पयतीति भवति ॥ ज्ञपादिभ्य इति ॥ सप्तभ्य इति मतान्तरं बोध्यम् । तेन शमादीनाममन्तत्वप्रयुक्तं मित्त्वं न ॥ - (धातोरुपधाया ऋत इर) कीर्तयति।अचीकृतत्।अचीकीर्तत्।। (सुबोधिनी)-धातोरुपधाया ऋत इर् ॥ ननु ऋत इर् इति सूत्रे धातोर्चत इर् इति व्याख्याने सिद्धमिष्टं किमनेन सूत्रेणोत चेन्मवम् । तथाहि सात ऋकारीयति इत्यत्रापि इप्रसंगः स्यात् । उपधाया ऋवर्णस्य ऋरोत पक्षे आङि लघौ ह्रस्व इति इत्वे. कृते लघोदीर्घ इति दीर्घः अचीकृतत् । पक्षे अचिकीर्तत् ॥ (आकुस्मादात्मनेपदिनः) चित संचेतने । चेतयते । अचीचितत ॥ दशि दंशने । दंशयते । अददशत । आकुस्मीयमात्मनेपदं त्रिसन्नियोगेनैव ॥ दंशति । नलोपो न सञ्जिसाहचर्यात् भ्वादेरेव तत्र ग्रहणात् ॥ तात्रि कुटुम्ब धारणे । तन्त्रयते । कुटुम्बयते । अततन्त्रत । अचुकुटुम्बत ॥ मात्र गुप्तभाषणे । मन्त्रयते । शम् लक्ष आलोचने । शामयते । लक्षयते । अशीशमत । अललक्षत ॥ दिवु परि-'. कूजने । देवयते ॥ गृ विज्ञाने । गारयते । अजागरत ॥ विद चेतना-: ख्याननिवासेषु । वेदयते । अवीविदत | insuri . . (सुबोधिनी)-आकुस्मादात्मनेपदिनः।।कुस्मनाम्नो वेति वक्ष्यते तमभिव्या-- प्येत्यर्थः। परगामिफलार्थमिदमात्मनेपदम् ॥ चित संचेतने ॥ संचतनं मूर्छाद्यवस्थानिवृत्त्युत्तरकालिकं ज्ञानम् । शम् लक्ष आलोचने । ननु निशामय तदुत्पत्तिम्' इति कथं संगच्छते।आकुस्मीयत्वादात्मने पदे निशामयस्वोत रूपस्य सर्वसम्मतत्वादिति । यदि शमु उपशमे इत्यस्मात् जिप्रत्ययस्तीमन्तत्वान्मित्वे सति ह्रस्वेन भाव्यम् । अत्राहुःस्वार्थञ्यन्तादस्माद्धातोः प्रेरणे इति जिप्रत्यये निशामयोत रूपं जानीहि । न चार्थासंगतिरितिवाच्यम् । निवृत्तप्रेषणाद्धातोःप्राकृतेऽर्थे णिजिष्यते' इति सिद्धान्तात्। Page #144 -------------------------------------------------------------------------- ________________ (१२४) सिद्धान्तचन्द्रिका। [ आख्याते चुरादयः ] स्वार्थे औ ज्ञपादिभ्य इति मित्वनिषेधः। शामयते ॥ विद तनाख्यानानिवासेषु । "सत्तायां विद्यते ज्ञाने वेत्ति विन्ते विचारणे । विन्दते विन्दति प्राप्तौ याब्लुग्नमेष्विदं क्रमात् ॥ १॥" (तत्त्वदी० )-शामयत इति ॥ आकुस्मीयत्वादात् । निशामय तदुत्पत्तिमिति तु निवृत्तप्रेरणात् 'धातोः प्रेरणे' इति प्रेरणे औ बोध्यम् । धातूनामनेकार्थत्वाच्छ्रणे वृत्तिः ॥ ..!कुस्मनाम्नो वा ॥ कुस्मेति धातुः कुत्सितस्मयने॥ अथवा कुस्मेति नाम ततो निः । कुस्मयते । अचुकुस्मत ॥ कण निमीलने । काणयति । अचीकणत्-अचकाणत् ॥ (सुबोधिनी)-कुस्मनाम्नो वा॥ कुपूर्वात्स्मयतेर्डप्रत्यये टिलोपे समासे च कृते निष्पन्नं कुस्मेति नाम ॥ कण निमीलने । एकनेत्रनिमीलने एवायं शब्दस्वभावात् । काण्यादीनां कणरणभणेति सूत्रेण 'अङि लघौ ह्रस्वः' इति हो विकल्प्यते । अचीकणत्-अचकाणत् ॥ (तत्त्वदी०)-निमीलने ॥ स्वभावादेकनेत्रस्यैव ।। ८ (नवगण्यामुक्तेभ्यो हिंसार्थेभ्यः स्वार्थः ञिः ) हिसि हिंसायाम् । हिंसयति ॥ज्ञा नियोगे। आज्ञापयति । अजिज्ञपत् ॥ भू मिश्रीकरणचिन्तनयोः । भावयति । अबीभवत् ॥ लोकृ लोचू परिभाषणे ॥ (सुबोधिनी)-नवगण्यामुक्तेभ्यो हिंसार्थेभ्यः स्वा ञिः ॥ नवगण्यामुक्ता हिंसाः स्वाथै जिप्रत्ययं लभन्ते । घातयति हन्तीत्येतौ समानार्थी॥भू मिश्रीकरणचिन्तनयोः । भावयति मिश्रीकरोति चिन्तयति वेत्यर्थः। न रितः॥ ऋदितःशासेश्चाङयुपधाया द्वस्वो न ॥ अलुलोकत् । अलुलोचत् ॥धून कम्पने ॥ __(सुबोधिनी)-न रितः॥ ऋ इद्यस्य स रित् तस्य । शासु अनुशिष्टौ ॥ (धूमीञोर्नुक औ) धूनयति । अदुधूनत् ॥ प्राञ् तर्पणे। प्राणयति । अपिप्राणत् ॥ __(सुबोधिनी)-धुप्रीञोर्नुक् औ॥अनयोर्नुगागमः स्या जिप्रत्यये ॥ धूज कम्पने । प्रीञ् तर्पणे। धूज़ धातुः स्वादौ ज्यादौ तुदादौ चुरादौ च। स्वादौ हस्वश्च । तथा च कविरहस्ये काव्ये ।“धूनोति चम्पकवनानि धुनोत्यशोकं चूतं धुनाति धुवति स्फुटितातिमुक्तम्॥वायुर्विधूनयति चम्पक पुष्परेणून् यत्कानने धवातचन्दनमञ्जरीश्च१ - अथादन्ताः॥कथ वाक्यप्रबन्धने । यत इत्यल्लोपस्य स्थानिवत्त्वेन न वृद्धिः । कथयति ॥ Page #145 -------------------------------------------------------------------------- ________________ आख्याते चुरादयः ] टीकाद्वयोपैता। (१२५) (सुबोधिनी)-अथादन्ताः॥ वक्ष्यमाणेषु धातुषु अन्त्यावयवोकारो विवक्षितो न तूच्चारणार्थ इत्यर्थः॥ कथ वाक्यप्रबन्धे ॥ यत इत्यल्लोपस्य स्थानिवद्भावान्न वृद्धिः । कथयति ॥ ( तत्त्वदी० )-कथ ॥ अदन्तप्रयोजनमाह-अल्लोपेति ॥ ( अय्लोपिनो नाङ्कार्यम्) अचकथत्॥ वर ईप्सायाम् । वरपति । अववरत् । गण संख्याने । गणयति । गणेः पूर्वस्य ईद्वापरे औ । अजीगणत् ॥ स्तन गदी देवशब्दे । स्तनयति । गदयति । अतस्तनत् । अजगदत् ॥ पत गतौ । वा ज्यन्तः। पतयति । पततिं। पतांचकार । पतयांचकार । अपपतत् । अपतीत् । वादन्त इत्येके । पातयति । अपीपतत् ॥ रच प्रतियत्ने । रचयति ॥ सूत्र वेष्टने । सूत्रयति । असुसूत्रत् ॥ मूत्र प्रस्रवणे । मूत्रयति ॥ कल गती संख्याने च । कलयति ॥स्पृह ईप्सायां च । स्पृहयति । अपस्पृहत् ॥ भाम क्रोधे। भामयति । अबभामत् ॥ सूच पैशुन्ये । सूचयति ॥ ऊन परिहाणे । उनयति । अिनिमित्तः स्वरादेशो द्वित्वे कर्तव्ये स्थानिवत् । औननत्॥ अर्थङ् याचने । अर्थयते । आर्तथत ॥ संग्राम युद्धे । अससंग्रामत ॥ अन्ध दृष्टशुपघाते । अन्धयते । अन्धयति । आन्दधत् ॥ अङ्क अङ्ग पदें. लक्षणे च । आश्चकत । आञ्जगत् ॥ इति चुरादयः ॥ (सुबोधिनी)-अय्वृलोपिनो नाकार्यम्॥अश्च इश्च उश्च आ च तेषांसमाहारोऽवृ अम्वृणो लोपो अस्यास्तीति अय्वृलोपी तस्य अइउऋलोपिनो धातोरङ्निमित्तं कार्यं न स्यात्।तत्किम्।अङि लघौ ह्रस्वइत्युपधाहस्वत्वं पूर्वस्येत्वं च। लघोदीर्घ इति दीर्घः अकार्यम् ॥ पत गतौ इति ॥ वा यन्तः ॥वाऽदन्त इत्येकाआये पतयति । पतति । अनेकस्वरत्वात्कासादिप्रत्ययादित्याम्।पतांचकार। यत इत्यल्लोपः । अपतीत् । द्वितीये तु पातयति ! अपीपतत् ॥ स्तन गदी देवशब्दे ॥ स्तनादेर्व्यन्तादिनुरितीनुः। 'स्तनीयत्नुर्बलाहकः' । सप्रत्यये तु तिस्तनयिषति ॥ रच प्रतियत्ने ॥ प्रतियत्नो गुणाधानम् ॥ स्पृह ईप्सायाम् ॥ आप्तुमिच्छा ईप्सा|भाम क्रोधे॥ अबभामदित्यत्राल्लोपस्य स्थानिवत्त्वात् जौ अङि लघौ ह्रस्व इति ह्रस्वो न ॥ सूच पैशुन्ये ॥ पिशुनो दुर्जनस्तत्कर्म पैशुन्यम् । लुङि असुसूचत्॥ऊन परिहाणे॥ जिनिमित्तः स्वरादेशो द्वित्वे कर्तव्ये स्थानिवत्। जिप्रत्ययो निमित्तं यस्य ईदृशः स्वरस्थाने आदेशः स स्थानिना तुल्यः स्थानिवद्भवति द्वित्वे कर्तव्ये । स्वरादेःपर इत्यनेन नशब्दस्य द्वित्वम् । उत्तरखण्डे यत इति अल्लोपः । औननत् ॥ अर्थङ् याचने । कथादिषु उपधावृद्धिदीर्घपूर्वेत्वविरहेणभामप्रभृतीनामुपधाहस्वस्थ निषेधेन गृहमृगप्रभृतीनामुपधागुणस्य चव्यावर्तनेनादन्तत्वं सार्थकम्। इह त्वदन्तत्वे प्रागुक्तफलाभावा Page #146 -------------------------------------------------------------------------- ________________ ( १२६ ) सिद्धान्तचन्द्रिका | [ आख्याते त्र्यन्तप्रक्रिया ] त्किमर्थमदन्तत्वमुच्यते । बोपदेवस्तु धातोर्नामिन इति वृद्धौ कृतायां रातो ञौ पुकि अर्थापयते इति रूपमाह । शाकटायनस्तु कथादीनां सर्वेषां पुकमाह । तन्मते कथापयति । गणापयतीत्यादि ॥ ॥ इति सुबोधिन्यां चुरादयः ॥ ( तत्त्वदी ० ) - प्रयोजनान्तरमाह - अय्वृलोपिन इति ॥ अश्व इश्च उश्च आच तथा तान् लोपयतीति स तथा तस्य अङ्कार्य न । द्वित्वे सतीकारदीर्घत्वादि न ॥ गण संख्याने । संख्यानिमित्तो ज्ञानविशेषः संख्यानमेकत्वादि तेन च तन्निष्ठः क्रियाविशेषो लक्ष्यते ॥ अङ्क अङ्ग पदे लक्षणे च । लक्षणं चिह्नकरणम् ॥ इति तत्त्वदीपिकायां चुरादयः ॥ १० ॥ कृतायामिह टीकायां लोकेशकरशर्मणा । इयं दशगणी पूर्णा माननीया मनीषिभिः ॥ अथ त्र्यन्तप्रक्रिया । धातोः प्ररणे ॥ धातोः प्रयोजकव्यापारेऽर्थे ञिप्रत्ययः ॥ भवन्तं प्रेरयति । भावयति । भावयते । भावयचकार । (सुबोधिनी) -- धातोः प्रेरणे ॥ प्रयोजकः प्रेरकः स च चेतनाचेतनसाधारण्येन विवक्षितः । स च क्वचित्सिद्धः क्वचित् फलरूपः । देवदत्तः पाचयति, गमयतीत्यादौ सिद्धः । भिक्षा वासयति, संग्रामो वासयतीत्यादौ तु फलरूपः । तस्य व्यापारः प्रेरणम् । भृत्यादेर्निकृष्टस्य प्रवर्त्तना प्रेरणमाज्ञेत्यर्थः । धातोत्रिः प्रत्ययः स्यात्प्रेरेणsर्थे । ननु यदि धातोः प्रेरणे ञिर्भवति लोटू च तदा जेर्लोटश्च पर्यायता स्यात् । ततश्चेदानीं पृच्छतु भवानिति वक्तव्ये प्रच्छयतीति ञिप्रत्ययेनापि प्रयुज्येतेति चेन्मैवम् । प्रयोज्यप्रवृत्त्युपहिता या प्रयोजकनिष्ठप्रवृत्तिः सा ञिप्रत्ययस्यार्थः । प्रयोज्यप्रवृत्त्यनुपहिता प्रयोजकप्रवृत्तिस्तु लोडर्थ इत्युभयोर्भेदः । उक्तं च । " द्रव्यमात्रस्य तु प्रैषे पृच्छादेलोंड विधीयते । सक्रियस्य यदि प्रैषस्तदा स विषयो णिचः ॥” भवन्तं प्रेरयति भावयति । ञित्स्वरितेत उभे इत्युभयपदम् । भावयते । भावयेत् । भावयेत । भावयतु । भावयताम् । अभावयत् । अभावयत । कासादिप्रत्ययादित्याम् । भावयांबभूव । भावयांचक्रे । जेरिति ञिलोपः । भाव्यात् । भावयिषीष्ट । भावयिता । भावयिष्यति । भावयिष्यते । अभावयिष्यत् । अभावयिष्यत । (तत्त्वदी ० ) -- दशगणीं निरूप्य स्वार्थनिप्रसंगात्प्रेरणार्थं त्रिं दर्शयति-- धातोः प्रेरणे ॥ प्रेरण चानेकविधम् प्रेषणाध्येषणतत्समर्थाचरणभेदात् । तत्र भृत्यादेर्निकृष्टस्य प्रवर्तना प्रेषणमाज्ञेति यावत्। गुर्वादेः प्रवर्तनाध्येषणं प्रार्थनेति यावत् । तत्समर्थाचरणं तदनुकूलव्यापारकरणम् । तच्चानुमित्युपदेशानुग्रहान्नदानादिरूपम् । तत्र यस्यानुमति विनार्थे निवर्तते तस्य राजादेरनुमत्या प्रयोजकत्वम् । वैद्यादेस्तूपदेशेन पलायमानं निरोधेनानुप्रहेण चौरस्यान्नदानेन सर्वश्वायं प्रकरणादिलम्य: Page #147 -------------------------------------------------------------------------- ________________ आख्याते त्र्यन्तप्र० ] टीकाद्वयोपेता । (१२७) 1 सर्वत्रानुगतप्रेरणामात्रं ञ्यर्थः । अथ पृच्छतु मां भवानित्यत्रास्त्विति चदुच्यते । प्रयोज्यप्रवृत्त्युपहितप्रयु क्तिर्म्यर्थः । केवला तु लोडर्थ इति । उक्तं च- " द्रव्यमात्रस्य तु प्रेषे पृच्छादेर्लोड् विधीयते ॥ सक्रियस्य यदा प्रैषस्तदा स विषयो णिचः " इति । अथ कथं भिक्षा वासयति, कारीषोऽग्निरध्यापयतीत्यत्र ञिः,भिक्षादेश्वाचेतनतया प्रेरणस्य च चेतनधर्मत्वात् इति चेत् शृणु । अत्राप्पानुकूल्याचरणमेव प्रयोजकव्यापरित्वेनाध्यारोप्यते । यतो भिक्षा अपि प्रचुरा 1 वासं प्रयुञ्जते । तथा कारीषोऽग्निरेकान्ते निर्वाते प्रज्वलितः - शीतकृतमुपद्रवमध्ययनविरोधिनमपनीयाध्ययनेऽनुकूलो भवतीति । ञित्वादुभयपदमाह - भावयतीत्यादि । व्यञ्जनवत्यश्व लभ्यमाना ( असयोः पूर्वस्योकारस्येत्वम् पवर्गयलजकारेष्ववर्णपरेषु परतः ) अबीभवत् ॥ मूङ् बन्धने । मावयति । अमीमवत् ॥ यावयति । अयीयवत् ॥ अरीरवत् । लावयति । अलीलवत् ॥ अजीजवत् ॥ (सुबोधिनी)–असयोः पूर्वस्योकारस्येत्वं पवर्गय लजकारेष्ववर्णपरेषु. परतः ॥ द्वित्वपूर्वरूपस्य उत इत्वं भवति अवर्णः परो येभ्यस्तेऽवर्णपरास्तेषु पवर्गयलजेषु परेषु ॥ अवर्णपरेषु किम् । बुभूषति ॥ पवर्गयलजेषु किम् । ऊर्णुनुविषति ॥ भ्रू सत्तायाम् । एरङ् द्विश्चोत अङि कृते द्वित्वे च भूभू इति जातं बत उत्तरस्य वृद्धयावादेशौ ततोऽङ लघौ हस्वे कृते असयारिति पूर्वस्येत्वं ततो दीर्घः । अवीभवत् । अबीभवत ॥ मुङ् बन्धने । अमीमवत् ॥ यु मिश्रणे । अयीयवत् ॥ रुशब्दे । अरीरवत् ॥ लुञ् छेदने । अलीलवत् ॥ जुगतौ । सौत्रोऽयं धातुः । अजीजवत् ॥ (स्रवतिशृणोतिद्रवतिप्रवतिप्लवतिच्यवतीनामङ्क्षयोः पूर्वस्यत्वं वावर्णपरे धात्वक्षरे परे) असिस्रवत् - असुस्रवत् । अशिश्रवत्अशुश्रवत् | अदिद्रवत्-अदुद्रवत् । अपिप्रवत् - अपुप्र॒वत् । अपि प्लवत्- अपुप्लवत् । अचिच्यवत्-अचुच्यवत् । न रितः । अशशासत् । अड्डुढेोकत् ॥ ( सुबोधिनी ) - स्रवतिशृणोतिद्रवातेप्रवतिप्लवतिच्यवतीनामङ्सयोः पूर्वस्येत्वं वावर्णपरे धात्वक्षरे परे ॥ सृ गतौ । श्रु श्रवणे । द्रु गतौ । प्रुङ प्लुङ् च्युङ् गतौ । अक्षरशब्दोऽत्रावर्णपरः ॥ अवर्णपरे किम् । शुश्रूषति ॥ अपिप्रवत्अपुप्रवत् । अपिप्लवत् - अपुप्लवत् । अचिच्यवत् - अचुच्यवत् ॥ ( न्तात् ञिः ) चोरयति । अचूचुरत् ॥ ( सुबोधिनी ) - यन्तात् ञिः ॥ स्वार्थञ्यन्ताद्धातोर्जिः स्यात् प्रेरणे ॥ अपवादत्वाद्वाद्धं बाधित्वा जेरिति ञिलोपः । चोरयति । लाड लघोर्हस्व इति ह्रस्वः Page #148 -------------------------------------------------------------------------- ________________ (१२८) सिद्धान्तचन्द्रिका। [ आख्याते ञ्यन्तप्र० ] लघोर्दीर्घ इति दीर्घः। नन्वग्लोपित्वाद् द्वयोरप्यसंभवः । ततश्च अचुचोरदित्येव रूपं स्यात् । उच्यते । अङ्गाक्षिप्तस्य अनिमित्तत्वेनाश्रयणान्नासंभवः॥ (तत्त्वदी.)अचूचुरदिति ॥ अत्र रिकारस्य लोपेऽपि अबलोपिनो नाङ्कार्यमिति निषधो न शक्यःअङाक्षिप्तत्य बेनिमित्तत्वेनाश्रयणात् । तथाहि । त्रिजातिरेका निमित्तत्वेनाश्रिता । तथा च तस्या एकत्वाद्गोबलीवर्दन्यायेन ज्याकृतेरन्यस्य लोपः प्रतिषेध षियत्वेनाश्रीयत इत्यर्थः । यतु कैश्चिदुक्तं परत्वादादौ वृद्धौ सत्यामैकारस्य लोपेऽवलोपित्वाभावादेव कार्यमिति तन्न । सर्वविधिभ्यो लोपविधिर्बलीयांस्तस्य सर्वसंमतत्वात् ॥ हनो घत ॥ हन्तार्घदादेश इण्वर्जिते णिति ॥ घातयति । अजीतत् ॥ (सुबोधिनी)-हनो घत् ॥ जिति णिति च प्रत्यये हन्तपदादेशः स्यात् इण्य. त्यये णाप्रत्यये च परे न ॥ घातः। घ॥घातकः । वुण । णिति किम् । हन्ता। (तत्त्वदी०)-हनो घत् इति ॥ हनो घदादेश इत्यादिव्याखानं तु प्राचामनुरोधेन । व्याख्यानं त्वीदृशम् । हश्च न् चानयोः समाहारो हन् तस्य । घश्च त् च नयोः समाहारो घत् । हनो घ्न इत्यतो हन इत्यनुवृत्तेः हन्तेर्हस्य घो णिति तस्य न च तो भति णिति । न चेति निषेधादिण्वर्जनम् । एतेन हनो न इत्यतो हनोऽनुवृत्तेर्घत्वसिद्धश्चोभयं व्यर्थमित्युक्तिरपि परास्ता । (शदेरगतो तो जौ)शातयति ।अशीशतत्। गतौ तु शादयति। अशीशदत् । रातो औ पुक् ।। (सुबोधिनी)शदेरगतो तो औ॥ शदेऔं तोऽन्तादेश : स्यात् न तु गतो । शातयात । गतौ तु गाः शादयति गोविन्दः गमयतीत्यर्थः ॥ ३ गतौ । अस्य रातो औ पुगित्यन्तरङ्गत्वादादौ पुक पश्चाद् गुणः॥ पुकि गुणः॥ अर्पयति । आर्पिपत् ॥ दापनि । अदीदपत ॥ धापयति । अदीधपत् ॥ स्थापयति । (सुबोधिनी )-पुकि गुणः॥ पुगागमे परे गुणो भवति । अपयति । लुङि स्वरादः पर इति पि इत्यस्य द्वित्वे जोरीत जिलोपे च आर्पिपत् ॥ डुदाञ् दाने । अङि लघाविति इत्वे ह्रस्खे च कृते लघोर्दीर्घ इति दीर्घत्वम् । अर्द दपत् ।। डुधाञ् धारणादौ । अदीधपत् ॥ ष्ठा गतिनिवृत्तौ । रातो जाविति पुकि स्पयति ॥ (तिष्ठतेरङ्युपधाया इत् ) अतिष्ठिपत् ।। (सुबोधिनी) तिष्ठतेरङयुपधाया इत् ॥ तिष्ठतेरुपधाचा इत्वं स्यात् अङ प्रत्यये । स्थापीत्यत्रात इत्वं ततो द्वित्वादि । अतिष्ठिपत् । तिश्तोति शितपा निर्देशो यड्लुङ्गानिवृत्त्यर्थः । तेन यङ्लुकि लुङि अतास्थपत ॥ Page #149 -------------------------------------------------------------------------- ________________ [ आख्याते ज्यन्तप्र०] टीकाद्वयोपेता। (१२९) पादेर्यक् ॥ पाशोछोसोद्देव्येनवेञां युक् औ ॥ पाययति ॥ (सुबोधिनी)-पायुक् ॥ एषां युक् औ परे ॥ पा पाने । लुग्विकरणालुग्विकरणेति परिभाषया पा रक्षणे इति नेह गृह्यते । तस्य तु पालयतीति रूपम् ॥ शो तनूकरणे । छो छेदने । षो अन्तकर्मणि । हृञ् स्पद्धोयाम् । व्यञ् संवरणे । वे तन्तुसंताने ॥ पाययति ॥ (पिबतेरङि पूर्वस्येकार उपधालोपश्च ) अपीप्यत् ॥शाययति । अशीशयत् ॥ छाययति । अचिच्छयत् ॥ साययति । असीषयत् ॥ बाययति ॥ __ (सुबोधिनी)-पिबतेरङि पूर्वस्येकार उपधालोपश्च ॥ पिवतेः पूर्वरूपस्य इत्वमुत्तररूपस्योपधाया लोपश्च स्यात् अङि परे ॥ पायीत्यत्र पायशब्दस्य द्वित्वे हसादिः शेषे चेत्वमुत्तरत्राकारलोपः । इहाऽवलोपित्वादलघुत्वाच्च इत्वदीर्घयोरप्राप्तावीत्वम् । अपीप्यत् ॥ शाययति । अशीशयत्॥छाययति । ह्रस्वाभावान्न दीर्घः।अचिच्छयत् ॥ शावयति । अशीशयत् ॥ साययति । असीषयत् ॥ हाययति ॥ (हयतेय॑न्तस्याङ्सयोः संप्रसारणं युगभावश्च) अजूहवत्अजुहावत् ॥ व्याययति । अविव्ययत् ॥ वाययति । अवीवयत् ॥ (सुबोधिनी)-ह्वयतेय॑न्तस्याङ्सयोः संप्रसारणं युगभावश्च ॥ ह्वेञ संप्रसारणं युगभावश्च स्यात अड्सयोः परतः॥ बायीत्यत्र पूर्व संप्रसारणे युगभावे च कृत हू इत्यस्य द्वित्वादि उत्तरत्र उ वृद्धौ आवादशे च कृते कणरणति ह्रस्वे लघोरिति दीर्घ च अजूहवत् । ह्रस्वाभावे अजुहावत् ॥ (पातौ लुकू) पालयति । अपीपलत् ॥ (सुबोधिनी)-पातेऔं लुक् ॥ लुगागमः स्यात् । रातो जो पुगिति पुकोऽपवादः ॥ लुगागमस्य पुनिवृत्तिरेव फलम् । पावयतीति रूपस्य ‘पाल रक्षणे' इति धातुनापि सिद्धः ॥ (तत्त्वदी०) पातौं लुक् ॥ कित्त्वादन्ते । पुकोऽपवादः ।। (प्रयोजकास्मये औ स्मयतेरात्त्वम् ) (सुबोधिनी)-प्रयोजकात्स्मये औ स्मयतेरात्वम् ॥ स्मयजनकः प्रयोजकश्चत्तस्मिन् आत्वं औ परे ॥ (तत्त्वदी०) स्मयतेरात्वम् ॥ मिङ् ईषद्धसने । एवं “विस्मापयन्विस्मितमात्मवृत्तौ” इत्यपपाठः । मनुष्यवाचेति करणादेव विस्मयात् । अन्यथा शानोऽपि स्यात् । ञ्यन्तात् जौ शता वा । विस्मापयते मनुष्यवाक् तया सिंहो विस्मापयन्निति ॥ Page #150 -------------------------------------------------------------------------- ________________ (१३०) सिद्धान्तचन्द्रिका। [ आख्याते ज्यन्तप्र० ] (भीस्मिभ्यां ज्यन्ताभ्यामात् प्रयोजकाच्चद्भयस्मयौ) जटिलो विस्मापयते । व्यसिष्मयत ॥ (भियः स्वरस्यात्वं वा तदभावे षुक् जौ हेतोश्चद्भयम् ) । मुण्डो भापयते । भीषयते । अभिपत । अबीभिषत ॥ (सुवाधिनी)-भीस्मिभ्यां ज्यन्ताभ्यामात् प्रयोजकाच्चेद्भयस्मयो । भयस्मययोर्जनकःप्रयोजकश्चेत् ञ्यन्ताभ्यांभीस्मिभ्यामात्मनेपदंस्यात्॥भियःस्वरस्यात्वंवा तदभावे षुक औहेतोश्चेद्भयम्॥भयजनकः प्रयोजकश्चद्भियो वाकारः आवाभावे षुगागमश्च स्यात् औ॥ जिभी भये' इत्यस्यानेनात्वे रातोत्राविति पुकि च मुण्डो भापयते । भीषयते ॥ जटिलो विस्मापयते । प्रयोजकाद्भयस्मयावित्युक्तेर्नेह । कुञ्चिकयैनं भाययति । विस्माययति ॥ (रुहेनौ पोवा) रोपयति । अरूरुपत् । रोहयति । अरूरुहत् ॥ कल्पयति । अचीक्लपत्-अचकल्पत्॥वर्तयति । अवीवृतत्-अववर्तत् ॥ मार्जयति । अमीमृजत्-अममार्जत् ॥ (सुबोधिनी)-रुहेऔं पो वा ॥ रुहेर्हस्य वा पकारः स्यात् जौ परेरुह बीजजन्मनि प्रादुभोवे च।'रुप विमोहने' इति देवादिकस्यधातूनामनेकार्थत्त्वाजन्मनि वृत्ती सूत्रं स्पष्टार्थम्॥कृपू सामर्थ्य। उपधाऋवर्णस्येति ऋद्भावे अङि लघौ ह्रस्व इति पूर्वस्येकारः। लघोदीर्व इति दीर्घत्वे कृपो रोल इति लत्त्वे च अचीक्लपत्-अचकल्पत् ॥ वृतु वर्तने । अवीवृतद्-अववर्त्तत् ॥ मृजूष शुद्धौ । अमीमृजत् । पक्ष मृजेर्वृद्धिरिति वृद्धौ अममार्जत् ॥ __(तत्त्वदी० )रुहेरुह बीजजन्मनि प्रादुर्भावे च । रुप विमोहन इति दैवदिकस्यापि रोपयतीति सिद्धम् धातूनामनेकार्थत्वाजन्मनि वृत्तिः । सूत्रं तु स्पष्टार्थम् ।। ( इक्रीजीनामात्वं औ) अध्यापयति । अध्यापिपत् ॥ ( अङ्सपरे औ इङो गा वा) अध्यजीगपत्॥ क्रापयति।अचिक्रपत् ॥ जापयति । अजीजपत् ॥ (सुबोधिनी)-इङ्क्रीजीनामात्वं औ । इङ अध्ययने । डुक्रीञ् द्रव्यविनिमये । जि जये ॥ अङ्सपरे औ इडे गा वा ।। अध्यजीगपत् । पक्षे स्वरादेः पर इति पिशब्दस्य द्वित्वे अध्यापिपत् ॥ अचिक्रपत् । अजीजपत् ।। (तत्त्वदी०)-इक्रोजीनाम् ॥ इङ् अध्ययने । डुक्रीञ् द्रव्यविनिमये । जि जये ॥ Page #151 -------------------------------------------------------------------------- ________________ [ आख्याते ज्यन्तप्र०] टीकाद्वयोपेता । (१३१) (ह्रीब्लीगक्नूयीक्ष्मायीणां जो पुक् ) द्वेपयति ।अजिद्विपत् ।। ब्लेपयति । अबिब्लिपत् ॥ रेपयति । अरीरिपत् ॥ (सुबोधिनो)-बीब्लीरीक्नूयीक्ष्मायीणां औ पुक् ॥ एषां पुक्ौ । ह्रीं लज्जायाम् । ब्ली वरणे । रीङ् क्षये । क्नूयी शब्दे उन्दे च । मायी विधूनने ॥ (तत्त्वदी०) हेपयतीति॥उपधाया लघोरित्यत्रोपधाया इत्यस्य योगविभागाद्धातोरुपधाया नामिनो गुणो भवति । तेन गुरोरपि भवति ॥ ( यवयोर्वसे हकारे च लोपः) क्नोपयति। अचुक्नुपत्॥क्ष्मापयति । अचिक्ष्मपत् ।। __ (सुबोधिनी)-यवयोर्वस हकारे च लोपः ॥ यकारवकारयोर्लोपः स्यात वसप्रत्याहारे हकारे च परे ॥ (दुषेनौं दी? वा चित्तविरागे) चित्तं दूषयति दोषयति घा कामः। अदूदुषत् ॥ __ (सुबोधिनी)-दुषेनौ दीर्घः ॥ दुष्यतेरुपधाया ऊत्स्यात् औ । दूषयति । दुष वैकृत्ये दिवादिः। जो किम् । दोषः। वाचित्तविरागे । चिती संज्ञाने इत्यस्मात् क्तः। चित्तम् । विरागोऽप्रीतता । दूषयति-दोषयति वा चित्तं कामः । चित्तं दुष्यात । स्नानसंध्यादौ विरक्तं भवति । तत् प्रयुङ्क्ते इत्यर्थः । (तत्त्वदी०) दु० वाचित्त०॥वाक्यभेदेन व्याख्येयम् |दुवेर्दी? जौ। दूषयति । ततश्चित्तविरागे वा । चित्तविरागोऽप्रीतता ॥ (स्फायो वः)ो ॥ स्फावयति। अपिस्फवत् ॥ अड्ड उद्यमे । अडुयति । आड्डित् ॥ अर्च पूजायाम् । अर्चयति। आर्चिचत् ॥ उन्दी क्लेदने । उन्दयति । औन्दिदत् ॥ उब्ज आर्जवे । उब्जयति । औब्जिजत् ॥ द्रा कुत्सायाम् । द्रापयति अदिद्रपत् ॥ (सुबोधिनी)-स्फायो वः॥ स्फायो वत्वं स्यात् जो परे ॥ अड्ड उद्यमे । स्वरादः पर इति डिशब्दस्य द्वित्वे आड्डिडत् ॥ अर्च पूजायाम् । आर्चिचत्॥ एध वृद्धौ । उपधाहस्वो द्वित्वात्प्रागेव भवति । ततो धिशब्दस्य द्वित्वे मा भवानिदिधत् ॥ उन्दी क्लेदने । दिशब्दस्य द्वित्वे औन्दिदत् ॥ उब्ज आर्जवे । उपदेशे दकारोपधोऽयम् । द्वित्वविषये स्वरात्पर इति निषेधात् जिशब्दस्य द्वित्वे कृते ततो निपातनादस्य वः॥ द्रा कुत्सायाम् । पूर्वमुपधाहस्वः। ततो द्वित्वे इत्वे च अदिद्रपत् ॥ (रभिलभोः स्वरे नुम्नव ब्लिटोः ) रम्भयति । अररम्भत् ।। डुलभ प्राप्तौ । लम्भयति । लम्भयते । अललम्भत् । हाययति । Page #152 -------------------------------------------------------------------------- ________________ [ आख्याते त्र्यन्तप्र० J ( १३२ ) सिद्धान्तचन्द्रिका | हाययते । अजीहयत् । स्मारयति । स्मारयते । असस्मरत् ॥ दारयति । दारयते । अददरत् ॥ (सुबोधिनी) - रभिलभोः स्वरे नुम् न त्वब्लिटोः। स्वरे किम्। आरब्धम् । अब्लिटोः किम् । रभते । रेभे । रभ रामस्ये । डुलभष् प्राप्तो । आरम्भत् । अललम्भत् ॥ वृद्धौ च । पूर्वाद्धिनोतेरिति सूत्रे न त्वङीत्युक्ते धत्वं ना अजीहयत् ॥ स्मृ चिन्तायाम् ।अङि लधाविति ह्रस्वः । स्मृदृत्वरेति पूर्वस्यात् । असस्मरत् ॥ दृ विदारणे । अत्रापि पूर्वस्यात् । अददरत् । तपरत्वसामर्थ्यादत्र लघोनं दीर्घः ॥ वेष्टिचेष्टयोः पूर्वस्यात्वं वाङि ) अविवेष्टत्-अववेष्टत् ॥ अचि चेष्टत्-अचचेष्टत् ॥ भ्राजू दीप्तौ । भ्राजयति । भ्राजयते । अबिभ्रजत्-अवभ्राजत् ॥ (सुबोधिनी) - द्वेष्टिवेष्ट्योः पूर्वस्यात्वं वाङि ॥ अनयोः पूर्वरूपस्यात्वं वा स्यादङ्प्रत्यये परे । वेष्ट वेष्टने । चेष्ट चेष्टायाम् । भ्राजू दी है । भ्राजभासेत्यादिना वा उपधाह्रस्वः । अविभ्राजत्-- अवभ्राजत् ॥ (कणरणभणश्रणलुपहेठिह्वेञ् बाणिलोटिलोठिलोपीनां वा ह्रस्वोऽङि ) अचीकणत - अचकाणत् ॥ व्यशिश्रणत् - व्यशश्राणत् ॥ अलुलुपत्-- अलुलोपत् ॥ अजीहिठत्-अजिंठत् ॥ अजूहवत्-अजुहावत् ॥ अबीबणत्- अबबाणत् ॥ अल्लुट - अलुलोटत् ॥ अलूलुठत्-- अलुलोठत् ॥ ( सुबोधिनी ) - कणरणभणश्रणलु पहे ठिह्वेञ्बा णिलोटिलोठिलोपीनां वा । ह्रस्वोऽङि ॥ कण निमीलने । रण शब्दे । भण शब्दे । श्रण दाने । लुल छेदने । हेठ विबाधायाम् । ह्वेन स्पर्धायां शब्दे च । वन्तः शब्दे । लुट प्रतिघाते। लुठ छेदने । लोपीति ञ्यन्तनिर्देशः । लापीति पाठान्तरम् । लप व्यक्तायां वाचि । अचीकणत्-अचकाणत् । अरीरणत्- अरराणत् । अबी णत्-अवभाणत् । अशिश्रणत् - अशश्राणत् । अल्लुपत् - अलुलोपत् । अजीहिठत्-अजिठत् ॥ ( स्वापेः संप्रसारणमङि ) असूषुपत् ॥ (सुबोधिनी) - स्वापेः संप्रसारणमङि ॥ ञिष्वप् शये । ञ्यन्तस्यास्य संप्रसारणं स्यादङि । इह संप्रसारणोत्तरं द्वित्वम् | असूषुपत् ॥ (श्वयन्तस्य संप्रसारणं वासयोः) अशिश्वयत्-अशूशवत्॥ (सुबोधिनी) - श्वयतेऽर्यन्तस्य संप्रसारणं वाङ् सयोः॥ संप्रसारणं तदाश्रयं च कार्य बलवदिति वचनादृद्धेः पूर्वं संप्रसारणम् । अलघु वान्न दीर्घः । अशिश्वयत्अशूशवत् ॥ Page #153 -------------------------------------------------------------------------- ________________ [ आख्याते ज्यन्तप्र० ] टीकाद्वयोपेता। (१३३) (जिघ्रतेरुपधाया इद्वाङि) अजिघ्रिपत्-अजिघ्रपत् ॥ . (सुबोधिनी)-जिघ्रतेरुपधाया इद्वाङि ॥ नापीत्यस्यात इत्वं वा स्यादङि परे । ततो द्वित्वादि ॥ (सिध्यतेरैहलौकिकेऽर्थे स्वरस्यात्वं औ) अन्नं साधयति । असीषधत् । अन्यत्र तपः सेधयति । असीषिधत् ॥ ___ (सुबोधिनी)-सिध्यतेरैहलौकिकेर्थे स्वरस्यात्वं औ॥ इहलोके भवः ऐहलौकिकः तस्मिन् ऐहलौकिकेऽर्थे सिध्यतेः स्वरस्यात्वं जौ। अन्नं साधयति निष्पादयतीत्यर्थः । सिध्यतरिति यनिर्देशाद्भौवादिकस्याग्रहणम् । ऐहलौकिके किम्। तापस: सिध्यति तत्त्वं निश्चिनोति । तत्त्वनिश्चयश्चात्मकविषयकः स च परलोकै उपयुज्यते। तं प्रेरयति तापसं तपः । लुङि असीषधत् । आत्वाभावे असीषिधत् ॥ ___ (तत्त्वदी० )-सिध्यतेरैहलौकिके इति॥इह लोके भव ऐहलौकिकस्तस्मिन्नित्यर्थः ।। अनं साधयतीति ॥ निष्पादयतीत्यर्थः । अन्यत्र । पारलौकिके इत्यर्थः । सेधयति । तापसः सिद्धयति ।हेयमुपादेयं च तत्वतो ज्ञातुकामः प्रवर्तते । तमपरः प्रयुङ्क्ते ज्ञानविशेषवन्तं करोतीत्यर्थः।। (प्रजने वीयतेरात्वं वा औ) वापयति-वाययति वा गाः पुरो वातः गर्भ ग्राहयतीत्यर्थः ॥ (सुबोधिनी)-प्रजने वीयतेरात्वं वा औ॥वी गतिप्रजनादौआदादिकस्य यका निर्देशः। अत्र केचिदुत्प्रेक्षयन्ति । वेत्तेरिति वक्तव्ये यका निर्देशाद्वयेत्रोऽपि ग्रहणम् । तस्यापि यकि संप्रसारणे वीधातुना समानरूपत्वात् । अतो द्वयोरपि प्रजनेऽर्थे आत्वं वा स्यात् । तत्रात्वे तदभावे च यद्यपि व्यजो व्याययतीति रूपं तुल्यम् । पादेयुगिति पुकोऽपवादतया युग्विधानात् । तथापि ञ्यन्तात् किपि-व्याः, व्यौ, व्याः । आत्वाभावपक्षे–व्यैः, व्यायौ, व्यायः। इत्यस्ति विशेषः। सूत्रे विभाषाविधानसामर्थ्यास्पक्षेऽपि संध्यक्षराणामित्यात्वं न प्रवर्तते । रातो जो पुगिति पुक । वापयति।आत्वाभावे वाययति गाः पुरोवातः । गर्भ ग्राहयतीत्यर्थः॥ (तत्त्वदी०)-प्रजने वियतेरिति॥वीगतिव्याप्तिप्रजनकान्त्यसनखादनेष्वित्यस्य यका निर्देशः। अन्यथादादिकत्वेन यकारासंभवः।प्रजनो गर्भग्रहण तत्रेत्यर्थः॥वापयतीति। गर्भ ग्राहयतीत्यर्थः । वातेरनेकार्थत्वाद्यदि प्रजनोऽप्यर्थ उच्यते तदास्य वापयति वेतेस्तु वाययतीति सिद्धौ कृतमेतेन ॥ (इणो जौ वा गमिरबोधने ) गमयति । अजीगमत् । आययात । आयियत् ॥ घटादयो मितः । घट चेष्टायाम् । मितां ह्रस्वः घटयति ॥ व्यथयति । अविव्यथत् ॥ प्रथयति । अपप्रथत् ॥ प्रस बिस्तारे। प्रसयाति ॥ म्रद मर्दने । म्रदयति । अमम्रः Page #154 -------------------------------------------------------------------------- ________________ ( १३४ ) सिद्धान्तचन्द्रिका । [ आख्याते त्र्यन्तप्र० ] दत् ॥ स्खद विद्रावणे । स्वदयति । अचिस्खदत् ॥ त्वरयति । अतत्वरत् ॥ ज्वर रोगे । ज्वरयति ॥ नट नृत्तौ । नटयति । अनीनटत् ॥ चक तृप्तौ । चकयति ॥ लगे संगे । लगयति ॥ ज्वल दीप्तौ । प्रज्वलयति ॥ स्मृ आध्याने । स्मरयति । असस्मरत् ॥ हृ भये । दरयति । अददरत् ॥ नृ नये । नरयति । अनीनरत् । श्रा पाके । श्रपयति । अशिश्रपत् (सुबोधिनी) - इणो औ वा गमिरबोधने ॥ इणो गमिः स्याद्वा जौ अबोधनेऽर्थे ॥ अजीगमत् । बोधने तु । प्रत्याययति । प्रतिपूर्वस्येणो ज्ञानार्थता | स्वरादेः पर इति ञिसहितस्य द्वित्वम् । प्रत्याययत् ॥ घटादयो मितः । घट चेष्टायाम् । तत्फल तु मितां ह्रस्व इति ह्रस्वत्वम् । मितां यन्तानामिति णमि च वा दीर्घ इति च । त्वरत्यन्ता घटादयः षितश्च । षित्प्रयोजनं तु षिद्भिदामङित्यङ् । आवतः स्त्रियामित्याएं । तेन घटा व्यथेत्यादिरूपसिद्धिः । विघटयति । कथं तर्हि 'कमलवनोद्घाटनं कुर्वते ये' इत्यादि । शृणु । घटसंघात इति चौरादिकस्येदम् ॥ व्यथ दुःखसंचलनयाः । अविव्यथत् ॥ प्रथ प्रख्याने । अपप्रथत् । स्मृदुत्वरेति पूर्वस्यात् ॥ प्रस विस्तारे । अपिप्रसत् । अलघुत्वान्न दीर्घः ॥ म्रद् मर्दने । अमम्रदत् । स्मृदृत्वरेति पूर्वस्यात् ॥ स्खद विद्रावणे | अचिस्खदत् ॥ ञित्वरा संभ्रमे । अतत्वरत् । स्मृदृत्वरेति पूर्वस्यात् ॥ घटादयः षितः । षित्वादङ । त्वरा ॥ ज्वर रोगे । अजिज्वरत् । इणूप्रत्यये - अज्वारअज्वारि । णमुप्रत्यये – ज्वरं ज्वरं ज्वारंज्वारम् ॥ नट नृत्तौ । गात्रविक्षेपमात्रं नृत्तिः । अनीनटत् ॥ चक तृप्तौ । अस्य तृप्तिमात्रे मित्त्वम् परस्मैपदं च । अचीचकत् ॥ लगे संगे । अलीलगत् ॥ ज्वल दीप्तौ । अजिज्वलत् । ज्वलादेर्ण इति णप्रत्यये -ज्वालः ॥ स्मृ आध्याने। उत्कण्ठापूर्वकं स्मरणमाध्यानम् ॥ दृ भये । दृणन्तं प्रेरयति दरयति । भयादन्यत्र दारयति । केचित्तु घटादौ स्मृदृत्वरेति सूत्रे च दृ इति दीर्घस्थाने हस्वं पठन्ति तन्नेति माधवः । यद्ययं हस्वान्तो भवेत्तर्हि शृदृप्रां ह्रस्वो वेति सूत्रे हस्वविकल्पविधायके ग्रहणमनर्थकं स्यात् । नृ नये । नयादन्यत्र नारयति ॥ श्रा पाके । श्रपयाते । विक्लेदयतीत्यर्थः । पाकादन्यत्र श्रापयति । स्वेदयतीत्यर्थः ॥ (तत्त्वदी ० ) मितः ॥ के के पुनर्मित इत्याह- घटादय इति ॥ कस्तु ( मारणतोपण निशामनेषु ज्ञा ) ज्ञपयति ॥ ( कम्पने चलिः) चलयति शाखां वायुः । अन्यत्र शीलं चालयति ॥ ( मदी हर्षदैन्ययोः ) मदयति । हर्षदैन्ययोः किम् । मादयति ॥ ( ध्वन शब्दे ) ध्वनयति । अदिध्वनत् ॥ (सुबोधिनी) - माणतोषणनिशामनेषु ज्ञा ॥ एष्वेवार्थेषु जानातिर्मित् । शम आलोचनइत्यस्मान्निष्पन्नत्वान्निशामनं चाक्षुषज्ञानमिति माधवः । ज्ञापनमात्रमित्यन्ये । Page #155 -------------------------------------------------------------------------- ________________ [ आख्याते व्यन्तप्र० ] टीकाद्वयोपेता । ( १३५ ) निशानेष्विति पाठान्तरम् । निशानं तक्ष्णिीकरणम् । पशुं संज्ञपयति मारयतीत्यर्थः । विष्णुं विज्ञपयति । संतोषयतीत्यर्थः । संज्ञपयति रूपम् । माधवमते दर्शयतीत्यर्थः । मतान्तरे तु बोधयतीत्यर्थः । यज्ञपयतेि शरम् । तीक्ष्णं करोतीत्यर्थः । कथं तर्हि 'विज्ञापना भर्तृषु सिद्धिमेति' इति 'नज्ज्ञापयत्याचार्यः' इति च । अत्र ज्ञाधातोर्यौ मित्त्वाद्रस्वेन भवितव्यमिति । शृणु । माधवमतेऽचाक्षुषज्ञाने मित्त्वाभावात् । ज्ञापनमात्रे मत्त्वमिति मते तुज्ञा नियोगे इति चौरादिकस्य धातूनामनेकार्थत्वाद्बोध्यम् ॥ कम्पने चलिः ॥ चलयति शाखाम् । कम्पनादन्यत्र तु शीलं चालयति । अन्यथा करोतीत्यर्थः ॥ हरतीत्यर्थइति स्वामी । सूत्रं चालयति । क्षिपतीत्यर्थः ॥ मदी हर्षदैन्ययोः ॥ मदयति ॥ हर्षयति लेपयति वा । दैन्यं करोतीत्यर्थः । अन्यत्र मादयति । चित्तविकारमुत्पादयतीत्यर्थः ॥ ॥ ध्वन शब्दे ॥ ध्वनयति घण्टाम् । अन्यत्र ध्वानयति । अस्पष्टाक्षरमुच्चारयतीत्यर्थः ॥ (तत्त्वदी०) -- मारणेति ॥ नारणं हिंसनम् । निशामनं चाक्षुषज्ञानम् । 'तज्ज्ञापयत्याचार्यः' 'विज्ञापना भर्तृषु सिद्धिमेति' इत्या रौ ज्ञापनसामान्ये मित्त्वाभावान्न ह्रस्वः ॥ कम्पने चलिः । चलयतीति शाखामिति शेषः । अन्यत्र शीलं चालयति । अन्यथा करोतीत्यर्थः ॥ मदयतीति ॥ अन्यत्र मादयति चित्तविरागमुत्पादयतीत्यर्थः ॥ ध्वनयतीति ॥ घण्टामिति शेषः । अन्यत्र ध्वानयति अस्पष्टाक्षरमुच्चारयतीत्यर्थः ॥ (जनीजष्कसुर मन्ताश्च ) जनयति । जरयति । नसु कौटिंल्ये दीप्तौ च । क्नसयति ॥ (सुबोधिनी) जनीजृषूक्नसुरञ्जोऽमन्ताश्च । जनी प्रादुर्भावे । नृषु वयोहानै । क्नसु हरणदीत्योः । त्रयोsपि दिवादयः । रञ्ज रागे । दैवादिको भौवादिकश्च । अमन्ताः ऋमिगम्यादयः । नृषिति पिन्निर्देशाज्जीयतेर्ग्रहणम् । नृणातेस्तु जारयाति ॥ ( तत्त्वदी ० ) - अमन्ताश्च ॥ अम् अन्ते येषां ते शमादय इत्यर्थः ॥ (रजे मृगरमणे नलोपः ) रजयति मृगान् । अरीरजत् । अन्यत्र वस्त्रं रञ्जयति । अररञ्जत् ॥ शमयति ॥ दमयति ॥ (सुबोधिनी) - रञ्ज मृगरमणे नलोपः ॥ रर्नस्य लोपः स्यात् ञौ परे आखेटेऽर्थे । रजयति मृगान् । मृगेति किम् । रञ्जयति पक्षिणः। रमणादन्यत्र तु रञ्जयति मृगान् तृणदानेन ॥ शमु दमु उपशमे । दैवादिकौ । अशीशमत् । अदीदमत् ॥ (तत्त्वदी०) रवित्यादि ॥ मृगरमणमाखेटः । मृगेति किम् । रञ्जयति पक्षिणः । रमणे किम् । रञ्जयति मृगान् तृणदानेन । Page #156 -------------------------------------------------------------------------- ________________ (१३६ ) सिद्धान्तचन्द्रिका । [ आख्याते ज्यन्तप्र० ] • (ज्वलहलह्मलनमामनुपसर्गाद्वा) ज्वलयति-ज्वालयति । ह्वल ह्मल चलने।ह्वलयति-हालयति । मलयति-हाल यति । नमयतिनामयति । उपसर्गे तु । प्रहलयति ॥ (सुबोधिनी)-ज्वलबलमलनमामनुपसर्गाद्वा ॥ ज्वळ दीप्ती, बल मल संचलने इति त्रायाणां पूर्व घटादौ पठितत्वान्नमेरमन्तत्वान्नित्य प्राप्ते विभाषेयम् । उपसर्गेषु नित्यं मित्त्वम्। प्रज्वलयति। कथं तर्हि प्रज्वालयति, रन्नामयतीति । घत्र न्तात् 'नाम्नो जिर्डित्करणे' इति औ बोध्यम् । कथं संक्रामयति, विश्रामयतीति च । मान्तस्य सेटो न वृद्धिरिति वृद्धिनिषेधात्।पनि क्रमः श्रम इत्येव भवतिं न तुं कामः श्राम इति । पूर्वोक्तसमाधानस्यात्रासंभवात् पृथकू प्रश्नः। शृणु । घञन्ताभ्यां क्रमश्रमाभ्यां स्वार्थेऽणि कामश्रामशब्दौ स्वीकृत्य ताभ्यां जिर्डिदिति जिप्रत्यये संक्रामयति विश्रामयतीति सिद्धम् ॥ (तत्त्वदी०)-अनुपसर्गाद्वेति ॥ तेनोपसृष्टानां मित्त्वमेव । प्रवालयत्युन्नामयतीति तु घान्तात्तत्करोतीति औ । संक्रामयतीति तु वा चित्तविराग इत्यतो वेत्यनु तेर्व्यवस्थया बोध्यम् । (ग्लास्नावनुवमांच)ग्लापयति-ग्लपयति ।नापयति-नपयति॥ वानयति-वनयात । वामयति- वमयति ॥ .( सुबोधिनी) ग्लास्नावनुवमां च ॥ अनुपसर्गादेषां मित्त्वं वा आद्ययोरप्राप्ते वनेर्घटादित्वात्प्राप्ते वमेरमन्तत्वाच्च प्राप्ते विभाषा । ग्लापयाति-ग्र पयति । स्नापयतिस्नपयति । वानयति-वनयति । वामयति-वमयति ॥ (न कम्यमिचमाम् ) कामयति ॥ अम गत्याम् । आमयति । आमिमत् ॥ चामयति ॥ (सुबोधिनी)-न कम्यमिचमाम् ॥ अमन्तत्वात्प्राप्तं मित्यमेषां न स्यात् ।। (शाम्यतिदर्शने मिन्न ) निशामयति रूपम् ॥ (सुबोधिनी)-शाम्यतिर्दर्शने मिन्न। निशामयति रूपम । अन्यत्र प्रणयिनो निशमय्य वधूः कथाः कथं तर्हि 'निशामय तदुत्पत्ति विस्तराद्गदतोमम' इति । शृणु शम आलाचने इति चौरादिकस्यैव । धातूनामनेकार्थत्वाच्छवणे वृत्तिः ।यथा शाम्यति निशामयतीत्यादौ दर्शने प्रयुज्यते तथा चुरादिः शमधातुरपि श्रवणे भविष्यतीति । ___ (तत्त्वदी०)-दर्शने मिन्नेति ॥ निशामय तदुत्पत्तिमित्यादि तु म (लक्ष) आलोचन इत्यस्य, धातूनामनेकार्थत्वाच्छ्रवणार्थतापि ॥ .. (यच्छति जनतोऽन्यत्र मिन्न) आयामयति । भोजने तु यमयति विप्रान् ॥ Page #157 -------------------------------------------------------------------------- ________________ [ आख्याते ञ्यन्तप्र• ] टीकाइयोपेता 1 ( १३७ ) (सुबोधिनी) - यच्छतिर्भोजनतोऽन्यत्र मिन्न ॥ यम उपरमे इत्ययं धातुर्भोजने मित् । अन्यत्र तु न । आयामयति द्राघयति व्यापारयति वेत्यर्थः । भोजने तु यमयति ब्राह्मणान् भोजयतीत्यर्थः ॥ (तत्त्वदी० ) आयामयतीति ।। द्राघयति व्यापारयति वेत्यर्थः । भोजने तु यमयति विप्रं भोजयतीत्यर्थः ॥ ( स्खदिरवपरिभ्यां मिन्न ) अवस्वादयति परिस्वादयति ॥ "ई अक्षान्तौ । ईर्ष्ययति ॥ (सुबोधिनी) - स्खदिरवपरिभ्यां अवाचिस्खदत् ॥ मिन्न ॥ घटादित्वात्प्राप्तं मित्त्वं न । I (तेस्तृतीयो द्विस्तृतीयो इस एकस्वरो वा ) ऐयियत् । अङि तु । स्वरादेः परः । ऐयिष्यत् । द्वितीयपक्षे सान्ते । ईव्यिषिषति तृतीय एकस्वरपक्षे सान्ते प्रवर्तते । ञ्यन्ते तु तृतीय एकस्वराभावादित्यर्थः ॥ ॥ इति यन्तप्रक्रिया ॥ (सुबोधिनी ) - ईयतेस्तृतीयो द्विरिति ॥ तृतीयव्यञ्जनस्येति पक्षे सस्वरस्य यकारस्य द्वित्वम् । ऐष्यियत् । तृतीयैकस्वरस्येति पक्षे तृतीयाभावेन प्रकृतिवार्तिका - प्रवृत्तेः । स्वरादेः पर इति द्वित्वे षकार एव पूर्व श्रूयते हसादिः शेषात् । ऐर्षिष्यत् । तृतीयहसपक्षे षस्य द्वित्वं वारयितुमिदम् । तृतीयैकस्वरस्येति पक्षे तु स्वरादे परः इत्यस्यापवादत्वेन सान्ते प्रवर्तते ॥ इति सुबोधिन्यां जयन्तप्रक्रिया ॥ ( तत्त्वदी० ) – ईर्ष्यतेरिति ॥ तृतीयः क इत्याकाङ्क्षायां मतभेदेन व्याचष्टे - तृतीयों हस इति||हसापेक्षया तृतीयो हसः । स्वरसहित इत्यर्थः॥अस्मिन्पक्षे षस्य न द्वित्वम् ॥ मतान्तरमाहएकस्वरो वेति ॥ तृतीय इत्येव । ईर्ष्यतेर्यस्तृतीय एकस्वरः स द्विर्वाच्य इत्यर्थः । अत्र पक्षे सान्ते ईयिषिषतीति सस्य द्वित्वम् । आद्यपक्ष ईयियिषतीति सान्तेऽपि रूपद्वयम्। ईर्ष्यतेः सेऽपि सषोर्वा द्वित्वमिति । द्वितीयव्याख्यायां ञ्यन्तादडि द्वितीयस्य द्वित्वे हसादिशेषेण पूर्वत्र षस्यैव श्रवणात्तृतीयाभावेनैतद्वार्तिकाप्राप्तो ऐपियदिति प्रथमपक्षे । ऐर्षिष्यदिति तु द्वितीयपक्षे । एतद्वीजं तूक्तमेव । अत्र पण्डिताः । कचित्तु ऐष्यिष्यदिति षकारादेरपि द्वित्वमुदाद्दियते । तद्भान्तप्रक्षिप्तत्वादुपेक्ष्यम् । तस्मादैथियदित्येकमेवात्र रूपं साधनीयं न त्वैर्षिष्यदिति, ज्यन्ते तृतीयस्यैकाचोऽसंभवादित्याद्दुः । तत्स्वमतिभ्रभोद्भावनायेति मन्यामहे । तथाहि । ञ्यन्ते द्वितीयव्याख्यायां तृतीयस्यैकाचोऽसंभवात् द्वितीयद्वित्वं केन निवार्यमिति स्वयमेवोहनीयमिति दिक् । निवृत्तप्रेरणात् धातोत्र केवलेन तुल्योऽर्थः । तेन ‘प्रार्थयन्ति शयनोत्थितम्' इत्यादि सिद्धम् ॥ कृतायामिह टीकायां लोकेशकरशर्मणा । बाधनं दुष्टबुद्धीनामगमज् ञ्यन्तसाधनम् ॥ १ ॥ इति तत्त्वदीपिकायां ञ्यन्तप्रक्रिया ॥ १ ॥ Page #158 -------------------------------------------------------------------------- ________________ सिद्धान्तचन्द्रिका | अथ सान्तिप्रक्रिया । इच्छायामात्मनः सः ॥ धातोरात्मन इच्छायामर्थे सप्रत्ययो भवति ॥ ( द्विश्च ) आत्मनः भवितुमिच्छति बुभूषति । बुभूषांचकार । अबुभूषीत् ॥ ( १३८ ) [ आख्याते सान्तप्र० ] (सुबोधिनी ) - - इच्छायामात्मनः सः ॥ इच्छायाः क्रियारूपत्वेन कर्तरि विनानुपपन्नत्वात् कर्तुराक्षेपात् इच्छा कर्ता इष्यमाणं वस्तु यदि स्वसंबन्धित्वेनैव इच्छति तदा धातोः सप्रत्यय इत्यर्थः । तेन शिष्याणां पठनमिच्छति गुरुरित्यादौ सो न ॥ द्वेश्व ॥ सप्रत्ययान्तस्य धातोर्द्वित्वं स्यात् । भवितुमिच्छतीति कर्मनियतत्वादिषु कर्मेति लब्धम् । धातोः प्रत्ययविधानात् तदर्थत्वं लब्धम् । तेन इषिकर्मार्थवाचकाद्धातोरिच्छायां सप्रत्ययः स्यात् । तुम् तु स्वार्थिकः। साध्यावस्थां क्रियामाह । स च लौकिके वाक्ये प्रयुज्यते । केवलस्य धातोः प्रयोगानर्हत्वात् । अलौकिके तु धातुमात्र प्रयुज्यतेऽतः तुमः कथं लोप इति नो शक्यम् । अत्रात्मशब्दस्तु स्वशब्दस्य पर्यायः । संबन्धसामान्ये षष्ठी । आत्मनः स्वस्येत्यर्थः । स्वशब्देन हि इषिकर्तेव गृह्यते ॥ ( तत्त्वदी ० ) - इच्छायामात्मनः सः ॥ धातोरित्यधिकारात् । इष्टिरिच्छा इषेरिच्छेरित्यत एवं निपातनादः।आत्मशब्दोऽत्र स्ववाची न तु चेतनद्रव्यवाची आत्मन इत्यस्य व्यर्थतापातात् । इच्छायामात्मकर्त्तृकत्वाव्यभिचारात् । तच्चेदिष्यमाणमिच्छाकर्तृसम्बन्धि भवति । आद्भुवि कर्मणीत्यतः कर्मणीत्यनुवर्त्य पञ्चम्या विपरिणम्य कर्मणो धातोरिति सामानाधिकरण्येन व्याख्येयम् ॥ इच्छायां किम् । कर्तुं याति ॥ आत्मनः किम् । शिष्याणां पठनमिच्छति गुरुः ॥ स्वसंबन्धित्वं चेच्छायाः • साक्षादेव, तेन शिष्याणां स्वसंबन्धित्वेऽपि न || धातोः किम् । प्रतिष्ठासते इत्यत्र प्रसहितस्थाधातोर्मा भूत् । तथा सत्यद्वित्वयोर्वैषम्यं स्यात् ॥ कर्मणः किम् । गमनेनेच्छतीति करणान्मा भूत् । यत्तवासुदेवेन व्याख्यातम् - इच्छा चेत्स्वस्वसंबन्धिनीति । तन्न । शिष्याणां पठनमिच्छति गुरुरित्यत्रातिव्याप्तरनिवारणात् । तथाहि।अत्र पठनस्य धात्वर्थत्वेन तत्संबन्धिन्या इच्छायाः सत्त्वात् ॥ भवितुमिच्छतीति ॥ साध्यावस्थायाः क्रियाया वाचकस्य तुमः स्वार्थकत्वेन लौकिक एव वाक्यप्रयोगः । केवलस्य धातोः प्रयोगानर्हत्वात् । न त्वलौकिकेऽपि । तेन तुमः कथं लोप इति नाशङ्कनीयम् । द्वित्यतो द्विरित्यनुवृत्तं भिन्नं वाक्यम् । तेन सप्रत्ययप्रकृतिभूतस्य धातोर्न द्वित्वं किंतु सान्तस्य । तथा च प्रतीषिषतीत्यादि सिद्धम् ॥ वुः से ॥ उवर्णान्तादृवर्णान्ताद्रहिगुहिभ्यां च परस्य सस्य नेट् ॥ (सुबोधिनी - से || उश्च आ चेति वृ तस्मात् दुः । सौत्रं पुंस्त्वम् । ऋवर्णोवर्णान्ताभ्यां ग्रहिगुहिभ्यां च परस्य सस्य नेट् ॥ ग्रहेर्नित्यं प्राप्ते गुहेर्विकल्पेन प्राप्ते निषेधोऽयम् ॥ भ सत्तायाम् । सप्रत्यये द्वित्वे च हस्वे षत्वे च बुभूषति ॥ ( तत्त्वदी ० ) - वुः से ॥ उश्च आ च वृ तस्मात् । सौत्रं पुंस्वम् ॥ Page #159 -------------------------------------------------------------------------- ________________ [ आख्याते सान्तप्र० ] टीकाद्वयोपेता। (१३९) नानिटि से ॥ इड्वर्जिते सप्रत्यये गुणो न । ऋत इर् । तितीति॥ जुघुक्षति ॥ से दीर्घः॥स्वरान्तस्य धातोर्दीर्घः स्यात् सप्रत्यये परे ॥ चिकीर्षति ॥ चिचीषति-चिकीषति ॥ जिगीषति ॥ पुपूषति ॥ यः से। पिपक्षति ॥ पिपासति ॥ मुमूर्षति ॥ (सुबोधिनी)-नानिटि से॥न इट् यस्य सोनिट तस्मिन् से इत्यस्य विशेषणम्।। बुभूषेत् । बुभूषतु । अबुभूषत् । कासादिप्रत्ययादित्याम् । बुभूषांचकार । बुभूष्यात् सिसतासीस्यपामितीट । बुभूषिता । बुभूषिष्यति । अबुभूषिष्यत् । अबुभूषीत् ॥ तृ प्लवनतरणयोः॥ ऋत इर इतीर् । योनि हसे इति दीर्घः। तरितुमिच्छाति तितीपति ॥ गुहू संवरणे। सप्रत्यये द्वित्वे च हो ढ इति ढत्वम्। आदिजवानामिति घत्वम् । 'पढोः कः से' इति कत्वम् । किलापः स इति षत्वम् । जुघुक्षति ॥ से दीर्घः । स्वरान्तस्य धातोर्दीर्घः स्यात् सप्रत्यये ॥ आदौ दीर्घस्तत इर् । चिकीर्षति ॥चिनोतः षणादौ किर्वेति किः। किकीषति-चिचीषति ॥ सपरोक्षयोगिरिति गिः। से दीर्घ इति दीर्घः । जिगीषति ॥ पूज् पवने । पुपूषति ॥ वुः से इतीड् न ॥ डुपचष् पाके । पतुमिच्छति पिपक्षति । यः से इति पूर्वस्येकारः॥पा पाने। पातुमिच्छति पिपासात ॥ मृ हिंसायाम् । पोरुरित्युर् । य्योर्विहसे इति दीर्घ मुमूर्षति॥पू पालनादौ। पुपूर्षति ॥ भृ भर्त्सनभरणयोः । बुभूर्षति ॥ (तत्त्वदी)०-नानिटि से॥न इट् यस्मिन् स तथा तस्मिन् । से इत्यस्य विशेषणम् । अपित्तादिर्डिदित्यनेन ङिचे सिद्ध नियमार्थमिदम् । अनिट् एव ङित्त्वं यथा स्यात्॥ चिकीर्षतीति ॥ आदौ दीर्घस्तत इर् ॥ (रुदविदमुषग्रहिस्वपिप्रच्छिभ्यः सः कित्) रुरुदिषात विविदिषति । मुसुषिषति । ग्रह उपादाने। हो ढः । आदिजवानामिति । षढोः का से। ग्रहीतुमिच्छति जिघृक्षति । सुषुप्सति ॥ .. (सुबोधिनी)-रुदविदमुषग्रहिस्वपिप्रच्छिभ्यासःकित्॥रुदसाहचर्यादेत्तरेव ग्रहणं रुदविदमुषाणां त्रयाणामिवर्णोपधादिति विकल्पे प्राप्ते ग्रहिस्वपिप्रच्छीनां तु सस्य कित्त्वामाप्तौ वचनम् । अत्र गुणाभावः संप्रसारणं च कित्त्वस्य फलम् ।ग्रहामिति संप्रसारणम् । ग्रहीतुमिच्छति जिघृक्षति ॥ त्रिष्वप् शये। यजां यवराणामिति संप्रसारणम् । सुषुप्सति ॥ ' (कृगृहधृप्रच्छिभ्यः सस्येट)चिकरिषात । जिगरिषति । जिगलिषति। दिदरिषते । दिधरिषते । पिपृच्छिषति ॥ अतुमिच्छति जिघत्सति ॥ Page #160 -------------------------------------------------------------------------- ________________ (१४०) सिद्धान्तचन्द्रिका। [आख्याते सान्तप्र०) ( सुबोधिनी )-कृगृधृप्रच्छिभ्यः सस्येट् ॥ कृ हिंसायाम् । गृनिगरणे । दृङ् आदरे । धृङ् अवस्थाने । एतौ तुदादी । प्रच्छ ज्ञीप्सायाम् । एभ्यः सप्रत्ययस्येट् । चिकरिषति। 'वुः से' इति निषेधे प्राप्ते विधानम् । इह वृवृऋदन्नानामितीटो दी? नेष्टो भाष्यकारेणानुक्तत्वात्। जिगरिषति।जिगलिषति । गिरतेः स्वरे रस्य लो वेति वा लः। आदनुदात्तेत्यात्मनेपदम् । दिदरिषते। दिधरिषते।कथम्, 'उदिधीर्घः' इति भौवादिकयोधृञोरिति गृहाण।से दीर्घ इति दीर्धे ऋत इरितीर । य्यं वि हसे इति दीर्धे उद्दिधीषुः ॥ ग्रहामिति संप्रसारणम् । रुदविदेति सस्य कित्त्वात्पिपृच्छिषति ॥ अद भक्षणे । सिसयोरदर्घस्ल लिटि तु वेतिं घम् । नैकस्वरादनुदात्तादिति नेट् । सस्तोज्नपीति सस्य तकारः । अत्तुमिच्छति जिघत्सति ॥ (हनिङोः से दीर्घः) जिघांसति ॥ (मुंबोधिनी)-हनिडोः से दीर्घः ॥ पूर्वाद्धन्तेर्हस्य घ इति घ वम् । जिघांसति । सूत्रे स्वरादेशस्य गमेदीर्घ इति वक्तव्यम् । तेन गच्छतेन दर्घिः जिगंस्यते । समो गम्यूच्छीत्यात् । संजिगंसते । तेन इण्इकइङां स्थाने यो गमिस्तस्य दीर्घः स्यात् । इणिकोस्तु कर्मोक्तौ जिगांस्यते । अधिजिगांस्यते इत्यादि । अत इङस्थाने इति व्याख्येयम् ॥ (इङः से गम्) (सुबोधिनी)-इङः से गम् ॥ इङो गमिः स्यात्सप्रत्यये । इङ अध्ययने । (सान्तात्पूर्ववत् ) अधिजिगांसते ॥ (सुबोधिनी )-सान्तात्पूर्ववत्॥ सप्रत्ययात्पूर्वो यो धातुस्तेन तुल्यं सान्तादपि स्यात् ॥ तेन ङित्त्वादात्मनेपदम् । हनिङोरिति दीर्घः । अधिजिगांसते ॥ (गमेः सस्ये नाति) जिगमिषति ॥ (सुबोधिनी)-गमेः सस्ये नाति ॥ आति किम् । इण गतौ । जिगांस्यते । कमण्यात् । 'यः से' इति पूर्वस्यात इत् । षत्वम् । जिगमिषति ॥ इः से॥ अपिदाधारभलभशकपतपदमिर्मानाङ्मेडां स्वरस्येम्अनिटि से परे पूर्वस्य च लोपः॥ दित्सति । धित्सति । रभराभस्ये । स्कोराद्योश्च । खसे चपा झसानाम् । रिप्सते। लिप्सतं । शिक्षति । पित्सते ॥ __ (सुबोधिनी)-इसे ॥ अपिदाधारभलभशकपतपदमिमीमाङमेकाम् एषां स्वरस्येस् स्यात् पूर्वस्य च लोपः अनिटि से॥दैप् शोधने। दाप्लवन ।आभ्यां विना दाण् दाने भ्वादौ पम् । देङ् पालने भ्वादावात्। डुदाञ् दाने दादावापे। दो अवखण्डने दिवा Page #161 -------------------------------------------------------------------------- ________________ [ आख्याते सान्तप्र० ] टीकाद्वयोपेता । ( १४१ ) दौ पम् । एषां दारूपत्वम् ॥टू पाने वादौ पम् । डुधाञ् धारणे द्वादावात्पे । अनयो-र्धारूपत्वम् । रभ राभस्ये । डुलभ प्राप्तौ । शक्ल शक्तौ स्वादौ पम् । शक मर्षणे । दिवादावात् । पत्ऌ पतने । पद गतौ । डुमिञ् प्रक्षेपणे । मिङ प्राणावियोगे दिवादावात् । मी हिंसायाम् क्यादावात् । मा माने अदादौ पम् । माङ माने ह्रादौ दिवादौ चात् । मे प्रणिदाने भ्वादावात् ॥ दोदाणोः सस्तोऽनपीति सस्य तः । दित्सति ॥ दे दित्सते । दाञ् दित्सति - दित्सते । धेटू धित्सति । धाञ् धित्सति - धित्सते । रभ स्कोरिति सलोपः । खसे चपा इति भस्य पत्वम् । रिप्सते ॥ शक्ल स्कोरिति सलोपः ॥ षत्वं शिक्षति । शक् । शिक्षति । पित्सते । पत्लु पतने ॥ ( तत्त्वदी ० ) -- शिक्षतीति ॥ शक्तुमिच्छतीति वाक्ये स्वरस्येसादेशपूवलोपसलोपत्वानि ॥ ( पततनदरिद्राभ्यः सस्येडा ) पिपतिषति - पित्सति । डुमित्र प्रक्षेपणे । मित्सति । मित्सते । मीञ् हिंसायाम् । मित्सति । मित्सते । मामाने । मित्सति । मेङ् प्रणिदाने माङ्मेङोः मित्सते । ( सुबोधिनी ) - पततनद्रिद्राभ्यः सस्येड् वा ॥ एभ्यः परस्य सप्रत्ययस्य वा इड् भवति ॥ इट्पक्षे 'यः से' इति पूर्वस्येत् । पिपतिषति । स्कोरिति सलोपः । पित्सति ॥ डुमित्रमीञोः सस्तोऽनपीति सस्य तः । मित्सति । मित्सते ॥ मास्मेङोमित्सते ॥ मा मित्सति ॥ आप्नोतेरीः ॥ आप्नोतेरात ईस्से पूर्वलोपश्च ॥ ईप्सति ॥ (सुबोधिनी ) - आनोतेरात ईः ॥ आपेरान्त ईत्वं पूर्वलोपश्च स्यात् सप्रत्यये ॥ आपल व्याप्तौ । आप्तुमिच्छति ईप्सति ॥ अशेरनायो वा ॥ अशेरिच्छायां वानायप्रत्ययः ॥ अशनायति-अशिशिषति ॥ तितनिषति । ( तनेः सादौ से वा दीर्घः ) तितांसति-तितंसति ॥ दिदरिद्रिषति - दिदरिद्रासति ॥ (सुबोधिनी ) - अश भोजने ॥ अशेरनायो वा ॥ सस्यापवादः ॥ पक्षे सस्येव । स्वरादेः पर इति शिसुशब्दस्य द्वित्वम् । इस् इति सप्रत्ययस्यावयवः पूर्वस्य हसादिः शेषः । अशिशिषति ॥ तनु विस्तारे पततनेति सस्य वेट् । तितनिषति । पक्षे तनः सादौ से वा दीर्घः । अनिटि से तितांसति ॥ दरिद्रा दुर्गतौ । पततनेति वे । दरिद्रातेरन प्यालोपः सौ वेत्यलोपे षत्वे च दिदरिद्रिषति ॥ (दभिज्ञपिभ्यां सस्य वेट् ) दम्भु दम्भे । दिदभिषति । जिज्ञपयिषति । ( ज्ञपेः स्वरस्य सादौ से ईत्पूर्वलोपश्च ) ज्ञीप्सति ॥ (सुबोधिनी ) - दम्भिज्ञपिभ्यां सस्य वेट् ॥ ' यः से' इति पूर्वस्येत् । दिदम्भिपति । इडभावे || Page #162 -------------------------------------------------------------------------- ________________ (१४२) सिद्धान्तचन्द्रिका। [ आख्याते सान्तप्र० ] (दम्भेरिच्च ) धिप्सति-धीप्सति ॥ (सुबोधिनी )-दम्भरिच्च ॥ स्वरस्य ईस् स्यात् इच्च पूर्वस्य लोपश्च ॥अनिटि से उपधानस्य लोप इति नलोपः । आदिजवानामिति धत्वम् । धिप्सति-धीप्सात । पुगन्तो मित्संज्ञको ञ्यन्तो जानाते पिः पकारान्तश्चौरादिको वः । दम्भिज्ञपिभ्यामिति वेट । जिज्ञपयिषति । इडभावे 'नानिटि से' इति न गुण । से दीर्घ इति दीर्घस्तु परत्वात् जेरिति जिलोपेन बाध्यते । ज्ञपेः स्वरस्य सादौ से ईत पूर्वस्य लोपश्च । अनिटि से जीप्सति ॥ (इवन्तऋधभ्रस्जश्रिस्वृयूर्णभृसनिभ्यः सस्येड्डा)दिदविषति ॥ (सुबोधिनी)-इवन्तऋधभ्रस्जश्रिस्वृयूर्णभृसनिभ्यः सस्येवा। इवन्तेभ्यः ऋधाधिभ्यश्च सस्येड् वा स्यात् ॥ दिवु क्रीडादौ । सिसतासीस्यपामितीट । दिदेविपति । इडभावे 'नानिटि से' इति न गुणः॥ (वस्यानिटि से उः) दुयूषति । अदिधिषति । (सुबोधिनी) वस्यानिटि से उः॥धातोर्वस्य उत्वं स्यात् अनिटि से ॥ यत्वं द्वित्वं च । दुयूषति ॥ ऋध वृद्धौ। अपितुमिच्छति स्वरादेः पर इति धिमशब्दस्य द्वित्वे अदिधिषति । इडभावे ॥ (ऋधेरनिटि से स्वरस्य इत्विलोपश्च)ईर्त्सति । बिभ्रजिषतिबिजिषति-बिभ्रक्षति-बिभक्षति । शिश्रयिषति । शिश्रीषति । सिस्वरिषति-सुस्वूर्षति। यियविषति-युयूषति। ऊर्ण विषति-ऊर्णनविषति-ऊर्जुनूषति । बिभरिषति-बुभूति ॥ (सुबोधिनी) ऋधेरनिटि से स्वरस्य इद्वित्वलोपश्च ॥ ऋकारस्य इस 'वोर्वि हसे' इति दीर्घः । खसे चपा झसानामिति तः ईर्त्यति ॥ भ्रस्ज पाके । इट। पक्षे भ्रस्जोरसोरिति अर् । रहाद्यपो द्विरिति द्वित्वम् । विजिषति । अरभावे श्चुत्वम्। झभे जबा इति शस्य जः। विभ्रजिषति । इडभावे स्कोरिति लोपः । छशषेति षत्वम् । षढोः कः से' इति कत्वम् । विभ्रक्षति-विभक्षति ॥ श्रिङ्ग सेवायाम् । शिश्रयिषति । इडभावे से दीर्घ इति दीर्घः। शिश्रीषति ॥ स्वृ शब्दोपतापयोः । सिस्वरिषति । इडभावे से दीर्घ इति दीर्धे 'पोरुर' इत्युर् । द्वित्वम् । सुस्वर्षति । यु मिश्रणे । अङ्सयोरिति पूर्वोकारस्येत् । यियविषति । इडभावे से दीर्घ इति दीर्षे युयूषति ॥ उM आच्छादने । ऊोंतोरिडादिन ययो वा डिदिति ङित्त्वाद्गुणाभावे नुधातारित्युत् । ऊर्णनुविषति । ङित्त्वाभावे ऊर्णनविषति।अतःपूर्व द्वित्वं पश्चाद्गुणावादेशौ । इडभावे से दीर्घ इति दीर्घः ऊर्णनूषति ॥ भृ भर्त्सनभरणयोः । विभरिषति । इडभावे पोरुरित्युर् । 'स्वोवि हसे' इति दीर्वे द्वित्वे च बुभूति ।। Page #163 -------------------------------------------------------------------------- ________________ [ आख्याते सान्तप्र० ] टीकाद्वयोपेता। (१४३) (स्तौतिज्यन्तयोव षे पूर्वात् सस्य षः ) तुष्टूपति॥ साधयितुमिच्छति सिषाधयिषान-सिषेधयिषति ॥ सुष्वापयिषति ॥ स्तौतिज्यन्तयोरिति किम् । सिसनिषति । षे इति किम् । सिषासति । तिष्ठासति ॥ (सुबोधिनी)-स्तौतिज्यन्तयोरेव षे पूर्वात्सस्य षः॥ पूर्वादिलात्परस्य स्तौतिज्यन्तयोरेव सस्य षः स्यात्पभूते से नान्यस्य॥ष्टुञ् स्तुतौ । षत्वे से दीर्घ इति दीर्धे च तुष्टूपति। 'वुः से' इति नेट् ॥ साध संसिद्धौ । ज्यन्तः । द्वित्वे यः से' इति पूर्वस्येत्वे षत्वे च । सिषाधयिषति ॥ स्तौतिञ्यन्तयोः किम् । षिच क्षरणे।सिसिक्षति। उपसर्गात्तु प्रादेश्च तथा तौ सुनमामिति अद्वित्वव्यवधानेऽपीति च षत्वम् । परिषिषिक्षति । वन् पन् संभक्तौ । इडभावे जनसनखनामित्यात्वं वा । सिसनिषति-सिषासति । किलादिति षत्वम् ।। ___ (तत्त्वदी०)-स्तौतिअन्तयोरेव षे॥इति॥षे इति कृतषत्वनिर्देशात्तै स्तौतिञ्यन्तस्यापि पूर्वात्पत्वम् ॥ सिषासती ॥ जनसनेत्यात्वविकल्पः । षे इति निर्देशादत्र न षत्वनिषेधः ।। (अनिटि से उपधानस्य लोपः) तुंहू हिंसायाम् । तितृक्षति । तितहिषति ॥ __ (सुबोधिनी)-अनिटि से उपधानस्य लोपः ॥ धातोरुपधाभूतस्य नस्य लोपः स्यात् अनिटि सपर ये ॥ तृहू स्तृहू तुंहू हिंसास्तुदादौ । ऊदितौवेति वेट । इडभावे नलोपः। ढत्वे क वे पत्वे च । तितृक्षति । तिद्वंहिषति ॥ (तत्त्वदी०)-अनिटि से उपाधानस्येति॥णादिः किदित्यतः किदित्यनुवर्त्य वाक्यभेदेन व्याख्येयम् । तेन लक्ष्यानुसारेण सस्य कित्त्वाकित्त्वे बोध्ये । अतो गुणाभावसंप्रसारणमलोपाः सिद्धाः । विवृत्सति । वृतादि : स्यसयोर्वा पमिति परस्मैपदम् । पेऽनिट्वं चेति इडभावः । (इणः से गमबोचने) एतुमिच्छति जिगमिषति।बोधने तु प्रतीषिषति ॥ इण्वदिकः। अधिजिगमिषति । बोधने तु अधीषिषति॥ (सुबोधिनी)-इणः से गमबोधने ॥इणेर्गम् स्यात् सप्रत्यये परे बोधनेऽर्थे तु न॥ एतुमिच्छति गमः सन् येडिती । जिगमिषति । बोधने तु 'यः से' इति सरूपस्य पूर्वस्येत्वम् । प्रतीषिपति ॥ इण्वदिकः।इक् स्मरणे । गमेः सस्येतीट्। अधिजिगनिषतिा (इवर्णोवर्णोपधाद्धसाइरसान्ताद्धान्ताच क्त्वासौ सेटौ वा कितौ) दिद्युतिषते-दिद्योतिषते । रुरुचिषते-रुरोचिषते । लिलिखिपतिलिलेखिपति । सिनिहिषति-सिस्नेहिषति-सिस्निक्षति । (गयो हिंसायामिर से द्वित्वलोपश्च)रित्सति।अन्यत्र आरिरात्सतिगुरुम् ॥ Page #164 -------------------------------------------------------------------------- ________________ (१४४) सिद्धान्तचन्द्रिका। [आख्याते सान्तप्र० ] (सुबोधिनी)-इवर्णोवर्णोपधाद्धसादेरसान्ताद्धान्ताच्च क्त्वासौसेटौ वा कितौ । द्युत दीप्तौ । द्युतेः पूर्वस्यति संप्रसारणम् । कित्वाद् गुणी न । दिद्युतिषते, दिद्योतिषते ॥ एवं रुच दीप्तौ । लिख अक्षरविन्यासे । ष्णिह प्रीतौ । राधो हिंसायामिस् से द्वित्वलोपश्च । राधस्वरस्येत्यर्थः । राध संसिद्धौ । स्कोरिति सलोपे 'खसे चपा०, इति धस्य तः । रित्सति॥हिंसायां किम् । देवमारिरात्सति । 'यः से' इति पूर्वस्येत् । 'खसे चपा' इति धस्य तः ॥ (मुचोऽकर्मकस्य गुणो वा से द्वित्वलोपश्च ) मोक्षते-मुमुक्षते वा वत्सः स्वयमेव । अकर्मकस्योत किम् । मुमुक्षति वत्सं कृष्णः॥ विवर्तिषते । विवृत्सति ॥ निनतिषति-निनृत्सति ॥ वृऋदन्तात्सस्यड्वा । तितरिषति-तितरीषति-तितीर्षति । विवरिषतेविवरीषते-बुर्षते । विवरिषति-विवरीषति-वुवूर्षति ॥ ध्वकौटिल्ये। दुध्यर्षति ॥ (सुबोधिनी)-भुचोऽकर्मकस्य गुणो वा से द्वित्वलोपश्च॥मुच्ल माक्षणे । चोः कुरिति कः । मोक्षते-मुमुक्षते ॥ अकर्मकस्य किम् । मुमुक्षात । 'नानिटि से' इति गुणाभावः ॥ वृतु वर्तने । वृतादिभ्यः स्यसयोरिति वा पम् । पेनिट्त्वं च । 'नानिटि से' इति न गुणः। विवृत्सति-विवर्तिषते ॥ नृती गात्रविक्षेपे । नृततुंदेति वेट् । 'नानिटि से' इति न गुणः । निनृत्सति-नर्तिपात । वृ दन्तात्सस्येड् वा ॥ तृ प्लवनतरणयोः । वृङवजिति वेटो दर्घिः । तितरिपति-तितरीपति । इडभावे ऋत इरितीर । 'स्वोर्विं हसे' इति दीर्घः। तितीर्षति॥वृञ् वरणे । वृवृञ् इति वेटो दर्घिः। विवरिषति-विवरीषति । इडभावे पोरुरित्युर् । वुवूर्षति॥एवं वृङ् संभक्तौ । विवरिपते-विवरीषते-बुवूर्षते ॥ ध्वृ कौटिल्ये । दूध्वूर्षति ॥ (तत्त्वदी०)-दुध्व॒र्षतीति ॥ प्रथमं दीर्घस्ततः 'पोरुर' ततो 'बोर्वि हसे' इति दीर्घः ॥ (स्मिपङ्कज्ज्वशिभ्यः सस्येट् ) सिस्मयिषते । पिपविषते । अरिरिषति । अञ्जिजिषति । अशिशिषते । उचिच्छिषति । अधिजिगापयिषति । अध्यापिपयिषति । शिश्वाययिषति-शुशावयिषति । जुहावयिषति । पुस्फारयिषति-पुस्फोरयिषति । पिपावयिषति । बिभावयिषति । यियावयिषति । रिरावयिषति । लिलावयिषति । सिस्रावयिषति-सुस्रावयिषति ॥ (सुबोधिनी)-स्मिपूज्वशिभ्यः सस्येट्॥स्मिङ् ईषद्धसने। अस्यानिट्वादिडागमस्याप्राप्तिः। स्तौतिञ्यन्तयोरेवेति नियमान्न षः । सिस्मयिषते ॥ पूङपवने । 'वुः से' इति निषधे प्राप्ते अङ्-सयोरिति पूर्वोवर्णस्येत् । पिपविषते ॥ ऋ गतौ॥ Page #165 -------------------------------------------------------------------------- ________________ [ आख्याते सान्तप्र० ] टीकास्योपेता। अस्याप्यनिट्त्वादिडागमस्याप्राप्तिः। सस्य इटि गुणे च कृते अरि स इति स्थिते स्वरादेः पर इति रिसशब्दस्य द्वित्वे अरिरिषात । अञ्जू व्यक्तिम्रक्षणादौ ॥ अशू व्याप्तौ। अनयोरूदित्त्वादिविकल्पे प्राप्ते नित्यमिट् । अश भोजने इतियादिस्तुनित्यं सेडेव । आञ्जिजिषति । अशिशिषते । उछ उञ्छे । अत्र छ इति छस्य द्वित्वे खसे चपा झसानामिति चकारे कृते च्छसहितस्येटो द्वित्वे हसादिशेषे च उचिच्छिषति ॥ इङ् अध्ययने । अध्यापयितुमिच्छति अङ्सपरे जो इङो गा वेति वा गा। रातो जो पुगिति पुक्। अधिजिगापयिषति। पक्षे इक्रीजीनामित्यात्वं स्वरादेः पर इति पिशब्दस्य द्वित्वे अध्यापिपयिषति॥टु ओश्विर गतिवृद्धयोः। श्वयतेच॑न्तस्येति वा संप्रसारणम् । शिश्वाययिषति-शुशावयिषति॥ह्वेस्पायाम् । द्वयतेरङ्सपरे इति संप्रसारण युगभावे च कृते जुहवियिषति॥ स्फुरविकसने । औचिस्फुरोरित्यात्वेकृते जिनिमित्तः स्वगदेश इति वचनेनतस्यस्थानिवद्भावादुकारविशिष्टस्यद्वित्वम् । पुस्फारयिषति । आत्वाभावे पुस्फारयिषति । टुक्षुशब्दे । चुक्षावयिषति ॥ पुत्र पवने । अङ्सयोरिति॥ पूर्वोवर्णस्येत्वम् । पिपावयिपति।भूसत्तायाम् । भावार्यतुमिच्छति । पूर्वस्येत्वम्। बिभायिषात ॥ यु मिश्रणे । अत्रापात्वम् । यियावयिषति ॥ रु शब्दे । पूर्वस्येत्वम् । रिरावयिषति ।। लुज छेदने लिलावयिषति ॥ स्रु गतौ । स्रवतिशृणोतिद्रवतीतीत्वं वा । सिस्नावयिषति-सुस्रावयिषति ॥ (तत्त्वदी०)-स्मि-पूङ ॥ स्मिङ् ईषद्धसने । पुङ पवने । ऋगतौ। ऋ गतिप्रापणयोश्च । अञ्जू व्यक्तिम्रक्षणकान्तिगतिछु । अशू व्याप्तौ । रञ्ज रागोवश कान्तावित्येतयोर्धमो न कार्यः । स्मिढोऽनिट्त्वादप्राप्ते ऋपुङोस्तुवुःसे'इति निषेधे अवशोस्तूदित्त्वाद्विकल्पे प्राप्त वचनम् । ऋइत्यादीनां ग्रहणादकारान्ता न ग्राह्याः । सिस्मयिषत इति ॥ ञ्यन्तयोरेवेति नियमान्न षः । डानुबन्धग्रहणात्तु पूञः पुपूर्षतीत्येव ॥ अरिरिषतीति ॥ ऋ इ स इति स्थिते गुणे आरि स इति. स्थिते । स्वरादेः पर इति रिशब्दस्य द्वित्वम् ॥ पिपावयिषतीत्यादि । ज्यन्तात्से असयोः पूर्वस्येति इकारः । नदी वृक्षमुन्मूलयिषति । वृष्टी राजिम भिषिषिक्षतीत्याये तु चेतनत्वारोपात्सः । पाषाणादीनां संबोधनवत् ॥ (सान्तात्सो न स्वार्थसान्तात्तु स्यादेव ) जुगुप्सिषते ॥ इति सान्तप्रक्रिया ॥ (सुबोधिनी)-सान्तात्सोन स्वार्थसान्तात्तु स्यादेव॥"शैषिकान्मतुबर्थीयाच्छेषिको मतुर्थिकः ॥ सरूपः प्रत्ययो नेष्टः सन्नन्तान्न सनिष्यते ॥१॥" शैषिकाच्छेषिकः सरूपः प्रत्ययो नेष्टः । शालीये भव इति वाक्यमेव । न तु ईयान्तात् पुनरीयः ॥ सरूपः किम् । आहिच्छत्रे भवः आहिच्छत्रीयः। अण्णन्तादीयः॥ Page #166 -------------------------------------------------------------------------- ________________ (१४६) सिद्धान्तचन्द्रिका। [आख्याते यङन्तप्र० ] तथा मत्वर्थीयात् मतुबर्थिकः सरूपः प्रत्ययो न भवति। धनवानस्यास्ति । वत्वन्तात् न वतुः। विरूपस्तु स्यादेव । दण्डिमती शाला । सरूप इत्यनुसंबध्यते।सरूपः सादृश्य तत्तु अर्थद्वारा । तेनेच्छासान्तादिच्छासो न भवति । स्वार्थमान्तात्तु स्यादेव । गुब्भ्य इति स्वार्थे सप्रत्ययः । तदन्तादिच्छासः। जुगुप्सिषते । 'यः से' इतीत्वे मानादीनामिति दीर्घ च । मीमांसिषते । गुप गोपने ॥ मान विचारणे ॥ इति सुबोधिन्यां सान्तप्रक्रिया ॥ (तत्त्वदी० )-सान्तात्सो नेति॥अतिशये हसादेर्यङ् द्विश्च यतश्चकारानुवृत्तरेतद्बोध्यम् ।। कृतायामिह टीकायां लोकेशकरशर्मणा । बाधनं दुष्टबुद्धीनामा मत्सान्तसाधनम् । इति तत्त्वदीपिकायां सान्तप्रक्रिया ॥ २ ॥ अथ यङन्तप्रक्रिया। _अतिशये हसादेर्य द्विश्च॥ हसादेरेकस्वरा द्रातो शार्थे पौनःपुन्ये च यङ् प्रत्ययो भवति द्वित्वं च ॥ ___ (सुबोधिनी)-अतिशये हसादेर्यङ् द्विश्च ॥ हस आदिर्यस्य स हसादिस्तस्मादेकस्वराद्धातोर्यङ स्यात् । यङन्तस्य धातोदित्वं च अतिशयऽर्थे । अतिपूर्वात् शीडो भावे स्वराद इत्यः। अतिशयो द्विविधः । पौनःपुन्यम् भृशार्थश्च ॥ अतिशये किम् । पठति ॥ एकस्वरात्किम् । पुनःपुनर्जागर्ति ॥ हसादेः किम् । भृशमीक्षते । भृशं शोभते । भृशं रोचते । इत्यादौ यड़ नेति भाष्यम् । पौनःपुन्ये तु स्यादेव रोरुच्यते शोशुभ्यते ॥ (तत्त्वदी० )-अतिशये हसादेर्यङ् द्विश्च॥अतिशय नमतिशयः।अतिपूर्वात् शीडो भावे स्वराद इत्यप्रत्ययः स च द्विविधः पौनःपुन्यं भूशार्थश्च । स च र्थो यङो द्योत्य एव । हस आदिर्यस्य स तथा तस्मात् द्विरित्यपरं वाक्यं धातोर्विचनम् । धातु यङन्त एव न तु यङः प्रकृतिभूतः । अटाटयत इत्याद्यसिद्धः ॥ यङि॥ यङि यलुकि च पूर्वस्य नामिनो गुणः ॥ सधातुः। ङित्त्वादात् । भृशं पुनः पुनर्वा भवति बोभूयते । बोभूयांचक्रे । बोभूयिषीष्ट । अबोभूयिष्ट ॥ बोभुज्यते ॥ __ (सुबोधिनी)-यङि ॥ यङ्प्रत्यये लुकि च पूर्वस्येत्य वृत्तम् ॥ भू सत्तायाम् । धातुरिति धातुत्वाल्लडादयः डिदन्तत्वादात्मनेपदम् । पुनः पुनरतिशयेन वा भवति बोभूयते । बोभूयेते । बोभूयताम् । अबोभूयत । कासादिप्रत्ययादित्याम् । यत इत्यलोपः। बोभूयांचक्रोबोभूयिषीष्ट । बोभूयिता । बोभूयिष्यते । अबोभूयिष्यत । अबोभूयिष्ट ॥ भुज पालनादौ । अतिशयेन भुनक्ति बोभुज्यते । Page #167 -------------------------------------------------------------------------- ________________ [ आख्याते यङन्तप्र० ] टीकाद्वयोपेता | ( १४७ ) (तत्त्वदी० ) - यङीति ॥ यङो ङित्त्वादात् ॥ अत्र केचित् । कथं यङन्तादात्, ङितो - धातोराद्विधानात् । अत्र च यो ङित् स न धातुः यो धातुः स च न ङित् । किं च ङस्य गुणनिषेधादिप्रयोजकत्वेन चरितार्थत्वादात्मनेपद जकत्वासंभवः । अवयवे कृतं लिङ्गमचरितार्थं समुदायविशेषकं भवतीत्युक्तेः । अत्रोच्यते । सधातु रेत्यनेन यङन्तस्य धातुत्वेन धातोर्डिवसत्त्वात्। गुणनिषेधार्थं च डकारप्रश्लेषस्य कर्तव्यत्वात् । बोभूयत इति ॥ भवनानुकूल एकाभिन्नाश्रयको वर्तमानोऽतिशयविशिष्टो व्यापारः ॥ अनपि च हसात् ॥ हसादुत्तरस्य यस्य लोपो भवत्यनपि विषये ॥ बोभुजांचक्रे । बोभुजिता ॥ मोमुह्यते। मोमुहांचक्रे ॥ लेलिह्यते ॥ जोहूयते ॥ वेविद्यते ॥ (सुबोधिनी) - अनपि च हसात् ॥ हसात्परस्य यशब्दस्य लोपोनपि ॥ हसा - त्किम् । लोलूयिता ॥ योयूयिता । आदेः परस्य ॥ परस्य यद्विहितं तत्तस्यादेबोंध्यमिति यलोपः । यत इत्यलोप । बोभुजांचक्रे । बोभुजिषीष्ट । अल्लोपस्य स्थानिवत्त्वानोपधागुणः ॥ एवं मुह वैचित्य । लिह आस्वादने । हु दानादनयोः । ये इति दीर्घः ॥ जोहूयते । विद ज्ञानादौ । वेविद्यते । डुपचष् पाके ॥ आतः ॥ यङि यङ्लुकि च पूर्वस्यात आकारः ॥ पापच्यते । पापठ्यते ॥ ( सुबोधिनी )-आतः ॥ आ अत इति च्छेदः । पूर्वस्येत्यनुवृत्तम् । पापच्यते ॥ पठ व्यक्तायां वाचि पापठ्यते ॥ ( तत्त्वदी ० ) - आत इति ।। आ आ अत इति च्छेदः । द्वितीयाकारस्य वैयर्थ्यानुपपत्या किञ्चिदिष्टं ज्ञाप्यते किं तदिष्टम् अकित्पूर्वस्याकारस्याकार इति तेन नरीनृत्यत इति सिद्धम् ॥ ( सिचो यङि न षः ) सेसिच्यते ॥ (सुबोधिनी) - सिचो यङि न षः ॥ सिचेः सस्य षत्वं न स्यात् यङ्प्रत्यये परे ॥ षिच क्षरणे । सेसिच्यते ॥ (सूचिसूत्र मूत्र्ययर्त्यशूर्णोतिभ्यो यङ् ) सोसूच्यते । सोसूत्र्यते । मोमूत्र्यते ॥ ( सुबोधिनी ) - सूचि त्रिमूत्र्यटयर्त्यशूर्णो तिभ्यो यङ् ॥ सूच पैशुन्ये । सूत्र वेष्टने । मूत्र प्रस्रवणे । एतं त्रयश्चुरादावदन्ताः । सोसूच्यते । सोसूत्र्यते । मोमूत्र्येते ॥ अट गतौ । गौः कुटिलमटाते । इह ट्यशब्दस्य द्वित्वम् । आत इत्यात्वम् । अटाटयते । ऋ गतौ । कुटिलमृच्छति गुणोत्तिसंयोगाद्येोरिति गुणः ॥ १ यत इत्येनन यलोपत्वादिदं चिन्त्यम् । Page #168 -------------------------------------------------------------------------- ________________ (१४८) सिद्धान्तचन्द्रिका। [ आख्याते यङन्तप्र० ] (तत्त्वदी०) सूचिमूत्रि ॥ सूच पैशुन्ये । सूत्र वेष्ट । मूत्र प्रस्रवणे । अट गतौ । ऋ गतौ । अश भोजने । अशूङ व्याप्तौ । उMञ् आच्छादने । तन्ाद्यानां त्रयाणां चुरादिञ्यन्तत्वेनानेकस्वरत्वादटयादीनां च हसादित्वादप्राप्ते वचनम् ।। (यकारपररेफस्य न द्वित्वनिषेधः) अरायते । अरारांचक्रे । अशाश्यते । ऊोनूयते ॥ (सुबोधिनी) यकारपररेफस्य न द्वित्वनिधः ॥ यकारः परो यस्मात् स यकारपरः यकारपरश्चासौ रेफश्च यकारपररेफस्तस्य । ततो र्यशब्दस्य द्वित्वे हसादिशेषे आत इति दीर्घ च अरार्यते इति भाष्योदाहरणात्। लिटे अनाप च हसादिति यलोपः। यत इत्यलोपः। अरारांचक्रे । लुटि । अरारिता ॥ अशूङ व्याप्तौ । अशाश्यते ॥ 'ऊर्गुञ् आच्छादने । 'ये' इति दीर्घः । ऊर्णोनूयते ॥ (तत्त्वदी०)-अरार्यत इति॥ऋय इति स्थिते गुणे कृते यशब्दस्य द्वित्वे हसा दिशेषे आत इति दीर्घः ॥ ऊोनृयत इति ॥ णत्वस्यासिद्धत्वान्नुशब्द प द्वित्वम् । (गत्यर्थात्कौटिल्ये एव यङ्) कुटिल मटति अटाट्यते॥कुटिलं व्रजति वाव्रज्यते ॥ (सुबोधिनी)-गत्यर्थात्कौटिल्ये यङ् ॥ कुटिलस्य भावः कौटिल्यम् ॥ व्रज गतौ । कुटिलं व्रजति आत इति पूर्वस्यात्वम् । वाव्रज्यते ॥ ( तत्त्वदी०) अटाटयत इति ॥ एकभिन्नाश्रयो वक्रगत्यनुकूलो वर्तमानकालिको व्यापार इति । कौटिल्यस्य फलविशेषणत्वे व्यापारविशेषणत्वे तु पक्रो गत्यनुकूलोव्यापार इति शेषः॥ (लुपसदचरजपजभदहदंशगृभ्यो धात्वर्थगर्हायामेव यङ् ) गर्हितं लुम्पति लोलुप्यते । सासद्यते ॥ (सबोधिनी)-लुपसदचरजपजभदहदंशगो धात्वर्थगर्हायामेव यङ्॥ लपल छेदने । गर्हितं लुम्पति लोलुप्यतेोषद्ल विश णादौ । आत इति पूर्वस्यात्वम्। गर्हितं सीदति सासद्यते ॥ -(तत्त्वदी०) धात्वर्थगर्हायामेवेति॥गहापि फलस्य व्यापारस्य वा विशेषणम् । लोलुप्यते वनं चैत्रः । चैत्राभिन्नाश्रयो वनाभिन्नाश्रितकुत्सितच्छेद नानुकूलो वर्तमानकालिको व्यापारः । . वनाभिन्नाश्रयः छेदनानुकूलः कुत्सितो व्यापार इति वा ॥ अमजपां नुक॥ ञमान्तस्य जपजभन हदंशभञ्जपसचरफलां च । पूर्वस्यादन्तस्य नुयङ्लुकोः॥ (सुबोधिनी)-अमजपा नुक् ॥ जप व्यक्ताया वाचि। जभी गात्रविनामे । दह भस्मीकरणे । दश दशने । भञ्जो आमर्दने । पस धातु ईन्त्यान्तः सौत्रो गत्यर्थः। ताल Page #169 -------------------------------------------------------------------------- ________________ '[ आख्याते यङन्तप्र० ] टीकाद्वयोपेता। (१४९) व्यान्त इति माधवः । चर गत्य दौ । त्रिफला विशरणे । फल निष्पत्तौ वा। एषां जमप्रत्याहारान्तस्य चं नुक यङ्यङ्लुकाः॥ (चरफलोः पूर्वात्परस्यात उद्यलकोः) चञ्चूर्यते-चंचूर्यते। चञ्चुरांचक्रे ॥ पम्फुल्यते ॥ नुगित्यनेनानुस्वारो लक्ष्यते । स च पदान्तवत् ॥ जनप्यते-जंजप्यते ॥ (सुबोधिनी)--चरफलोः पूर्वात्परस्यात उद्यङ्लुकोः॥ पूर्वाद् द्वित्वरूपादुत्तररूपस्यात उत्वमित्यर्थः। नुनित्यनेनानुस्वारो लक्ष्यते स च पदान्तवत् । ञमजपामिति नुमागमोऽनुस्वारं बोधयति । सोऽनुस्वारः पदान्तकार्य लभत इत्यर्थः । तेन वा पदान्तस्येत्यनेन वा परसवर्णः। चञ्चूर्यते-चंचूर्यते ॥ (तत्त्वदी०)-स च पदान्तवदिति ॥ तेन वेति यथा स्यात् ।। (गिरते रेफस्य लत्वं यङि) जेगिल्यते॥ यय्यम्यते-यंयम्यते । दीङ्क्षये । देदीयते ॥ आंप्यायी वृद्धौ । पेपीयते ॥ चञ्चम्यते-चंचम्यते ॥ चाखायते-चखन्यते-चंखन्यते॥ चङ्कण्यते-चंकण्यते॥ तन्तन्यते-तंतन्यते ॥ जनभ्यते-जंजभ्यते ॥ दन्दह्यते-दंदह्यते ॥ दन्दश्यते-दंदश्यते ॥ बम्भज्यते-बंभज्यते ॥ पस बाधनग्रन्थनयोः॥ पम्पस्यते-पंपस्यते॥ (सुबोधिनी)-गिरते रेफर य लत्वं यङि ॥ गृ निगरणे इत्यस्य रेफस्य लत्वं स्याद् यङि ॥ गर्हितं गिलति गिल्यते॥ यम उपरमे । कण निमीलने। तनु विस्तारो यमान्तत्वादेषांपूर्वस्य नुक । यर म्यते--यंयम्यते ॥चङ्कण्यते-चंकण्यते ॥ तन्तन्यतेतंतन्यते ॥ (तत्त्वदी०)जेगिल्यत इत॥ गिलनस्य च गर्हितत्वं विवृतास्यचेष्टादिकृतम् ।। रीगृदुपधस्य ॥ ऋत्वतो धातोर्यङि परे पूर्वस्य रीक् ॥ नरीनत्यते ॥ वरीवत्यते ॥ जरीगृह्यते ॥ वरीवृश्च्यते ॥ परीपृच्छचते॥ चलीक्लप्यते॥ (सुबोधिनी )-रीगृदुपधस्य ॥ ऋदुपधस्य धातोः पूर्वस्य रीग्यङि ॥ ऋदुप-. धस्योत किम् । चेकीर्त्यते ॥ भावपक्षे एकस्वरत्वाद्यङ्॥ नृती गात्रविक्षेपे। क्षुम्नादित्वान्नणत्वम् । नरीनृत्यंत। वृतु वर्तने । अतिशयेन वर्तते वरीवृत्यते॥ ग्रह उपादान। ओवश्चू छेदने । प्रच्छ ज्ञीप्सायाम् । ग्रहामिति संप्रसारणम् । जरीगृह्यते । वरीवृश्च्यते । परीपृच्छयते ।रागिति योगविभागादुभयत्र रीक्॥ कृपू सामर्थे । उभयत्र लत्वम् । चलीक्लप्यते ॥ Page #170 -------------------------------------------------------------------------- ________________ (१५०) सिद्धान्तचन्द्रिका। [ आख्याते यङन्तप्र० ] ' (वशेर्यङि न संप्रसारणम् ) वावश्यते ॥ ( वयतेर्वा ) शोशूयते-शेश्वीयते ॥ सास्मर्यते ॥ (सुबोधिनी)-वशेङि न संप्रसारणम् ॥ ग्रहामिति प्राप्ते निषेधः । वश कान्तौ । आत इति पूर्वस्यात्वम् ॥ अतिशयेन वष्टि वावश्यते । टु ओश्वि इर् गतिवृद्धयोः॥ श्वयतेवेति विकल्पेन संप्रसारणम् यङि । 'ये' इति दीर्घः। शोशूयतेशेश्वीयते ॥ स्मृ चिन्तायाम् ॥ गुणोऽर्तिसंयोगाद्योरिति गुणः । आत इति पूर्वस्यात्वम् ॥ सास्मर्यते ॥ (कवतेः पूर्वस्य न चुत्वं यङि) कोकूयते ॥ (सुबोधिनी)-कवतेः पूर्वस्य न चुत्वं यङि॥ कवतेन्त्यिपा निर्देशात् 'कुडू शब्दे' इति भ्वादिरेव गृह्यते न तु कुशब्दे इत्यादादिकः । 'कड़ शब्दे' इति तौदादिकश्च । 'ये' इति दीर्घः। कोकूयते ॥ (वञ्चुस्रंसुधंसुध्वंसुकसपतपदस्कन्दा यङि राङलुकि च पूर्वस्य नीक । वनीवच्यते ॥ सनीस्रस्यते ॥ दनीध्वस्यते ॥ बनीभ्रस्यते ॥ चनीकस्यते ॥ पनीपत्यते ॥ पनीपद्यते ॥ चनीस्कद्यते ॥ (सुबोधिनी)-वन्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दा यङि यङ्लांक च पूर्वस्य नीक् ॥ वञ्चु वंचने ॥ स्रंसु ध्वंसु भ्रंसु अधःपतन । कस गतौ । पत्लू पतने । पद गतौ । स्कन्दिर गतिशोषणयोः। आत इत्यस्याप पदः । नो लोप इति नलोपः । वनीवच्यते ॥ (तत्त्वदी०)--वञ्चु वनीवच्यत इति । नो लोपः । दीर्वोच्चारणसामर्थ्याद्भस्वगुणौ न ॥ ऋतो रिङ् ॥ येऽनपि ॥ चेक्रीयते ॥ जेहीयते । वेव्रीयते ॥ (सुबोधिनी)-ऋतो रिङ्॥यप्रत्ययेनापि । 'ये' इति दर्घिः। परत्वाद् रिआदेशे कृते द्वित्वम् । डुकृञ् करणेोचेक्रीयते ॥ हृञ् हरणे । जेबीयते । वृवृजोः वेव्रीयते । दादेरिः॥ अपिदाधामागेहापिबतिसोस्थामिकारः क्ङिति हसे। अनपि ॥ देदीयते ॥ देधीयते ॥ मेमीयते ॥ जेगीयते ॥ जेहीयते ॥ पीयते ॥ सेषीयते॥ तेष्ठीयते ॥ (सुबोधिनी)-दादेरिः ॥ डुदाञ् दाने ॥ दो अवखण्डने । देङ पालने। अनयोः संध्यक्षराणामित्यात्वे दारूपम् दाप्दैपौ विना ॥ डुधाञ् धारणादौ ॥ मा माने । माङ माने ॥ मेङ् प्रणिदाने ॥ गै शब्दे ॥ ओहाक् त्यागे । पा पाने ॥ षो अन्तकर्मणि ॥ ष्ठा गतिनिवृत्तौ ॥ एषामिकारः स्यात् किति हसेऽनपि । अनेनेत्वे द्वित्वम् यडीति गुणः । देदीयते। इत्यादि ॥ Page #171 -------------------------------------------------------------------------- ________________ [ आख्याते यङ्लुगन्तप्र० 1 टीकाद्वयोपेता । (घ्राध्मारयङि ) जेघ्रीयते ॥ देध्मीयते ॥ (सुबोधिनी) - घ्राध्मोरीर्यङि ॥ दीर्घोच्चारणं यङ्लुगर्थम् । घ्रा गन्धोपादाने ॥ ध्मा शब्दाग्निसंयोगयोः । जेधीयते ॥ देध्मीयते ॥ (हन्तर्हिसायां नीभावः) जेनीयते । हिंसायां किम् । जङ्घन्यते ॥ (१५१) सुबोधिनी ) - हन्ते हिंसायां घ्नीभावः ॥ याङ नीभावे सति द्वित्वम् । जेघ्नीयते । हिंसायां किम् । जङ्घन्यते । पूर्वार्द्धन्तेरिति घः ॥ ( (तत्त्वदी ० ) - जेनीयत इति ॥ नीभावेन न द्वित्वबाधः विषयभेदात् । ह्रस्वेन सिद्धेऽपि प्रक्रियालाघवाय घ्नीः । एवमन्यत्रापि ॥ ( स्वपिस्यमिव्येञां यङि संप्रसारणम् ) सोषुप्यते॥ सेसिम्यते॥ वैवीयते ॥ (सुबोधिनी ) - स्वपिस्यमिव्येञां यङि संप्रसारणम् ॥ ञिष्वपू शये ॥ स्यमु शब्दे ॥ व्येञू संवरणे । षत्व सोपुप्यते इत्यादि ॥ ( चायः कीर्यङि ) चेकीयते ॥ जाजायते - जञ्जन्यते ॥ शीङोऽयङ. ये क्ङिति ॥ शाशय्यते ॥ डोढाँक्यते ॥ तोत्रौक्यते ॥ इति यङन्तप्रक्रिया | (सुबोधिनी) - चायः कीर्यङि ॥ यङि परे चायः कीः स्यात् ॥ दीघोंच्चारणं यङ्लुगर्थम्। चायृ पूजानिशामनयोः । चेकीयते ॥ जनी प्रादुर्भावे । जनसनखना मित्यात्वम् । जाजायते । पक्ष यमजपामिति पूर्वस्य नुक् । जञ्जन्यते - जंजन्यते । शीङो ऽय ये क्ङिति । ङित्त्वादन्तादेशः । परत्वादन्तरङ्गत्वा चायङादेशे कृते द्वित्वम् । आत इति पूर्वस्यात्वम् । यत इत्यल्लोपः । शाशय्यते ॥ ढौकृ त्रौकृ गतौ । हस्व इति पूर्वस्य हस्वे ततो यङीति गुणः। डोढौक्यते ॥ तोत्रौक्यते ॥ इति सुबोधिन्यां यङन्तप्रक्रिया | ( तत्त्वदी ० . ) - कृतायामिह टीकायां लोकेशकरशर्मणा । मता भाष्यकृतो भव्या यङन्तप्रक्रिया गता ॥ इति तत्त्वदीपिकायां यङन्तप्रक्रिया ॥ ३ ॥ अथ यङ्लुगन्तप्रक्रिया | वान्यत्र ॥ उकप्रत्ययसंयोगं विना यङो वा लुक् ॥ यङ्लुगन्तात्पम् । यङ्लुगन्तमदादा बोध्यम् । अदादित्वादपो लुक् । यङ्लुकि सति ॥ (सुबोधिनी ) - वान्यत्र । लुगिति सूत्रमनुवृत्तम् | उकप्रत्यये यङो लुग विधी. यते ददशूक इत्यादौ । अन्यत्र उकप्रत्ययाभावे यङ्प्रत्ययस्य वा लुग्भवति । लुगभावे यङ्प्रत्ययान्तं भवतीत्यर्थः । अनैमित्तिकोऽयमन्तरङ्गत्वादादौ भवति । ततः प्रत्ययल Page #172 -------------------------------------------------------------------------- ________________ ( १५२ ) सिद्धान्तचन्द्रिका | [आख्याते यङ्लुगन्तप्र० ] क्षणेन यङन्तत्वाद्दित्वादि । धातुत्वालडादयः । परतोऽन्यदिति परस्मैपदम् । आदनुदात्त ङित इत्यनेनात्मनेपदं तु न भवति । येऽपि स्पर्द्धशीङादयोऽनुदात्तङितस्तेभ्योऽपि न अनुबन्धनिर्दिष्टत्वात्। उक्तं च " शितपा शपानुबन्धेन निर्दिष्टं यहणेन च । यत्रैकाजूग्रहणं चैव पञ्चैतानि न यङ्लुकि ॥ १ ॥” इति निषेधात् एतानि पञ्च कार्याणि यङ्लुकि न प्रवर्तन्ते । तान्याह । शितप्प्रत्ययनिर्दिष्टं कार्यम् इतिपाविति तिपू । शपा अप्प्रत्य-येन निर्दिष्टम् अप् कर्तरीत्यपू । अनुबन्ध निर्दिष्टं यङो ङित्त्वादि। गणनिर्दिष्टं दिवादेर्य इत्यादि। एकस्वरनिर्दिष्टं नैकस्वरादनुदात्तादित्यादि । यथा गदनदेति सूत्रे शितपा शपा च निर्दिष्टत्वाद्यङ्लुकि णत्वं न प्रणिजङ्ङ्घन्ति । प्रनिजागदीति ॥ लित्पुषादेरित्यत्रानुबन्धेन गणेन च निर्दिष्टत्वाद् ङो न । अजङ्गमीत् । अववर्तीत् । नैकस्वरादित्यत्रैकस्वरनिर्दिष्टत्वादिनिषेधो न । बेभेदिता । चेच्छेदितेति ॥ अत एव यादयो न, गणेन निर्दिष्टत्वात् किं तु अबेव ॥ यङ्लुगन्तमदादौ बोध्यम् । अदादित्वादपो लुक् । भू सत्तायाम् । यङि लुकि सति ॥ (तत्त्वदी ० ) - वान्यत्र ॥ लुक इति सूत्रमात्रमनुवर्तते । तेनोकप्रत्यये यङो लुग्विधीयते ॥ दंदशूक इत्यादौ । अन्यत्रेति व्याचष्टे उकप्रत्ययसंयोगं विनेति । एवं व्यवस्थायामन्यत्र यङो लुगित्यर्थः ॥ यङ्लुगन्तात्पमंति ॥ अत्र दीक्षिताः । प्रत्ययलक्षणेन ङित्त्वामाश्रित्यात्मनेपदत्त्वस्य न ङित्वस्य प्रत्ययाप्रत्यये साधारणत्वेन प्रत्ययलक्षणाप्रवृत्तेः । यत्र हि प्रत्ययस्यासाधारण रूपमाश्रीयते तत्रैव तत् । इत्याहुः तत्रेति पण्डिताः । तथाहि । तेतिक्ते इति किं निपात्यते । तिजेर्यङलुगन्तस्यात्मनेपदं निपात्यते । नैतदस्ति प्रयोजनं सिद्धमन्त्रात्मनेपदमनुदात्तडित आत्मनेपदमिति । नियमार्थं तर्हि भावष्यति । अत्रैव यङ्लुगन्तस्यात्मनेपदमन्यत्र न भवतीत्यत्रैतदेव ज्ञापकमिति भाष्यकारादिमतोद्भावनेन तदाकरविरुद्धमित्युक्तवन्तः । अदादित्वादि ॥ प्राञ्चस्तु हादित्वं मत्वा द्वित्वमाहुस्तदपाणिनीयमित्युपेक्षितम् ॥ द्वेः स्वरेपि ॥ अपिशब्दाद्धावन्तलोपे गुणवृद्धी न । तेन बेदिता मरीमृजिंतेत्यादि सिद्धम् ॥ प्रक्रियाक्रममाह । यङ्लुकि सतीति ॥ (पितः स्मो वेट् ) बोभवीतु - बोभोतु | अबोभवीत्-अबोभोत्, अबोभूताम्, अबो भवुः । बोभवांचकार । गुणं बाधित्वा नित्यत्वादुक् ॥ अबोभूवीत - अबोभीत्, अबोभूवुः | अबोभूवी:- अबोभोः । अबोभूवम् ॥ पापचीति - पापक्ति, पापक्तः, पापचति । अपापचीत्-अपापक-अपापग, अपापचुः । पापचांचकार । पापचिता । अपापाचीत्-अपापचीत् ॥ द्वेः स्वरेऽपि नोपधाया गुणः । बोभुजी - ति-बोभोक्ति, बोभुक्तः, बोभुजति । अबोभुजीत्-अबोभोंक । बोभोजिता । अबोभोजीत् ॥ वावदीति - वावत्ति | वावदति - वावन्तु । वावद्धि । वावद्यात् ॥ जाघटीति- जाघट्टि । जाघटीषि-ष्टुभिः ष्टुः जाघ Page #173 -------------------------------------------------------------------------- ________________ [ आख्याते यङ्लुगन्तप्र० ]. टीकाद्वयोपेता । क्षि। अजाघटीत् ॥ स्पा संघर्षे । पास्पर्द्धाति-पास्पद्धि, पास्पर्द्धः, पास्पर्धति । हो पापाद्र । अपास्पर्दीत्-अपास्प-अपास्पर्दु । सिपि अपास्पी :- अपा-पाः । अपास्प-अपास्पर्दू ॥ गाधृ प्रतिष्ठालिष्सयोर्ग्रन्थे च । जागाधीति-जागाद्धि, जागाद्धः ।आदिजबानामिति घः जाघात्सि । अजागाधीत्-अजाघात् । सिपि अजाघा:अजाघात् ॥ नाथू । नानाथीति-नानात्ति, नानात्तः, नानाथति ॥ दध । दादधीति-दादद्धि । दाधसि । अदादधीत् , अदादधाम् , अदादधुः । अदाधः-अदादधीः । दादधिता । अदादाधीत्-अदादधीत् ॥ मुद । मोमुदीति-मोमोत्ति ॥ कुर्द खुर्द गुर्द गुद क्रीडायामेव । चोकूर्दीति-चोकर्ति, चोकूर्तः । अचोकूर्त । सिपि अचोकूः॥ (ऋदन्तानामृदुपधान च यङलुकि पूर्वस्य रुकूरिकीकः ) चर्करीति-चरिकरीति-रीकराति-, चर्कर्ति-चरिकर्ति-चरीकर्ति, चर्कतः-चरिकृतः-चरीकृतः, चक्रति-चरिक्रति-चरीक्रति । अचकरीत्-अचरिकरीत्-अगरीकरीत् । अचर्कः-अचरिक:-अचरीकः। चर्करिता ॥ वर्वृतीति-वरिवृतीति-वरीवृतीति, वर्वत्ति-वरिवर्ति-वरीवति । वर्वर्तामास । वर्वत्तिता । वर्वतिष्यति । अवतिप्यत् ॥ वनीवञ्चीषि-वन विक्षि । वनीवच्यात् । वनीवश्चीतु-वनीवङ्कतु, वनीवताम् । अवनीवश्चीत् । संयोगान्तस्य लोपः। अवनीवन् ॥ जङ्गमीति-जङ्गन्ति । लोपस्त्वनुदात्ततनाम् । जङ्गतः । गां स्वरे । जङ्गमति जङ्गमीमि, जगन्वः, जङ्गन्मः । जङ्गमीतुजगन्तु ।' हो जङ्गहि । अजङ्गमीत्-अजङ्गन्, अजगताम्, गमा स्वरे । अजग्मुः । जङ्गमिता । अजङ्गमीत् । हिंसायां तु जेनयोतिजेनेति-, जङ्घनीति-ज अन्ति-, लोपस्त्वनुदात्ततनाम् ॥ जवतः, जनति । अजश्नीत्-अजङ्घन् । आशिषि वध्यात् । अवधिष्ट । चञ्चुरीति-चञ्चूर्ति, चञ्चूर्तः, चञ्चुरति । चञ्चूर्यात् । चञ्चुरीतुचञ्चूर्तु-चञ्चूर्तात, च चूर्ताम् । चञ्चूर्हि । अचञ्चुरीत्, अचञ्चुः॥ चोस्कुन्दीति-चोस्कुन्ति, चोस्कुन्तः, चोस्कुन्दति । चोस्कुन्द्यात् । चोस्कुन्दीतु-चोस्कुन्तु, चोस्कुन्ताम् । अचोस्कुन्दीत्-अचोस्कुन् ॥ अचोस्कुन्ताम्, अचोरकुन्दुः । सिपि । अचोस्कुन्दी:-अचास्कुन् । चङ्खनीति-चङ्घन्ति, चङ्खातः, चनति । चखनीषि-चङ खसि, चखाथः । चखनीमि-चखन्मि, चखन्वः, चलन्मः । Page #174 -------------------------------------------------------------------------- ________________ (१५४) सिद्धान्तचन्द्रिका। [आख्याते यङ्लुगन्तप्र० ] चलायात्-चवन्यात् । चखनीतु-चवन्तु-चखातात् , चखाताम् , चनतु । चलाहि । अचखनर्मात-अचङ्खानीत् , अचवानिष्टाम् ॥ योयवीति-योयोति, योयुतः । योयुयात् । यायवीतु-योयोतु । अयायवीत् ॥ नोनवीति-नोनोति, नोनुतः । नोनुयात् । नोनवीतु-नोनोतु । अनोनवीत्-अनोनोत् । सिपि। अनोनवी:-अनोनोः ॥ जाति-जाहाति । द्वे ग्तौ। जाहीतः । जाहीयात् । जाहेतु-जाहातु-जाहौतात् , जाहीताम् । अजाहेत्अजाहात्; अजाहीताम् , अजाहुः । जाहीयात् । जाहिता । आतोऽनपि । अजाहासीत् , अजाहासिष्टाम् ॥ दादेति-दादाति, दात्तः, दादात ।। दादेषि-दादासि, दात्थः । दात्थ । दाद्वः, दामः। दां हौ दोह । दादेयात् । आतोऽनपि । दादिता। दादेः पे । अदादेत्-अदादात् , अदादाताम् ॥ एवं धेट । द धेति-दाधाति, दात्तः, दाधति । दाध्यात् । धेहि । दाधेयात् । अदाधासीत्-अदाघेत्-अदाधात्-अदाधत् , अदाधताम्, अदाधन् ॥ डुधा । दाधेति-दाधाति, धात्तः । धात्थः । दादेः । दाध्वः । दाध्मः । लाङ अदाधात्-अदाधेत् ॥ पितोस्तु । दैप शोधने । दाप् लवने । दादति-दादाति, दादीतः, दादति । दादीयात् । दादेतु-दादातुदादीतात् । दादीहि । अदादेत्-अदादात्, अदातीताम् । दादा. यात् । अदादासीत् ॥ सास्वपीति-सास्वपि, सस्वप्त, सास्वपति । हो सास्वब्धि । असास्वपीत्-असास्वत् । सामुप्यात् । असास्वापीत्-असास्वपीत् ॥ कृ विक्षेपे । चाकरीति-चाकर्ति, चाकीर्तः, चाकिरात । चाकरिता । चाकरीता ॥ तातरीति-तातर्ति, तातीर्तः, तातिरति । तातरीतु-तातर्तु । ऋत इर् । तातीर्तात् । तातीहि । अतातरीत्-अतार्तः । अतातारीत्, अतातारिष्टाम् । अर्तेर्यङ्लुकि द्वित्वे पूर्वस्य र इत्यत्वम् । रुक् । रिग्रीकोस्तु पूर्वस्यासवर्ण इय । अररीति-अरियरीति-अरियरीति-, अरर्ति-अरियतिअरियति, अर्ऋतः-अरिय॒तः-अरिय॒तः, रुको रिलोप इति लोपः । आरति-अरियूति-अरियूति । अर्जया-अरिगृयात्अरिययात् । अररीतु-अरियरीतु-अरियरीतु-, अरर्तु-अरिय - अरियर्तु-, आरतु-अरियतु-अरियूतु । आररीत्-आरियरीत्आरियरीत् । आरः-आरियः-आरियः । आररुः-आरियरु:आरियरुः । सिपि आररी:-आरियरी:-आरियरीः । आरः IFRHITHHTHE Page #175 -------------------------------------------------------------------------- ________________ [आख्याते यङलुगन्तप्र०] टीकाद्वयोपेता। (१५५) आरियः-आरियः । अरराञ्चकार-अरियराञ्चकार । लिङि यादादाविति रिङ् । आरियात्-आरियरियात् २ । अरारिता-अरियरिताअरियरीता । लुङि आरारीत्-आरियारीत् ॥ गृहू । जाहीतिजरिगृहीति-जरीगृहीति-, जर्डि, जर्मूढः, जर्गेहात । जहीतुजर्ग?-जHढात् । हौ जढि । अज!हीत्-,अजघर्ट-अजघर्ड ॥ ग्रह ।। जाग्रहीति-जाग्राढि । तसादौ किनिमित्तं संप्रसारणम् । तस्य बहिरङ्गत्वेनासिद्धत्वात्र रुगादयः । जागृढः, जागृहात । जाग्रहीषि--- जाघ्रक्षि । जागृढि । जाग्रहिता। गृधु । जर्गेधीति-जर्गधि, जद्धः, जर्गेधति । जर्गधीषि-जत्सि । अजर्गधीत्-अजर्घ । सिपि अजधी:-अजर्घाः । अजर्गत्, अजर्गधिष्टाम् ॥ पाप्रच्छीतिपाप्रष्टि । तसादौ न संप्रसारणम् । शितपा निर्देशात् ॥ (सुबोधिनी)-पितः त्स्मी वेट् ॥ यङन्तात्परेषां हसादीनां पितां तकारसकारमकाराणामीड्डा स्यात् ॥ यङो लुक्याप प्रत्ययलक्षणेनात्र यङन्तत्वम् । बोभवीतिबोभोति, बोभूतः । द्वेरित्यन्तोऽत् हुन्वोरेवापीति नियमात् नुधातोरित्युव । बोभुवति । बोभूयात् । लोटि बोभवीतु-बोभोतु-बोभूतात् । लाङ अबोभवीत्-अबोभोत्, अबोभूताम् । अन उस् इत्यन उस् । उसि गुण इति गुणे अबोभवुः । कासादिप्रत्ययादित्याम् । बोभवांचकार । बोभूयात् । सिसतासीस्यपामितीट् ॥ बोभविता । बोभविष्यति । अबोभविष्यत्। लुङि दादेः पे इति सेर्लुक्यङ्लुकि सतीतीट्पक्षे गुणं बाधित्वा नित्यत्वाद्भुवः सि लोपेस्वरे इति धुक।अबोभूवीत् । भुवः सिलोपेऽयङ्लुकि गुणो नेत्यनिषेधाद्गुणः। अबोभोत्, अबोभूताम्, अन उस् इत्यन उस् । नित्यत्वादुक्. अबोभूवुः॥डुपचा पाके । आत इति पूर्वस्यात्वम् । पापचीति-पापक्ति । पापच्यात् । पापक्तु-पापचीतु-पापक्तात् । अपापचीत्-चो कुरितिकः। दिस्योर्हसादिति दिसिपोर्लोपः। अपापक । पापचांचकार।पापच्यात्।पापचिता।पापचिष्यति।अपापचिष्यत्।अतो हसादरिति वा वृद्धिः। अपापाचीत्-अपापचीत्॥भुजपालनाभ्यवहारयोः।द्वेः स्वरेऽपि नोपधाया इत्यनेन चतुर्पु गुणो न । यङीति पूर्वस्य गुणः। बोभुजीति-चोः कुरिति गः । खसे चपा इति गस्य कः । बोभोक्ति । बोभुज्यातू । बोभुजीतु-बोभोक्तु । अबोभुजीत्-दिस्योरिति दिपसिपोलोपः । अबोभोकू । बोभोजांचकार । बोभुज्यात्बोभोजिता । बोभोजिष्यति । अबोभोजिष्यत् । अबोभोजीत् । वद व्यक्तायां वाचि । आत इति पूर्वस्यात्वम् । वावदीति-खसे चपा इति तः । वावत्ति । वावद्याता वावदीतु-वावत्तु-वावत्तात् । अवावदीत्-अवावत् । वावदांचकार । वावद्यात् । वावदिता। वावदिष्यति । अवावदिष्यत् । अवावादीत् ॥ घट चेष्टायाम् । आत इति पूर्वस्यात्वम् । जाघटीति-ष्टुभिः ष्टुरितिटः।जाघाट्ट । जापट्यात्। जाघटीतु-जाघटु । Page #176 -------------------------------------------------------------------------- ________________ ( १५६ ) सिद्धान्तचन्द्रिका | [आख्याते यङ्लुगन्तप्र० ] जाघट्टात् । अजाघटीत् - दिस्योरिति दिसिपोर्लोपः । अजावटू । जाघटांचकार । जाघात् । जाघटिता । जाघटिष्यति । अजाघटिष्यत् । अजाघाटीत् - अजाघटीत् । अतो हसादेर्लघोरिति वा वृद्धिः । स्पर्द्ध संघर्षे । संघर्षः पराभिभवेच्छा । आत इति पूर्वस्यात्वम् । यङ्लुकीतीटू । पास्पद्धति - ईडभावे तथोर्द्ध इति धत्वम् । हसात्परस्य झसस्येति धलोपे । पास्पर्धि - धलोपाभावे झवे जबा इति दत्वम् । पास्पर्द्धि । सिपि दलोपे खसे चपा इति तः । पास्पर्तिस - पक्षे पास्पसि । पास्पर्ध्यात् । पास्पर्द्धातुपास्पर्धु । तुह्योरिति तातङ् । पास्पर्द्धात् । हौ झसाद्धिर्देरिति धत्वे हसादिति धलोपे पास्पर्धि - धलोपाभावे दत्वम् । पास्पर्द्धि । लङि अपास्पर्धीत् - ईडभावे दिस्योर्हसादिति डिसिपोर्लोपः । संयोगान्तस्येति धलोपः । वावसाने इति वा तः । अपास्पद्अपास्पते । सिपि तु अपास्पद्धः - पक्षे दः इति दस्य रः । रिलोपो दीर्घश्चेति रोपपूर्वी । अपास्पा: । पास्पर्द्धाचिकार । पास्पर्ध्यात् । पास्पर्धिता । पास्पर्धिष्यति । अपास्पर्द्धिष्यत् । लुङि सिसतासीस्यपामितीट् । सरितीट् । इट ईटीति सिलोपः । अपास्पर्धीत् ॥ गाधृ प्रतिष्ठादौ । तथोर्ध इति धः । झबे जवा इति दः । जागाद्धि-ईट्पक्षे जागाधीति । सिपि आदिजबानामिति घः । खसे चपा इति यतः । जघात्सि । जागाध्यात् । जागाधीतु जागात् । हौ झसादिति हेधिः । जागाद्धि । अजागाधीत् -- आदिजबानामिति घः । अजाघात् । सिपि अजागाधीः । ईडभावे दिस्योरिति सिलोपः । वावसाने वा दः । द इति दस्य रः । आदिजबानामिति घः॥ अजाघाः - अजाघात् । लुङि अजागाधीत्, अजागाधिष्टाम् । नाथ नाधृ याच्ञादौ । आत इति पूर्वस्यात्वम् । नानाथीति - खसे चपा इति यस्य तः । नानात्ति-नानाथ्यात् । नानाथीतु - नानातु - नानात्तात् । अनानाथी । अनानात् । लुङि अनानाथीत्, अनानाथिष्टाम् ॥ दध धारणे । ईट्पक्षे दादधीति - पक्षे तथोर्ध इति धः । झबे जब इतिदः । दादा । सिपि आदिजवानामिति धः । दाधत्सि । दादध्यात्। दादधीतु । दादधु-- दादद्धात् । हौ झसाद्धिरिति धिः । दादद्धि । लङि अदादधीत्sed आदिवानामिति धः । अदाधत् । सिपि द इति दस्य रः । अदाधः - अदाधत्-अदादधीः । लुङि अतो हसादेर्लघोरिति वा वृद्धिः । अदादाधीत्-अदादधीत् ॥ स्कूदि आप्रवणे । इदितो नुमिति नुम् । चोस्कुन्दीति - ईडभावे चोस्कुन्ति । चोस्कुन्द्यात् । चोस्कुन्दी - चोस्कुन्तु - चोस्कुन्तात् । अचोस्कुन्दीत्। दिस्योर्हसादिति दिएसिपोर्लोपः। संयोगान्तस्येति दलोपः । अचोस्कुन् । लुङि अचोस्कुन्दीत् ॥ मुद हर्षे मोमुदीति । द्वेः स्वरेऽपि न गुणः । मोमोति । मोमुद्यात् । मोमुदीतु मोमो - मोमुतात् । अमोमुदीत्-अमोमोत् । सिपि द इति दस्य रः । अमोमो:- अमोमोत् । लुङि अमोमोदीत् ॥ कुर्द खुर्द गुर्द गुद क्रीडायाम् । य्वोर्विहसे इति दीर्घः। खसे चपा इति यस्य तः । चोकूर्ति - इट्पक्षे चोकूदति । चोकूर्द्यात् । चोकूर्दीतु चोकू - चोकूर्त्तात् । Page #177 -------------------------------------------------------------------------- ________________ [आख्याते यङ्लुगन्तप्र०] टीकाद्वयोपेता।। ( १५७ ) हौ झसादिर्हेरिति धिः । चोकूद्धि । अर्चीकूर्दीत्-अर्चीकू । रात्सस्योत तलोपो न । सिपि द इति दस्य रः। रात्सस्यति सलोपः । वोवि हसे इति दीर्घः । अचोकूःअचोकूर्दीः । लुङि अचोकूर्दीत् । डुकृञ् करणे । ऋदन्तानामृदुपधानां च यङ्लुकि पूर्वस्य रिक्रीकः ॥ अतिशयेन करोति चर्कगीत-ईडभावे चर्कति । द्वरित्यन्तोऽत् । रत्वम्। चक्रति । विधिलिङ चकृयात् । लोटि चर्करीतु-चर्कर्तु-चकृतात् । लङि अचर्करीत् । ईडभावे दिस्योर्हसादिति दिसिपोर्लोपः। अचर्कः।आशिषि लिङि यादादाविति रिङ । चक्रियात्। लुङि णित्पे इति णित्त्वात् धातोर्नामिन इति वृद्धिः। अचर्कारीत् । वृतु वर्तने । लटि ईट्पक्षे द्वेः स्वरेऽपीति न गुणः । वर्वृतीति-ईडभावे वर्ति । विधिलिङि वर्वृत्यात् । लोटि इटि वर्वृतीतु--ईडभावे वर्वर्तु-वर्वृतात् । हौ झसाद्धिरिति धिः । वर्वृद्धि । लङि अवतीत् । ईडभावेरात्सस्यति तलोपो न।अवर्वत । दिस्योर्हसादिति दिप्सिपोर्लोपः। सिपि पक्षे वावसाने इति दः। द इति दस्य रः। रिलोपो दीर्घश्चेति रलोपपूर्वदीर्घो। अवर्वाः-अवर्वत् । ईटि अवतीः। लिटि वर्वर्तामास । वर्वृत्यात् । वर्वर्तिता । लटि गणनिर्दिष्टत्वात् वृतादिभ्यः स्यसयोरिति न । वर्वतिष्यति । अवर्वतिष्यत् । लुङि गणनिर्दिष्टत्वात् लित्पुषादेरित ङो न । अवर्वर्तीत् ॥ वञ्चु गतौ ।गत्यर्थात्कौटिल्ये इति यङ् । वञ्चु संसु इति पूर्वस्य नीगागमः। लुकि न तन्निमित्तमिति यङो लुका लुप्तत्वात्तदाश्रितो नलोपो न । वनीवञ्चीति-ईडभावे वनीवक्ति, तसो ङित्त्वादिह स्यादेव नो लोप इति नलोपः । वनीवक्तः,देरित्यन्तोऽत् । वनीवञ्चति । वनीवच्यात् । वनीवञ्चीतु-वनीवङ्क्तु-वनीवक्तात्। हो झसादिति हेधिः। वनीवग्धि। अवनीवञ्चीत्-इडभावे संयोगान्तस्येति च लोपः। अवनीवन् । लुङि अवनीवञ्चीत्॥गम्लगती।ञमजपामिति पूर्वस्य नुकू जङ्गमीति-ईडभावे जङ्गन्ति,लोपस्त्वनुदात्ततनामिति मलोपःोजङ्गतः, गमांस्वरे इत्युपधालोपः।जङ्ग्मति।मो नो धातोरिति न । जगन्मि । जङ्गम्यात् । जङ्गमीतु-जङ्गंतु-जङ्गतात् । हौ लोपस्त्वनुदात्ततनामिति सलोपस्यासिद्धत्वादत इति न हेर्लुक् । जङ्गहि । अजङ्गमीत्।ईडभावे दिस्योरिति दिसिपोलोपः । मो नो धातोरिति नः । अजङ्गन् । अनुबन्धनिर्दिष्टत्त्वात् लित्पुषादेरिति न ङः । ह्यन्तेति न वृद्धिः । अजङ्गमीत् ॥ हन हिंसागत्यो । पूर्वाद्धन्तरिति हस्य घः । यद्यपि हन्तरिति रितपा निर्देशस्तथापि यङ्लुकि भवत्येवेति न्यासकारः । रितपा शपेति निषेधस्यानित्यत्वात् । अमजपामिति पूर्वस्य नुक् । जङ्घनीति-इडभावे जङ्घन्ति, तसि लोपस्त्वनुदात्ततनामिति नलोपः । जवन्तः, गमां स्वरे इत्युपधालोपः। द्वेरित्यन्तोऽत् । जङनति । जवन्यात् । जङ्घनीतु-जवन्तु-जवन्तात् । जोधि शाधीति सूत्रे अयङ्लुकीत वक्तव्यम् । तेन जहि । अजङ्गन्नीत् ।ईडभावे अजनन् । जननांचकार। हनो लुलिडोर्वध इति वधादेशः। द्वित्वविशिष्टस्य हनो वधादेशाद्वधादेशस्य पुर्नादत्वं न । वव्यात् । अवधीत्।आइपूर्वात्तु आङो यमहन इत्यात्मनेपदम्। आजंघते । इत्यादि Page #178 -------------------------------------------------------------------------- ________________ (१५८) सिद्धान्तचन्द्रिका । [आख्याते यलुगन्तप्र०] प्रकृतिग्रहणे यङलुगन्तस्यापि ग्रहणमित्युक्तत्वात् ॥ चर गती लक्षणे च । लुपसदेति गर्दायां यङ् । यङो लुक् । ञमजपामिति नुक् । चरफलोरित्युत्वम् । उतस्तपरत्वान्न गुणः। वोनि हसे इति दीर्घस्तु स्यादेव । चञ्चूर्ति-ईट्पक्षे चञ्चुरीति । चञ्चूर्यात्। चञ्चरीतु-चञ्चूर्तु-चच्चूर्तात् । अचञ्चूः।पदान्तविषयत्वात् वोर्वि हसे इति दीर्घः। अचञ्चुरीत् ॥ खनु अवदारणे । ञमजपामिति नुक् । चङ्खनीति-चङ्खन्ति, जनसनेत्यात्वम् । चलातः । जनसनेत्यत्र हकारे चेति वाच्यम् । तेन ह वप्यात्वम् । चलाहि । अचङ्खनीत्-अचङ्ख । आशीलिङि जनसनेति वात्वम् । चलायात्-चङ्खन्यात् । लुङि अतो हसादेरिति वा वृद्धिः । अचंखानीत्-अचंखनीत् ॥ यु मिश्रणऽमिश्रणे च । 'आरौ'इति सूत्रेऽद्विरुक्तस्येत्यक्तत्वादुत औत्वं न । यडीति पूर्वस्य गुणः।योयोतिाईट्पक्षे योयवीतिानुधातोरित्युवायोयुवति। योयुयात्।योयवीतु-योयोतु-अयोयोत्-अयोयवीत्। आशिषि ये इति दीर्घः।योयूयात्।लुङि णित्पे इति णित्त्वाद् धातार्नामिन इति वृद्धिः । अयोयावीत्॥णुस्तुतौ।नोनवीति-नोनतिानोनुयात्।नोनवीतु-नो-तु-नोनुतात् ।अनोनवीत्-अनोनोत् । उसि गुण इति गुणे । अनोनवुः । लुङि अनावीत् ॥ओहाक त्यागे । ओहाङ गतौ । अनयोस्तुल्यानि रूपाणि । ङित्त्वप्रयुक्तस्यात्मनेपदस्य यङ्लुक्यप्रवृत्तेः । भृजां लुकीतीत्वस्य लुनिमित्ते द्वित्व एव विहितत्वाच्च आत इति पूर्वस्यात्वम् । ईट्पक्षे जाहेति-जाहाति, देस्तावितीत्वम्। जाहीतः । इह ङिति हसे भीहाको रिट्रतीत्वं न । अनुबन्धनिर्दिष्टत्वात् । टेरित्यन्तोऽत । द्वेस्तावित्यालोपः । जाहति । जाहेषि-जाहासि,जाहीथः,जाहीथ । जाहेमि-जाहामि,जाहीवः-जाहीमः। द्वेस्तावितीत्वम् । जाहीयात् । इह हाको यादादावालोप इत्यालोपो न उनुबन्धनिर्दिष्टत्वात् । जाहेतु-जाहातु-जाहीतात् । हो देस्तावितीत्वम्। जाहीहि । इह इवो हाविति ह्रस्वदीर्घविकल्पे रूपत्रयं न । जहातरिति रितपा निर्दिष्टत्वात् । अजाहेत्-ईडभावे अजाहात् । आशिषि जाहायात् । इह दादरे इत्येवं दादेरिति इत्वं च न । हागित्युभयत्रानुबन्धनिदिष्टत्वात्।।जाहेता । लुङि यमिरमिनमातामितीट्सको । अजाहासीत्, अजाहासिटाम,अजाहासिषुः॥डुदाज दाने । आत इति पूर्वस्यात्वम् । दादाति-ईट्पक्षे दादेति, दादेरित्यालोपः । दात्तः, द्वेरित्यन्तोऽत् । दादति । दादासि-दादंषि । दाद्यात् । दादेतु-दादातु-दात्तात् । हौ दां हावित्येत्वपूर्वलोपौ । देहि-दानात् । आदादात्अदादेत् । दादाञ्चकार । दादेर इत्येत्वम् । दादेयात् । दादेता । दादेष्यति । आदादेष्यत् । 'दादेः पे' इति सिलोपः।अदादात् ॥ धेट पाने । दाधाति--राधेति, दादेरित्यालोपः । खसे चपा झसानामिति तः । दात्तः, तथोर्ध इति धत्वं न दादेरित्यालोपस्य स्थानिवत्त्वन झसान्तत्वाभावात् । तत्र सूत्रे व्यवस्थितार्थकवानुवृत्त । दाधति । दाध्यात । दाधातु-दाधेतु-दात्तात् । दाधतु । हौ दां हावित्येत्वपूर्वलोपौ। धेहि । अदाधात्-अदाधेत् । दाधांचकार । दादेरे इत्येत्वम् । दाधेयात् । दाधेता । दाधे Page #179 -------------------------------------------------------------------------- ________________ [ आख्याते यङ्लुगन्तप्र० ] टीकाद्वयोपेता । व्यातीअदाधेष्यत् । शाछासाघ्राधेटामिति वा सिलोप: । अदाधात्-पक्षे यामिरमिनमातामितीट्सको । अदाधासीत्-धेटो भतमात्रे दिवादिपरो डो वेति ङाअदाधात् ॥ डुधाज्ञ धारणादौ । दाधाति-दाधेति, पूर्वस्य ङ्किति झसे ध इति धः खसे चपा इति तः। धात्तः, दाधति । दाध्यात्।दाधातु-दाधेतु-धात्तात् । हो दां हावित्येत्वपूर्वलोपौ धहि । अदात्-अदाधेत् । दाधांचकार । दादेरे इत्येत्वम् । दाधेयात् । दाधेता। दाधेष्यति । अदाधेष्यत् । 'दादेः पे' इति सिलोपः। अदाधात् ॥ दाप् लबने । दैप् शोधने । आदादिकभौवादिकयोरनयोर्दादित्वम् । दादाति-दादेति, देस्तावितीत्वम् । दादीतः । द्धरित्यन्तोऽत् । द्वेस्तावित्यालोपः दादति । दादीयात् । दादातु । दादेतु । दादीतात् । हो दादीहि । अदादात्-अदादेत् । दादांचकार । दादायात् । दादता । दादेष्यति।अदादेष्यत्ायमिरमिनमातामितीट्सको।अदादासीत्॥त्रिष्वप् शये । सर्वविधिभ्यो लुगविधिबलीयान् इति यङोलुकलुका लुप्ते प्रत्ययलक्षणत्वाभावात् स्वापिस्वमिव्येजां यङीति विधीयमानं यत्संप्रसारणं तन्न भवति ।रुदादेश्चतुर्णाहसादोरिति गणनिदिष्टत्वादिन।आत इति पूर्वस्यात्वम् । ईट्पक्षे सास्वपीति-ईड्भावे सास्वप्ति, सास्वप्तः, सास्वपति । सास्वप्यात् । सास्वपीतु-सास्वप्तु-सास्वप्तात्।हौ झसाद्धिरिति धिः । झबे जवा इति बः । सास्वब्धि । रुधादिगणनिर्दिष्टत्वादिस्योरीडटौ न । असास्वपीत्असास्वप् । सास्वपांचकार । आशिषि यजामिति संप्रसारणम् । सासुप्यात् । सास्वपिता। सास्वापण्यात । असास्वपिष्यत् । अतो हसादरीति वा वृद्धिः। असास्वापीत्असास्वपीत् ॥ कृ विक्षेपे । आत इति पूर्वस्यात्वम् । ऋदन्तानामिति तपरत्वाद् रुकरिकीको न भवन्ति । ईट्पक्षे चाकरीति-ईडभावे चाति, ऋत इरिती । वोर्वि हसे इति दीर्घः। चाकीर्तः, द्वेरित्यन्तोऽत् । चाकिरति । चाकीर्यात् । चाकरीतु-चाकर्तुचाकीर्तात् । चाकीहि।अचाकरीत्-ईडभावे दिस्योर्हसादिति दिसिपोर्लोपः।अचाकः। उसि गुणः । अचाकरुः। चाकरांचकार । चाकीर्यात् । चाकरिता । चाकरिष्यति । अचाकरिष्यत्।लुङि 'णित्पे' इति णित्त्वात् धातोर्नामिन इति वृद्धिः। अचाकारीत् ॥त प्लवनतरणयोः । तातरीति-तातति । तातीर्यात् । तातरीतु-तातर्तु-तातीर्त्तात् । अतातरीत्-अतातः । तातरांचकार । तातीर्यात्। तातरिता। तातरिष्यति । अतातरिष्यत् । अतातारीत्। अतातारिष्टाम् ॥ ऋ गतौ । भौवादिकजौहोत्यादिकयोग्रहणम् । अस्मात् सूचिसूत्रिमूत्रीति यङ् द्वित्वं च । केचित्तु यडीति पूर्वस्य गुणमाहुः । अन्ये तु र इति पूर्वस्यात्वमित्याहुः। फले तु न विशेषः। ऋदन्तानामिति पूर्वस्य रुगरिग्रीगागमाः । अरर्ति-रिग्रीकोस्तु तुल्यं रूपम्।असवर्ण स्वरे पूर्वस्येतीय । अरियति२-, ईट्पक्षे अररीति-अरियरीति२,तसि अर्ऋतः-आरियतः२, द्वेरित्यन्तोऽत् । ऋमिति ः॥रि लोपो दाघश्चेति रलोपपूर्वदीर्यौ । आरति-परत्वात्पूर्वमिय ततो रत्वम् । अरिप्रति । मध्यमपुरुषे तु अरार्ष-अरियाई-ईट्पक्षे-अररीषि,अरियरीषि रिग्रीकोस्तुल्यं रूपम् । अर्ऋथःअरियथः, उत्तमपुरुषे तु अरमि-आरियार्मि,ईट्पक्षेअररीमि-अरियरीमि, अवः-अरि Page #180 -------------------------------------------------------------------------- ________________ (१६०) सिद्धान्तचन्द्रिका। [आख्याते यङ्लुगन्तप्र० । यूवः। लिङि अज्रयात्-अस्यियात्।लोटि अरर्तु-अरियर्तु-ईट्पक्षे अररीतु-अरियरीतु। अर्ऋतात्-अरियतात्,अर्ऋताम् अरियताम् । आरतु-अरियतु । अहि-अरियहि । उत्तमे तु अरराणि-अरियरााण। अरराव-अरियरावाला दिस्योर्हसादिति दिपासपोलोपः। आरः-आरियः। पक्षे आररीः-आरियरीः २। उत्तमे तु आररम्-आरियरम्, आव-आरिव। लिटि अररांचकार-अरियरांचकार।आशिषि लिङि श्तिपानिार्दैष्टत्वाद्गुणोऽतिसंयोगाद्योरिति गुणो ना'यादादौ इति रिङ्गारि लोपो दीर्घश्चेति रलोपपूर्वदीर्घो। आरियात्-आरिरियात् २॥ लुटि अररिता-अरियरितालिटि अररिष्यतिअरियरिष्यात । लार्ड आररिष्यत्-आरियरिष्यत् । लुङि णित्त्वात् धातोर्नामिन इति वृद्धिः। आरारीत्-आरियारीत् । गृहू ग्रहणे । द्वेः स्वरेऽपीति गुणनिषधे ऋदन्तानामृदुपधानां चेति रुग्रिग्रीकः । ईट्पक्षे जहीति-ईडभावे हो ढ इति ढत्वं तथार्ध इति धत्वं ष्टुत्वं ढि ढो लोप इति ढलोपः। जगाई । जगूंढ इत्यत्र ढि ढ इति ढलोपे पूर्वस्य दी? न अनृत इत्युक्तत्वात् । जक्षि । उत्तमे जहीमि-जमि ।। जह्यात् । जगृहीत्-जर्ग?-जगूंढात्, जर्मूढाम्,जहतु। झसादिहेरिति धिः।जर्गृढि। उत्तमे तु दे. स्वरेऽपीति गुणो न । जहाणि । लङि अजर्गृहीत् । इडभावे आदिजबानामिति घः। अजर्घर्ट, अजढाम्,अज!हुः। अजाही:-अजर्घद, अजयूँढम्,अज!ढादे स्वरेऽपीति. न गुणः।अजहम्, अजह्व, अजर्गृह्म । जर्गचिकार।जर्गृह्यात् । लुटि अनुबन्धनिर्दिष्टत्वाद् ऊदितो वेतीडिकल्पो न । जहिता। जर्हिष्यति।अजर्हिष्यत्।अजगह-त्, अजनहिष्टाम्॥ग्रह उपादाने।यङो लुका लुप्तत्वात्तन्निमित्तं ग्रहां डिति चंति संप्रसारणमिह न भवति आत इति पूर्वस्यात्वम् । जाग्रहीति । ईडभावे हो ढ इति ढत्वम्।तथार्ध इति धत्वं ष्टुत्वं च । ढि ढो लोपो दीर्घश्चेति ढलोपपूर्वदीघौं। जाग्राढिोतसादौ प्रत्यये ङित्त्वाद् ग्रहां डिति चात संप्रसारणम्।तस्य संप्रसारणस्यासिद्धं बहिरङ्गमन्तरङ्ग इत्यसिद्धत्वाद् ग्रिग्रीगागमा न भवन्ति।जागृढः।सिपि जाग्रहीषि।ईडभाव हो ढ इति ढत्वम्। पढोः कः से इति कत्वम् । आदिजवानामिति घः। जाघ्रक्षि । जाग्रह्यात् । जाग्रहीतुजाग्राढु-जागृढात् । अजाग्रहीत्-अजाघ्रटोजाग्रहांचकाराजागृह्यात् । लुटि ईटो ग्रहामिति सूत्रे एकस्वरस्य ग्रहेरित्युक्तत्वात् । यङ्लुकि दीर्घो न । माधवस्तु दाघमाहतद्भाष्यविरुद्धम् । जाग्रहिता।जाग्रहिष्यति । अजाग्रहिष्यत्।अजाग्रहीत् ॥ यन्तति न वृद्धिः। गृधु अभिकङ्खायामाद्वेःस्वरेऽपीति गुणनिषेधः । ऋदन्तानामृदुपधानां चेति रुग्रिग्रीगागमाः। जधीति।ईडभावे तथोर्ध इति धः। झबे जबा इति दः । जर्गद्धि । सिपि जZधीषि । ईडभावे आदिजवानामिति घः । खसे चपा इति तः । जसि। जध्यात् । जधीतु-जगेर्द्ध-जर्गुदात् । अजऍधीत् । इंडभावे उपधाया लघोरिति गुणः । दिस्योरिति दिसिपोर्लोपः। आदिजवानामिति घः। अजर्घत, अजद्धाम्, Page #181 -------------------------------------------------------------------------- ________________ [ आख्याते यङलुगन्तप्र०] टीकाद्वयोपेता। (१६१) अजधुः। सिपि द इति दस्यरः।रिलोपोदीर्घश्चेति रलोपपूर्वदीर्घो। अजर्घाः-अज । जर्गद्धांचकार । जर्णोध्यात्। जर्धिता । जर्धिष्यति । अजर्धिष्यत् । अजर्गीत् ॥ प्रच्छ जीप्सायाम् । आत इति पूर्वस्यात्वम् । पाप्रच्छीति । ईडभावे छशषेति षत्वं ष्टुत्वमापाप्राष्टि। तसादौ प्रत्यये ग्रहां ङिति चेति संप्रसारणं न श्तिपा निर्दिष्टत्वात् ॥ (तत्त्वदी०)-पितः स्मो वेट्र॥ स्म इत्यत्रापि द्वितकारको निर्देशः।एको दकारजः॥ अपास्पा इति ॥ द इति रत्वे रिलोप इति दीर्घः । ऋदन्तानामित्यादिरुगादीनां त्रयाणामपि कित्त्वाप्रयोऽप्यागमाः पर्यायेण भवन्ति । रुक उकार उच्चारणार्थः। चर्करीति ॥ ईकारे रूपत्रयं तदभावे च रूपत्रयमिति षट् तिपि॥जंगत इति ॥ लोपस्त्वनुदात्ततनामिति मलोपः।।जंगन्मीति॥ मोश्चेति मस्य नः । जंघनीति ॥ पूर्ववत् हन्तेरिति घत्वम् । आशिषि वध्यादिति ॥ द्विरुक्तस्य वधादेशावित्वं न । एकस्यां व्यक्तावेकलक्षण सकृदेव प्रवर्तत इत्युक्तेः॥चञ्चूर्तीति ॥ चर गतिभक्षणयोः । चरफलोरत उदिति उत्वे य्वोर्वि हस इति दीर्घः।।चंखात इति ॥जनसनेत्यात्वम् । योयोतीति ॥ अद्विरुक्तस्येत्यनुवृत्तरोरावित्यौत्वं न दात्त इति ॥ दादेरित्यकारलोपः ।। देहीति ॥ दां हावित्येत्वलोपौ ॥ चाकर्तीति ॥ ऋदन्तानामित्यत्र तपरकरणान्न रुगादयः । अरर्तीति ॥गुणो द्वितीयस्य अरियार्त । पक्षद्वयेऽपि इयादेशे तु समम् ॥जाग्रहीतीति॥ईकाराभावे ढत्वधत्वष्टुत्वढलोपदीर्घत्वानि । कैश्रिदत्र संप्रसारणे जगृहीतीत्यादि रूपमुक्तं तदनाकरमित्युपेक्षितम् ॥ बहिरङ्गत्वे इति ।। प्रत्ययाश्रित बहिरङ्गमित्युक्तेः॥ अजर्घा ॥ इति ॥ द इति रत्वे रिलोप इति दीर्घः। तसादौ न संप्रसारणमेतद्बीजं तु श्तिपा निर्देशः। उक्तं च "श्तिपा शपानुबन्धेन निर्दिष्ट यद् गणेन च । यत्रैकाज्ग्रहणं चैव पञ्चतानि न यङ्लुकि ॥” इति ॥ - (क्ङिति झसे क्वौ ञमे च छस्य शो वस्य ऊः) पाप्रष्टः, पाप्रच्छति । पाप्रश्मि, पाप्रछः, पाप्रश्मः ॥ हय गतौ । जाहयोति । यवयोर्वसे हकारे च लोपः ॥ जाहति, जाहतः, जाहयति । जाहयिषि-जाहसि । जाहामि, जाहावः, जाहामः । अजाहयीत् । अजाहत् । जाहय्यात् ॥ हर्य गतिकान्त्योः । जाह-तिजाहर्ति, जाहर्तः, जाहर्यति । जाहर्हि । अजाह-त्-अजाहः, अजाहर्ताम्, अजाहयुः॥ (सुबोधिनी)-क्ङिति झसे को अमे च छस्य शो वस्य ऊः॥धातोश्छस्य शकारःस्यात् वकारस्य ऊश्चकिति ङिति झसे परे किपि जमेच परे । भाष्ये उक्तं च्छोरित्यनेन ऊभाविनायकारवकारान्तानां धातूनांयङोलुङ्न भवतीति। मव्य बन्धने या न्तः तेवृ देवृ देवने इत्यादिवान्तश्च ऊभावी। ज्वरत्वरेति ऊभाविनोः निविमव्योस्तु यङ्लुगस्त्येवेति । उस्य शः छशषेति षः । पाप्रष्टः । पापच्छति । पाप्रच्छीषि-ईडभावे छशषेति षः ॥ षढोः कः से इति कः । पाप्रक्षि । उत्तमे तु पाप्रश्मि । पामच्छयात् । ११ Page #182 -------------------------------------------------------------------------- ________________ सिद्धान्तचन्द्रिका। [आख्याते यङ्लुगन्तप्र०] पापच्छीतु-पाप्रष्टु-पाप्रष्टात् । हो झसादिहें रिति धिः । क्ङिति झसे इति छस्य शः। झशषेति षः। झवे इति षस्य डः ष्टुत्वं चापाप्रदि । अपानच्छीत्-ईडभाव दिस्योरिति दिसिपोर्लोपः। छशति पः। षोड इति डः। अपाप्रट्, अपाप्रष्टाम्,अपाप्रच्छुः। अपामच्छीः , अपाप्रट, अपाप्रष्टम्, अपाप्रष्ट । अपाप्रच्छम, अपाप्रक, अपाप्रश्म । पाप्रच्छांचकार । पात्रच्छयात् । पाप्रच्छिता । पाप्रच्छिष्यति । अपाप्रच्छिष्यत् । अपाप्रच्छीत् ॥ हय गतौ । जाहयीति-ईडभावे यवयोर्वसे इति यलोपः । जाहति । उत्तमे तु जाहयामि-यवयोरिति यलोपे व्मारित्यात्वम् । जाहामि । जाहय्यात । जाहयीतु-जाहतु-जाहतात, जाहताम्, जाहयतु । जाहहि-जाहतात् । उत्तमे तु जाहयानि । लडि अजाहयीत-अजाहत । जाहयांचकार । जाहय्यात । जाहयिता। जाहयिष्यति । अजाहयिष्यत् । ह्यन्तेति न वृद्धिः। अजाहयीत् ॥ हर्य गतिकान्त्योः । आत इत्यात्वम् । जाह-ति-ईडभावे यवयोर्वसे इति यलोपः । जाहति । जाहात् । जाहींतुजाहर्तु-जाहर्तात् । अजाहीत् । अजाह-त्-अजाहः । जाहांचकार । जाहात् । जाहर्यिता । जाहयिष्यति । अजाहयिष्यत् । अजाहति ॥ __(तत्त्वदी०)-जाहतीति । यवयोरिति यलोपः ।। . (ज्वरत्वरस्रिव्यविमवामुपधावकारयोरूः को झसादौ ञमादौ हकारेच प्रत्यये) जाज्वरीति-जाजूर्ति, जाजूर्तः, जाज्वरति । जाज्वर्वः, जाजूर्मः । अजाज्वरीत् अजाजूः ॥ तात्वरीति-तातृर्ति । अतात्वरीत्-अतातूः ॥ सेस्त्रिवीति-सेस्रोति । सेस्रीव्यात । असेत्रिवीत्-असेस्रोत् ॥ मव बन्धने । भाभीति-मामोति, मामूतः, मामवति । मामवः, मामूमः । मामूहि मामवानि । अमामवीत्अमामोत् । सिपि अमामवी:-अमामोः । अमामवम्, अमामाव, अमामूम ॥ तुर्वी शुर्वी दुर्वी धुर्वी हिंसायाम् । तोतूर्वीति ॥ (सुबोधिनी )-ज्वरत्वरस्रिव्यविमवामुपधावकारयोरूः क्वौ झसादी अमादौ हकारे च प्रत्यये ॥ ज्वर रोगे । जित्वरा संभ्रमे । सिवु गतिशोषणयोः। अव पालने । मव बन्धने । ज्वरादेरुदाहरणं विपि जूः, जुरौ, जुरः । झसादौ तु जूर्तिः। जुर्णः । जूर्णवान् ॥ तूः, तुरौ, तुरः । तूर्तिः । तूर्णवान् ॥ स्वः, सुवौ, सुवः। स्मृतिः॥ ऊः, उवौ, उकः। ऊतिः ॥ मूः, मुवौ, मुवः । मूतिः । मूतः । ज्वर । आत इति पूर्वस्यात्वम् । जाज्वरीति । ईडभाव उपधावकारयोरूः। जाजूर्ति, जाजूर्तः, जाज्वरति । जाज्वर्यात् । जाज्वरीतु-जाजूर्तु-जाजूर्तात् । अजाज्वरीत्--अजाजूः। जाज्वरांचकार। जाज्वर्यात् । जाज्वरिता । जाज्वरिष्यति।अजाज्वरिष्यत् । अतो हसादेरिति वा वृद्धिः। अजाज्वारीत्-अजाज्वरीत्॥ जित्वरा संभ्रमे । तात्वरीति-तातूर्ति । तात्वर्यात् । तात्वरीतु--तातूर्तु-तातूर्तात् । अतात्वरीत्-अतातुः। तात्वरांचकारतात्वर्यात् । तात्व Page #183 -------------------------------------------------------------------------- ________________ [ आख्याते यङ्लुगन्तप्र० ] टीकाद्वयोपेता । (१६३ ) रिष्यति । अतात्वरिष्यत् । अतात्वारीत्-अतात्वरीत् ॥ निवु । सेस्रिवीति-सेस्रोति । सेस्रीव्यात् । सेस्रिवीतु--सेस्रोत--सेसुतात्।असेस्रिवीत्--असेस्रोत् । सिपि । असेस्रोः। ससवांचकार । सेस्रीव्यात् । सेविता । सेस्रविष्यति । असेस्रविष्यत् । असेस्रवीत् ॥ 'भव । मामवीति । ईडभावे ऊत्वे कृते गुणः।मामोति । उत्तमे तु मामवीमि--मामोमि । यवयोर्वसे इति वलोपः।मोरित्यात्वम् । मामावः, मामूमः । मामव्यात् । मामवीतुमामोतु--मामूतात् । हो मामूहि । अमामवीत्-अमोमोत् । उत्तमे तु अमामवम्, अमामाव, अमामूम । लुङि अमामावीत्॥तुर्वी हिंसायाम् । बोर्वि हसे इति दीर्घः । यङीति पूर्वस्य गुणः । तोतूर्वीति । ईडभावे तोतूर्ति ॥ (तत्त्वदी०)-उपधावकारयोरिति ॥ उपधा चवकारश्च उपधावकारौतयोः द्वयोः स्थाने ऊरित्यर्थः ॥ मामाव इति । अत्र झसादित्वाभावेन ऊत्वाभावः । यवयोरिति बलोपे दीर्घः ॥ (रेफाच्छोर्लोप: क्वौ झसादौ ञमादौ हे च प्रत्यये) तोतोति, तोतूर्तः, तोतूर्वति । तोतूर्वीषि-तोतोर्षि । तोतर्वः, तोतूर्मः। सिपि अतोतूर्वीः-अतोतोः ॥ तोथोर्ति, तोथूर्तः ॥ दोदोति ॥ दोधोति ॥ मुच्छा मोहसमुच्छ्राययोः॥ मोमूीति-मोमोति, मोमूतः, मोमूर्च्छति । मोमूर्मः । अमामूीत् ॥ इति यङ्लुगन्तप्रक्रिया ॥ (सुबोधिनी)-रेफाच्छोर्लोपः को झसादौ ञमादौ हेच प्रत्यये ॥रकारात्परयोर्धातोः छ कारवकारयोर्लोपः स्यात् विपि परे झसे जमे हे च । कावुदाह। रणम् । तुर्वी । तूः, तुरौ, तुरः ॥ धुर्वी । धूः,धुरौ, धुरः ॥ मुर्छा । मूः, मुरौ, मुरः । झसादौ तु रेफाच्छोरेति वलोपः । उपधाया लघोरिति गुणः । तातोति । यद्यप्यत्रयवयावस इत्यनेन वलोपः सिव्यति तथापि तोतूर्त इत्यादौ वलोपार्थ रेफाच्छोलोप इत्युपन्यस्तम् । अन्यथा तत्र यवयोर्वसे इति लोपं बाधित्वा वस्य क्ङिति झसे इति ः स्यात् । तोतूात् । तोतूर्वीतु-तोतोर्तु-तोतूर्तात् । अतोतूर्वीत् अतोतोः । लुङि अतोतूर्वीत्॥थुर्वी धुर्वी हिंसायाम्।तोथूर्वीति-तोथोति।तोथूात् । तोथूर्वीतु तोथोतुतोथूर्तात् । अतोथूव-त्-अतोथोः । लुङि अतोथूर्वीत्॥धुर्वी । दोधूर्वीति-दोधोति । दोधूात् । दोधूर्वीतु-दोधोर्तु-दोधूर्तात् । अदोधूर्वीत्-अदोधोः । लुङि अदोधूवात् ॥ मुर्छा मोहसमुच्छाययोः । मोमूर्छति । ईडभावे रेफाच्छोरिति छलोपः। उपधाया लधोरिति गुणः।मोमोर्ति । मोमूच्छात् । मोमूीतु-मोमोर्तु-मोमूर्तात् । अमोमूच्छीत्-अमोमोः । लुङि । अमोमू त॥अज गत्यादौ । अजेरचतुर्पु वीति यडि विवक्षिते वी-आदेशः । वेवीयते । अस्य यङ्लुङ् नास्ति लुका अपहारे विषयत्वासंभवेन वीभावस्याप्रवृत्तेः ॥ इति सुबोधिन्यां यलुगन्तप्रक्रिया ॥ (तत्त्वदी०)-कृतायामिह टीकायां लोकेशकरशर्मणा। बाधनं दुष्टबुद्धीनामगाद्यङ्लुक्प्रसाधनम् ॥ इति तत्त्वदीपिकायां यङ्लुगन्तप्रक्रिया ॥ ४ ॥ Page #184 -------------------------------------------------------------------------- ________________ सिद्धान्तचन्द्रिका | अथ नामधातुप्रक्रिया | नानो य ई चास्य ॥ नाम्न इच्छायामर्थे यप्रत्ययो भवत्यवर्णस्य च ईकारः ॥ आत्मनः पुत्रमिच्छति पुत्रीयति ॥ क्वचित्स्वरवद्य - कारः ॥ गामिच्छति गव्यति । गव्याञ्चकार ॥ नाव्यति । नाव्याश्चकार ॥ त्वामिच्छति त्वद्यति ॥ ( हसाद्यस्य लोपो वाऽनपि नामधातौ ) त्वदांचकार - त्वद्यांचकार ॥ मामिच्छति मद्यति । युष्मद्यति । अस्मद्यति ॥ (सुबोधिनी ) - नाम्रो य ई चास्य ॥ आद्भुवीत्यतः कर्मणीति इच्छायामात्मन इत्यत इच्छायामिति आत्मन इति चानुवृत्तम् । कर्मणि वर्तमानान्नाम्नो यप्रत्ययः स्थात || आत्मशब्दस्तु परव्यावृत्त्यर्थस्वशब्दपर्यायो गृह्यते । इच्छायाश्च क्रियात्वेन स्वाश्रयः कर्ताक्षिप्तः । स चेदिष्यमाणं वस्तु स्वसंबन्धित्वेनाऽपेक्षते तदा यप्रत्ययः ॥ आत्मनः स्वसंबन्धित्वं साक्षाद् ग्राह्यम् । तेन यजमानस्य पुत्रमिच्छति पुरोधा इत्यत्र न यः । महान्तं पुत्रमिच्छतीत्यत्रापि न यः। सविशेषणानां वृत्तिर्न वृत्तस्य वा विशेषणयोगो नेति वचनात् । य इति सप्तम्या विपरिणम्यते । अवर्णान्तस्य नाम्न ईवं च ये परे । समासप्रत्यययोरिति विभक्तेर्लुक् । सधातुरिति धातुत्वात्तिवादिः । पुत्रीयति । पुत्रीयेत । पुत्रीयतु । अपुत्रीयत् । कासादिप्रत्ययादित्याम् । यत इत्यलोपः । पुत्रीयाञ्चकार । यत इत्यलोपः । पुत्रीयात् । पुत्रीयिता । पुत्रीयिष्यति । अपुत्रीयिष्यत् । अपुत्रीयीत्॥गामिच्छति गव्यतीत्यत्र 'खोर्लोपशू वा पदान्ते' इति तु न भवत्यपदान्तत्वात् । अनपि संनिपातपरिभाषया यप्रत्यययकारस्यानपि च हसादिति लोपो न । यकारे परे वान्तादेशविधानात । वकारो यस्य लोपस्य निमित्तं न भवतीति भावः । गव्याञ्चकार । गव्यिता । त्वामिच्छति त्वन्मदेकत्वे इति त्वन्मदादेशौ । त्वद्यति । यत इत्यलोपः । अनपि च हसादिति यलोपः ॥ हसाद्यस्य लोपो वानपीति ॥ इसान्तान्नाम्नो यस्य लोपो वा अनपि परे । त्वदाञ्चकार ॥ मामिच्छति मद्यति। युवां युष्मान्वेच्छति युवावाविति सूत्रे विभक्तावित्युक्तं ततो विभक्तिपरत्वाभावान्न युवावों एकार्थत्वाभावात् त्वन्मदावपि न । युष्मद्यति । एवमस्मद्यति ॥ (तत्त्वदी ० ) - नानो य इति । अत्राद्भुवीत्यतः कर्मणीत्यनुवर्त्य कर्मणि वर्तमानानाम्न इति बोध्यम् । तेन पुत्रेणेच्छतीत्यादौ न । आत्मन इत्यनुवर्तते । स च न चेतन द्रव्यवाची किंतु परव्यावृत्यर्थस्वशब्दपर्यायः। तेन घटादेरचेतनत्वेऽपि घटीयतीत्यादि भवत्येव । इच्छया कर्ताक्षिप्यते । स चेदिष्यमाणं वस्तु स्वसंबन्धित्वेनापेक्षते । तेन परस्य पुत्रमिच्छतीत्यत्र न । तच्च साक्षादेव । तेन यजमानस्य पुत्रमिच्छति पुरोधा इत्यत्र न । स्वसबन्धित्वं चेष्यमाणेन रूपेण विवक्षिते तेन स्वस्य पुत्रं परस्य दासमिच्छतीत्यत्र न। अत्र यदिष्यमाणं दासत्वं तच न । स्वसम्बन्धि । नाम्न इति तूत्तरार्थम् । धातुवार ( १६४ ) [ आख्याते नामधातुप्र० Page #185 -------------------------------------------------------------------------- ________________ { आख्याते नामधातुप्र० ] टीकाद्वयोपेता । (१६५) णाय तदिति चेत् धातोः सविधानेन परिशेषान्नाम्नो लाभात् । अथ सिबन्तादपि स्यात् इष्टत्वात् । न च वाच्यतीत्यादौ जबादिप्रसंगः स्यादिति वाच्यम् । अप्ययोरादित्यत्र जबाकरणेनये पदकार्याभावस्य ज्ञापितत्वात् राजीयतीत्यादौ तज्ज्ञापकसिद्धस्यासार्वत्रिकत्वान्न लोपः॥ ननु महान्तं पुत्रमिच्छतीत्यत्रानेकस्मान्नाम्नो यबाधनाथ तदिति चेन्नपदार्थः पदार्थेनान्वेति न तु पदार्थंकदेशेनेति पुत्रस्यैकदेशत्वेनान्वयाभावात् । सविशेषणानां वृतिन वृत्तस्य वा विशेषणयोगो नेति वचनाच्च । एवं च कर्मत्वद्योतकविभक्त्यभावेन कथं तद्बाध इति दूषणपरिहाराय यत्रानेककारकसंभवस्तत्र कारकस्य विशेषबोधार्थे विभक्त्यपक्षणमिति सिद्धान्तानुसारेण क्लेशोऽपि न कार्यः॥ आत्मनः पुत्रमिच्छतीति । पुत्रो मे स्यादितीच्छतीत्यर्थः॥ गव्यतीति ॥अवर्णाभावान्नेत्वम् ॥त्वद्यतीति॥त्वामिच्छति॥ युष्मद्यति॥युवां युष्मान्वेच्छतीति वाक्ये त्वदादेशो न एकार्थत्वाभावात्।युवावौद्विवचन इतिस्याद्यभावान्न। (काम्यश्च ) पुत्रकाम्याश्चकार ॥ (सुबोधिनी)-काम्यश्च नाम्न इच्छायामर्थे काम्यप्रत्ययःस्यात्॥आत्मनः पुत्रमिच्छति पुत्रकाम्यात । यत इत्यलोपः। पुत्रकाम्याञ्चकार । पुत्रकाभ्यिता। इहानपि च हसादिति यलोपो न । अर्थवद्रहणे नानर्थकस्य ग्रहणमिति परिभाषया ॥ (धनस्य नेकारो गार्ये) धनायति-अन्यत्र धनीयति ॥ - (सुबोधिनी)-धनस्य नेकारो गाउँ ॥गार्दोऽभिलाषुकस्तस्य भावे गाद्धर्ये यण । सत्यपि धने पुनर्धनमिच्छतीति धनायति । 'ये' इति दीर्घः । यश्च दरिद्रः सन् धनमिच्छति तत्र धनीयति ॥ (तत्त्वदी० )--गाद्धर्य इति ॥ गो लोभातिशयः ॥धनायतीति ॥ सत्येव धने भूयो धनमिच्छतीत्यर्थः॥ धनायतीति॥ दरिद्रः सन् धनमिच्छतीत्यर्थः ॥ (उदकस्योदन पिपासायाम् ) उदन्यति-अन्यत्रोदकीयति ॥ गीर्यति। गिराञ्चकार-गीर्याश्चकार॥पूर्यति॥दिवमिच्छति। दिव्यति॥ अमुमिच्छति अदस्यति । ऋतो रिङ् । कौयति ॥ ___ (सुबोधिनी)-उदकस्योदन पिपासायाम्॥यश्च सद्य एव पातुमुदकमिच्छति तत्र तु उदन्यति-यश्च कालान्तरोपयोगार्थ पातुमुदकमिच्छति तत्र उदकीयति॥गिरमिच्छति गीर्यति 'य्वोर्वि हसे' इति दीर्घः ॥ पुरमिच्छति पूर्यति । 'य्वोर्वि हसे' इति सूत्रे धातोरिकारोकारयोरित्युक्तत्वान्नेह । दिवमिच्छति दिव्यति । दिवुधातोः विपि विङति झसे काविति वस्योत्वे द्युरिति भवति । यप्रत्यये द्यूयतीति । कर्तारमिच्छति ऋतो रिङिति रिङ् । य इति दीर्घः । कर्बीयति ॥ (तत्त्वदी०)-पिपासायामिति ॥ पातुमिच्छा पिपासा तस्याम् उदन्यतीति। पातुमिच्छतीत्यर्थः । अन्यत्र तदभावे ॥ दिव्यतीति ॥ धातुत्वाभावान दीर्घः ॥ Page #186 -------------------------------------------------------------------------- ________________ (१६६) . सिद्धान्तचन्द्रिका। [ आख्याते नामधातुप्र० । . (हसात्तद्धितयस्य लोपो ये च्वौ च ) गार्गीयति॥ वाच्यति॥ कवीयति ॥ समिध्यति । समिधाञ्चकार-समिध्याञ्चकार । समिधिता-समिध्यिता॥ (सुबोधिनी) हसात्तद्धितयस्य लोपो ये च्वौ च ॥ हसादुत्तरस्य प्रत्यय यकारस्य लोपो भवति यप्रत्यये चिप्रत्यये च परे॥ण्यायनणिति ण्यः । च्चों गार्गी; भवात । गार्ग्यमिच्छति गार्गीयति॥ वाचमिच्छति अप्ययोरादित्यत्र चपा अबे जबा इत्यकरणेन क्वचित्प्रत्यये पदकार्य नेति ज्ञापितम् । तेन पदत्वाभावात् चोः कुरिति कुत्वं नवाच्यामि ॥ आत्मनः कविमिच्छति।'ये' इति दीर्घः। कवीयति ॥ समिधमिच्छति समिध्यति । हसाद्यस्येति आदेः परस्येति यलोपः । यत इत्यलोपः । तस्य लोपः। तस्य स्थानिवत्त्वादुपधाया लघोरिति गुणो न । समिधिता-समिध्यिता ॥ (मान्ताव्ययाभ्यां यो न ) किमिच्छति । इदमिच्छति । स्वरिच्छति । उच्चरिच्छति ॥ ( सुबोधिनी)-मान्ताव्ययाभ्यां यो न ॥ मान्तप्रकृतिकान्नाम्नोऽव्ययाच यो न । किमिच्छति । स्वरिच्छति ॥ __ (तत्त्वदी०)-मान्ताव्ययाभ्यामिति ॥ मान्तमिह नामैव नतु सिवन्तम् । अन्यथा पुत्रमिच्छतीत्यत्रापि मान्तत्वान्न स्यात् ॥ - (अश्ववृषयोर्ये सुक् मैथुनेच्छायाम् ) अश्वस्यति वडवा । वृषस्यति गौः॥ (सुबोधिनी)-अश्ववृषयोर्ये सुक मैथुनेच्छायाम् ॥ अश्वस्यति । मैथुनार्थमश्वमिच्छतीत्यर्थः । वृषमिच्छति मैथुनार्थं वृषस्यति ॥ (तत्त्वदी०)-अश्ववृषयोरित्यादि ॥ अश्ववृषभेच्छा यदा मैथुनार्था न त्वारोहणाद्यर्थी तदैव सुगित्यर्थः। अन्येतु “इति रामोवृषस्यन्तीम्' इत्यादिप्रयोगदर्शनात्परित्यक्तप्रकृतार्था मैथुनेच्छैवार्थ इत्याहुः ॥ - (क्षीरलवणयोर्लालसायां सुक्)क्षीरस्यतिबालालवणस्यत्युष्ट्रः॥ (सुबोधिनी)-क्षीरलवणयोर्लालसायां सुक् ॥ लालसायामुत्कटेच्छायां सुक ये ॥ क्षीरमिच्छति क्षीरस्यति । लवणस्यति ॥ ( तत्त्वदी०)-लालसायामिति ॥ तृष्णातिरेको लालसा । क्षीरलवणविषय इच्छातिरेको यदाभ्यवहारार्थो न तु होमाद्यर्थस्तदेत्यर्थः ॥ (नानो ये लालसायां सुगमुकौ) दधिस्यति, दध्यस्यति। मधुस्यति, मध्वस्यति। यशस्काम्यात । सर्पिष्काम्यति ॥ Page #187 -------------------------------------------------------------------------- ________________ [ आख्याते नामधातुप्र० टीकाद्वयोपेता। (१६७) .. (सुबोधिनी)-नानो ये लालसायां सुगसुकौ ॥ नाम्नः सुगसुकावागमौ भवतः यप्रत्यये परे ॥ तृष्णातिरेको लालसा तस्यामर्थे ॥ दधिस्यतीत्यत्र षः स इति विपरीतनिर्देशान्न षत्वम् ॥ (तत्त्वदी.) दधिस्यती ।। षः स इति विपरीतनिर्देशान्न षत्वम् । दधिमधुशब्दावेवागमिनावित्येके । नाम्नो विधानादन्येऽपीत्यन्ये ॥ (मान्ताव्ययाभ्यां काम्यः) किंकाम्यति । स्व:काम्यति । उच्चैःकाम्यति ॥ ___ (सुबोधिनी)-मान्ताव्ययाभ्यां काम्यः॥ मान्तप्रकृतिकान्नाम्नोऽव्ययाच काम्यः स्यादिच्छायाम् ॥ किमिच्छति किंकाम्यति । स्वः स्वर्गमिच्छति स्व:काम्यति ॥ (तत्त्वदी० )-स्वः कार यतीति॥अधिकरणशक्तिप्रधानस्याप्यस्य वृत्तिविषये शक्तिमप्राधान्यात्कर्मत्वेन योगः ॥ करणे च नाम्नः॥ करणेऽर्थे यः॥ तपस्यति । तपश्चरतीत्यर्थः ॥ (नमसः पूजायाम् )नमस्यति देवान् । पूजयतीत्यर्थः। (वरिवसः परिचर्यायाम् ) वरिवस्यति गुरुम् । शुश्रूषत इत्यर्थः॥ ___ (सुबोधिनी) करणे च नानः॥ य इत्यनुवृत्तम् । करोत्यर्थे इत्यर्थः।नमस्करोति नमस्यति देवान् । पूजर तीत्यर्थः । वरिवस्यति गुरुम् । शुश्रूषत इत्यर्थः ॥ (तत्त्वदी०) करणे चेति॥करणं कृतिः। न तु पारिभाषिकम् । नमस्यति देवान् । नमस्करोति । जहत्स्वार्थायां वृत्तौ नम शब्दस्यानर्थकत्वात्। अजहत्स्वार्थायां तु प्रत्ययार्थे उपसर्जनत्वान्न तद्योगे चतुर्थी ॥ वरिवस्यतीति ॥ वरिवः शुश्रूषां करोतीति विग्रहः ॥ (शब्दादिभ्यो यड़) शब्दायते । वैरायते । कलहायते । आम्रायते । मेघायते ॥ (सुबोधिनी)-शब्दादिभ्यो यङ् ॥ एभ्यः कर्मभ्यः करोत्यर्थे यङ ॥ शब्द करोति शब्दायते । पक्षे निर्डित्करणे इति जिप्रत्ययोऽपि भवति । शब्दयतीति , न्यासकारः॥ कष्टाय क्रमणे ॥ कष्टायते ॥ ( सुबोधिनी)-कष्टाय क्रमणे ॥ चतुर्थ्यन्तात्कष्टशब्दादुत्साहेऽर्थे यङ्॥ कष्टाय क्रमत इति कष्टायते ॥ पापं कर्तुमुत्सहत इत्यर्थः ॥ (ऊष्मबाष्पधूमेभ्य उद्वमने ) ऊष्मायते । बाष्पायते। धूमायते॥ Page #188 -------------------------------------------------------------------------- ________________ (१६८) सिद्धान्तचन्द्रिका। आख्याते नामधातुप्र० ] - (सुबोधिनी)-ऊष्मबाष्पधूमेभ्य उद्वमने॥ एभ्यः कर्मभ्यो यङ् ॥ ऊष्माणमुद्रमति । नाम्नो नो लोपशिति नस्य लोपः । ये इति दीर्घः । ऊष्मायते ॥ (तत्त्वदी०) ऊष्मायत इति ॥ ऊष्माणमुद्रमतीत्यर्थः ॥ . जिडित्करणे ॥ नाम्नो जिप्रत्ययः करणेऽर्थे स च डित् ॥ घट करोति घटयति । घटयते। अजघटत् ॥ पटयति। पटयते । अपपटत् ॥ अय्वृलोपिनो नाकार्यम् ॥ महान्तं करोति महयति । अममहत् ॥ युवानं करोति यवयति । अयूषवत् । कनयति । अचीकनत् ॥ (सुबोधिनी)-भिर्डित्करणे ॥ तत्करोति तदाचष्टे वे यर्थ नाम्नो जिः स च डित् ॥ डिति टेरिति डित्त्वाडिलोपो भवति।घटमाचष्टे घटयति । लुङि अवलोपित्वादजवटत् ॥ पटमाचष्टे पटयति । लुङि परत्वाद्धौ सत्यां टि लोपः।अपीपटत् । भाष्ये तु वृद्धोपो बलीयानित्युक्तम्। तेन पूर्व लोपस्ततोऽवलोपित्व नाकार्यम्। अपपटत् । महान्तमाचष्टे महयति ॥ ( तत्त्वदी० )अिर्डित्करणे ॥ ड् इत् यस्य स डित् । अतिदंशोऽयं न तु संज्ञा । तथात्वे तु डिति टेरित्यादावस्यैव ग्रहणं स्यान्न तु ड् इत् यस्य तस्य । कृत्रिमा कृत्रिमयोः कृत्रिमस्थैव ग्रहणमित्युक्तत्वात् । अथ कथं वृत्तिं विनाऽतिदेशबोधनम् इति चेच्छृणु । साडितं डिदित्याह डिद्वदिति गम्यत इति भाष्योक्तेः ॥ (आविष्ठवत्कार्यम् ) स्फिरं करोति स्फापय ते । अपिस्फपत् ॥ उरुम् वरयति । अवीवरत् ॥ बहुलम् बंहयति । अबबंहत् ॥ वृद्धम् वर्षयति । अववर्षत् ॥ तृप्रम् पयति । अतित्रपत् ॥ दीर्घम् द्राघयति । अदद्राघत् ॥ वृन्दारकम् वृन्दयति । आवृन्दत् ॥ अन्तिकम् नेदयति । अनिनेदत् ॥ स्थूलम् स्थवयति । अतुस्थवत् ॥ दूरम् दवयति अदूदवत् ॥ द्वस्वं हसयति । अजिह्वसत् ॥ क्षिप्रम् क्षेपयति । अचिक्षिपत् ॥ क्षुद्रं करोति क्षोदयति । अचुक्षोदत् ॥ प्रियं करोति प्रापयति ॥ अपिप्रपत् ॥ गुरुं करोति गरयति । अजीगरत् ॥ स्थिरं करोति स्थापयति । अतिस्थपत् ॥ ऊटिं करोति ऊढयति । ओरङ् द्विश्च । स्वरादेः परः॥ (सुबोधिनी)-आविष्ठवत्कार्यम्॥इष्ठप्रत्यये परतो यत्कार्यदृष्टं संभावितं च तन्नानो जावप्यतिदिश्यते॥ इष्ठे यथाविन्वतुमतूनां लोपोरभावो गुर्वादेगगद्यादेशटिलोपौ तद्वत् आवाप स्युः॥स्रग्विणमाचष्टे स्रगयति। अग्निमन्तमाचष्टे अग्न यति । दण्डवन्तमाचष्टे दण्डयति । लङि असस्रजत् । अत्र पूर्वस्येत्वं तु न भाष्यासमंतत्वात् । अजिग्नयत्।अद Page #189 -------------------------------------------------------------------------- ________________ { आख्याते नामधातुप्र०] टीकाद्वयोपेता । दण्डत् । अल्लोपस्य स्थानिवत्त्व नलोपो न ॥ स्थूलं करोति । गुर्वादारष्ठमयस्सु गरादिष्टयलोपश्चेति । स्थूलस्य स्थाष्टिलोपाभावश्च । स्थवयति । लुङि अतुस्थवत् । आदेशावयवत्वान्न पः॥ दूरं करोति । दूरस्य दव । दवयति । लुङि अदूदवत् । कथं तह 'दूरयत्यवनते विवस्वति' इति । दूरमततीति दूरात् । क्विवन्तः । तं कुर्वतीत्यर्थः ॥ युवानं करोति । युवनशब्दस्य युत् । यवयति । युवाल्पयोः कन्वेति कन् । कनयति । लुङि अयूयवत् । अचीकनत्। जिर्डिदिति सूत्रे बहुलग्रहणं कर्तव्यम् । तस्मादिह सर्वत्र वृद्धयभावः॥ ह्रस्वं करोति । स्वस्य हम्। संज्ञापूर्वकविधेरनित्यत्वाद्वहुलग्रहणाहा न वृद्धिः। माधवेन तु विकल्पेन वृद्धिरुदाहृता । ह्रसयति । अजिह्रसत् ॥ क्षिप्रं करोति । . क्षिप्रस्य क्षेप् । क्षेपयति । अचिक्षिपत् । क्षुद्रं करोति । क्षुद्रस्य क्षोदः। क्षोदयति । अचुक्षुदत् ॥ प्रियं करोति। प्रियस्य प्रः । धातोर्नामिन इति वृद्धौ रातो जाविति पुक प्रापयति । अपिप्रपत् ॥ गुरुं करोति । गुरोर्गर । गरयति । अजीगरत्॥स्थिरं करोति । स्थिरस्य स्थः । स्थापयति । अतिस्थपत् ॥ वहनमूढिस्तामूढिं करोति ऊढयति । ऊढिमाख्यत् औडिढत् ॥ (तत्त्वदी० )-आविष्ठव दिति ॥ इष्ठे यत्कार्यं दृष्ट संभावितं तन्नाम्ना आवतिदिश्यते ।। इष्ठे यथा विन्मतुवतूनां लोपोरभावोगुर्वादेगराधादेशटिलोपौ तथा आवपीति बोध्यम्॥ दवयतीति ॥ दूरं करोति इति विग्रहवाकाम् । संज्ञापूर्वकत्वेनानित्यत्वादृद्धयऽभावः। टिलोपस्यासिद्धत्वाद्वा । 'दूरयत्यवनते विवस्वति' इत्यत्र तु वेत्यनुवर्य व्यवस्थयाऽभावः । यद्वा दूरमतति दूरात् । तं कुर्वतीत्यर्थः ॥प्रापयतीति ॥ यस्य प्रादेशे वृद्धिपुकौ । आदेशाभावे प्रिययतीत्यपि ॥ (अडि पूर्वढस्य जो वा) औजिढत्-औडिढत् ॥ ऊढं करोति । ऊढयति । औजढत्-औडढत् ॥ सुबोधिनी)-आङ पूर्वन्य जो वा । पूर्वरूपस्थस्य ढकारस्य जो वा भवति अप्रत्यये परे ॥ औजिढत् ।। ऊढं करोति ऊढयति । लुङि ढिलोपे च सति त्रिसहितस्य द्वित्वे पश्चात्पूर्वाकारो दुर्लभः । अतो बिनिमित्तः स्वरादेश इत्यनेन ढस्य द्वित्वम्। ऊढमाख्यत् । औडढत् । जत्वे औजढत् ॥ कर्तुर्यङ्॥ उपमानात्कर्तुराचारार्थे यङ्॥ श्येन इवाचरति श्येनायते काकः ॥ पण्डितारते मूर्खः ॥ एतायते । यङ्मानिनोरिति पुंवत् ॥ . (सुबोधिनी)-कर्तुर्यङ् ॥ आचारे उपमानादित्यत उपमानादित्यनुवृत्तम्,आचारे इति च । उपमानात्कर्तुर्नाम्न आचारे यङ्॥ आदनुदात्तडित इत्यात् । श्येन इवाचराति । यङ्मानिनोरिति पुंवत । 'ये' इति दीर्घः । श्येनायते ॥ ( यङि वा सलोपः) पयायते-पयस्यते वा तक्रम् ॥ Page #190 -------------------------------------------------------------------------- ________________ ( १७० . ) सिद्धान्तचन्द्रिका | [ आख्याते नामधातुप्र० (सुबोधिनी) - ङि वा सलोपः ॥ सान्तस्य कर्तुः सस्य वा लोपः ॥ ( अप्सरसोजस्सुमनसां नित्यम्) अप्सरायते ॥ ओजायते दुर्बलः ॥ सुमनायते ॥ (सुबोधिनी) - अप्सरसोजस्सुमनसां नित्यम् ॥ ओजःशब्दस्तद्वति वृत्तौ । ओजस्वीवाचरतीति ओजायते ॥ ] ( तत्त्वदी ० ) - अप्सरायते इति ॥ अप्सरा इवाचरतीत्यर्थः ॥ ओजायत इति ॥ ओजःप्रभृतयो वृत्तिविषये तद्वति वर्तन्ते ॥ ( नाम्न आचारे कि वा ) कृष्ण इवाचरति कृष्णति । अकृष्णत् ॥ अ इवाचरति अति, अतः, अन्ति । एत्, एताम्, एयुः । अतुअतात्, अताम्, अन्तु । अ-अतात्, आत्, आताम्, आन् । आः । लिटि औ, अतुः, उः । इथ । यात् । इता । आसीत्, आसिष्टाम् ॥ मालेवाचरति । मालाति । मालायात् ॥ मालाहि । अमालात् । मालाञ्चकार । मालिता । अमालासीत् ॥ कविरिवाचरति कवयति । अकवयत् ॥ ( सुबोधिनी ) - नाम्न आचारे क्विव वा ॥ कर्तुरुपमानान्नाम्नः क्विपू वा स्यादाचारेऽर्थे ॥ नाम त्वबिन्तं ग्राह्यम् । तेन विभक्त्याश्रितं कार्यं न । पक्षे यङ् । कृष्ण इवाचरतीति स धातुरिति धातुत्वात्तिवादिः । 'अदे' इत्यलोपः । कृष्णति ॥ अः कृष्णस्तद्वदाचरति । ‘अद्रे’ इत्य्लोपः । अति । लिटि तु कासादिप्रत्ययादिति सूत्रस्य वृत्तौ प्रत्ययग्रहणम पनीयाने कस्वरत्युक्तेर्नाम् । द्वित्वे 'अदे' इत्यलोपे प्राप्ते परत्वादाभ्वोर्णादाविति पूर्वस्यात्वं तत आतो णन्डाविति डौ । डित्त्वाट्टिलोपः । औ आतोऽनपीत्यालोपे । अतुः । लुङि यमिरमिनमातामितीट्सकौ । आसीत् ॥ मालेवाचरति मालाति । लिट्यनेकस्वरत्वादाम् । मालाञ्चकार । लुङि अमालासीत् ॥ कविरिवाचरति कवयति । कवयाञ्चकार । आशिषि 'ये' इति दीर्घः । कवीयात् ॥ (तत्त्वदी ० ) - नाम्न आचार इति ॥ अत्रासिबन्तं नाम गृह्यते न तु सिबन्तम् । तेन पदकार्यं न ॥ औ इति ॥ सवर्णदीर्घेणानेकस्वरत्वाभावादाम्न । अतुसादिषु दीर्घः । आतोऽनवीत्यालोपः । इता ॥ यत इत्यलोपः । गुणस्तु प्रत्ययावयवत्वान्न । नहि निमित्तं कार्यित्वेनाश्रीयते ॥ आसीदिति ॥ यमिरमीति सगिटौ || मालातीति ॥ लिङ्गविशिष्टपरिभाषया ॥ ( नामधातोर्वृद्धिर्वा सौ ) अकवायीत् - अकवयीत् ॥ विरिवाचरति । वया । विवाय, विव्यतुः । अवायीत् अवयीत् ॥ श्रीरिवाचरति । श्रयति । शिश्राय, शिश्रियतुः । अश्रायीत्-अश्रयीत् ॥ पितेवाचरति पितरति । पितराञ्चकार । यादादाविति रिङ् । Page #191 -------------------------------------------------------------------------- ________________ [ आख्याते नामधातुप्र० ] टीकाद्वयोपेता । ( १७१) पित्रियात् ॥ भूरिवाचरति भवति । बुभाव । अभावति ॥ दुरिवाचरति द्रवति । अद्रावीत् । (सुबोधिनी ) - नामधातोर्वृद्धिर्वा सौ ॥ सप्रत्यये परे लुङि कैयटमते न वृद्धिः । माधवस्तु नामधातोरपि वृद्धिमिच्छति । विः पक्षी तद्वदाचरति वयति । लिटि नुधातोरिति यः । विव्यतुः । आशिषि यादादाविति रिङ् । पित्रियात् । 'दादेः पे' इति सिलुक् । भुवः सिलोपे इति भुवो वुगिति च वुक् । आभ्वोरित्यनेनात्वं चास्य न अभिव्यक्तत्वेन धातुपाठस्थस्यैव तत्र ग्रहणात् । बुभाव । अभावीत् । श्रिसुद्धभ्य इति ङे न धातुपाठस्थत्वाभावात् । अद्रावीत् ॥ (तत्त्वदी ० ) - बुभावेति || आम्वोणादौ भुवो वुगिति च न तत्र धातुपाठस्थस्यैव ग्रहणात् ॥ अमस्य क्ङिति झसे || अमान्तस्य धातोर्दीर्घः स्यात्क्ङिति झसे हे च । इदमिवाचरति ॥ इदामति ॥ राजेवाचरति राजानति । राजायते ॥ मन्था इवाचरति मथीनति ॥ ऋभुक्षा इवाचरति ऋभुक्षीणति ॥ द्यौरिवाचरति द्यवति । दुद्याव 1 द्यूयात् द्यविता ॥ क इवाचरति कति । चकौ । चकेत्यन्ये ॥ स्व इवाचरति स्वति । सस्वौ सस्य इत्यन्ये ॥ 1 ( सुबोधिनी ) - - ञमस्य क्ङिति झसे ॥ अमान्तस्य धातोदीर्घः स्यात् कौं झसादौ हकारे च क्ङिति ॥ झसादौ किति शान्तो दान्त इत्युदाहरणम् । ङिति तु यङ्लुकि तस्प्रत्यये । शंशान्तः । दान्तः ॥ पन्था इवाचरात पथीनति । अत्रान्तरङ्गत्वाद्दीर्घस्ततो न गुणः ॥ द्यौरिवाचरति । क्ङिति झसे क्वाविति वस्य उत्वे गुणावादेशौ । द्यवति ॥ को ब्रह्मा तद्वदाचरति कति । लिटि धातोर्नामिन इति वृद्धौ आत णबूडावित्यौ । चकाविति हरदत्तः । माधवस्तु णपि वृद्धिं बाधित्वा यत इत्यलोपात् चक इति रूपमाह ॥ (तत्त्वदी०) द्यवतीति ॥ क्ङिति झसे काविति वस्योत्वे गुणावादेशौ ॥ चकाविति ॥ आत इत्यत्र आ अत इति च्छित्त्वा अदन्तादपि डौ ॥ आचार उपमानात् ॥ कर्मधारये उपमानादाचारेऽर्थे यप्रत्ययोऽस्य चेकारः॥ पुत्रमिवाचरति पुत्रीयति शिष्यमुपाध्यायः ॥ प्रासा द इवाचरति प्रासादीयति कुटयां भिक्षुः ॥ ( सुबोधिनी ) - आचार उपमानात् ॥ नाम्नो य ईचास्येत्यनुवृत्तम् । आचरणमाचारः । चरेर्भावे घञ । ज्ञानं व्यवहारो वा । उपमयितेऽनेनेत्युपमानम् । माङःकरणे युट् । कर्मण उपमानादाधारा दुपमानाच्च नाम्नो यः स्यादाचारेऽर्थे तस्मिन् ये परे पूर्वस्यावर्णस्य ईत्वं च ॥ राजानमिवाचरतीत्यत्र नाम्नो न इति नलोपे कृते ईत्वम् । राजीयति ॥ Page #192 -------------------------------------------------------------------------- ________________ ( १७२ ) सिद्धान्तचन्द्रिका । [ आख्याते नामधातुप्र० 1 (तत्त्वदी० ) -- आचारउपमानादिति ॥ आचरणमा चारः । चरेर्भावे घञ् व्यवहारो ज्ञानं वा उपमीयतेऽनेनेत्युपमानम्। पुत्रीयति शिष्यमुपाध्याय इति । पुत्रविषयकयज्ज्ञानव्यवहारो वा तत्सदृशं शिष्याभिन्नाश्रयं यज्ज्ञानं व्यवहारो वा तदनुकूलो वर्तम नकालिक एक गुर्वभिन्नाश्रयको व्यापारः । प्रासादाभिन्नाश्रयं यज्ज्ञानं व्यवहारो वा तत्सदृशं कुटुमिनाश्रयं यज्ज्ञानं व्यवहारो वा तदनुकूल एकाभिन्नाश्रयो वर्तमानकालिको व्यापारः ॥ ( भृशादिभ्योऽभूततद्भावे यङन्त्यहसलोपश्च ) अमृशो भृशो भवति भृशायते ॥ अशश्वच्छश्वद्भवति शश्वायते ॥ (सुबोधिनी) - भृशादिभ्योऽभूततद्भावे यङन्त्यह सलोपश्च ॥ भृशादिभ्यो यङ् स्यात् तस्मिन् परे भृशादीनामन्त्यस्य हसस्य लोपश्चाभूततद्भावेऽर्थे ॥ 'ये' इति दीर्घः । भृशायते ॥ ( बिपि ) - भृशति ॥ ( सुबोधिनी) - क्विपि ॥ भृशादिभ्यः क्विप् स्यादभूततद्भावाऽर्थे ॥ (च्चिरपि ) भृशभिवति । भृश्यभूत् ॥ सुमनायते । उपसर्गसमा - नाकारं पूर्वपदं धातुसंज्ञाहेतौ प्रत्यये चिकीर्षिते पृथक् क्रियते ॥ स्वमनायत । उदमनायत ॥ (सुबोधिनी) - विरपि॥ भृशादिभ्यश्च्विः स्यादभूतताऽर्थे कृभ्वस्तियोगे एव उपसर्गसमानाकारं पूर्वपदं धातुसंज्ञाहेतौ प्रत्यये चिकीर्षिते पृथक् क्रियते ॥ धातुसंज्ञाविधायके प्रत्यये कर्तुमिष्टे सति उपसर्गतु पूर्वपदं भिन्नं कर्तव्य - मित्यर्थः ॥ चुरादौ संग्राम युद्धे इति संविशिष्टपाठोऽस्य ज्ञापकः । तेन मनसूशब्दामागट् भवति । स्वमनायत ॥ (तत्त्वदी ० ) -- उपसर्गसमानाकारभित्यादि ॥ अत्र ज्ञापकं तु चुरादिषु संग्राम युद्ध -इत्यत्र संग्राम इति विशिष्टपदम् । अन्यथा ग्राम युद्ध इत्येवापठिष्यत् ॥ ( सुखादिभ्यो यङ् कतुरनुभवे) सुखं वेदयते सुखायते ॥ दुःखायते ॥ (सुबोधिनी ) - सुखादिभ्यो यङ् कर्तुरनुभवे ॥ सुख दिभ्यः कर्मभ्योऽनुभवकर्तुरेव चेत्सुखादीनि स्युः ॥ अनुभवशब्दो ज्ञानवाची । तदपेक्षमेव कर्तृत्वम् । कर्ता चेत्सुखादिभिरन्वेति ॥ सुखं वेदयते । 'ये' इति दीर्घः । सुखा पते । कर्तुरिति किम् । सुखं वेदयते परस्य । इह यन्निष्ठ सुखं तद्भिन्ननिष्ठोऽनुभवः ॥ 1 (तत्त्वदी ० ) - सुखं वेदयत इति ॥ स्वगतं सुखमनुभवतीत्यर्थः ॥ (पुच्छादने व्यसने पर्यसने च ञिङ् ) उत्पुच्छयते । उदपुपुच्छत ॥ विपुच्छयते ॥ परिपुच्छयते ॥ Page #193 -------------------------------------------------------------------------- ________________ [ आख्याते नामधातुप्र० ] टीकाद्वयता । ( १७३ (सुबोधिनी) - पुच्छादुदसने व्यसने पर्यसने च ञिङ् ॥ पुच्छान्नाम्नो ञिङ् स्यात् ॥ उत् ऊर्ध्वमसनं क्षेपणं उदसनम् । विविधं विरुद्धं वाऽसनं व्यसनम् । परि समन्तादसनं पर्यसनम् । तस्मिन्नर्थे । ङित्त्वादात् । पुच्छमुदस्यति - उत्पुच्छयते ॥ उदपुपुच्छत ॥ (तत्त्वदी ० ) - पुच्छादुदसन इत्यादि ॥ उदसनमुत्क्षेपणम् । विविध विरुद्धं वा क्षेपण व्यसनम् । परितः क्षेपणं पर्यसनम् । (भाण्डात्समाचयने ) संभाण्डयते ॥ ( सुबोधिनी) - भाण्डात्समाचयने ॥ भाण्डात् ञिङ् स्याद्राशीकरणेऽर्थे ॥ संभाण्डयते । लुङि समबभाण्डत ॥ ( तत्त्वदी ० ) - - समाचयनं राशीकरणम् ॥ ( चीवरादर्जने परिधाने च ) चीवराण्यर्जयति परिधत्ते वा संचीवरयते भिक्षुः । ( नाम्नो ञिराचष्टे ) ॥ (सुबोधिनी) - चीवराद ने परिधाने च ॥ ञिङ् । चीवराण्यर्जयति परिधत्ते वा संचीवरयते । लुङि समचिचीवरत ॥ (तत्त्वदी ० ) - संचीवरयते इति ।। अर्जयति परिधत्ते वेत्यर्थः ॥ (अर्थवेदसत्यानामापुगू ञ) अर्थापयति । आर्तीथपत्॥ वेदापयति ॥ सत्यापयति । अससत्यपत् ॥ एतयते । ऐतयत् ॥ पृथुम् । प्रथयति ॥ वृद्धौ सत्यां पूर्व वा टिलोपः अपप्रथत्-अपिप्रथत् ॥ मृदुम् म्रदयति । अमम्रदत् - अभिम्रदत् ॥ भृशम् भ्रशयति । अवभ्रशत् ॥ कृशम् क्रशयति अचक्रशत् ॥ दृढम् द्रढयति । अदद्रत् ॥ परिव्रढयति । पर्यवव्रढत ॥ त्वादयति । अतित्वदत् ॥ मादयति । अममिदत् ॥ युष्मयति । अयुयुष्मत् । अस्मयति । आसिस्मत् ॥ विद्वांसम् - विद्वयति । अविविदत् ॥ विदावयतीत्यपरे । अविविदावत् । विदयति इत्यन्ये । अविविदत् ॥ एवं श्वानमाचष्टे श्वयति । अशिश्वत् । शावयतीत्यपरे । अशुशावत । शुनयतीत्यन्ये । अशूशुनत् ॥ उदश्चम् उदीचयति । उदैचिचत् ॥ प्रत्यञ्चम् प्रतीचयति । प्रत्यचिचत् ॥ सम्यञ्चम् नमीचयति । सम्यचिचत् ॥ तिर्यञ्चम् ति - राययाते । अतितिरायत् ॥ सभ्यञ्चम् सधाययति । अससश्रायत् ॥ अन्तिकम् नेदयति । अनिनेदत् ॥ बाढम् साधयति ॥ वृद्धम् ज्यापयति । अजिज्यपत् ॥ वृद्धम् वर्षयति ॥ स्फिरम् स्फापयति । अपिस्फषत् ॥ उरुम् वरयति ॥ बहुलम् बंहयति ॥ तृप्रम् त्रपयति ॥ Page #194 -------------------------------------------------------------------------- ________________ ( १७४ ) सिद्धान्तचन्द्रिका | [ आख्याते नामधातुप्र ० J दीर्घम् द्राघति । अदद्राघत् ॥ वृन्दारकम् वृन्दयति । अववृन्दत् ॥ इति नामधातुप्रक्रिया ॥ (सुबोधिनी) - अर्थवेदसत्यानामापुरा ॐ ॥ एषामापुगागमः स्यात् त्रिप्रत्यये परे॥ अर्थमाचष्टे करोति वा अर्थापयति । एनीमाचष्टे त्रिप्रत्यये टिलोपः । ततो निमित्ताभावे नैमित्तिकस्याप्यभाव इतीपोऽभावे नस्याप्यभावः । एतयति ॥ पृथुमाचष्ट ऋ र इमनीति रभावे टिलोपे च प्रथयति । लुङि वृद्धौ सत्यां टिलोपः । अय्वृलोपित्वाभावादङि लवाविति पूर्वस्येत्वम् । अपिप्रथत् वृद्धेः पूर्वं टिलोपे खय्वलोपित्वादित्वं न । अपप्रथत् ॥ मृदुमाचष्टे आविष्ठवद्भावात् ऋ र इमनीति रभावे टिलोपे च म्रदयति ॥ एवं भृशकृशदृढादयः ॥ त्वां मां वाचष्टे टिलोपे 'त्वन्मदेकत्वे' इति त्वन्मदादेशे च कृत अत उपधाया इति वृद्धौ त्वादयति । मादयति ॥ युवामावां युष्मानस्मान् वाऽचष्टे वि भक्तिपरत्वाभावान्न युवावौ । टिलोपे सति युष्मयति । अस्मयति ॥ इवानमाचष्टे - विष्ठवद्भावात् शुनो वस्य उर्वा च दीर्घ इत्युत्वे टिलोपाभावे च शुनयतीतिरूपं केचिदाहुः टिलोपे उत्वे च वृद्धौ सत्यां शावयति । लुङि अय्वृलोपित्वान्न ह्रस्वः । अशुशावत् ॥ विद्वांसमाचष्टे टिलोपे विद्वयति । टिलोपे कृते वसोर्व उरित्युत्वे वृद्धावावादेशे च विदावयतीत्यन्ये । नित्यत्वात्पूर्वमुत्वं पश्चाट्टिलोपः । विदद्यतीत्यपरे । उदञ्चमाचष्टे । जाविष्ठवद्भावात् तिरश्चादद्य इत्युदीच् । उदीच्यतीत्यत्रोपसर्ग पृथक्कृत्य अच्शब्दादेव ञिः॥ बहुलग्रहणाट्टिलोपो न । लुङि उपसर्गसमानाकार मितीकारात्पूर्वमटि चिशब्दस्य द्वित्वे पश्चात् जेरिति ञिलोपः । उदैचिचत् ॥ प्रत्यञ्चमाचष्टे अचेदिधिश्चेत्यलोपपूर्वदीच प्रतीचयति । लुङि चिशब्दात्प्रागटि कृते पूर्वस्य यत्वम् । प्रत्यचिचत् । वृणामसवर्णे स्वर इति प्रकृतिभावपक्षे तु प्रतिअचिचत्॥ सम्यञ्चमाचष्टे अचेदीर्घश्चेत्यलाप पूर्वदीर्घौ ॥ समीचयति । लुङि सम्यचिचत् । प्रकृतिभावपक्षे समिअचिचत् ॥ तिर्यञ्चमाचष्टे अञ्च ष्टिलोपेनापहारेऽपि तस्य बहिरङ्गत्वेनासिद्धत्वात्तिरीत्यस्य सद्भावः । वृद्धौ सत्यां तिराययति । उपसर्गसमानाकारत्वाभावादिह तिरसः पृथक्करणं नास्ति। अतितिरायत् । अङि लघाविति ह्रस्वस्तु नाय्वृलोपित्वात् ॥ सध्यञ्चमाचष्टे टिलोपेनाञ्चरपहारे वृद्धौ सत्यां सध्याययति ॥ अन्तिकमाचष्टे गुर्वादेरित्यन्तिकस्य नेदष्ट्यलोपश्च । यस्येत्यलोपः। नेदयति । लुङि अनिनेदत्॥ वाढमाचष्टे वाढस्य साधः साधयति अससाधत् । वृद्धमाचष्टे वृद्धस्य ज्यादेशः।रातो ञाविति पुक् । ज्यापयति । अजिज्यपत् ॥ वृद्धस्य वर्षोऽपि । वर्षयति । अववर्षत्॥ स्फिरमाचष्टे स्फिरस्य स्फः। वृद्धौ सत्यां रातो जाविति पुक् । स्फापयति अपिस्फवत् ॥ उरुमाचष्टे उरुशब्दस्य वर् । संज्ञापूर्वक विधेरनित्यत्वाद्बाहुलकाद्वा माधवेन विकल्पेन वृद्धिरुदाहृता । वरयति - वारयति । अवीवरत् ॥ बहुलमाचष्टे बहुलस्य बंहः । बंहयति । नो लोप इति नलोपो न । टिलोपस्य स्थानिवत्त्वात् । अय्बूलोपान्नेत्वदीर्घौ । अबव्हत ॥ तृप्रमाचष्टे तृप्रस्य त्रप् । त्रपयति । अतित्रपत् । दीर्घमा - Page #195 -------------------------------------------------------------------------- ________________ [ आख्याते कण्ड्वादिप्र०] टीकाद्वयोपेता । - ( १७५) चष्टे दीर्घस्य द्राधः। द्रावयति।अदद्राघत् ॥ वृन्दारकमाचष्टे वृन्दारकस्य वृन्दः।वृन्दयति । अववृन्दत् ॥ ॥ इति सुबोधिन्यां नामधातुप्रक्रिया ॥ __ ( तत्त्वदी०)--अर्थवेदत्यादि। अत्र करण इत्युनुवृत्तं क्रियाविशेषोपलक्षणम् । तेनार्थमाचष्ट इत्यादि विग्रहः। आत्वेनैव सिद्ध आपुक्करणमन्यतोऽपि विधानार्थम्।तेन लिखापयतीत्यादि सिद्धम्॥ अपिप्रथदिति ॥ वृद्धावीकारे कृते ततो लोपः । अवलोपित्वाभावादकार्यम् ।। त्वादयति मादयतीति ॥ नो वेत्यत्र वा इत्यस्य व्यवस्थितत्वात्कचिन्न टिलोपः ॥ विद्वयतीति॥ आदौ टिलोपः। पुनरङ्गवृत्तपरिभाषया संप्रसारण न ॥ विदावयतीति॥टिलो कृते संप्रसारणे वृदयाबादेशौ ॥ सकृत्प्रवृत्तत्वात्पुनष्टिलोपाप्रसंगः ॥ विदयतीति ॥ संप्रसारणे कृते टिलोप इति पक्षे ।। उदीचयतीति ॥ टिलोपो न व्यवस्थितत्वात्॥ तिराययतीति।आदौ टिलोपस्ततस्तिर्यादेशस्ततो वृद्धयायादेशौ । पुनष्टिलोपस्तु सकृत्प्रवृत्तत्वान्न॥अतितिरायदिति। अवलोपित्वादुएधाह्रस्वोऽपि न । कृतायामिह टीकायां लोकेशकरशर्मणा । समासेनेदमभवन्नामधातुसमापनम् ॥ इति तत्वदीपिकायां नामधातुप्रक्रिया ॥ ५ ॥ अथ कण्डादिप्रक्रिया। ( कण्ड्वादिभ्यो धातुभ्यो यक स्वार्थे ) कण्डूञ् गात्रविघर्षणे । कण्डूयतिं । कण्ट्रयते॥ मन्तु अपराधे रोष च । मन्तूयति। अिदित्येके । मन्तूयते ॥ वल्गु पूजामाधुर्ययोः । वल्गूयति ॥ अस असु असू उपतापे । अस्याति । अनपि च हसात् । असाञ्चकार ॥ असूयति । असूयते ॥ लला दीप्तौ । लेलायति ॥ मेधा आशुग्रहणे । मेधायति ॥ सुख दुःख तत्क्रियायाम् । सुख्यति । दुःख्यति ॥ सपर पूजायाम् । सपर्यति सपराञ्चकार ॥ भिषग चिकित्सायाम् । भिषज्यति ॥ इषुध् शरधारणे । इषुध्यति ऐषुधीत् ॥ गद्गद वाक्स्खलने । गद्गद्यति ॥ एला केला खेला विलासे । एलायति । केलायति । खेलायति ॥ हणी रोषणे लज्जायां च । हृणीयते ॥ महीङ् पूजायाम् । महीयते ॥ अगद नीरोगत्वे ॥ अगद्यति । आगदीत् ॥ इति कण्ड्वादिप्रक्रिया ॥ (सुबोधिनी)-कण्डादिभ्यो धातुभ्यो यक् स्वार्थे।एभ्यो धातुभ्यो नियं यक स्यात् स्वार्थे।॥ कण्ड्वादयो द्विधा । धातवः प्रातिपदिकानि च । नाम्नां तु विग्रह एव ॥ सपर पूजायाम् । यगन्तात् षिद्भिदामङ इत्यनेनाप्रत्यये आप् ॥ सपर्या ।। महीङ् पूजायाम् । महीयते । पूजां लभत इत्यर्थः । आकृतिगणोऽयम् ॥ इति सुबोधिन्यां कण्ड्ादिप्रक्रिया ॥ Page #196 -------------------------------------------------------------------------- ________________ ( १७३ ) सिद्धान्तचन्द्रिका | [ आख्याते पदव्यवस्था ] ( तत्त्वदी० ) - कण्ड्रादिभ्यो यगिति ॥ कङ्कादयो हि द्विविधाः । धातवो नामानि तत्र धातुभ्यो नित्यं यक् । नाम्नां तु कण्डूं करोतीति विग्रह एव ॥ कृतायामिह टीकायां लोकेशकरशर्मणा । बाधनं दुष्टबुद्धीनाम गात्कण्डादिसाधनम् ॥ इति तत्त्वदीपिकायां कण्ड्रादिप्रक्रिया ॥ ६ ॥ अथ प्रत्ययमाला । कण्डूयतेः सप्रत्यये द्विश्वेति प्रथमस्य द्वित्वे प्राप्ते कण्डादेस्तृतीयस्य द्वित्वम् । कण्डूयियिषति । यप्रत्ययान्तात्सप्रत्यये तु यथेष्टं नामधातुषु द्वित्वमित्याद्यानां त्रयाणामन्यतमस्य द्विखं भवति।स्वराद्वेस्त्वाद्येतरस्य द्वित्वम्। पुत्रीयितुमिच्छति -पुत्रीयिषति - पुतित्रीयिषति । पुत्रीययिषति ॥ अशिश्वयिषति । अश्वीयियिषति ॥ आत्मन इन्द्रमिच्छति इन्द्रीयति । इन्द्रीयतेः सप्रत्यये द्रीशब्दयिशब्दयोरन्यतरस्य द्वित्वम् । इन्दिद्री - यिषति । इन्द्रीयियिषति ॥ ञ्यन्तात्सप्रत्यये तु प्रियशब्दात् जाविष्ठवद्भावेन मियशब्दस्य प्रादेशस्ततो द्वित्वादि । प्रियमाख्यातुमाचक्षाणं प्रेरयितुं वेच्छाते । पिप्रापियिषति । प्रापिपयिषति । प्रापयियिषति ॥ यसज्यन्तात्सप्रत्यये तु बोभूयिषयिषति ॥ यङजिसान्तात् ञिप्रत्यये तु । बोभूययिषयति ॥ इति प्रत्ययमाला | अथ पदव्यवस्था । (निविशादेः ) निपूर्वाद्विशादेर्धातोरात् ॥ निविशते ॥ (सुबोधिनी) - निविशादेः । निपूर्वो विशः । नेः परो विश इति वा निविंशः स आदिर्यस्य स निविशादिस्तस्मादात्स्यात् । आदिशब्दः प्रकारे । विश इत्यत्र अकार उच्चारणार्थः । ‘निविशते याद शूकशिखा पदे' इति श्रीहर्षः । नि किम् । प्रविशति । अर्थवद्ग्रहणलक्षणप्रतिपदोक्त परिभाषाभ्यां नेरुपसर्गस्य ग्रहणम् । तेनेह न । मधुनि विशन्ति भ्रमराः ॥ (तत्त्वदी ० ) - निविशादेः ॥ निपूर्वो विशः नेः परो विश इति वा । विशोऽकार उच्चार-णार्थः असंदेहार्थं वा । तेन पदकार्यवारणम् । अन्यथा निविडादेरित्युक्ते विश् वा विडू भेदने वेति संदेहः स्यात् । निविश आदिर्यस्येति स तथा तस्मात् । अत्रादिशब्दः प्रकारे । तेन निविशदृशादिति बोध्यम् । सादृश्यं चोपसर्गपूर्वत्वम् । निविशादिगणाभावाद्वयवस्थावाचिन आदिशब्दस्य ग्रहणं न । तेन नयतीति नि कुलं विशतीत्यत्र न भवति । एवं वेतीति वि कुलं जयतीत्यत्र न । पराजयति । दूनात्मोत्तमाः परा ॥ Page #197 -------------------------------------------------------------------------- ________________ [ आख्याते पदव्यवस्था • टीकाद्वयोपेता (१७७) ( परिव्यवेभ्यः क्रियः ) परिक्रीणीते । विक्रीणीते। अवक्रीणीते ॥ (सुबोधिनी ) - परिव्यवेभ्यः क्रियः ॥ परगामिफलार्थमिदमात्मनेपदम् ॥ ( विपराभ्यां जेः ) विजयते । व्यजेष्ट ॥ पराजयते ॥ (सुबोधिनी) - विपराभ्यां जेः ॥ आभ्यां परो जयतिरात्वान् ॥ ( आङो दाञो न तु विकसने ) विद्यामादत्ते आदित । विकसने तु व्याददाति मुखं कृष्णः । पराङ्गकर्मकाद्भवत्येव । व्याददते पिपीलिकाः पतङ्गस्य मुखम् ॥ ( सुबोधिनी) - आङ दाओ न तु विकसने ॥ परगामिफलार्थमिदम् । आङ्पूर्वाद्ददातेर्मुखविकसनादन्यत्रार्थे वर्तमानादात्मनेपदं स्यात् ॥ विद्यामादत्ते ॥ ( क्रीड आङनु सम्परिभ्यः ) आक्रीडते । अनुक्रीडते । परिक्रीडते ॥ ( सुबोधिनी ) - क्रीड आङनुसम्परिभ्यः ॥ तृतीयार्थस्यानोयोंगे नात्मनेपदम् ॥ माणवकमनुक्रीडति । तेन सहेत्यर्थः ॥ ( समोडकूजने ) संक्रीडते । कूजने तु । संक्रीडति रथचक्रम् ॥ (सुबोधिनी ) - समोऽकूजने ॥ समः परः क्रीडतिरात्वानकूजनेऽर्थे ॥ ( आगमेः क्षमायाम् ) आगमयस्व तावत् ॥ (सुबोधिनी ) - आगमेः क्षमायाम् ॥ आङ्पूर्वात् ञ्यन्ताद्रमेरात्स्यात् क्षमा| आगमयस्व तावत् । मा त्वरिष्ठा इत्यर्थः ॥ ( तत्त्वदी ० ) - आगमेः क्षमायाम् ॥ गमेरिति त्र्यन्तस्य ग्रहणम् । क्षमा प्रतीक्षा ॥ आगमयस्वेति ॥ मा त्वरिष्ठा इत्यर्थः ॥ ( शिक्षेर्जिज्ञासायाम् ) धनुषि शिक्षते ॥ (सुबोधिनी)-- शिक्षेर्जिज्ञासायाम् ॥ शिक्ष विद्योपादाने इत्यस्य नेह ग्रहणम् । अनुदात्तत्वादेवात्मनेपदसिद्धेः । किंतु शकेः सान्तस्येह ग्रहणम् । धनुषि शिक्षते । धनुर्विषये ज्ञाने शक्तो भवितुमिच्छतीत्यर्थः ॥ ( तत्त्वदी० ) - धनुषि शिक्षत इति ॥ धनुर्विषये ज्ञाने शक्तो भवितुमिच्छतीत्यर्थः ॥ ( हरतेर्गतताच्छील्ये ) पतृकमश्वा अनुहरन्ते । मातृकं गावः ॥ (सुबोधिनी ) - हरतेर्गतताच्छील्ये ॥ गतं प्रकारः सादृश्यमिति यावत् । पैतृकमश्वा अनुहरन्ते । मातृकं गावः । पितुर्मातुश्च सादृश्यं सततं परिशीलयन्तीत्यर्थः ॥ ताच्छील्ये किम् । मातुरनुहरति । इह सादृश्यमात्रं विवक्षितं न तु प्रकारताच्छील्यम् । મ Page #198 -------------------------------------------------------------------------- ________________ [ आख्याते पदव्यवस्था ० ( १७८ ) सिद्धान्तचन्द्रिका | (तत्त्वदी०) तताच्छील्य इति ॥ गतं प्रकार || पैतृकमश्वा अनुहरन्त इति । पितुः प्रकारं सततं परिशीलयन्तीत्यर्थः । गतं गमनं तस्य ताच्छील्य इति व्याख्याने तु "अयं कः संबन्धो यदनुहरते तस्य कुमुदम्" इत्यादावव्याप्तिः स्यात् ॥ ] किरते हर्षजीविकाकुलायकरणेषु ) (सुबोधिनी) - किरते हर्षजीविकाकुलाय करणेषु॥ किरतेरात्स्यादेषु वाच्येषु हर्षादयो विषयाः । तत्र हर्षो विक्षेपस्य कारणमितरे फले ॥ (तत्त्वदी ० ) - करतेरिति ॥ क विक्षेपे हर्षादयो विषयत्वेनोपादीयन्ते । तत्र हर्षो विक्षपस्य कारणम् । इतरे फले ॥ (अपात्किरतेः सुट् चतुष्पाच्छक निकर्तृके आलेखने) अपस्कि रते वृषो दृष्टः । कुक्कुटो भक्षार्थी । श्वाऽऽश्रयार्थी च । हर्षादिष्विति किम् । अपकिरति कुसुमं वायुः ॥ (सुबोधिनी) - अपात्किरतेः सुट् चतुष्पाच्छकुनिकर्तृके आलेखने ॥ अपात्किरतेः सुट् स्याद्धर्षादिष्वेव । चतुष्पाच्छकुनिकर्तृके आलेखने सति ॥ अपरिकरते वृषो हृष्टः । हर्षेण भूमि विलिखतीत्यर्थः । हर्षादिष्विति किम् । अपकिरति कुसुमम् । इहात्सुटौ न । हर्षादिमात्रविवक्षायां यद्यप्यात्मनेपदं प्राप्तं तथापि सुडभावे नेष्यत इत्याहुः । गजोsपकिरति । अत्र हर्षे सत्या लेखनाभावात्सुटोऽप्राप्तिः ॥ (तत्त्वदी ० ) - अपस्किरते वृषो हृष्ट-ति ॥ हर्षेण भूमिं विलिखतीत्यर्थः । ( आङ नुप्रच्छो: ) आनुते । आपृच्छते ॥ ( सुबोधिनी ) - आङो नुप्रच्छोः ॥ आङः परावेतावात्वन्तौ भवतः । णु स्तुतौ अदादिः । प्रच्छ ज्ञीप्सायाम् तुदादिः ॥ ( तत्त्वदी ० ) - आङ इति । णु स्तुतौ अदादिः । प्रच्छज्ञीप्सायां तुदादिः ॥ आनुते - इति ॥ उत्कण्ठापूर्वकं शब्दं करोतीत्यर्थः ॥ (शप उपालम्भे ) विप्राय शपते ॥ ( सुबोधिनी ) - शप उपालम्भे ॥ आक्रोशार्थे स्वरितेतः शपः परगामिफले शपथरूपेऽर्थे आत्मनेपदं भवति । कृष्णाय शपते । लाहुङइति संप्रदानसंज्ञा ॥ ( तत्त्वदी० ) उपालम्भ इति ॥ शपथ इत्यर्थः । स च वाचा शरीरस्पर्शनरूपः॥ विप्राय शत इति ॥ वत्पाद स्पृशामि नैतन्मया कृतमित्येवं शपथेन विप्रस्य स्वाभिप्रायं प्रकाशयतीत्यर्थः ॥ 'सख्यः शपामि यदि किंचिदिह स्मरामि' इत्यत्र तु स्वाशयप्रकाशनमात्रं विवक्षितं न तु शपथ रूपमपीत्यदोषः ॥ (समवप्रविभ्यः स्थः ) संतिष्ठते । समस्थित ॥ अवतिष्ठते ॥ प्रतिष्ठते ॥ वितिष्ठते ॥ Page #199 -------------------------------------------------------------------------- ________________ [ आख्याते पदव्यवस्था • ] टीकाद्वयोपेता । ( १७९ ) ( सुबोधिनी ) - समवप्रविभ्यः स्थः ॥ लुङि । अपिदाधास्थामिदितीत्वम् । समस्थिषाताम् ॥ ( आङः प्रतिज्ञायाम् ) शब्द नित्यमातिष्ठते ॥ (सुबोधिनी ) - आङः प्रतिज्ञायाम् ॥ शब्दं नित्यमातिष्ठते । नित्यत्वेन प्रतिजानीत इत्यर्थः । ( स्वाभिप्रायाविष्करणे निर्णेत्राख्यायां च ) गोपी कृष्णाय तिते । अस्थित | 'संशय्य कर्णादिषु तिष्ठते यः ॥ ( सुबोधिनी) - स्वाभिप्रायाविष्करणे निर्णेत्राख्यायां च ॥ स्वाशयस्पप्रकाशने विवादस्य निराकरणकर्ता निर्णेता तस्मिन्नर्थे च तिष्ठतेरात्स्यात् । गोपी कृष्णाय तिष्ठते । स्थित्या नेत्रादिविकाराद्वा स्वाभिप्रायं ज्ञापयति । 'संशय्य कर्णादिषु तिष्ठते यः संशयं विधाय निर्णेतृत्वेन कर्णादीनाश्रयत इत्यर्थः ॥ ( तत्त्वदी ० ) - निर्णेत्राख्यायामिति ॥ निर्णेता विवादस्य निराकरणकर्ता लोके प्रसिद्धः ॥ कृष्णाय तिष्ठत इति ॥ स्वस्थित्या नेत्रादिविकारद्वारा स्वाभिप्रायविशेष ज्ञापयतीत्यर्थः ॥ संशय्य कर्णादिष्विति ॥ संशयं निर्णेतुं कर्णादिषु तिष्ठतीत्यर्थः । अन्ये तु संशयस्य कर्णादय एव निर्णेतार इत्येवार्थ इति वदन्ति ।। ( उदोऽनूर्ध्वकर्मणीहायाम् )मुक्ताबुत्तिष्ठते । उद: स्थास्तम्भोः सलोपः । उत्थासीष्ट, उत्थासीयास्ताम् । उदस्थास्यत । उदस्थित । अनूर्ध्वकर्मणि किम् । पीठादुत्तिष्ठति । ईहायां किम् । ग्रामाच्छतमुतिष्ठति ॥ ( सुबोधिनी) - उदोऽनूर्ध्वकर्मणी हायाम् ॥ इच्छापूर्विका चेष्टा ईहा तस्यामेव नेह | ग्रामाच्छतमुत्तिष्ठति । उत्पद्यत इत्यर्थः ॥ ( तत्त्वदी० ) -- उद् इति ॥ कर्म क्रिया । ईहा परिसन्दः । मुक्तावुत्तिष्ठत इति मुक्त्यर्थं घटत इत्यर्थः ॥ ईहायां किम् । ग्रामाच्छतमुत्तिष्ठति । उत्पद्यत इत्यर्थः । उत्पत्तिः क्रिया न तु परिस्पन्दात्मिकेत्यादभावः ॥ ( उपान्मन्त्रकरणदेवपूजासङ्गतिकरणमित्रकरणपथिषु) आग्नेय्याग्नीधमुपतिष्ठते ॥ मन्त्रकरणे किम् । भर्तारमुपतिष्ठति यौवनेन । आदित्यमुपतिष्ठते । गङ्गा यमुनामुपतिष्ठते । रथिकानुपतिष्ठते । सुनमुपतिष्ठते पन्थाः ॥ (सुबोधिनी) - उपान्मन्त्रकरण देवपूजासङ्गतिकरणमित्रकरणपथिषु ॥ एष्वर्थेषूपात्तिष्ठतेरात्स्यात् ॥ मन्त्रः करणं यत्र तन्मन्त्रकरणं स्तुतिः । आग्नेय्याग्नीधमुपतिष्ठते । अग्निदेवताकया ऋचाऽऽग्रीघ्रमग्निविशेषं स्तोतुं तत्समीपे तिष्ठतीत्यर्थः । Page #200 -------------------------------------------------------------------------- ________________ (१८०) सिद्धान्तचन्द्रिका। [ आख्याते पदव्यवस्था० ] अग्निमिन्धे इति अग्नीत् क्विवन्तः । अग्नीधः स्थानमाग्नीध्रम् । तत्स्थोऽऽप्याग्नीध्रः । निपातनात्तद्धितो रणप्रत्ययः॥ मन्त्रकरणे किम् । भर्तारमुपतिष्ठति यौवनेन । आदित्यमुपतिष्ठते । आदित्यं स्तोतुं तदभिमुखतया तिष्ठतीत्यर्थः । गङ्गा यमुनामुपतिष्ठते । उपश्लिष्यतीत्यर्थः । रथिकानुपतिष्ठते । मित्रीकरोतीत्यर्थः । पन्थाः मुनी देशस्तमुपतिष्ठते प्राप्नोतीत्यर्थः। (तत्त्वदी०)-उपान्म० ॥ मन्त्रं करणं कारकम् । देवानां पूजा ॥ संगतिः संश्लेपः । मित्रस्य करणम् । पन्था मार्गः। स च कर्तृत्वेन संबध्यते॥ आदित्यमुपतिष्ठत इति।पूजयतीत्यर्थः ॥ यमुनामिति ॥ उपश्लिष्यतीत्यर्थः॥ रथिकानिति। मित्रीकरोतीत्यर्थः ॥ पन्था इति ॥ प्राप्नोतीत्यर्थः ॥ (वा लिप्सायाम) भिक्षुः प्रभुमुपतिष्ठते-उपतिष्ठति वा ।। (सुबोधिनी) वा लिप्सायाम् ॥ प्रभुमुपतिष्ठते-उपतिष्ठति वा । लिप्सयोपगच्छतीत्यर्थः॥ (तत्त्वदी० )-वा लिप्सायामिति ॥ लब्धुमिच्छा लिप्सा तस्यां गम्यमानायामित्यर्थः ।। (अकर्मकाच्च ) ज्ञानमुपतिष्ठते । उत्पद्यत इत्यर्थः॥ (सुबोधिनी)-अकर्मकाञ्च ॥ उपात्तिष्ठतेरकर्मकादात्मनेपदं स्यात् ॥ भोजन काले उपतिष्ठते । सन्निहितो भवतीत्यर्थः। (तत्त्वदी०)-अकर्मकाञ्चेति ॥ कर्म कारकं न तु क्रिया |ज्ञानमुपतिष्ठत इति ।। सन्निधत्त इत्यर्थः ॥ (उद्विभ्यां तपोऽकर्मकात्स्वाङ्गकर्मकाच्च) उत्तपते वितपते पाणि शिरो वा ॥ स्वाङ्गकर्मकात्किम् । सुवर्णमुत्तपति ।। ( सुबोधिनी)-उद्विभ्यां तपोऽकर्मकात्स्वाङ्गकर्मकाञ्च ॥ स्वमङ्गं स्वाङ्ग न त्वद्रवमिति परिभाषितम् । उत्तपते । वितपते । दीप्यते इत्यर्थः । नेह सुवर्णमुत्तपति । संतापयति विलापयति वेत्यर्थः ॥ चैत्रो मैत्रस्य पाणिमुत्तपति । संतापयतीत्यर्थः । (तत्त्वदी० )-उत्तपत इति ॥ दीप्यत इत्यर्थः । (आङो यमहनिभ्यामकर्मकाभ्यां स्वाङ्गकर्मकाभ्यांच)आयच्छते आहते पाणि शिरो वा । आनाते । आहसे । अन्यत्र । शत्रुमायच्छति आहन्ति वा ॥ (सुबोधिनी) आङो यमहनिभ्यामकर्मकाभ्यां स्वाङ्गकर्मकाभ्यां च ॥ यमहनिभ्यामात् ॥ नेह परस्य शिर आहन्ति । कथं तर्हि 'आजघ्ने विषमविलो. १ मूलतत्त्वदीपिकयोः 'भाजनकाल उपतिष्टते' इति पाठ इति कोचित् । Thillallinna lilla Page #201 -------------------------------------------------------------------------- ________________ [ आख्याते पदव्यवस्था० ] इयता । ( १८१ ) चनस्य वक्षः' इति भारविः । ' आहध्वं मा रघूत्तमम्' इति भट्टिश्च । प्रमाद एवायमिति । समीपमेत्येत्यध्याहारो वा बोध्यः। विषमविलोचनस्य समीपमेत्य वृक्ष आजघ्ने । स्वकी - यमेव वक्षो मल इव संतोषातिशयादास्फोटनं चक्रे इत्यर्थः ॥ ( तत्त्वदी ० ) - आङ इति ॥ अकर्मकस्वाङ्गकर्मकयोरनुवृत्तिरत्रापि॥आयच्छत इति ॥ दीर्घौ भवतीत्यर्थः ॥ आहत इति ॥ नलोपः आन्ना । ' आजघ्ने विषमविलोचनस्य वक्षः' इत्यादौ तु प्राप्येत्यध्याहारो बोध्यः ॥ ( हनः सिः कित् ) वधो वाति ॥ आहत । आवधिष्ट, आवधिषा ताम्-आसाताम् ॥ (सुबोधिनी ) - हनः सिः कित् ॥ हन्तेः परः सिः प्रत्ययो वा कित् स्यात् । नो लुङलिङोरिति धादेशः । आवधिष्ट, आवधिषाताम् । पसे कित्त्वात् लोपस्त्वनुदात्ततनामिति नलोपः । लोपो हस्वादिति सिलोपः। आहत, आहसाताम्, आहसत ॥ ( यमः सूचने सिः कित ) उदायत, उदायसाताम्, उदायसता ( सुबोधिनी ) - यमः सूचने सिः कित् ॥ सूचनं परदोषाविष्करणम् । कित्त्वालोपस्त्वनुदात्ततनाभिति मलोपः । लोपो हस्वादिति सिलोपः । उदायत । सूचने किम् । उदास्त पादम् | आकृष्टवानित्यर्थः ॥ ( तत्त्वदी ० ) - मूचन इति ॥ परेणाच्छाद्यमानस्याविष्करण इत्यर्थः उदायत इति ॥ परावद्यं प्रकाशयति स्मेत्यर्थः ॥ (समो गम्यच्छिमच्छिस्वरत्यर्तिश्रुविदिद्यशिभ्योऽकर्मकेभ्यः ) संगच्छते ॥ ( सुबोधिनी ) - समो गम्यृच्छिप्रच्छिस्वरत्यत्तिश्रुविदिदृशिभ्योऽकर्मकेभ्यः ॥ समुपसर्गादकर्मकेभ्यो गम्यृच्छयर्तिश्रुहशिभ्यः प्रच्छिस्वरतिविदिभ्यः सकर्मकेभ्यश्चात्स्यात् ॥ सङ्गच्छते । संगतं भवतीत्यर्थः ॥ (तत्त्वदी ० ) - समो गम्यृच्छीति ॥ ऋच्छ गत्यादौ । आदेशस्तु न अर्तेः पृथग्ग्रहणात् । विदीति वेत्तेरेव ग्रहणं गम्यादिपरस्मैपदि साहचर्यात् ॥ संगच्छत इति ॥ युज्यत इत्यर्थः । अकर्मकादित्येव । ‘रक्षांसीति पुरापि संशृणुमहे' इति मुरारिप्रयोगस्तु इति कथं यद्भय इत्यध्याहारेण समाधेयः । अर्थान्तरे वृत्तेरकर्मकत्वं सकर्मकाणामपि ॥ ( गमेः सिस्यौ कितौ वा ) सङ्गसीष्ट - संगंसीष्ट । समगत - समगंस्त ॥ समृच्छिष्यते । समानृच्छे । समाच्छिष्ट ॥ संस्वरते । संसस्वरे। संस्वरिषीष्ट - संस्वृषीष्ट । समस्वरिष्ट समस्वृतं ॥ संपृच्छते । समप्रष्टु, समप्रक्षाताम् ॥ संशृणुते | संश्रोता । समश्रोष्ट ॥ संवित्त, संविदाते ॥ Page #202 -------------------------------------------------------------------------- ________________ ( १८२ ) सिद्धान्तचन्द्रिका | [ आख्याते पदव्यवस्था • ] ( सुबोधिनी ) - गमेः सिस्यौ कितौ वा ॥ गमेरनिटी सिस्यौ वा कितौ स्तः ॥ आशिषि लिङ कित्त्वाल्लोपस्त्वनुदात्ततनामिति मलोपः । संगसीष्ट-पक्षे संगंसीष्ट । लुङि कित्त्वान्मलोपे लोपो हस्वादिति सिलोपः । समगन, समगसाताम्, समगसत । कित्त्वाभावे समगंस्त, समगंसाताम्, समगंसत । तौदादिकस्य ऋच्छेरत्र ग्रहणम् न तु ऋच्छादेशस्येति ध्वननार्थं लृटः प्रयोगः । समृच्छिष्यते ॥ ग्रहामिति संप्रसारणम् । संपृच्छते ॥ स्वृ शब्दोपतापयोः । संस्वरते ॥ अर्तीति भावादिकजौहोत्यादिकयोर्ग्रहणम् । तत्र भ्वादेः समृच्छते । लिटि समाराते, समारिं । लिङि उरिति न गुणः । समृष्टि । समर्ता । हून्नृत इतीदूं । समरिष्यते । समारिष्यत लुङि मेट इत्यटोऽभावः । उरिति न गुणः । लोपो हस्वादिति सिलोपामा समृत, या समृषाताम् मा समृषत माङभावे समार्च, समार्षाताम् समार्षत। इयर्तेस्तु ऋमोरिः पूर्वस्येति पूर्वस्येत्वे अस वर्णे स्वरे पूर्वस्येतीय् । समीयृते । लुङि सर्तिशास्त्यत्तिभ्य इति ङः । ऋवर्णदृशांरिति गुणः । मेट इत्यडभावः । मा समरत, मा समरेताम्, मा समरन्त । माङभावे समारत, समारेताम्, समारन्त॥ श्रुवः शृआदेश इति शृआदेशो (प्रत्ययश्च । संशृणुते। परस्मैपदसाहचर्याद्विद् ज्ञाने इत्यस्यैव ग्रहणं न तु स्वरितेतो विद्ल लाभे इत्यस्य । सत्ताविचारणार्थस्य विदेस्त्वनुदात्तत्वादात्मनेपदं सिद्धमेव ॥ ( वेत्तेरन्तो वा रुडाति ) संविद्रते - संविदते ॥ संपश्यते । समदृष्ट ॥ समियते, समियते । समारे । ऋमो रिः पूर्वस्य । समिश्रीत । समिग्ररीयाताम् । स्वरादेः । अइ ए । ए ऐ ऐ समैयृत, समैयाताम् । अकर्मकात्किम् । ग्रामं संगच्छति ॥ ( सुबोधिनी ) - वेत्तेरन्तो वा रुट् । विदेः परस्यान्प्रत्ययस्य रुड वा स्यात् आति ॥ दृशादेरिति पश्यः । संपश्यते । कथं तार्ह स र्मकस्य ' रक्षांसीति पुरापि संशृणुमहे' इति मुरारिप्रयोगः ? प्रामादिकोऽयम्, इति कथयद्भय इत्यध्याहारोवा | अथास्मिन्नकर्मकाधिकारे हनिगम्यादीनां कथमकर्मकतेति चेच्छृणु । “धातोरर्थान्तरे वृत्तेर्धात्वर्थेनोपसंग्रहात् । प्रसिद्धेरविवक्षातः कर्मणोऽकर्मिका क्रिया” इत्युक्तत्वादकर्मकत्वं बोध्यम् ॥ (उपसर्गादस्यत्यू होर्वा ) निरस्यते । निरस्यति निरास्यत ॥ समूहति समूहते । समूह्यात् ॥ (सुबोधिनी) - उपसर्गादस्यत्यूहोर्वा ॥ अकर्मका देति निवृत्तम् । असु क्षेपणे । ऊह वितकें । बन्धं निरस्यति । दिवादित्वाद्यः ॥ उपसर्गीदूहतेह्रस्वो यादौ क्ङिति । ब्रह्म समुह्यात् । अनि समुह्यति ॥ I (निसमुपविभ्यो हः ) निह्वयते ॥ Page #203 -------------------------------------------------------------------------- ________________ आख्याते पदव्यवस्था • 1 टीकाद्वयोपेता । ( १८३ ) (सुबोधिनी) - निसमुपविभ्यो हः॥ एभ्यः परस्मात् ह्वेञ आत् स्यात् ॥ (स्पर्द्धायामाङः ) कृष्णश्चाणूरमाह्वयते ॥ (सुबोधिनी ) - स्पर्द्धायामाङः ॥ आङः परात् ह्वेञः आत्स्यात् ॥ पराभिभवेच्छा स्पर्धा तस्यामर्थे ॥ (तत्त्वदी ० ) - स्पर्धायामिति । परा भेभवेच्छा स्पर्धा कृष्ण इति ॥ स्पर्धयातस्याह्वानंकरोतीत्यर्थः।। (अप्रतिबधोत्साहस्फीततासु क्रमः ) ऋचि क्रमते बुद्धिः । अध्ययनाय क्रमते । क्रमन्तेऽस्मिञ्छास्त्राणि ॥ ( सुबोधिनी ) - अप्रतिबन्धोत्साहस्फीततासु क्रमः॥ऋचि क्रमते बुद्धिः । न प्रतिहन्यत इत्यर्थः । अध्ययनाय क्रमते । उत्सहत इत्यर्थः ॥ क्रमन्तेऽस्मिञ्छास्त्राणि । स्फीतानि प्रवृद्धानि भवन्तीत्यर्थः ॥ ( तत्त्वदी ० ) ऋचि क्रमत इति । । न प्रतिहन्यत इत्यर्थः ॥ अध्ययनाय क्रमत इति ॥ उत्सहत इत्यर्थः ॥ क्रमन्त इति स्प तानि भवन्तीत्यर्थः ॥ ( उपपराभ्याम् ) उपक्रमते । पराक्रमते ॥ (सुबोधिनी) - उपपराभ्याम्॥अप्रतिवन्धादिषु वाच्येष्वाभ्यां क्रम आत्स्यात् ॥ नेह संक्रामति ॥ (आङो ज्योतिरुद्गमनं) आक्रमते - आक्रम्यते सूर्यः ॥ ( सुबोधिनी ) - आङो ज्यं तिरुद्गमने ॥ आक्रमते सूर्यः । उदयत इत्यर्थः नेह । आक्रमति धूमो हर्म्यतला ( ॥ (तत्त्वी० ) - ज्योतिरुद्गमन इति । ज्योतिर्नक्षत्रादिः ॥ आक्रमते सूर्य इति ॥ उदयत इत्यर्थः । 'नभः समाक्रामति च द्रमाः क्रमात्' इत्यत्र तु प्राप्नोतीत्येवार्थो न तूद्गमनम् ॥ ( वेः पादविहरणे ) साधु विक्रमते वाजी ॥ (सुबोधिनी) -- वेः पादविहरणे ॥ क्रमेः पादविक्षेप एवार्थस्तथापि धातूनामनेकार्थत्वादेवमुक्तम्॥पादविहरणे ! म् । विक्रामति सन्धिः । द्विधा भवति स्फुटतीत्यर्थः ॥ ( तत्त्वदी ० ) -- वेः। विहरणं विक्षेपणम् । यद्यपि धातुरयमस्मिन्नेवार्थे प्रसिद्धस्तथापि धातूंनामनेकार्थत्वाद्विशेषणम् । नेह । विक्रानति सन्धिः । द्विधा भवतीत्यर्थः ॥ (प्रोपाभ्यां प्रारम्भाभ्याम् ) प्रक्रमते । उपक्रमते (स्नुक्रमोराति नेट् ) प्रसीष्ट ॥ (सुबोधिनी) - प्रोपाभ्यां प्रारम्भार्थाभ्याम् ॥ प्रक्रमते । आरम्भं करोतीत्यर्थः । प्रारम्भार्थाभ्यां किम् । प्रक्रामति । गच्छतीत्यर्थः । उपक्रामत्यागच्छतीत्यर्थः । उपपराभ्यामिति नात्रात्मनेपदं शयम् । अप्रतिबन्धादिष्वेवेत्युक्तत्वात् ॥ Page #204 -------------------------------------------------------------------------- ________________ 'आख्याते पदव्यवस्था • (१८४ ) सिद्धान्तचन्द्रिका | ( अनुपसर्गाद्वा ) क्रमते - क्रम्यते । क्राम्यतिक्रामति ॥ (सुबोधिनी) अनुपसर्गाद्वा ॥ अप्राप्तविभाषेयम् । अप्रतिबन्धादिषु तु नित्यमेव ॥ ( अपह्नवे ज्ञः ) शतमपजानीते ॥ 1 (सुबोधिनी ) - अपह्नवे ज्ञः ॥ अपनयनेऽर्थ ज्ञ आ 11 तत्त्वदी० ) - शतमपजानीते || अपलपतीत्यर्थः ॥ ( अकर्मकाच्च) सर्पिषो जानते ॥ (सुबोधिनी) - अकर्मकाच्च ॥ सर्पिषो जानीते । सर्पिषोपायेन प्रवर्तत इत्यर्थः ॥ ( तत्त्वदी ० ) - सर्पिष इति ॥ सर्पिषा उपायेन प्रवर्तत इत्यर्थः ॥ ( अनुपसर्गाज्ज्ञः ) गां जानीते ॥ (सुबोधिनी) - अनुपसर्गाज्ज्ञः ॥ अकर्मकाञ्चेत्येव सिद्धे सकर्मकार्यमात्म्भः ॥ अनुपसर्गात् किम् । स्वर्ग लोकं न प्रतिजानाति । कथं तर्हि इत्थं नृपः पूर्वमवालुलोचे तो गमनं सुतस्य' इति भट्टिः । कर्मणि लिट् । नृपेणेति विपरिणामः ॥ सम्प्रतिभ्यामनाध्याने ) शतं संजानीते । शतं प्रतिजानीते । अनाध्याने किम् । मातरं संजानाति ॥ ( (सुबोधिनी ) - सम्प्रतिभ्यामनाध्याने ॥ उत्कण्ठापूर्वकं स्मरणमाध्यानम् ॥ शतं संजानीते । अवेक्षत इत्यर्थः ॥ शतं प्रतिजानीते । अङ्गीकरोतीत्यर्थः ॥ (तत्त्वदी ० ) - शतं संजानीते ॥ अवेक्षत इत्यर्थः ॥ शतं प्रतिजानीते।। अङ्गीकरोतीत्यर्थः॥ ( अनुपसर्गाद्वा ) गां जानाति, जानीते वा ॥ ( सुबोधिनी) अनुपसर्गाद्वा ॥ अनुपसर्गात्परस्य ज्ञो वा आत्स्यात् ॥ ( वेः शब्दकर्मणः कृञः ) शब्द विकुरुते ॥ ( सुबोधिनी ) - वेः शब्दकर्मणः कृञः ॥ शब्दं विकुरुते । उच्चारयतीत्यर्थः ॥ शब्दकर्मणः किम् । चित्तं विकरोति कामः ॥ ( अकर्मकाच्च ) विकुर्वते सैन्धवाः ॥ (सुबोधिनी) - अकर्मकाञ्च ॥ वेरकर्मकात्कृञ आत्स्यात् ॥ विकुर्वते सैन्धवाः । वाजिनो विकारं लभन्त इत्यर्थः ॥ (भासनोपसंभाषाज्ञानयत्नविमत्युपमन्त्रणेषु वदः) शास्त्रे वदते । भृत्यानुपवदते । शास्त्रे वदते । क्षेत्रे वदते । गेहे विवदन्ते । उपवदन्ते ब्राह्मणाः परदारान् ॥ * (सुबोधिनी) - भासनोपसंभाषाज्ञानयत्नविमत्युपमन्त्रणेषु वदः ॥ वदतेरात्स्यादेष्वर्थेषु ॥ शास्त्रे वदते । भासमानो ब्रवीतीत्यर्थः ॥ उपसंभाषोपसान्त्वनम् । Page #205 -------------------------------------------------------------------------- ________________ [आख्याते पदव्यवस्था० ] टीकाद्वयोपेता। (१८५) भृत्यानुपवदते । सान्त्वयतीत्यर्थः ॥ शास्त्रे वदते । ज्ञानं वदतीत्यर्थः ॥ क्षेत्रे वदते । क्षेत्रप्रयत्नं वदतीत्यर्थः ॥ गेहे विवदन्त विवादं कुर्वन्तीत्यर्थः । उपवदन्ते । प्रार्थयन्ते । उपमन्नणनुपच्छन्दनम् ॥ एषु किम् । किंचिद्वदति ॥ ( तत्वदी० )-भासनेत्यादि । भासनं दीप्तिः । उपसंभाषा सान्वनम् ॥ शास्त्रे वदत इति ॥ भासमानो ब्रवीतीत्यथः ॥ भृत्यानिति ॥ सान्त्वयतीत्यर्थः ॥ शास्त्रे वदत इति ॥ वदितुं सम्यगबुध्यत इत्यर्थः ॥ क्षेत्रे वदत इति ॥ क्षेत्रविषयकमुत्साहपाविष्करोतीत्यर्थः ॥ गेहे विवदन्त इति ॥ विविधं भाषन्त इत्यर्थः ॥ परदारातुपवदत इति ॥ भद्रे भजस्व मामिदं ते दास्यामीत्येवं रहसि प्रचोद्य स्वाभिलषिते प्रवर्तयतीत्यर्थः ॥ (मनुष्यादीनां संभूयोचारणे )संप्रवदन्ते ब्राह्मणाः॥ ___ (सुबोधिनी)-मनुष्यादीनां संभूयोञ्चारणे ॥ वदतेरात्स्यान्मनुष्यादीनां सहोच्चारणेऽर्थे ॥ (तत्त्वदी० )-संभूयोच्चारणे ॥ सहोचारण इत्यर्थः । (व्यक्तवाविषयादनुपूर्वादकर्मकात्) अनुवदते कठः कलापस्य । (सुबोधिनी)-व्यक्तवाग्विषयादनुपूर्वादकर्मकात्॥ एतादृशाददतेरात्स्यात्।। व्यक्तः वाग्विषयो यस्य स व्यक्तवाग्विषयस्तस्मात् । अनुवदते कठः कलापस्य । वेदशाखावाचकावपि कठकलापशब्दावत्र तदध्येतरि वर्तते । अनु सादृश्यम्। कलापस्येति संबन्धे षष्ठी ॥ अकर्मकात् किम् । उक्तमनुवदति ॥ व्यकवागिति किम् । अनुवदति वीणा ॥ (तत्त्वदी० )-व्यक्तेति ॥ व्यक्ता परिस्फुटवर्णा अर्थावगतिहेतुश्च वाक् येषां ते व्यक्तवाचः । ते च यद्यपि शुका अपि तथापि मनुष्या एवात्र बोध्याः प्रसिद्धतरत्वात् । अत एव ह्येतदुपात्तम् । अन्यथा वदेः स्वभावादेव तदर्थकत्वात्कृतमनेन ॥ अतुवदत इत्यादि ॥ शाखावचनावपि कठकलापशब्दौ तदध्येतरि वर्तेते । कलापेन सदृशं कठोऽधीयानो वदतीत्यर्थः ॥ अकर्मकात्किम् । उक्तमनुवदति ॥ व्यक्तवाचां किम् । अनुवदति वीणा ॥ . . (वा विरुद्धोक्तौ ) विप्रवदन्ति विप्रवदन्ते वा वैद्याः॥ ( सुबोधिनी)-वा विरुद्धोक्तौ ॥ विरुद्धोक्तिरूपे व्यक्तवाचां समुच्चारणेऽर्थे वदेर्वात् ॥ अप्राप्तविभाषेयम् ॥ .. (तत्त्वदी०)-विप्रवदन्तीत्यादि ॥ युगपत्परस्परं विरुद्धं वदन्तीत्यर्थः ॥ . (अवाद्विरतेः) अवगिरते ॥ - (सुबोधिनी )-अवाद्गिरतेः॥ गिरतेरिति तौदादिकस्यैव ग्रहणम् । गृणातेरवपूर्वस्य प्रयोगो नास्तीति भाष्योक्तेः ॥ Page #206 -------------------------------------------------------------------------- ________________ ( १८६ ) सिद्धान्तचन्द्रिका | ( तत्त्वदी ० ) - अवादिति ॥ गिरतेरिति निर्देशात्तौदा दिकस्यैव ग्रहणम् । गृणातेस्त्ववपूर्वस्य प्रयोगो नास्तीति भाष्योक्तेः क्रयादिकस्याग्रहः । अतो गिर इत्युक्तावप्यदोषः ॥ ( समः प्रतिज्ञाने ) शब्द नित्यं संगिरते ।। (सुबोधिनी ) - समः प्रतिज्ञाने ॥ समो गिरतेराज्यात्प्रतिज्ञानेऽर्थे ॥ संगिरते । प्रतिजानीत इत्यर्थः ॥ प्रतिज्ञाने किम् । संगिरति ग्रासम् ॥ [ आख्याते पदव्यवस्था ० ( तत्त्वदी ० ) संगिरत इति ॥ प्रतिजानीत इत्यर्थः । ( उदश्वरः सकर्मकात् ) धर्ममुच्चरते ॥ ( सुबोधिनी ) - उदश्वरः सकर्मकात् ॥ धर्ममुच्चरते । उल्लङ्ध्य गच्छतीत्यर्थः ॥ सकर्मकात्किम् । बाष्पमुञ्चति । उपरिष्टाद्गच्छतीत्यर्थः ॥ (तत्त्वदी०) धर्ममुच्चरत इति ॥ उल्लङ्घ्य गच्छत्यर्थः ॥ (समस्तृतीयायुक्तात् ) रथेन संचरते ॥ ] ( सुबोधिनी ) - समस्तृतीयायुक्तात्॥ तृतीयान्तः क्तात्समश्व रेरात्स्यात् ॥ रथेन संचरते । व्यवधानेऽपि रथेन समुच्चरते ॥ ( दाणश्च सा चेच्चतुर्थ्यर्थे ) दास्या संयच्छते कामुकः ॥ ( सुबोधिनी ) - दाणश्च सा चेच्चतुर्थ्यर्थे ॥ तृतीयान्तयुक्तात्समो यच्छतेरात्स्यात् सा तृतीया चेच्चतुर्थ्यर्थे भवति || दास्या संयच्छते । दास्यै धनं ददातीत्यर्थः । दास्येति संप्रदाने तृतीया ॥ (तत्त्वदी० ) -- दास्येत्यादि ॥ कामितया दास्य ददातीत्य: ॥ (उपाद्यमः स्वीकारे) भार्यामुपयच्छते । (सुबोधिनी) - उपाद्यमः स्वीकारे ॥ उपाद्यमेरात्स्यात् स्वीकारो विवाहस्तस्मिन्नर्थे ॥ (तत्त्वदी० ) -- स्वीकार इति ॥ स्वीकारो विवाहः । अङ्गीकारमात्रमिति तु भाष्यम् ॥ ( यमः सिः किद्वा विवाहे ) रामः सीतामुपायत - उपायंस्त वा ।। ( सुबोधिनी ) - यमः सिः किद्वा विवाहे ॥ यमः परः सिप्रत्ययो वा कित्स्याद्विवाहेऽर्थे । लोपस्त्वनुदात्ततनामिति मलोपः । उदायत | पक्षे उदायंस्त ॥ (ज्ञाश्रुस्मृदृशां सान्तानामात् ) जिज्ञा ते । शुश्रूषते । सुस्मृर्षते । दिदृक्षते ॥ ( सुबोधिनी ) - ज्ञाश्रुस्मृदृशां सान्तानामात् ॥ सप्रत्ययान्तेभ्य एभ्य आत्स्यात् ॥ अपह्नवे ज्ञ इत्यादिना ज्ञाधातोः समो गम्यृच्छीत्यनेन दृशिभ्यां चात्मनेपदे कृते ततः सप्रत्यये सान्तात्पूर्ववदादित्यनेन तदात्मनेपदं सिद्धमेव । पुनर्ग्रहणं विषयान्तरेऽप्यात्मनेपदार्थम् ॥ Page #207 -------------------------------------------------------------------------- ________________ [ आख्याते पदव्यवस्था० ] टीकाद्वयोपेता । ( अनोजनातर्न ) अनुजिज्ञासति पुत्रम् ॥ (सुबोधिनी) - अनोर्जानातेर्न ॥ अनोः सान्ताज्जानातेर्नात्स्यात् ॥ (प्रत्याङ्भ्यां श्रुवः ) प्रतिशुश्रूषात । आशुश्रूषति ॥ ( सुबोधिनी ) - प्रत्याभ्यां श्रुवः ॥ आभ्यां सान्ताच्छृणीतेर्नात् ॥ (स्वराद्यन्तोपसर्गाद्युजेरयज्ञे) प्रयुङ्क्ते । उद्युङ्क्ते ॥ अपज्ञे किम् । पात्राणि प्रयुनक्ति ॥ ( १८७) (सुबोधिनी ) - स्वराद्यन्तोपसर्गाद्युजेरयज्ञे || स्वरादेः स्वरान्ताच्चोपसगाजेत् । न तु यज्ञपात्रेऽर्थे ॥ (तत्त्वदी ० ) - स्वराद्यन्तोपसर्गादिति ॥ स्वर आदिरन्तोऽवयवो यस्य स तथा । तेन समादयो व्यावृत्ताः ॥ (समः क्ष्णुवः ) संक्ष्णुते शस्त्रम् ॥ (सुबोधिनी ) - समः क्ष्णुवः ॥ समः क्ष्णोतेरात्स्यात् ॥ (तत्त्वदी ० ) --संक्ष्णुते शस्त्रमिति ॥ समो गम्यृच्छीत्यादौ न पटितः । अस्यात्र सकर्मकस्य ग्रहणात् ॥ (भुजोऽपालने) ओदनं भुङ्क्त । पालने महीं भुनक्ति ॥ (सुबोधिनी) -- भुजोऽपालने | अभ्यवहारे इति वक्तव्ये अपालन इति पर्युदासग्रहणं प्रयोजनद्वयार्थम् । संयोगवद्विप्रयोगस्यापि विशेषावधारणहेतुत्वाद्रौ धादिकस्यैव भुजेग्रहणमित्येकम् । अभ्यवहारादर्थान्तरे उपभोगादावप्यात्मनेपदं भवतीति द्वितीयम् । निषेधस्य निषेधः पर्युदासः ॥ भुजेरान्न स्यात्पालने अपालनत्वादुपभोगार्थे तु भवति । 'वृद्धो जनो दुःखशतानि भुङ्क्ते' इतीह भुजेरुपभोगोऽर्थः । उपभोग इत्युपलक्षणम् । तेन 'बुभुजे पृथिवीपालः पृथिवीमेव केवलाम्' इत्यत्रात्मसात्करणमर्थः । पृथिवी बुभुजे । स्वाधीनां चकारेत्यर्थः । 'भुजो कौटिल्ये' इति तुदादेस्तु पमेव । पाणि विभुजति ॥ अपालने किम् । महीं भुनक्ति ॥ ( तत्त्वदी ० ) - भुजोऽपालन इति ॥ रुधादेरेव ग्रहणम् । तौदादिकस्य अनवन इति प्रतिषेवात् । तेन विभुजति पाणिमित्यादावदोषः । 'बुभुजे पृथिवीपालः' इत्यादौ तु भुजेरुपभोगोऽर्थः । अन्यथा भुजो भक्षण इत्येवाकरिष्यत् ॥ (गृधिवञ्चिभ्यां यन्ताभ्यां प्रतारणे ) माणवकं वञ्चयते । गर्द्धयते ॥ (सुबोधिनी ) - गृधिवश्चिभ्यां ञ्यन्ताभ्यां प्रतारणे ॥ परगामि फलार्थमिदमात्मनेपदम् ॥ प्रतारणे किम् । श्वानं गर्द्धयति । अस्याभिकाङ्क्षामुत्पादयति । अहं वञ्चयति । वर्जयतीत्यर्थः ॥ Page #208 -------------------------------------------------------------------------- ________________ ( १८८ ) सिद्धान्तचन्द्रिका | आख्याते पदव्यवस्था ० ] ( अपाइदः ) न्यायमुपवदते ॥ ( समुदायो यमोऽग्रन्थे ) ब्रीहीन संयच्छते । धान्यानि स्वीकरोतीत्यर्थः । धारमुद्यच्छते ॥ भारं वहतीत्यर्थः ॥ वस्त्रमायच्छते । वस्त्रमादधातीत्यर्थः ॥ अग्रन्थे किम् । वेदमुद्यच्छति । अधिगन्तुमुद्यमं करोतीत्यर्थः ॥ (सुबोधिनी) -- अपाद्वदः || अपादरात्स्यात् । अनुपसर्गाज्ज्ञः । पूर्वं व्याख्यातम् ॥ (कर्मव्यतिहारे धातोरात ) व्यतिभवते । तिराते ॥ ( सुबोधिनी ) - कर्मव्यतिहारे धातोरात् ॥ क्रिया निमयेऽर्थे धातोः कर्तर्यामनेपदं स्यात् ॥ व्यतिभवते । अन्यस्य योग्यं भवनम् व्यतरः करोतीत्यर्थः ॥ रा दाने । व्यतिराते ॥ ( तत्त्वदी ० ) - कर्मव्यतिहारे धातोरिति ॥ कर्म किया तस्प व्यतिहारो विनिमयो व्यत्यासस्तस्मिन्नर्थे वर्तमानाद्वातोरादित्यर्थः ॥ व्यतिभवत इति ॥ अन्यस्य योग्यं भवनमन्यतरः करोतीत्यर्थः । परस्परकरणमपि कर्मव्यतिहारः । संप्रहरन्ते राजान इति यथा 1 अत्र “च यदानेकस्य कर्तृत्वे सहविवक्षा तदा द्विवचनं च भवति । सह वेवक्षाभावे त्वेकवचनमपि । - तेन कर्मव्यतिहारस्यानेककर्तृकत्वादेकवचनं न संभवतीति न शङ्कनीम् ॥ ( न गतिहिंसार्थपठजल्पहसात् ) व्यतिगच्छन्ति । व्यतिपठन्ति । व्यतिघ्नन्ति । व्यतिजल्पन्ति । व्यतिहसन्ति ॥ ( इतरेतरान्योन्यपरस्परोपपदाच्च ) इतरस्याऽन्योऽन्यस्य परस्परस्य वा व्यतिलुनन्ति । इत्यात्मनेपदम् ॥ ( सुबोधिनी ) - न गतिहिंसार्थपठजल्पहसात् ॥ इतरेतरान्योन्यपरस्परोपपदाच्च ॥ गतिहिंसार्थेभ्यः पठजल्पहसेभ्यः इतरेतरान्योन्यपरस्परोपपदेभ्यश्व धातुभ्यः आन्न स्यात् ॥ इति सुबोधिन्यामात्मनेपदम् ॥ ( अनुपराभ्यां कृञः पम् ) अनुकरोति । पराकरोति ॥ (सुबोधिनी) - अनुपराभ्यां कृञः पम् ॥ आत्मगा मिफले परस्मैपदार्थमिदम् ॥ ( अभिप्रत्यतिभ्यः क्षिपः पम्) अभिक्षिपन्ति । प्रतिक्षिपन्ति । अतिक्षिपन्ति ॥ ( सुबोधिनी ) - अभिप्रत्यतिभ्यः क्षिपः ॥ क्षिप रणे । स्वरितेत् । तस्यात्म- गामिफलेऽपि परस्मैपदार्थमिदम् ॥ ( प्राद्वहः ) प्रवहन्ति ॥ (सुबोधिनी ) - हः ॥ प्राद्वहतेः पं स्यात् ॥ Page #209 -------------------------------------------------------------------------- ________________ [.आख्याते भावकर्मप्र० ] टीकाद्वयोपेता। (१८९) (परेपश्च) परिमृष्यति । परिवहति ॥ इति परस्मैपदम् ॥ इति पदव्यवस्थाप्रक्रिया ॥ (सुबोधिनी)-परेम॒षश्च॥परेम॒षेः पं स्यात् ॥ स्वरितेत्त्वात्परेम॒षेः पदद्वये प्राप्ते आरम्भः । मृष आमपणे दिवादिः । परिमृष्यात । मृष तितिक्षायां चुरादिः॥ओरभावे परिमर्षति । चकाराव्हेरपि पं भवति । परिवहति ॥ व्यापर्युपेभ्यो रमः ॥ भ्वादौ व्याख्यातमिदम् ॥ अकमकाद्वा॥अकर्मकाद्रमतेर्वा पं स्यात् ॥ उपादित्येव। उपरमति। उपरमते वा । निवर्तते इत्यर्थः ॥ बुधयुधनशजनेङमुद्रुस्रुभ्यो ज्यन्तेभ्यः पम् ॥ इङ्क्रीजीनामित्यात्वे । अध्यापयति । पाठयतीत्यर्थः ॥ द्रावयात । विलापयतीत्यर्थः। स्रावयति । स्पन्दयतीत्यर्थः ॥ इति सुबोधिन्यां पदव्यवस्थाप्रक्रिया ॥ (तत्त्वदी०) कृतायामिह टीकायां लोकेशकरशर्मणा । पदव्यवस्थेयमगात्समाप्तिं शुभलक्षणा ॥ इति तत्त्वदीपिकायां पदव्यवस्थाप्रक्रिया ॥ ७ ॥ अथ भावकर्मप्रक्रिया। (यक्चतुर्ष) धातो वे कर्मणि च यक्प्रत्ययस्तिबादिषु चतुर्पु परतः।। . ( सुबोधिनी)-अथ भावकर्मणोलडादयः॥ यक् चतुषु।भुवि कर्मणीति चा वी. त्यतोऽनुवृत्तम् । अव्यवहितमपि कर्तरीति नानुवर्तते । उत्तरसूत्रे कर्तृग्रहणात् । आख्यातप्रकरणादादितश्चतुर्विधेष्वाख्यातेषु चतुर्शब्दोऽस्ति । तेन भावार्थकेषु कर्मार्थकषु च चतुर्पु परतो धातोर्यक स्यात् ॥ (आदवि कर्मणि) अकर्मकाद्भावे सकर्मकाच्च कर्मण्याद्भवति ॥ भावस्यैकत्वादेकवचनमेव । युष्मदस्मदोः सामानाधिकरण्याभावात्प्रथमः । नामाद्यविषयत्वेऽपि प्रथमातिक्रमे कारणाभावात्प्रथमः । भूयते । भूयताम् । अभूयत । भूयेत । बभूवे ॥ (सुबोधिनी)-आद्भुवि कर्मणि॥भवनं भूः । संपदादित्वाद्भावे क्विम् । तस्यां भुवि शुद्ध धात्वर्थे साध्यरूपे स्वार्थे इति फलितम् । घार्थो भावस्तु सिद्धरूपः । उक्तं च "क्रियायाः सिद्धतावस्था साध्यावस्था च कीर्तिता।सिद्धतां द्रव्यमिच्छन्ति तत्रैवेच्छन्ति घञ्चिधिम्" भावो भावना उत्पादना क्रिया । सा च, धातुत्वेन सकलधातुवाच्या वर्तते । उक्तं च-'व्यापारो भावना सैवोत्पादना सैव च क्रिया ।' इति उत्पत्त्यनुकूलो व्यापार इत्यर्थः । तत्र सिद्धरूपो भावो घबादिवाच्यः। तस्य तु सत्त्वरूपत्वमिष्टमेवेति । उक्तं च भाष्यकृता-"कृदभिहितो भावो द्रव्यवत् प्रकाशते" इति। द्रव्यधामन् लिङ्गसंख्याकारकादीगृहातीत्यर्थः । लिङ्गसंख्याकारकान्वितं द्रव्यामित्युक्तेः। Page #210 -------------------------------------------------------------------------- ________________ ( १९० ) सिद्धान्तचन्द्रिका | [ आख्याते भावकर्मप्र ० ] तेन पार्क पाकेनेत्यादौ द्वितीयादयः प्रवर्तन्ते । साध्यरूपो भावस्त्वाख्यातवाच्यस्तस्यासत्त्वरूपत्वेन द्वित्वाद्यप्रतीतेर्न द्विवचनादि । भाष्ये तु आस्यन्ते शय्यन्ते इत्यत्र भावेऽपि बहुवचनं कृतम् । न च कर्मण्येवाख्यात प्रत्ययोऽस्त्विति शङ्खयम् । धातुद्वयस्याप्यकर्म`कत्वात् । आस्यन्त इत्यासिकाः। शय्यन्ते इति शायिका इत्यत्र धात्वर्थनिर्देशे वुण्प्रत्ययः । उष्ट्रासिका आस्यन्ते, हतशायिकाः शय्यन्ते इत्यत्र ह्युष्ट्राणां यादृशान्यासनानि हतानां यादृशानि शयनानि तादृशानि देवदत्तादिकर्तृकाण्यासनादीनीत्यर्थः । फलाश्रयः कर्म । फलं च धातुनैवोक्तमित्याश्रयमाख्यातार्थः स्यात् । अनन्यलभ्यत्वात् । 'अकर्मकेभ्यो धातुभ्यो भावे आत् । सकर्मकेभ्यस्तु कर्मण्यात् स्यात् । साध्यरूपस्वभावस्योत्सर्गत एव संख्यानपेक्षत्वेन स्वस्यैकत्वादेकवचनमेव भवति । तत्तु प्रथमस्यैव न मध्यमोत्तमयोः । युष्मदस्मदोराख्यातवाच्यकारकवाचित्वाभावात् । यद्यपि नाम्नोऽप्याख्यातवाच्यकारकवाचित्वाभावस्तथापि प्रथमो भवति । तस्यानिष्पादने वचना| तंत्रकवचनस्वीकारः प्रथमपुरुषमन्तरा कथं संभवेदित्यर्थः । भावे यथा - भूयत भावात् । इत्यादि ॥ ( तत्त्वदी०) - अद्भुवि कर्मणि ॥ भवनं भूः तस्यां भुवि । शुद्धे धात्वर्थे साध्यरूपभावो घञर्थस्तु सिद्धरूपो भाव इति भेदः । तत्र सिद्धरूपो भावो द्रव्यवत्प्रकाशते लिङ्गसंख्यादीन्गृह्णातीत्यर्थः । अतो द्विवचनादि । साध्यरूपस्य त्वसवरूपत्वान्न संख्याद्यन्वयः । उक्तं च - "क्रियायाः सिद्धतावस्था साध्यावस्था च कीर्तिता । सिद्धतां द्रव्यमिच्छन्ति तत्रैवेच्छन्ति घञ्विधिम् ||" इति ॥ कर्म तु पारिभा षिकमेव । पुनर्भावग्रहणात् । फलाश्रयः कर्म । फलस्य च धातुवाच्यत्वादाश्रयमात्रमाख्यातार्थः । अथ सकर्मकादपि भावे स्यादिति चेन्न । द्विवेत्यतश्चेत्यनुवर्तते स चावधारणार्थः । सकर्मकात्कर्मण्येव न भावे । कर्तर्यपि न स्यादिति चेच्छृणु । मध्येऽपवादन्यायेन भावस्यैव बाधनात् ॥ एकवचनमिति ॥ एकवचनमुत्सर्गतः करिष्यत इति वचनादिति भावः । तत्किं मध्यमोत्तमरपि न चेत्याशङ्कायामाह - युष्मदस्मदोरिति ॥ (स्वरान्तानां हनग्रहदृशां च भावकर्मणोः सितासीस्यपामिडास इण्वच्च) भाविषीष्ट-भविषीष्ट । भाविता - भविता । भाविष्यते भविष्यते । अभाविष्यत् अभविष्यत् ॥ (सुबोधिनी) - स्वरान्तानां हनग्रहदृशां च भावकर्मणोः सितासस्यपामिड्डा स इण्वच्च॥ स्वरान्तेभ्यो हनिग्रहिदृशिभ्यश्च परेषां भावे कर्मणि चार्थे स्थितानां सितासीस्थपां प्रत्ययानामिडागमो वा भवति स इट् इणीवेतीण्वत् । सप्तम्यन्ताद्वत् । कार्यातिदेशोऽयम् । इणि परे यद्दृद्धयादिकार्यं भवति तदिण्वति परेऽपीत्यर्थः । यया भाविता, भाविष्यते इत्यादौ वृद्धिः । दायिता, दायिष्यते इत्यादौ युक् । घानिता, घानिष्यते इत्यादी घत्वम् । प्रयोजकञ्यन्ताच्छमः कर्मण्याख्याते कृते शामिता Page #211 -------------------------------------------------------------------------- ________________ [ आख्याते भावकर्मप्र० ] टीकाद्वयोपेता । (१९१) शमिता । शामिष्यते-शमिप्यते । इत्यादौ मितां ज्यन्तानामित्यनेन मितामुपधाया वा दीर्घ इत्यादि ॥ इण तन्यकर्तरि ॥ धातोस्तनि परे भावे कर्मणि च इणप्रत्ययः । सेरपवादः । लुक् । अभावि । अकर्मकोऽप्युपसर्गवशात्सकर्मको भवति मुखमनुभूयते स्वामिना । "लज्जासत्तास्थितिजागरणं वृद्धिक्षयभयजीवितमरणम् । शयनक्रीडारुचिदीप्त्यर्थं धातुगणं तमकर्मकमाहुः॥" "फलव्यापारयोरेकनिष्ठतायामकर्मकः। धातुस्तयोर्धार्मभेदे सकर्मक उदाहृतः॥""धातोरान्तरे वृत्तेर्धात्वर्थेनोपसंग्रहात् । प्रसिद्धेरविवक्षातः कर्मणोऽमिका क्रिया ॥" __ (सुबोधिनी)-इण तन्यकर्तरि ॥ कर्तुरन्योऽकर्ता तस्मिन्नकर्तरि भावे कर्मणि चार्ये तन्प्रत्यये परे धातोरिण् स्यात् ॥ अकर्तरीति किम् । अकृत घट कुलालः । टुगिति तनो लुक। अभावि । अकर्मकोऽपि धातुः कुत्रचिदर्थान्तरे सकर्मको भवति। धातूनामनेकार्थत्वेनार्थान्तरस्योपसर्गेण यातनाद्धेतोः। यथा कर्मण्यात् । स्वामिना सुखमनुभयते । आत्मसात् क्रियते इत्यर्थः॥ "लज्जासत्तास्थितिजागरणं वृद्धिक्षयभयजीवितमरणम्।शयनक्रीडारुचिदीप्त्यर्थं धातुगणं तमकर्मकमाहुः॥"अकर्मकधातुलक्षणमाह-आचार्यास्तं धातुगणमकर्मकमाहुब्रुवन्ति । तं कम् । लज्जासत्तास्थितिजागरणान्याः सन्ति यस्य स लज्जासत्तास्थितिजागरणस्तम् । पुनः।वृद्धिक्षयभयजीवितमरणान्याः सन्ति यस्य स वृद्धिक्षयभयजीवितमरणस्तम् । पुनः। शयनक्रीडासाचदीप्तयोऽर्था यस्य स शयनक्रीडारुचिदीप्त्यर्थस्तम् ॥ फलव्यापारयोरेकनिष्ठतायामकमकः । धातुस्तयोर्द्धर्मिभेदे सकर्मक उदाहृतः ॥ सकर्मकाकर्मकधातुलक्षणमाहआचार्यैरकर्मको धातुरुदाहृतः । क सत्याम् । उत्पत्त्यनुकूलो व्यापारो धात्वर्थः। तत्रोत्पादनं व्यापारः। उत्पत्तिः फलम् । यथा पचेः फूत्करणेधोदकापस्करणादिलक्षणा व्यापारः। विक्लित्त्यादि फलम् । तयोः फलव्यापारयोरेकनिष्ठतायामेकस्मिन्धर्मिण्याश्रये स्थिती सत्यामित्यर्थः। धातुः सकर्मक उदाहृतः। छ. सति । तयोः फलव्यापारयोर्मिभेदे आश्रय दे सति । एकस्मिन्धर्मिणि फलमन्यस्मिन्धर्मिणि व्यापार इत्यर्थः ॥ " धातोरर्थान्तरे वृत्तेीत्वर्थनापसंग्रहात्। प्रसिद्धरविवक्षातः कर्मणोऽकर्मिका क्रिया कुत्रचित्सकर्मकस्थापि धातोः क्रिया धात्वर्थोऽमिका कर्मरहिता भवतीत्यर्थः । कुतः।। अन्याऽर्थ इत्यर्थान्तरं तस्मिन्नर्थान्तरे वृत्तेर्वर्तनाद्धेतोः । यथा नदी वहति । स्यन्दते इत्यर्थः ॥ पुनर्धात्वर्थन कर्मण उपसंग्रहाद्धेतोः । जीवति प्राणान बिभर्तीत्यर्थः ।। धुनः कर्मणः प्रसिद्धेहेतोः । मेघो वर्षति जलमिति कर्म प्रसिद्धमेव ! पुनः कर्मणोविं वक्षातो वक्तुरिच्छाया अभावाद्धेतोः । यथा। ‘हितान्न यः संशृणुते स किंप्रभुः ॥ कुत्सितप्रभुरित्यर्थः ॥ वचनमिति कर्माविवक्षितमत्र ॥ Page #212 -------------------------------------------------------------------------- ________________ (१९२) सिद्धान्तचन्द्रिका। [आख्याते भावकर्मप्र०) (तत्त्वदी०)-अकर्मकोऽपीति ॥ यो यदा कर्मक्रियावाच्यप्यनेकार्थत्वात्सकर्मक क्रियमुत्थापयति,तदा तदर्थपरत्वे सकर्मको भवति तत्परत्वं च तस्योपसर्गेण द्योत्यत इत्यनुपसर्गवशादित्युक्तं न तु सोपसर्ग एव सकर्मकः । उपसर्गस्तु द्योतक एव ॥अनुभूयत इति ॥ उपलम्भेऽयं सकर्मकः । सुखे कर्मण्यात् ॥ फलव्यापारयोरिल्यादि ॥ फलं विक्लित्त्यादि । व्यापारः फूत्कारादिलक्षणः । एकनिष्ठतायामेकस्मिन्धर्मिणि स्थितौ । तयोः फलव्यापारयोर्धर्मिभेदे एकस्मिन्धर्मिणि फलमन्यस्मिन्व्यापार इति भेदे धातुः सकर्मको बोध्यः ॥ धातारान्तरे वृत्तेरिस्यादि । अन्योऽर्थोऽर्थान्तरं तस्मिन्वृत्तेर्वर्तनात् । उदाहरणानि यथा । नदी वहति । स्यन्दन्त इत्यर्थः ॥ नृत्यति चैत्रः। गात्रविक्षेपं करोतीत्यर्थः । मेघो वर्षति । जलमित्यथः । गच्छति । ग्राममिति शेषः ॥ (शीङोऽयः ये किङति) शय्यते । शिश्ये ।शायिषीष्ट-शयिषीष्ट । अशायि । अयकि ॥ ऋतोरिडू भवत्यकारप्रत्यये यकि च । घटः क्रियते । त्वं दुःखी क्रियसे रागैविरागैः सुख्यहं क्रिये । चके। भाव्यते । भावयांचके । भावयामासे । भावयांबभूवे॥ (सुबोधिनी)-शीङोऽयड़ ये किङति॥शेतेरयङादेशः स्यास्किति ङिति च यप्रत्यये परे ॥ ङित्त्वादन्तादेशः। यत इत्यलोपः । शय्यते । नुधातोरिति यः। शिश्ये । इण्वद्भावाद्वा वृद्धिः । शायिषीष्ट-शयिषीष्ट । करोतेः कर्मण्यात् । उरिति न गुणः। कृषीष्ठ । चौरादिकात् ञ्यन्ताद्भावयतेः कर्मण्यात् जरिति जिलोपः। भाव्यते ॥ (इण्वदिटि ओर्लोपः) भाविता-भावयिता । भाविष्यते-भावयिष्यते । अभावि, अभाविषाताम्-अभावयिषाताम् । सन्नन्तातु : बुभूष्यते । बुभूषांचक्रे । अबुभूषि । यङन्तात्तु । बोभूय्यते । बोभूयांचक्रे ॥ यलगन्तातु बोभूयते । बोभवांचक्रे । बोभाविष्टि बोभविषीष्ट ॥ स्तूयते विष्णुः । अस्तावि, अस्ताविषाताम्-अस्तोषाताम् ॥ अर्यते । आरे । आरिषीष्ट ऋषीष्ट । आरिष्ठाः-आर्थाः ॥ स्मर्यते । स्मारिता-स्मर्ता ॥ इज्यते । ईजे । यक्षीष्ट-यष्टा ॥ (सुबोधिनी)-इण्वदिटि ओर्लोपः॥ जिलोपो वा स्यादिण्वदिदि परे । जिलोपे भाविता । पक्षे सिसतेतीटि भावयितास प्रत्ययान्तात् बुभूपतेर्भा आत्।यत इत्यल्लोपः। बुभूष्यते। यङ्प्रत्ययान्तात्तु यत इत्यलोपे बोभूय्यते । यलुगन्ताद्भावे आत्।वोभूयते। स्तोते. कर्मण्यात् । ये इति दर्धिः। स्तूयते॥ऋ गतौ कर्मण्यात् । गुणोऽतीति गुणः । अर्यते । इण्यदिटि तु धातोर्नामिन इति वृद्धिः।आरिता ॥ स्मृ चिन्तायाम् । गुणो. ऽतति गुणः । स्मयंत ॥ यजतेः कर्मण्यात् । यजामिति संप्रसारणम् । इज्यते । लिटि । ईजे । आशिषि लिडि । यक्षीष्ट ॥ Page #213 -------------------------------------------------------------------------- ________________ [ आख्याते भावकर्मप्र०] टीकाद्वयोपेता । ( १९३) (तनोतर्वाऽऽत्वं यकि) तायते-तन्यते । तनिषीष्ट । अतानि ॥ जायते-जन्यते ॥ (सुबोधिनी)-तनोतेर्वाऽऽत्वं यकितनेराकारोऽन्तादेशो वा स्याद्यक्प्रत्यये परे॥ (तपो नेण कर्मकर्तर्यनुतापे च) अन्वतप्त देवदत्तः पापेन ॥ दादेरिः। दीयते । ददे ॥ ___ (सुबोधिनी) तपो नेण् कर्मकर्तर्यनुतापे च ॥ तपरिण प्रत्ययो न स्यादनुतापेऽर्थे कर्मकर्तर्यर्थे च॥ अन्वतप्त देवदत्तः । पापेन काऽभ्याहत इत्यर्थः । भावेऽपीदं बोध्यम् । पापवता पुंसाविचार्य कृत्वा पश्चादशोचीत्यर्थः ॥ कर्मकर्तरि तु-अतप्त तपस्तापस इत्यत्र तपस्तपःकर्मकस्येत्यनेन कर्तुः कर्मवद्भावः॥ डुदान दाने । दादेरिरितीत्वम् । ये इति दीर्घः । दीयते । आतोऽनपीत्यालोपे ददे ॥ (तत्त्वदी०)-तपो नेण् कर्मकर्तर्यनुतापेच॥ तप संतापे इत्यस्मादण् न।पापेनति ॥ पूर्वं कृतं यत्पापं कर्तृ तेनाभ्याहतो देवदत्त इत्यर्थः । पापेनेति कर्तरि तृतीया । यदा तु कर्म न विवक्ष्यते, शोकार्थो वा तपिरतदा भावे लः । पापेनेति कर्तरि तृतीया । करणे पुरुषधर्मयोरनभिधानात् । अभ्याहननार्थस्य तु कमकर्तृत्वविवक्षायां हतौ तृतीयेति बोध्यम् ॥ ( आतो यक ) इणि णिति कृति च ॥ दायिषीष्ट-दासीष्ट , अदायि, अदायिषाताम्-आदिषाताम् ॥ धीयते ॥ स्थीयते ॥ अग्लायि ॥ हन्यते । हनो घ्ने । वानिषीष्ट-वधिषीष्ट । घानिताहन्ता । अघानि, अघानिषाताम्-अहसाताम् । अवधि, अवधिषाताम् ॥ (सुबोधिनी)-आतो युक॥ आदन्तस्य धातोर्युक स्यादिणि प्रत्यये परे जिति णिति कृत्प्रत्यय च परे॥घत्रि दायः । वुणि दायकः। इण्वदिटि दायिषीष्ट । इण्वदिटोऽभावे दासीष्ट। लुङि अदायि । इण्वदिटि अदायिषाताम् । तदभावे अपिदाधास्थामितीत्वम् । आदिषाताम् ॥ एवं धास्था धातू ॥ ग्लै हर्षक्षये । इण्वदिटि युक् । अग्लायिषाताम् ॥ हन्तेः कर्मण्यात् । हन्यते । पूर्वाद्धन्तरिति घः। जघ्ने । हनो लुालिङोरिति वधः । यत इत्यल्लोपः।वधिषीष्ट । पक्षे हनो न इतिघः । अत उपधाया इति वृद्धिः । घानिषीष्ट । इण्वद्भावो वधादेशस्य बाधको ज्ञेयः । अत्र हनो वदित्यनेन घदादेशो न । इण्वर्जिते इत्युक्तत्वात् । लटि इण्वदिटि धानिष्यते । पक्षे हन्नृत इतीट् । हनिष्यते । लुङि इण्वदिडभावे हनः सिः किदिति कित्त्वात् लोपस्त्वनुदात्ततनामिति नलोपः ॥ अहसाताम् ॥गृहातेः कर्मण्यात्। ग्रहामिति संप्रसारणम् । गृह्यते ॥ Page #214 -------------------------------------------------------------------------- ________________ ( १९४ ) सिद्धान्तचन्द्रिका | [ आख्याते भावकर्मप्र ० ] ( तत्वदी० ) - वधिषीष्टेति ॥ इण्वदभावे वधादेशो बोध्यः ! वध हिंसायामिति प्रकृत्यन्तरम् | अवधीति || जनिवध्योरिति वृद्धिनिषेधः । हनादेशस्य त्वद तत्वान्न वृद्धिः । तथा प्रयोगः । भक्षकश्चन विद्यते वधकोऽपि न विद्यत इति ॥ ( इण्वदिटो न दीर्घः ) ग्राहिता - ग्रहीता । दर्शिषीष्ट-दृक्षीष्ट । दर्शिता - द्रष्टा । अदर्शि अदर्शिषाताम् - अक्षाताम् ॥ शम्यते मुनिना ॥ (सुबोधिनी ) - इण्वदिटो न दीर्घः ॥ ईटी ग्रहामिति सूत्रेण सिसतेत्यादिलक्षणेन विधीयमानस्यैवेटो दीर्घो भवति नेण्वदिट इत्यर्थः । दृशेः कर्मण्यात् । लुङि इवदिटि परे उपधाया लघोरिति गुणः । अदर्शिषाताम् । पक्षे छशषेति षत्वम्। षढोरिति कः । हशषान्तादिति सक् तु न । न तु दृशेरित्युक्तत्वात् । सिस्योरिति न गुणः। अदृक्षाताम् । शमेर्भावे आदकर्मकत्वात् ॥ ( मान्तस्य सेटो न वृद्धिरिणि णिति कृते च न त्वाचमिकमिवमीनाम् ) अशमि । अदमि । आच मि | अकामि । अवामि ॥ ञ्यन्तात्तु शम्यते मोहो मुनिना । शमयाञ्चक्रे ॥ (सुबोधिनी) - मान्तस्य सेटो न वृद्धिरिणि ञ्णिति कृति च न त्वाचमिकमिवमनाम् ॥ सेटो मान्तस्य धातोर्वृद्धिर्न स्यादिणि ञिति णिति कृत्प्रत्यये च परे । आचमिकमिवमीनां तु वृद्धिर्भवतीत्यर्थः । घञि शमः, दमः । वुणि शमकः दमकः । कथं तर्हि 'हरेर्यदक्रामि पदैककेन खम्' इति श्रीः प्रयोग इति चेदुच्यते । 'निवृतप्रेषणाद्धातोः प्राकृतेऽर्थे णिजिष्यते ।' इति प्राकृते ञिस्तत इण् बोध्यः । सेटःकिम्। अगामि ॥ कमु कान्तौ । कमेः स्वार्थे ञिङिति ञिङ् वा । जेरिति ञिलोपः । काम्यते । लुङि ञिङभावे । अकामि । ञिञिङोरप्येवम् । ञ्यन्तात् शमेः कर्मण्यात् । जेरिति ञिलोपः । शम्यते । कासादिप्रत्ययादित्याम् । शमयाञ्चक्रे ॥ (मितां यन्तानामिणिणमि च वा दीर्घः ) शामिता - शमिताशमयिता । अशामि - अशमि । अशामिषाताम् - अशमिषाताम्अशमयिषाताम् ॥ वध हिंसायाम् । वय । जनिवध्योर्न वृद्धिः । अवधि ॥ ( सुबोधिनी) - मितां ञ्यन्तानामिणि णमि च वा दीर्घः ॥ मित्संज्ञकानां ञ्यन्तानां धातूनां वा वृद्धिर्भवति इणप्रत्यये णम्प्रत्यये च परे । इण्वदिटि नेरिति ञिलोपः । वृद्धिश्व वा । शामिता-पक्षे शमिता-पक्षे सिसततीटि गुणः । शमयिता । यङन्तप्रकृतिकञिप्रत्ययान्तात् शंशमेः कर्मण्यात् । जौ परतोऽनपि च हसादिति यलोपः । यत इत्यलोपः । ततो यकि जेरिति ञिलोपः शंशम्यते । लुटि शंशा Page #215 -------------------------------------------------------------------------- ________________ [ आख्याते कर्मकर्तृप्र० ] टीकाद्वयोपेता | मिता - शशमिता - शंशमयिता । लुङि अशशामि-अशशमि । णम्प्रत्यये मं- शंशमम् ॥ वृध हिंसायाम् । हसान्तः ॥ ( भञ्जेरिणि नलोपो वा ) अभाजि अभञ्जि ॥ ( सुबोधिनी )-भञ्जेरिणि न लोपो वा । भञ्जो आमर्दने इत्यस्य नस्य लोपो वा स्यादिणि प्रत्यये परे ॥ ( १९५ ) शंशा (लभेरिणामोर्तुम्वा ) अलम्भि - अलाभि “गाँणे कर्मणि दुह्यादेः प्रधाने नीहकृष्वहाम् । बुद्धिभक्षार्थयोः शब्दकर्मकाणां निजेच्छया ॥ प्रयोज्यकर्मण्यन्येषां त्र्यन्तानां लादयो मताः ||" गौर्डह्यते पयः । धुक्षीष्ट ॥ अजा ग्रामं नीयते । हियते । कृष्यते । उह्यते ॥ बोध्यते माणवकं धर्मः, माणवको धर्ममिति वा ॥ भोज्यते माणवकमोदनः, माणवक ओदनमिति वा ॥ पाठ्यते माणवकं वेदः, माणवको वेदमिति वा ॥ देवदत्तो ग्रामं गम्यते ॥ ( सुबोधिनी ) - लभेरिणमोर्तुम् वा ॥ डुलभ प्राप्तावित्यस्य नुमागमो वा स्यादिणि प्रत्यये णमि प्रत्यये च परे ॥ प्रादेर्नित्यं नुम् । प्रपूर्वस्य लभेर्नित्यं नुम् स्यात् णमि प्रत्यये । प्रलम्भम् ॥ अथ ये द्विकर्मकधातवस्तेभ्य आत्कृत्यक्तखलर्थप्रत्ययाः किं मुख्ये कर्मणि, उत गौणे, किं चोभपोरिति संदेहे व्यवस्थामाह - " गौणे कर्मणि दुह्यादेः प्रधाने नीकृषवहाम् । बुद्धिभक्षार्थयोः शब्दकर्मकाणां निजेच्छया ॥ प्रयोज्यकर्मण्यन्येषां ञ्यन्तानां लादयो मताः ॥” दुह्याचिति कारके उक्तम् । दुह्यादेर्द्वादशसंख्यस्य धातोर्गौणे कर्मणि लादयः प्रत्यया मताः । नीप्रभृतीनां चतुर्णां प्रधाने कर्मणि लादयो मताः । बुद्धिभक्षार्थयोर्व्यन्तयोः शब्दकर्मकञ्यन्तानां च प्रयोज्यप्रधानयोरन्यतरकर्मणि निजेच्छया लादयो मताः । अन्येषां ञ्यन्तानां तु प्रयोज्यकर्मणि लादयो मताः । कारके गतिबुद्धीत्यनेन कर्त्तर्यत्कर्मकारकं कृतं तत्प्रयोज्यं कर्म ज्ञातव्यम् । लादयू इत्यत्रादिशब्देन कृत्यक्तखलर्थाः प्रत्यया ग्राह्याः । दुह्यादेर्गौण कर्मण्यात्। स्वार्थमुत्सृज्य परार्थावलम्बनं गौणम् । उदाहरणमाह-गौर्दह्यते पय इत्यत्र गौरिति गौणं कर्म । तत्राख्यातेनोक्तत्वादन्योक्ते इत्यनेन प्रथमा । पय इति तु मुख्यं कर्म । तत्र कर्मणि द्वितीया । कर्तुरनुक्तत्वात्तृतीया देवदत्तनेति । न्यादीनां प्रधानकर्मण्यात् । उदाहरणमाह-अजा ग्रामं नीयते इत्यत्राजेति मुख्यं कर्म । तत्रोक्तत्वात्प्रथमा । ग्राममिति गौणं कर्म । कर्त्ता तु तृतीयान्तोऽध्याहार्यः ॥ बुद्धिभक्षार्थयोः शब्दकर्मकाणां च व्यन्तानां प्रयोज्ये मुख्ये च कर्मण्यात् । उदाहरणमाह-बोध्यते माणवकं धर्म इत्यत्र धर्म इति मुख्यं कर्म | माणवकमिति प्रयोज्यं कर्म । तत्र निजेच्छयाssख्या तादिः कर्तव्यः । भोज्यंते माणवकमोदन इत्यत्रौदन इति मुख्यं कर्म | माणवकमिति प्रयोज्यं कर्म । तत्र निजेच्छयाऽऽख्यातादिः । पाठ्यते, माणवकं वेद इत्यत्र वेद इति Page #216 -------------------------------------------------------------------------- ________________ सिद्धान्तचन्द्रिका। [आख्याते कर्मकर्तृप्र. ] मुख्यं कर्म । माणवकमिति प्रयोज्यं कर्म । तत्र निजेच्छयाऽऽख्यातादिः । तृतीयान्तः कर्ताऽध्याहार्यः ॥ ञ्यन्तस्य प्रयोज्यकर्मण्यात् । उदाहरणमाह-देवदत्तो ग्रामं गम्यत इत्यत्र ग्राममिति मुख्यं कर्म । देवदत्त इति प्रयोज्यं कर्म । तत्राख्यातादिः। कर्मण उक्तत्वात् प्रथमा । कर्ता तु तृतीयान्तोऽध्याहार्यः॥ (तत्त्वदी०)-द्विकर्मकाणां तु-गौणे कर्मणीत्यादि ॥ गौर्दुह्यत इति ॥ गौरिति गौणं कर्म ॥ अजेत्यादि ॥ अजाऽत्र प्रधानम् । निजेच्छयेति ॥ गौणप्रधानयोरात्मेच्छयेत्यर्थः॥ अन्येषामिति ॥ पूर्वोक्तव्यतिरिक्तानामित्यर्थः ॥ (अकर्मकाणां कालादिकर्मकाणां भावे कर्मणि च लकारः) मासं मासो वाऽऽस्यते देवदत्तेन । क्रोशःक्रोशं वाऽऽस्यते । कुरवः, करून् वाऽऽस्यते । गोदोहं गोदोहो वाऽऽस्यते ॥ ञ्यन्तात्तु प्रयोज्ये प्रत्ययः। मासमास्यते माणवकः ॥ इति भावकर्मप्रक्रिया ॥ (सुबोधिनी )-अकर्मकाणां कालादिकर्मकाणां भावे कर्मणि च लकारः॥कालादिकर्मकाद्धातोर्भावकर्मणोरर्थयोराख्यातो भवति ॥कारकं,अकर्मकधातुभियोगे इति सूत्रेण कर्मसंज्ञा येषां धातूनां कृता ते कालादिकर्मकाः । कालादिकर्मकस्य कर्मण्यात् । उदाहरणमाह-मास आस्यते इत्यत्र कालवाचिकर्मण आख्यातनोक्तत्वात्प्रथमा । कर्ता तु तृतीयान्तोऽध्याहार्यः॥ भावे तु मासमास्यते देवदत्तनेत्यत्र कर्मणोऽनुक्तत्वान्मासमिति द्वितीया । कर्तृरनुक्तत्वादेवदत्तेनेति कर्तरि तृतीया। ज्यन्ताकालादिकर्मकाद्धातोस्तु प्रयोज्यकर्मण्येवाख्यातादिः ॥ मासमास्यते माणवक इति । अत्र कालवाचिकर्मणोऽनुक्तत्वान्मासमिति द्वितीया । माणवक इति प्रयोज्यं कर्म । तत्राख्यातेनोक्तत्वात्प्रथमा । कर्तरि त्वनुक्तत्वात्तृतीया देवदत्तेनेति ॥ . इति सुबोधिन्यां भावकर्मप्रक्रिया ॥८॥ अथ कर्मकर्तृप्रक्रिया। यदा सौकर्यातिशयं द्योतयितुं कर्तृव्यापारो न विवक्ष्यते तदा कारकान्तराण्यपि कर्तृसंज्ञां लभन्ते ॥ साध्वसिश्छिनत्ति ॥ काष्ठानि पचन्ति ॥ स्थाली पचति ॥ पच्यते ओदनेन । अपाचि ॥ भिद्यते काष्ठेन । अमेदि ॥ लेनोक्ते कर्मकर्तरि यगादिणिण्वदिटः । पच्यते ओदनः । अपाचि । भिद्यते काष्ठम् । अभेदि ॥ (सुबोधिनी)सकलकारकाणामवान्तरव्यापारोवर्तते।सकलकारकाणामवान्तरव्यापारहीनस्याकारकत्वात्।तत्र स्वव्यापारे स्वातन्त्र्यं च व्यापारभेदाकाङ्क्षायां करणादिसंभवः। तत्र यदाकारकान्तराणां सौकर्यातिशयं द्योतयितुंप्रतिपादयितुं कर्तृव्यापारो वक्तुं नेष्यतेतदाकारकान्तराण्यपि कर्तृसंज्ञां प्राप्नुवन्ति स्वव्यापारे स्वतन्त्रत्वात् । सुष्ठु करोतीति Page #217 -------------------------------------------------------------------------- ________________ [ आख्याते कर्मकर्तृप्र० ] टीकाद्वयोपेता । ( १९७ ) सुकरस्तस्य भावः सौकर्यम् । कारकान्तराणां पूर्वं करणत्वादिसत्त्वेऽपि साम्प्रतं कर्तृसंज्ञाकरणात्कर्तर्याख्यातो भवति ॥ साध्वसिश्छिनत्तीत्यत्र करणस्य कर्तृसंज्ञा । आख्यातेन कर्तुरुक्तत्वादसिरित्यत्र प्रथमा ॥ काष्ठानि पचन्तीत्यत्रापि करणस्य कर्तृसंज्ञा । कर्तुराख्यातेनोक्तत्वात्काष्ठानीति प्रथमा ॥ स्थाली पचतीत्यत्राधारस्य कर्तृसंज्ञा । कर्तुराख्यातेनोक्तत्वात्स्थालीति प्रथमा ॥ कर्मणस्तु कर्तृत्वविवक्षायां प्राक् सकर्मका अपि प्रायेणाकर्मकाः ॥ कर्मणः सौकर्यातिशयं द्योतयितुं यदा कर्तृत्वविवक्षा ततः प्राक् सकर्मका अपि धातवोऽकर्मकाः प्रायेण भवन्ति । प्रायेणेत्युक्तत्वादेककर्मकाछिदिभिदिप्रभृतय एवाकर्मका भवन्ति न तु द्विकर्मकाः ॥ अकर्मकस्य फलमाहतेभ्यो भावे कर्तरि च लकारः । कर्मकर्तुरकर्मकाद्धातोर्भावे कर्तरि चार्थे आख्यातप्रत्ययो भवति । भावे आख्यातस्योदाहरणमाह- पच्यते ओदनेन भिद्यते काष्ठेनेत्यत्र कर्मणः कर्तृसंज्ञा। आख्यातस्तु भावे । कर्तुरनुक्तत्वादोदनेनेत्यादौ तृतीया ॥ कर्मकर्तर्याख्यातस्योदाहरणमाह-लेनोक्ते इत्यादि । कर्मवत्कर्मणा तुल्यक्रियः । कर्मस्थया क्रियया तुल्यक्रियः कर्ता कर्मवद्भवति । कार्यातिदेशोऽयम् । कर्मणो यत्कार्यं भवति तत्कर्मकर्तुरपीत्यर्थः । तेन यक् चतुष्विति यकू । आद्भुवीत्यात् । इण् तनीती‍ । स्वरान्तानामितीण्वदिट् इत्यादि कार्याणि कर्मकर्तरि भवन्ति ॥ काष्ठं भिनत्तीत्यत्र काष्ठस्था या विदारणाश्रयत्वरूपा क्रिया सैव काष्ठं भिद्यते स्वयमेवेत्यत्र तस्मिन्कभूतेऽपि भवति । अयं कार्यातिदेशः कर्मस्थभावकानां कर्मस्थक्रियाणां च धातूनां भवति न तु कर्तृस्थभावकानां कर्तृस्थक्रियाणां च धातूनां भवति । यत्र कर्मणि दृष्टे क्रियानुमातुं शक्यते ते कर्मस्थक्रियास्ततोऽन्ये कर्तृस्थक्रियाः । पक्केषु तण्डुलेषु भिन्नेषु च काष्ठेषु दृष्टेष्वदृष्टः कर्तृव्यापारोऽनुमीयते । तदुक्तं च- "कर्मस्थः पचतेर्भावः कर्मस्था च भिदेः क्रिया । आशासिभावः कर्तृस्थः कर्तृस्था च गमेः क्रिया ॥ * यद्यप्याधारभावयोरित्यत्र भावशब्देन क्रियाऽपि गृह्यते तथाप्यत्र भेदो विवक्षितः पृथगुपादानात् । परिस्पन्दरूपो धात्वर्थः छिदादिः क्रिया अपरिस्पन्दरूपो विक्लित्त्यादिर्भावः । पचत्योदनं भिनत्ति काष्ठं च देवदत्तः । पच्यते ओदनः भिद्यते काष्ठं स्वयमेवेत्यत्राख्यातेन कर्मकर्तुरुक्तत्वात्प्रथमा || कर्तृस्थक्रियाया उदाहरणमाह-आशास्ते घटं देवदत्तः । आशास्ते घटः स्वयमेव । गच्छति ग्रामं देवदत्तः । गच्छति ग्रामः स्वयमेवेत्यत्र घटग्रामयोर्दृष्टयोर्नहि देवदत्तस्य व्यापारोऽनुमातुं शक्यत इति कर्तृस्थत्वं क्रियायाः ॥ ( तत्त्वदी ० ) - यदा सौकर्यातिशयमित्यादि । अयमर्थः । सकलकारकाणामवान्तरव्यापारोऽस्ति । व्यापारहीनस्य कारकत्वाभावात् । स्वव्यापारे स्वतन्त्रत्वं सर्वत्रैव कारकेऽस्ति । व्यापारभेदाकाङ्क्षायां कारकत्वादिसंभवः । तत्र यदा कर्मणः सौकर्यातिशयप्रतिपादनाय कर्तृव्यापारो न विवक्षितस्तदा भिदादिकर्म व्यापारकारकमात्रे प्रवर्तते । व्यापारमात्रं प्रति च कर्तृत्वमेव काष्ठादीनाम् ॥ Page #218 -------------------------------------------------------------------------- ________________ (१९८) सिद्धान्तचन्द्रिका। [आख्याते कर्मकर्तृप्र० ] यदा करणत्वादिलेशोऽपि न तदा सकर्मकाणामप्यकर्मकत्वमेव। तत्र भावे कर्तरि च लकारः । कतरि तु लेनोक्ते इत्यादि। कर्मग्रहणात्साध्वसिरित्यादौन। यद्यपि काष्टादेरचे नतया कुठारोद्यमननिपातनादिकरणसम्बन्धेन भेदनादिकर्तृत्वमनुपपन्नं तथापि स्वधरँः प्रशि थेलावयवसंयोगनिस्सरणादिभिः कर्मकर्तृत्वमिति ध्येयम् । (सकर्मकाणां न)अजा ग्रामं नयति ॥ (सुबोधिनी) सकर्मकाणां न।सकर्मकधातूनां कर्मकर्ता कर्मवन्न भवति। अजा ग्रामं नयतीत्यत्र प्रधानकर्मणः कर्तृसंज्ञा । प्रधाने नीहृकृषवहामित्युक्तत्वात् । आख्यातेनोक्तत्वात्तत्र प्रथमा । इह प्रतिषेधाभावे यक स्यात् । क्रियाफलस्याकर्तृगामित्वेऽप्यात्मनेपदं स्यादित्यर्थः॥ (दुहिपच्योः सकर्मकयो) (सुबोधिनी )-दुहिपच्योः सकर्मकयोर्वा ॥ अनयोः कर्मकर्ता कर्मवद्वा भवति ॥ (दुहस्नुनमा कर्मकर्तरि यगिणौ न )गोः पयो दुग्धे,दोग्धिवा। (सुबोधिनी) दुहस्नुनमा कर्मकर्तरि यगिणी न॥ एभ्यो यगिणौ प्रत्ययौ न भवतः कर्मकर्तर्यर्थे । दुहेरनेन यक् निषिध्यते, इण तु विकल्पेन वक्ष्यते । गौः पयो दुग्धे इत्यत्र गौणकर्मणः कर्तृत्वविवक्षा । गौणे कर्मणि दुह्यादेरित्युक्तत्वात् ॥ (स्वरान्तानां कर्मकर्तरीण वा तनि) अकारि अकारिष्ट-अकृत कटः स्वयमेव ॥ (सुबोधिनी)-स्वरान्तानां कर्मकर्तरीण वा तनि॥ स्वरान्तेभ्यो धातुभ्यः इण् प्रत्ययो वा भवात कमेंकतेयेर्थे तनि परे ॥ स्वरान्तानां किम् । अमेदि काष्ठम् ।। कर्मकर्तरि किम् । अकारि घटः कुलालेन । कर्मकर्ता लुङ् यथा । अकारि घटः स्वयमेव । पक्षे लोपो ह्रस्वादिति सिलोपः । अकृत।। (दुहश्च) अदोहि-अधुक्षत-अदुग्ध॥ उदुम्बरः फलं पच्यते, पचति वा ॥ प्रस्तुते गौः । स्तुक्रमोराति नेट् ॥ प्रास्नाविष्टप्रास्नोष्ट ॥ नमते दण्डः। अनंस्त । (सुबोधिनी)-दुहश्च ॥ दुहेरिण प्रत्ययो वा वति कर्मकर्तर्यर्थे तनि परे ॥ कर्मकर्तरि किम् । अदोहि गौर्देवदत्तेन । कर्मकर्तरि लुङ् यथा । इणप्रत्यये अदोहिपक्षे हशषान्तादिति सक् । दुहदिहलिहगुहूभ्य इति सको वा लुक् । अधुक्षत-पक्षे अदुग्ध ॥ फलं पच्यते उदुम्बर इत्यत्र गौणकर्मण उदुम्बरस्य कर्तृसंज्ञा। गौणे कर्मणि दुह्यादेरित्युक्तत्वात् । तत्र कर्मवद्भावस्तेन यगादिण्वदिणिटो भवन्ति॥ष्णु प्रस्रवणे। Page #219 -------------------------------------------------------------------------- ________________ [ आख्याते कर्मकर्तृप्र०] टीकाद्वयोपेता । ( १९९) प्रस्रवणमुत्कण्ठा । वत्सो गां प्रस्नौति । उत्कण्ठयतीत्यर्थः ॥ गोः कर्मणः कर्तृत्वविवक्षायां प्रस्नुते गौः।लुङि स्वरान्तानां हनग्रहतीण्वदिट् । प्रास्नाविष्ट-पक्षे स्नुक्रमोरिति नेट । प्रास्नोष्ट ॥ नमते दण्ड इत्यत्र कर्मणः कर्तृसंज्ञा।आख्यातेनोक्तत्वात्तत्र प्रथमा। लुङि अनंस्त । अत्र कर्मकर्तर्यात्मनेपदमेव जातम् । अत्र चअन्तर्भावितञ्यों बोध्यः॥ (सृजेः श्रद्धोपपन्ने कतरि वा) सृज्यते स्रजं भक्तः । असर्जि ॥ (सुबोधिनी)-सृजेः श्रद्धोपपने कर्तरि वा ॥ सकर्मकस्य सृजेः कर्ता कर्मवद्वा भवति श्रद्धायुक्ते कर्तर्यर्थे । सृज्यते स्रजं भक्त इत्यत्र कर्ताख्यातादिः। कर्तुः कवद्भावादाद्यगिणो भवन्ति । श्रद्धया निष्पादयतीत्यर्थः ॥ (युजेर्वा) युज्यते ब्रह्मचारी योगम् । युनक्ति वा ॥ (सुबोधिनी)-युजेर्वा ॥ सकर्मकस्य युजेः कर्ता कर्मवदा भवति । युज्यते योगं ब्रह्मचारीत्यत्र कर्ताख्यातः । कर्तुः कर्मवद्भावादाद्यगिणः । तपस्तपःकर्मकस्य । तपःकर्मकस्य तपेः कर्ता कर्मवद्भवति । तप्यते तपस्तापस इत्यत्र कर्तर्याख्यातः। कर्तुः कर्मवद्भावादात्मनेपदादिः । अर्जयतीत्यर्थः। लुङि तपो नेणित्यनेनेण्न । अतप्त । (भूषावाचिनां किरादीनां सान्तानां च गाणण्वदिटो न) अलंकुरुते कन्या । अलमकृत ॥ अवकिरते हस्ती । अवाकरीष्टअवाकारिष्ट-अवाकीट ॥ अवगिरते पुष्मम् । अवागीट ॥ आद्रियते दानम् । आहत ॥ ध्रियते । अधृत ॥ पृच्छते । अप्रष्ट ॥ चिकीर्षते कटः । चिकीर्षाश्चक्रे । चिकीर्षांबभूवे । अचिकीर्षिष्ट ॥ _(सुबोधिनी)-भूषावाचिनां किरादीनां सान्तानां च यगिणिण्वदिटो न ॥ भूषार्थेभ्यः किरादिभ्यः सप्रत्ययान्तेभ्यश्च धातुभ्यः कर्मकर्तरि यगिणिण्वदिटो न भवन्ति । आत्मनेपदमेव भवतीत्यर्थः॥ तुदाद्यन्तर्गणः किरादिः कृ विक्षपे। ग़ निगरणे । दृङ् आदरे । धृ अवस्थाने । प्रच्छ ज्ञीप्सायामिति पञ्चकः ॥ अलंकुरुते कन्येत्यत्र कर्मणः कर्तृसंज्ञा। आख्यातेनोक्तत्वादत्र प्रथमा। एवमग्रेऽपि ज्ञेयम् । तुदादेरित्यः। ऋत इतीर ।अवकिरते।लुङि । वृ ऋदन्तान्सिस्योरिति वेट् । अवाकरिष्ट । वृवृऋदन्तानामिति वा दीर्घः । अवाकरीष्ट । ईडभावे उरित गुणो न । ऋत इतीर । पुनः सिस्योरिति गुणो न अवाकीट ॥ एवं गृ ॥ तुदादेरित्यप्रत्यये अयकीति रिङ् । ततो नुधातारितीय । आद्रियते । लुङि उरिति गुणो न । लोपो हस्वादिति सिलोपः। आदृत ॥ एवं धृ । तुदादेरित्यप्रत्यये ग्रहामिति संप्रसारणम् । पृच्छते । लुङि छशषेति षत्वम् । झसादिति सिलोपः। अप्रष्ट ॥ चिकीर्षते कट इत्यत्र कर्मणः कर्तृसंज्ञा । आख्यातेनोक्तत्वात्तत्र प्रथमा।लुङि सिसतेतीद। यत इत्यल्लोपः। अचिकीर्षिष्ट । Page #220 -------------------------------------------------------------------------- ________________ (२००) सिद्धान्तचन्द्रिका । [ आख्याते कर्मकर्तृप्र० ] (जिश्रिब्रूझश्रन्थिग्रन्थ्यादकर्मकाणां यगिणौ न ) कारयते कटः स्वयमेव । कारिषीष्ट । अचीकरत ॥ उच्छ्रयते दण्डः। उदशिश्रियत । ब्रत कथा । अवोचत ॥ श्रन्थते । अअंथिष्ट ॥ ग्रन्थते ग्रन्थः । अग्रन्थिष्ट ॥ विकुर्वते सैन्धवाः ॥ व्यकारिष्ट । व्यकृत ॥ (सुबोधिनी०)-निधिबेश्रन्थिग्रन्थ्यादकर्मकाणां यगिणी न॥जिप्रत्ययान्तेभ्यः श्रिश्रन्थिग्रन्थिभ्यः आत्मनेपदविधावकर्मकेभ्यश्च धातुभ्यो यगिणी न भवतः कर्मकर्तर्यर्थे । आदिण्वदिटौ भवत इत्यर्थः ॥ कारयते घट इत्यत्र ज्यन्ताकर्मकर्तर्याख्यातः । तत्रोक्तत्वात्प्रथमा। लुङि येराङत्यङ् । द्वित्वे अङि लघावित्युपधाह्रस्वः पूर्वस्येकारश्च । लघोरिति पूर्वदर्घिः । बेरिति त्रिलोपः। अचीकरत ॥ उच्छ्रयते दण्ड इत्यत्र कर्मकर्तर्याख्यातः । अप् कर्तरीत्यप् । लुङि श्रिवद्रभ्य इति ङः। द्वित्वे नुधातोरतीय । उदशिश्रियत ।ब्रूते कथेत्यत्र कर्मणः कर्तृसंज्ञा। आख्यातेाक्तत्वात्तत्र प्रथमा । लुङि ब्रुवोऽनपीति वच् । अस्यतिवक्तीति ङः। डे वचरित्युमागमः। अवोचत॥श्रन्थिग्रन्थ्योश्चौरादिकयोरभावपक्षे श्रन्थते, ग्रन्थते ग्रन्थ इत्यत्र कर्मणः कर्तृत्वविवक्षा । तत्राख्यातेनोक्तत्वात्प्रथमा। लुङि अश्रन्थिष्ट । अग्रन्थिष्ट ।यादिकयोस्तु श्रथ्नीते ग्रथ्नीते च मेखला स्वयमेव ॥ आत्मनेपदविधौ योऽकर्मकस्तमुदाहरति । विकुर्वते सैन्धवा इत्यत्राकर्मकाच्चेत्यनेनाद्विधानम् । आख्यातेनोक्तत्वात्कर्मकर्तरि प्रथमा भवतीत्यर्थः ॥ लुङि इण्वदिटि व्यकारिष्ट, व्यकारिषाताम्, व्यकारिषत । इण्वदिडभावे लोपो ह्रस्वादिति सिलोपः । व्यकृत । व्यकृषाताम्। व्यकृषत ॥ (तत्त्वदी०)-जीत्यादि ॥ श्रन्थिग्रन्थ्योर्डरभावे ग्रहणम् । आदित्यात्मनेपदिनो ग्रहण न वादन्तस्य । आत्मनेपदविधौ योऽकर्मकस्तमुदाहरति । विकुर्वते सैन्धवा इति ॥ (कुषिरोः कर्म कर्तरिवा तिबादौ ) कुष्यति, कुष्यते वा पादः। अकोषि ॥ रज्यात रज्यते वा वस्त्रम् । अरञ्जि ॥ इति कर्म कर्तृप्रक्रिया ॥ (सुबोधिनी)-कुषिरोः कर्मकर्तरि वा तिबादा॥कुषिरनिभ्यामुभयपदं भवति कर्मकर्त्तर्यर्थ तिबादिचतुष्टये परतः।अनपि त्वात्मनेपदमेव भवति ।कुष निष्कर्षे । यादिकः । रञ्ज रागे । देवादिकः ॥ कुष्यति, कुष्यते वा पाद इत्यत्र कर्मणः कर्तृत्वविवक्षायामाख्यातः । कर्तुः कर्मवद्भावादात्मनेपदादिः । लुङि इणतनीतीण् । अकोषि । रज्यति, रज्यते वा वस्त्रमित्यत्रापि कर्मकर्तर्याख्यातः।तत्राख्यातेनोक्तत्वात्प्रथमा। लुङि अरञ्जि, अरङ्क्षाताम्, अरङ्क्षत । इह कर्मकर्तृप्रकरणे भिद्यते काष्ठं स्वयमेवेत्यादि Page #221 -------------------------------------------------------------------------- ________________ [ आख्याते लकारार्थप्र० ] टीकाद्वयोपेता । ( २०१) सर्वत्र स्वयंशब्दः करणार्थको ज्ञयः । आत्मना करणेनेत्यर्थः । कर्त्रर्थे तु कर्मण्याख्यातः स्यादित्यर्थः ॥ इति सुबोधिन्यां कर्मकर्तृप्रक्रिया ॥ (तत्त्वदी०) कृतायामिह टीकायां लोकेशकरशर्मणा । बाधनं दुष्टबुद्धीनामगाद्भावादिसाधनम् ॥ इति तत्त्वदीपिकायां कर्मकर्तृप्रक्रिया ॥ ९ ॥ अथ लकारार्थप्रक्रिया | ( स्मृतिवाचिन्युपपदे भूतानद्यतने धातोर्लट् लङोऽपवादः ) स्मरसि कृष्ण गोकुल वत्स्यामः ॥ (सुबोधिनी) - स्मृतिवाचिन्युपपदे भूतानद्यतने धातोर्लट् ॥ धातोर्लड् भवति स्मृतिवाचकशब्दे उपपदे सति न लङ् ॥ वत्स्यामः । वयमवसाम इत्यर्थः ॥ एवं बुध्यसे चेतयसे इत्यादियोगेऽपि ॥ (तत्त्वदी ० ) - स्मृतिवाचिनीत्यादि ॥ स्मृतिवाचिनीत्युक्तेर्बुध्यसे चेतयसे इत्यादियोगेऽपि न भवति। एषामपि प्रकरणादिना स्मृतिवाचित्वात् ॥ स्मरसीत्यादि ॥ अत्र पश्य मृगो धावतीतिवाक्यार्थस्य कर्मता बोध्या ।। ( यद्योगे उक्तं न ) अभिजानासि कृष्ण यद्वनेऽभुमहि ॥ (सुबोधिनी ) - यद्योगे उक्तं न॥स्मृतिवाचकशब्दे उपपदे सत्यपि यच्छब्दयोगे भूतानद्यतने लुटू न भवति किं तु लडेव ॥ (तत्त्वदी०) - अभीत्यादि ॥ अत्र लडेव न तु ऌट् ॥ ( उत्तमपुरुषे चित्तविक्षेपादिना पारोक्ष्यम् ) सुप्तोऽहं किल विललाप ॥ (सुबोधिनी ) - उत्तमपुरुषे चित्तविक्षेपादिना पारोक्ष्यम् ॥ मदस्वमादिभिः कश्चित्स्वान्तगतमेव न वेत्ति, पश्चादन्येभ्यः श्रुत्वा प्रयुङ्क्ते । किलशब्दोऽज्ञानसूचकः t सुप्तः सन्नहं विललापेति ॥ (तत्त्वदी०) उत्तमपुरुषेत्यादि । अत्र यद्यपि बुद्धीन्द्रियशरीरादिसंघातरूपस्य कर्तुरात्मनः प्रत्यक्षतैव तथापि मदस्वप्नादिभिश्च विक्षिप्ते चित्ते कश्चित्स्वगतमेव न वेत्ति पश्चादन्येभ्यः श्रुत्वा प्रयुङ्क्ते सुप्तोऽहमित्यादि । किलेत्यज्ञानं सूचयति ॥ ( अत्यन्तापह्नवे लिट् ) कलिङ्गेष्ववात्सीः । नाहं कलिगाञ्जगाम ॥ (सुबोधिनी) - अत्यन्तापह्नवे लिट् ॥ अत्यन्तापलापेऽर्थे लिड् भवति ॥ कलिङ्गो नाम निषिद्धो देशः । उक्तं च- "अङ्गवङ्गकलिङ्गेषु सौराष्ट्रमगधेषु च । तीर्थयात्रां विना गत्वा पुनः संस्कारमर्हति ॥” इति ॥ केनचित्कश्चित्पृष्टः त्वं कलिङ्गेषु अवात्सीः तत्र Page #222 -------------------------------------------------------------------------- ________________ (२०२) सिद्धान्तचन्द्रिका। [ आख्याते लकारार्थप्र० ] गत्वा त्वया चिरं स्थितामत्यर्थः। स आह नाहं कलिङ्गान् जगामेति। केवलमवस्थानमेव न निषिध्यते किंतु तद्धेतुभूतं गमनमपीत्यत्यन्तापह्नवो भवति ॥ (तत्त्वदी०)अत्यन्तापह्नव इति ॥ अपह्नवोऽपलापः ॥ नाहमित्यादि॥ कलिङ्गस्य तु जुगुप्सितत्वेन तत्र त्वया चिरं स्थितमित्युक्तः कश्चिद्गमनमेव निषेधतीत्यत्रास्त्यत्यन्तापह्नवः । यदा तु गमनमेवायुक्तं तदेवापलपति तदा लडेवात्यन्तापह्नवाभावात् ॥ (हशश्वतोलिडिषये ललिटौ) इति हाकरोत, चकार वा । शश्वदकरोत्, चकार वा॥ ( सुबोधिनी)-हशश्वतोलिद्विषये ललिटौ। हशश्वन्निपातयोोंगे लिडर्थे ललिटौ भवतः। (आसन्नकाले पृच्छयमानेऽर्थे ललिटौ) अगच्छत् किम् । जगाम किम् । अनासन्ने तु कंसं जघान किम् ॥ (सुबोधिनी)-आसन्नकाले पृच्छयमानेऽर्थे ललिटौ॥ आसन्नकालिके भूतानद्यतनपरोक्षवृत्तिधात्वर्थे प्रष्टव्ये ललिटौ भवतः। पञ्चवर्षाभ्यन्तर आसन्नकालः। पश्चवर्षातीतो विप्रकृष्टकालः ॥ पृच्छयमाने किम् । जगादेवम् । लिडेव॥ अनासन्ने तु लिडेव । कंसं जघान किम् ॥ (तत्त्वदी०)-आसन्नेत्यादि॥पञ्चवर्षाभ्यन्तरमासन्नकालम् ,पञ्चवर्षातीतं विप्रकृष्टकालं वर्णयन्ति॥ (स्मे लट् लिटोऽपवादः) यजति स्म युधिष्ठिरः॥ ( भूतानद्य तने लट् स्मयोगे) एवं स्म पिता ब्रवीति ॥ __ (सुबोधिनी)-स्मे लट॥स्मयोगे लड भवाति, न तु लिट् । स्मेत्यव्ययं भूतकालद्योतकम् । भूतानद्यतने लट्स्म योगे । लङोऽपवादः॥ब्रवीति स्म।अब्रवीदित्यर्थः॥ (ननौ पृष्टप्रतिवचने भूते लट्)अकार्षीःकिम्।ननु करोमिभोः॥ (सुबोधिनी) ननौ पृष्टप्रतिवचने भूते लट् ॥ पृच्छयते इति पृष्टः । कर्मणि क्तः। पृष्टस्य प्रतिवचनं पृष्टप्रतिवचनमिति पष्ठीसमासः । भावे क्तप्रत्यये तु पृष्टं प्रश्नः। पृष्टपूर्व च तत्प्रतिवचनं च पृष्टप्रतिवचनमिति मध्यमपदलोपी समासः । ननु करोमि । अकार्षमित्यर्थः ॥ (तत्त्वदी०)-ननाविति ॥ पृष्टेति कर्मणि क्तः । पृष्टस्य प्रतिवचनं पृष्टप्रतिवचनमिति षष्ठीसमासः । भावे तु पृष्टं प्रश्नस्तत्पूर्व प्रतिवचनमित्युत्तरपदलोपी समासः ।। (नन्वोर्वा) अकार्षीः किम् । न करोमि । नाकार्षम् । अहं नु करोमि । अहं न्वकार्षम् ॥ Page #223 -------------------------------------------------------------------------- ________________ [ आख्याते लकारार्थप्र० ] टीकाद्वयोपेता। (२०३) (सुबोधिनी)-नन्वोर्वाननुनिपातयोोंगे पृष्टपतिवचने भूते वा लङ् भवति । पक्षे लुङ्लिटौ॥ (पुराशब्दयोगे भूतानद्यतने वा लुङ्लटौ न तु स्मयोगे) वसन्तीह पुरा छात्राः, अवात्सुः, अवसन्, ऊषुर्वा ॥ स्मेति किम् । यजति स्म पुरा युधिष्ठिरः॥ (सुबोधिनी)-पुराशब्दयोगे भूतानद्यतने वा लुङ्लटौ न तु स्मयोगे॥ पक्षे ललिटौ ॥ स्मेति किम् । यजति स्म पुरा युधिष्ठिरः॥ ( यावत्पुरानिपातयोर्भविष्यति लट् )यावद्भुङ्क्ते । पुरा भुङ्क्त। भोक्ष्यसे, भोक्ता, वा ॥ ( कदाको भविष्यति लट्) कदा कर्हि वा भुक्ते, भाक्ष्यसे, भोक्ता वा ॥ (सुबोधिनी)-यावत्पुरानिपातयोर्भविष्यात लट्र ॥ यावद्भक्ते । निश्चितं भोक्ष्यत इत्यर्थः ॥ निपातावेतौ निश्चयं द्योतयतः ॥ निपातयोः किम् । यावद्दास्यते. तावद्भोक्ष्यते । करणभूतया पुरा यास्यात ॥ (वर्तमानसामीप्ये भूते भविष्यति च वर्तमानवद्वा)कदाऽऽगतोऽसि । अयमागच्छामि, अयमागमम् । कदा गमिष्यसि । एष गच्छामि, गमिष्यामि वा ॥ (सुबोधिनी)-वर्तमानसामीप्ये भूते भविष्यति च वर्तमानवद्वा॥ कदाऽऽगतोऽसीति भूतकाले प्रश्नवाक्यम्। अयमागच्छामीत्युत्तरंभूतकालाभिव्यक्तये। अयमिति प्रयोगस्त्विदानीमेवागममिति वर्तमानसमीपभूतकालद्योतनायोतेन ह्यागमना' दिना भूतं रूपं यदलीधूसरताप्रस्वेदादियुक्तं तत्प्रतिनिर्दिश्यते। एवं कदा गमिष्यसीति भविष्यत्काले प्रश्नवाक्यम् । एष गच्छामीत्युत्तरं भविष्यत्कालाभिव्यक्तये । एष इति. प्रयोगस्त्विदानीमेव गमिष्यामीति वर्तमानसमीपभविष्यत्कालद्योतनाय। तेन हि गमनेन विना भूतं यत्परिकरबन्धादियुक्तं तत्प्रतिनिर्दिश्यते । तत्र कदेति प्रश्न उत्तरवाक्ययोः कालानुपादानादयमेषशब्दाभ्यामिदानीमिति कालावगमः ॥ (तत्त्वदी० )-अयमागच्छामीत्यादि ॥ अयमेषपदाभ्यामागमनादिना भूतं यद्रूपं प्रस्वेदादियुक्तं तत्प्रतिनिर्दिश्यते । इदानीमागममित्यर्थः ॥ (क्षिप्रवचने लुटू ) वृष्टिश्चेत्क्षिप्रमाशु त्वरितं वा यास्यति तदा शीघ्रं वप्स्यामः॥ ( सुबोधिनी )-क्षिप्रवचने लट्रवचनग्रहणं स्वरूपग्रहणनिरासार्थम्। क्षिप्रपर्याय उपपदे लूट ॥ Page #224 -------------------------------------------------------------------------- ________________ (२०४) सिद्धान्तचन्द्रिका। [ आख्याते लकारार्थप्र० । (तत्त्वदी०)--क्षिप्रेति ॥ क्षिप्रपर्यायस्यापि ग्रहणं न तु स्वरूपस्यैव ॥ (गर्हायां लडपिजात्वोः कालत्रये) अपि जायां त्यजसि । जातु गणिकामाधत्से ॥ ___ (सुबोधिनी)-गर्हायां लडपिजात्वोः कालत्रये॥आभ्यां योगे लट् स्याद्ग हयां कालत्रये । परत्वाल्लङादीनयं बाधते ॥ अपि जयां त्यजसि । त्यक्ष्यसि, अत्याक्षीः इत्यादिविषये त्यजसीत्यादि लडेव प्रयुज्यत इति भावः॥ एवं यो जायामत्यजत्, तत्याज, त्यक्ष्यति, अत्याक्षीदित्यादिविषय यो जायामपि त्यजति, जातु गणिकामाधत्ते गर्हितमेतत् ।। (तत्त्वदी०)--जातु गणिकामिति । गर्हितमेतत् ॥ (वा कथमि लिङ्लटौ गर्दायां कालत्रये) कथं धर्म त्यजेस्त्यजसि वा ॥ (सुबोधिनी)-वा कथमि लिङ्लटो गायां कालत्रये॥पक्ष ललिटुलुट्लुलुङ्लुङः । भूतानद्यतने लङ् । कथं धर्ममत्यजः। परोक्षानद्यतने भूते लिट् । कथं धर्म तत्यक्थ । भविष्यत्यनद्यतने लुट् । कथं धर्म त्यक्तासि । भविष्यत्सामान्ये लृट् । कथं धर्म त्यक्ष्यसि । क्रियातिक्रमणे लुङ् । कथं धर्ममत्यक्ष्यः। भूतसामान्ये लुङ् । कथं धर्ममत्याक्षीः ॥ (जातुयद्यदायदियोगे लिङ् लुटोऽपवादः) जातु यढ़ यदा यदि वा त्वादृशो हरिं निन्देत् नावकल्पयामि, न मर्षयामि ॥ (सुबोधिनी)--जातुयद्यदायदियोगे लिङ्लूटोऽपवादः॥अनवक्लप्त्यमर्षयोलिङ् स्यादेषां योगे । अनवक्लप्तिरसम्भावना । अमर्षोऽक्षमा लटोऽपवादः, लङ तु क्रियानिष्पत्तौ भूते वा, भविष्यति तु नित्यमित्यर्थः ॥ जातु भवान् हरिमनिन्दिष्यदित्यायुदाहर्तव्यम् । अगस्यामिदम्, गर्दायां तु जातुयांगे लडुक्तः ॥ __ (तत्त्वदी०)-नावकल्पयामीत्यादि ॥ अनवक्लप्तिरसंभावना ॥ अमर्षोऽक्षमा ।। उताप्योर्बाढार्थयोलिङ् ॥ समर्थयोरनयोलिङ् कालत्रये ॥ उन अपि वा हन्यादघं हरिः॥ बाढार्थयोरिति किम् । उत दण्डः पतिष्यति । अपिधास्यति द्वारम् ॥ (सुबोधिनी)-उताप्यो ढार्थयोलिनासमर्थयोरनयोोंगे लिङकालत्रये।। बाढार्थयोः किम् । उत दण्डः पतिष्यति । अपिधास्यति द्वारम् । अत्र प्रश्न आच्छादनं च गम्यते ॥ (तत्त्वदी०) समर्थयोरिति ॥ समोऽर्थों ययोस्तौ तयोः । हलादित्वाहिलोपः । सम्शब्द एव वा तुल्यार्थे । बाढमित्यर्थेऽनयोस्तुल्यार्थता। उत दण्ड इत्यादि ॥ प्रश्न आच्छादनं चार्थः।। Page #225 -------------------------------------------------------------------------- ________________ [ आख्याते लकारार्थप्र० ] टीकाद्वयोपेता । (२०५) (स्वाभिप्रायाविष्करणे गम्ये लिङ् कालत्रये न तु कच्चिति) कामो मे भुञ्जीत भवानिति ॥ न तु कच्चितीति किम् । कच्चिज्जीवति मे माता ॥ (सुबोधिनी) स्वाभिप्रायाविष्करणेगम्ये लिङकालत्रये न तुकञ्चिति॥ सर्वलकारापवादः॥ न तु कच्चितीति किम् । कामो मे कच्चिज्जीवति । वर्तमान-- सामीप्ये इति लट् ॥ (हेतुहेतुमतोभविष्यति लिड वा ) कृष्णं नमेच्चत्सुखं यायात् । कृष्णं नस्यति चेत्सुखं यास्यति ॥ (सुबोधिनी) हेतुहेतुमतोभविष्यति लिङवा ॥ हेतुः कारणम्। हेतुमत्फलम् । पक्षे लट । कृष्णं नमेच्चेत्सुखं यायात् । कृष्णनतिः सुखप्राप्तेर्हेतुः । भविष्य- . त्येवेष्यते । नेह हन्तीति पलायते ॥ .( तत्त्वदी० ) हेतुहेतुमतोरिति ॥ हेतुः कारणम् । हेतुमत्फलम् ॥ कृष्णमित्यादि । नमनमात्रं हेतुः । सुखप्राप्तिः फलम् ॥ __(इच्छार्थेषु लिङ्लोटौ कामप्रवेदने ) इच्छामि भुञ्जीत, भुक्तां वा भवान् ॥ (सुबोधिनी)-इच्छार्थेषु लिङ्लोटौ कामप्रवेदने ॥ काम इच्छा तस्य प्रवेदनं प्रकाशनं तस्मिन्नर्थे ॥ (तत्त्वदी० (-कामप्रवेदन इति ॥ काम इच्छा । प्रवेदन प्रकाशनम् ॥ (इच्छार्थेभ्यो लिङ्लटौ वर्तमानेऽर्थे ) कामयेत । कामयते ॥ (सुबोधिनी )--इच्छार्थेभ्यो लिङ्लटौ॥ वर्तमाने इति शेषः । इच्छ:ऽर्थो येषां ते इच्छार्थास्तेभ्यः । तेन वश कान्तावित्यादयोऽपीच्छार्था ग्राह्याः॥ (तत्त्वदी) इच्छार्थेभ्य इति ॥ इच्छा अर्थो येषां ते इच्छार्थाः । तेन वश कान्तौ इत्यादयोऽपीच्छार्था ग्राह्याः ॥ (पौनःपुन्ये भृशार्थे च धातार्लोद सर्वलकारविषये तस्य हिस्वौ सर्वतुबादिविषये तध्वमोर्विषये वा क्रियासमभिहारे द्वित्वं तस्यैव धातोरनुप्रयोगश्च ) (सुबोधिनी)-पौनःपुन्ये भृशार्थे च धातोर्लोट सर्वलकारविषये तस्य हिस्वौ सर्वतुबादिविषये तध्वमोविषये वा।पौनःपुन्यं भृशार्थश्च धातोरेवार्थः। लोट् द्योतक इति भावः॥किं च तुवादीनामादेशत्वेऽपि तेषां स्थाने विहितस्य हे स्थानिवद्भावेन पित्त्वात्। ङिच्च पिन्न पिच्च डिन्न'इति भाष्योक्तत्वात ङित्त्वाभावेलुनीही Page #226 -------------------------------------------------------------------------- ________________ (२०६) सिद्धान्तचन्द्रिका। [आख्याते लकारार्थप्र०] त्यत्र ईहसे इतीत्वं न स्यात् तृण्ढि इत्यत्र तु तृहो नमि कृते, इमागमः पितीतीमागम तृणेढि इति च स्यात् । अतो लोटो हिस्वावित्युक्तम् । सकलपुरुवचनविषये परस्मै। पदिभ्यो हिः कर्तरि। आत्मनेपदिभ्यः स्वो भावकर्मकर्तृषु।क्रियासमभिहारे इति द्वित्वम्। यस्माद्धातोलॉड्डिहितस्तस्यैव धातोरनुप्रयोगश्च कर्तव्यः ।अनुप्रयोगाद्यथायथं लडादय.. स्तिवादयश्च कर्तव्याः।ततः संख्याकालयोः पुरुषविशेषार्थस्य चाभिव्यक्तिर्भवति।अत्र लोडन्तीवषय संख्याकारकादीनां स्वान्तादप्रतीतिस्तद्धोधनायानुप्रयोगो न्यायत एव। याहि याहीति याति, यातः यान्ति। यासि । पुनःपुनरतिशयेन वा यानं हिप्रत्ययान्तस्यार्थः । एककर्तृकं वर्तमानं यानं यातीत्यस्यार्थः ॥ इतिशब्दस्त्वभेदान्वये तात्पर्य ग्राहयति । मध्यमपुरुषबहुवचने तशब्दे तु यात यातेति यूयं याथ । पक्षे याहि याहीति यूयं याथ । एवं भूतभविष्यतोरप्युदाहरणम् । याहि याहीति यास्यति । याहि याहीत्ययासीत् । मध्यमपुरुषबहुवचने ध्वशब्दे तु अधीध्वमधीध्वमिति यूयमधीध्व।पक्षे अधीवाधीष्वेत्यधीष्व । भावकर्मणोस्तु भूयस्व भूयस्वेति भूयतेोपच्यस्व पच्यस्वति पच्यते। गद्यस्वगद्यस्वेति गद्यते । भज्यस्वभज्यस्वोत भज्यते । इत्यादि ज्ञेयम् ॥ (तत्त्वदी०)-पौनःपुन्ये भृशार्थे चेति ॥ पुनःपुनर्भावः पौनःपुन्यम् । भृशार्थोऽतिशयार्थः । एतद्विशिष्टक्रियावचनाद्धातोरित्यर्थः ॥ क्रियासमभिहारे द्वित्वमिति॥पौनःपुन्ये भृशार्थे चेत्यर्थः॥परस्मैपदिभ्यो हिः कर्तरि, आत्मनेपदिभ्यः स्वः भावकर्मकर्तृषु सकलपुरुषवचनविषये। याहि याहीतियातीति॥ पुनःपुनरतिशयेन वा यानं लोडन्तस्यार्थः।एककर्तृकं वर्तमानंयानं तिबन्तस्य । कालपुरुषविशेषाभिव्यक्तिः सर्वत्र तु प्रयोगादेव बोध्या। इतिशब्दोऽभेदान्वयद्योतकः भविष्यद्भूतयोरप्युदाहरति ॥ यास्यतीत्यादि ॥ स्वमुदाहरति ॥ अधीष्वेत्यादि । (अनेकक्रियासमुच्चये वा लोट् तस्य हिस्वौ तध्वमोर्विषये वा) समानार्थस्य धातोरनुप्रयोगात्तिबादयः। याहि याहीति याति । एवं यातः, यान्ति । यासि, याथः, याथ । यात यातेति । यूयं याथ । यामि । यावः । यामः । याहियाहीति यास्यति । अयासीत् ॥ अधीष्वाधीष्वेत्यधीते । एवमन्यत्रापि । ध्वंविषये प्राग्वत् । पक्षे अधीध्वमधीध्वमिति यूयमधीध्वे ॥ सक्तून् पिब, धानाः खादेत्यभ्यवहरति । पिबत खादतेत्यभ्यवहरथाअन्नं भुक्ष्व, दाधिकमास्वादयस्वेत्यभ्यवहरते । भुङ्ग्ध्वमास्वादयध्वमित्यभ्यवहरध्वे ॥ इति लकारार्थप्रक्रिया ॥ इत्याख्यातप्रक्रिया ॥ (सुबोधिनी)-अनेकक्रियासमुच्चये तु वा लोट् तस्य हिस्वौ तध्वमोविषये वा ॥समानार्थस्य धातोरनुप्रयोगात्तिबादयः ॥ चिनोतेर्भाव स्वराद इत्यप्रत्यये कृते समुच्चीयते इति समुच्चयः । अस्मिन् सूत्रे पौनःपुन्ये भृशार्थ चेत्यननुवर्तनादित्वमकृत्वैवोदाहरति सक्तून्पिवेत्यादि।तध्वमोस्तु पिबत खादतोत यूयमभ्यवहरथा पक्षे Page #227 -------------------------------------------------------------------------- ________________ [ आख्याते लकरार्थप्र०] टीकाद्वयोपेता । (२०७) पिव खादोत यूयमभ्यवहरथ । भुङ्ग्ध्वमास्वादयध्वमिति यूयमभ्यवहरध्वम् । पक्ष भुक्ष्व, आस्वादयस्वेति यूयमभ्यवहरध्वम् । लोडभावपक्षे सक्तून् पिबति । धानाः खादति । अन्नं भुङ्क्ते । दाधिकमास्वादयते । 'धाना भृष्टयवे स्त्रियाम् ।' इत्यमरः ।। दध्ना संस्कृतं दाधिकं व्यञ्जनादि । एतेन 'पुरीमवस्कन्द लुनीहि नन्दनं मुषाण रत्नानि हरामराङ्गनाः । विगृह्य चक्रे नमुचिद्विषा बली य इत्थमस्वास्थ्यमहदिवं दिवः" इति व्याख्यातम् । अवस्कन्दनलवनादिरूपा भूतानाद्यतनपरोक्षा एककर्तृका अस्वास्थ्यक्रियेत्यथात् । इह पुनःथुनश्चस्कन्देत्यादिरर्थ इति तु व्याख्यानं भ्रममूलकमेव ॥ द्वितीयसत्रे क्रियासमभिहारे इत्यस्याननुवृत्तेः, लोडन्तस्य द्वित्वापत्तेश्च । पुरीमवस्कन्देत्यादि मध्यमपुरुषैकवचनमित्यपि केषांचिद् भ्रम एव । पुरुषवचनसंज्ञ इह नेत्युक्तत्वात् ॥ इति सुबोधिन्यां लकारार्थप्रक्रिया ॥ बुद्धिमान्द्यवशात्किंचिद्यदशुद्धमलेखि तत् । द्वेषभावं समुत्सृज्य शोधनीयं मनीषिभिः ॥ इति श्रीसिद्धान्तचन्द्रिकाव्याख्यायां सदानन्याख्यायामाख्यातप्रक्रिया समाप्ता। (तत्त्वदी० )-सक्तून् पिबेत्यादि ॥ सक्तून् पिब सक्तुपानादिकं करोतीत्यर्थः । एवं पुरीमवस्कन्द लुनीहि नन्दनमित्यादि व्याख्येयम् । अवचस्कन्द लुलावेत्यादि । यत्तु वासुदेवादिभिरतिशयेन पुनःपुनर्वाऽवचस्कन्देत्यादि व्याख्यातं तदसत् । अनेकक्रियासमुच्चये क्रियासभिहारेऽस्यानुक्तेः, लोडन्तद्वित्वापत्तेश्च ॥ इति तत्त्वदीपिकायां लकारार्थप्रक्रिया ॥ १० ॥ ____ कृतायामिह टीकायां लोकेशकरशर्मणा । अगादगाधबुद्धीनां कृतमाख्यातसाधनम् ॥ इति श्रीलोकेशकरविरचितायां सिद्धान्तचन्द्रिकाव्याख्यायां तत्त्वदीपिकायामाख्यातप्रक्रिया संपूर्णा । इत्याख्यातप्रक्रिया समाप्ता ॥ Hin : Page #228 -------------------------------------------------------------------------- ________________ अथ पूर्वकृदन्तप्रक्रिया। --- --- कृत्करि ॥वक्ष्यमाणाः प्रत्ययाः कृत्संज्ञकास्ते च कर्तरि भवन्ति॥ सुबोधिनीप्रतोष्टूय्य जगन्नाथं सदानन्देन स मुदा ॥ सिद्धान्तचन्द्रिकावृत्तिः क्रियते कृत्प्रकाशिका ॥१॥ कृत्कार ॥ उत्सर्गतः कर्तरीति बोध्यम् ॥ (तत्त्वदीपिका )-कृत्कर्तरीति ॥ उत्सर्गतः कर्तरी ते बोध्यम् ॥ तृणौं ॥धातोः । पक्ता ॥ ( सुबोधिनी)-तृवुणौ ॥धातोरेतौ स्तः॥ कर्तरितप्रत्ययमाह--पचतीति विग्रहे चोः कुरिति कः। कृत्तद्धितेति नामसंज्ञायां स्यादिविभक्तः । सेरा इति सेरात्वं टिलोपश्च । पक्ता पाकानुकूल कृतिमान्देवदत्त इत्यर्थः । (तत्त्वदी०)-धातोरिति ॥ अधिकारादिदं लब्धमित्य शयः ॥ पक्तेति ॥ पचतीति वाक्यम् । चोः कुरिति कुत्वम् ॥ कृतः ॥ वसादेः कृत इट् ॥ कुटिता ॥ एधते इति एधिता ॥ गोपायिता-गोपिता-गोप्ता । सहिता- सोढा । एषिता एष्टा ॥ (सुबोधिनी) कृतः॥धातोः परस्य वसादेः कृता त्ययस्येट्॥वसोऽत्र प्रत्याहारः। भवतीति भविता ॥कुट कौटिल्ये । तुदादः । कुटादणिदर्ज इति तृप्रत्ययस्य ङित्वान्न गुणः। कुटतीति कुटिता ॥ एधते इति एधिता ॥ गुपू रक्षणे । आयादयोऽनपीति वा आयः। आयपक्षे कृत इति नित्यमिट् । अन्यत्र उदितो वेति वेद । गोपायतीति-गोपायिता--गापिता--गोप्ता । षह मर्षणे । इषुसति वेट् । सहते इति सहिता। इडभावे हो ढः इति हस्य ढः । तथोध इति तस्य धः। श्रुत्वम् । ढि ढ इति ढलोपपूर्वदीर्यो । सहिवहोरित्योत्वम् । सोढा ॥ इषु इच्छायाम् । इषुसहेति वेट् । इच्छतीति एपिता। इडभावे ष्टुत्वम् ॥ एष्टा ॥ (तत्त्वदी०)-कृत इति॥वसादेरिति । वसप्रत्याहा आदिर्यस्य स तथा तस्य । कुटितेति ॥ ङित्त्वान्न गुणः ॥ सोढेति इषुसहेत्यादिना वेट् । त् त्वष्टुत्वढलोपाः।सहिवहोरित्योत्वम्।। यवोरनाको ॥ वाचकः । पाचकः । भानकः॥ आतो युक् । दायकः। घातकः । जनकः । घटकः । दरिद्रायकः। कोटकः । शमकः । नियामकः॥ Page #229 -------------------------------------------------------------------------- ________________ [ पूर्वकृदन्तप्रक्रिया ] टीकाद्वयोपेता। (२०९) (सुबोधिनी)-बुणप्रत्ययमाह । णकारो वृद्धयर्थः । युवोरनाकौ॥ युश्च वुश्चानयोः समाहारो युवुः तस्य युवोः।वक्तीति वाचकः॥पचति,पाचयतीति वा पाचकः॥ भवति, भावयतीति वा भावकः॥यदि ञ्यन्ताद्गुणविधिस्तदा बेरिति जिलोपःाददातीति आतो युगिति युक । दायकः।। हन्तीति । हनो घदिति घत् । घातकः ॥ जनी प्रादुर्भावे । देवादिकः। जन जनने । जुहोत्यादिः।जनयतीति। जनिवध्योरिति न वृद्धिः। जेरिति जिलोपः । जनकः॥ घटयतीति । मितां ह्रस्व इति ह्रस्वः। ओरिति जिलोपः। घटकः ॥ दरिद्रातीति । आतो युगिति युक् । दरिद्रायकः। तृप्रत्यये तु कृत इतीट् । दरिद्रातेरनपीत्यालोपः । दरिद्रिता ॥ कुट कौटिल्ये । कुटादेणिदर्ज इति वुणोऽङित्वादुपधाया लघोरिति गुणः । कुटतीति कोटकः ॥ शमु उपशमे । मान्तस्य सेटो नेति न वृद्धिः। शाम्यतीति शमकः ॥ यम उपरमे । नियच्छतीति । मान्तस्य सेट इति वृद्धिनिषेधस्तु न वर्तते अस्यानिट्वात् । नियामकः॥ (तत्त्वदी.)-युवोः॥ युश्च वुश्चेति समाहारः । नुम्त्वनित्यत्वान्न । दायक इति । आतो युगिति युक् ॥ जनक इति।। जनिवध्योरिति न वृद्धिः।। कोटक इति। णिवर्ज इति ङिवाभावाद् गुणः । (क्रमेः कर्तर्याद्विषयात्कृत इण्न ) प्रक्रन्ता ॥ (सुबोधिनी )-क्रमेः कर्तर्याद्विषयात्कृत इन ॥ आत्मनेपदविषयाक्रमः परस्य कर्तरि कृत्प्रत्ययस्येण्न भवति ॥ प्रोपाभ्यां प्रारम्भार्थाभ्यामिति क्रमेरात्मनेपद. विषयता । प्रक्रमते इति प्रऋन्ता । तृप्रत्ययः॥ कर्तरि किम् । प्रक्रम्यते इति प्रक्रमितव्यम् । आत्मनेपद इति किम् । संक्रामतीति संक्रमिता ॥ ( तत्त्वदी० )-प्रक्रन्तेति ॥ प्रोपाभ्यामित्याद्विषयता। (नाम्युपधात्कः) क्षिपः । बुधः । वृतः॥ (सुबोधिनी )-नाम्युपधात्कः ॥ कप्रत्ययमाह । प्रत्ययाद्या लशकवर्गा इत्सं. ज्ञका भवन्ति तद्धितवर्जम् ॥ कित्त्वाद् गुणो न । बोधतीति बुधः ॥ क्षिप प्रेरणे। क्षिपतीति क्षिपः॥ तृप्रत्यये तु क्षेप्ता । वुणि तु क्षेपकः । वर्तते इति वृतः॥ (तत्त्वदी०)-नाम्युपधादिति॥नामी अवर्णवजेः उपधा यस्य स तस्मात्॥ क्षिप इति॥ क्षिपतीति विग्रहः ॥ (प्रीकृज्ञाभ्यश्च ) नुधातोः । प्रियः। किरः । ज्ञः॥ ( सुबोधिनी)-प्रीकृज्ञाभ्यश्च ॥ एभ्योऽपि कः॥ प्रीज् तर्पणे । प्रीणातीति । नुधातोरितीम् । प्रियः ।। कृ विक्षेपे । किरतीति । ऋत इरितीर । किरः॥ जानातीति। आताऽनपीत्यालोपः। ज्ञः॥ १४ Page #230 -------------------------------------------------------------------------- ________________ (२१०) सिद्धान्तचन्द्रिका । [ पूर्वकृदन्तप्रक्रिया ] (तत्त्वदी०)-त्रिय इति ॥ प्रीञ् तर्पणे । इय् ॥किर ति ॥ कृ विक्षेपे । ऋत इर् ॥ ज्ञ इति ॥ आतोऽनपीत्यालोपः ।। (उपसर्गे आदन्तात् ) प्रदः । सुज्ञः। सुलः॥ (सुबोधिनी)-उपसर्गे आदन्तात्॥ उपसर्गे पूर्व पदे आदन्ताद्धातोः कः॥प्रद दातीति । आतोऽनपीत्यालोपः । प्रदः॥ मुष्ठु जानातीति सुज्ञः ॥ ग्लै हर्षाये।सुष्टु ग्लायतीति सुग्लः ॥ (पचिनन्दिग्रहादेरयुणिनि ) पचादेरः। मन्द्यादेर्युः।ग्रहादेणिनिः॥ पचः । वदः । चलः । पतः। चरः॥ __ (सुबोधिनी)-पचिनन्दिग्रहादेरयुणिनि ॥द्वंद्वान्ते श्रूयमाणः शब्दः प्रत्येक संबद्धयत इत्यादिशब्दः प्रत्येक योज्यः ॥ पचादे तरिप्रत्ययः । नन्द्यादे तोर्युप्रत्ययः । ग्रहादे तोणिनिप्रत्ययः ॥ अप्रत्ययमाह-पच गति पचः । वदतीति वदः । चल संचलन । चलतीति चलः । पल पतने । पतती । पतः ॥ चरतीति चरः॥ (तत्त्वदी० )-पचिनन्दिग्रहादेरित्यादि ॥ द्वन्द्वा ते श्रयमाणस्यादिशब्दस्य प्रत्येक योगः । अश्च युश्च णिनिश्चति समाहारद्वन्द्वः । एते च गणा न धातुपाठे पठयन्ते किंतु नन्दनरमण इत्येवमादिषु नामगणेष्वेवोदाहृय प्रकृतयो निर्दिश्यत इति ॥ पच इति । पचतीति वाक्यम् । पचादिराकृतिगणः ॥ (चरिचलिपतिवदीनां वा द्वित्वं पूर्वस्यागप्रत्यये ) चराचरः। चलाचलः। पतापतः । वदावदः॥ ___ (सुबोधिनी) चरिचलिपतिवदीनां वा द्वित्वं पूर्वस्यागप्रत्यये ॥ अत्र हस्व इति ह्रस्वः पूर्वस्य हसादिश्शेष इत्यादिशेषश्च न भवति। आगमस्य दीर्घत्वसामर्थ्यात् ॥ चराचर इत्यादि ॥ (तत्त्वदी०)-चरिचलीत्यादि॥ चराचर इत्य दि॥आगागमविधानसामर्थ्याद्धसादिः शेष इति न । तथा हि सति तस्मिन्नागमादेशयोर्विशेषो न रात् । दोबत्वविधैर्हस्वोऽपि न ॥ - (हन्तहस्य घत्वं च ) घनाघनः॥ (सुबोधिनी) हन्तेर्हस्य घत्वं च ॥ हन्तेद्वित्वं पूर्वस्य हस्य घत्वं वाऽप्रत्यये चकारात्पूर्वस्थाक, उत्तरहस्य तु पूर्वाद्धन्तरिति घः । धनाधनः ॥ (तत्त्वदी०)-हन्तेः ॥ हन्तेः पूर्वस्यैव, उत्तरस्य तु पूर्वादित्यनेनैव सिद्धम् । चकारात्पूर्वोक्तमपि ॥ (पाटलुिक् चोक् च दीर्घश्च पूर्व) पाटूपटः। हनःपाटः । नन्दनः । वामनः। क्रमणः । दूषणः । साधतः । वर्धनः । शोभनः। रोचनः । रावणः । सहनः। तपनः । दमनः। जल्पनः । लवणः । Page #231 -------------------------------------------------------------------------- ________________ [ पूर्वकृदन्तप्रक्रिया ] टीकाद्वयोपेता । (२११) णत्वं निपात्यम् । कोचनः । कुच शब्दे चुरादिः ॥ म्लेच्छ अव्यक्त शब्दे । म्लेच्छनः । ग्राही । उत्साही । उद्भासी । स्थायी । छायी । पायी । मन्त्री । अयाची । अवाची । अपराधी ॥ (सुबोधिनी) -- पाटेर्जिलुक चोक दीर्घश्च पूर्वस्य ॥ यद्यपि नेरित्यनेनैव ञिलोपः सिद्धस्तथापि प्रत्ययलक्षणेनोपधाया वृद्धिर्मा भूदित्येवमर्थं लुक्करणम् । पूर्व ञिलुक्क़-ततो द्वित्वम्। तत ऊगागमपूर्वदीर्घौ स्तः ॥ पाटयतीति पाटूपटः । इहापि हस्वहसादिशेषयोरभावः ॥ पक्षे हन्तीति हनः ॥ जेरिति ञिलोपः । पाटः ॥ युप्रत्ययमाहयुवोरित्यनादेशः । टुणदि समृद्धौ । नन्दयतीति । जेरिति ञिलोपः । नन्दनः ॥ टुवम् उद्गिरणे । ग्लास्नावनुवमां चेति वैकल्पिक मित्त्वाभावे वामयतीति वामनः । दुष वैकृत्ये । दुषेञविति दीर्घः । जेरिति ञिलोपः । दूषयतीति दूषणः ॥ साध संसिद्धौ । साध्यति साधयतीति वा साधनः ॥ वृधु वृद्धौ । वर्धते इति वर्धनः ॥ शोभते इति शोभनः ॥ रोचते इति रोचनः ॥ रु शब्दे । रावयतीति । जेरिति ञिलोपः । रावणः ॥ षह मर्षणे। सहते इति सहनः ॥ तप ऐश्वर्ये । दैवादिकः । तप्यते इति तपनः ॥ दाम्यतीति दमनः ॥ जल्पतीति जल्पनः ॥ लुनातीति लवणः । नन्द्यादिगणे निपातनाण्णत्वम् ॥ कुच शब्दे कोचनः ॥ म्लेच्छ अव्यक्ते शब्दे । म्लेच्छतीति म्लेच्छनः ॥ णिनिप्रत्ययमाह-प्रत्ययाद्यौ चवर्गटवर्गावितौ स्त इति णित्त्वादत उपधाया इति वृद्धिः । गृह्णातीति । इनामिति सौ दीर्घः । नाम्नो न इति नलोपः । ग्राही ॥ पह मर्षणे । उत्सहते इति उत्साही ॥ उद्भासते इति उद्भासी ॥ तिष्ठतीति । आतो युगिति युक् । स्थायी ॥ छो छेदने । छयतीति छायी ॥ पिवतीति पायी ॥ मत्रि गुप्तभाषणे चुरादिः । मन्त्रयतीति जेरिति ञिलोपः । मन्त्री ॥ टु याच याच्ञायाम् । न याचते इति ना इति । नञोऽदादेशः । अयाची ॥ न वदतीति अवादी ॥ राध संसिद्धौ । अपराध्यतीति अपराधी ॥ (तत्त्वदी ० ) - पाटेरिति ॥ यद्यपि नेरित्यनेनैव त्रिलोपः सिद्धस्तथापि प्रत्ययलक्षणेनोपधावृद्धिर्मा भूदित्येवमर्थं लुक्करणम् ॥ पाटूपट इति ॥ पूर्ववद्धसादिशेषहस्त्रयोरभावः । नन्दन इति ॥ नन्दयतीति विग्रहः। टुणदि समृद्धौ । युवोरित्यनः । दूषयतीति वाक्यम् । दुष वैकृत्ये । दुषेर्णाविति दीर्घः॥ दृशादेः शः ॥ दृशपाघ्राध्माधेड़भ्यः शः ॥ (सुबेधिनी) - हशादेः शः ॥ दृशपाघ्राध्माधेभ्यः शप्रत्ययो भवति । शप्रत्ययमाह - शस्येत्संज्ञा ॥ ( तत्त्वदी ० ) - शादेः ॥ आदिपदग्राह्यानाह - दृशूपात्यादि ॥ शिति चतुर्वत् ॥ चतुर्षु तिवादिषु यत्कार्यमुक्तं तच्छिति परे भवति ॥ पश्यः । पिवः । जिघ्रः । धमः । धयः । घ्रः संज्ञायां न । व्याघ्रः ॥ Page #232 -------------------------------------------------------------------------- ________________ (२१२) सिद्धान्तचन्द्रिका। [ पूर्वकृदन्तप्रक्रिया ] (सुबोधिनी)-शिति चतुर्वत्॥चतुर्विवेति चतुर्वत् ॥ पश्यतीति । दृशादेरिति पश्यादेशः । अप् कर्तरीत्यप् । अदे इत्यलोपः । पश्यः॥ पा पाने । पा रक्षणे। इत्ययं तु न गृह्यते लुग्विकरणालुग्विकरणयोरलुग्विकरणस्यैव ग्रहणमिति न्यायात् । पिवतीति पिवः ॥ ब्रा गन्धोपादाने । जिघ्रतीति जिघ्रः । ध्मा शब्दाग्निसंयोगयोः । धम.. तीति धमः ॥ धेट पाने । धयतीति धयः ॥ध्रः संज्ञायां न । संज्ञायां वाच्यायामस्माच्छो न। विशेषेण जिघ्रतीति । उपसर्गे आदन्तादिति कः। आतोऽनपीत्यालोपे व्याघ्रः॥ (तत्त्वदी०)--पश्य इति।पश्यतीति विग्रहः । चतुर्वत्करणादप्पश्यादेशौ ॥ एवमन्यत्रापि ॥ अत्र केचिदुपसर्गमनुवर्तयन्ति बहवः । श्रीहर्षोऽपि फलानि धूमस्य धयान्' इत्युदाहृतवान्। व्याघ्र इति ॥ विशेषेण जिघ्रताति व्याघ्रः । उपसर्गे आदन्तादिति कः ।। (अनुपसर्गेभ्यो लिम्पविन्दधारिपारिवादेजिचेतिसातिसाहिभ्यः शः) लिम्पः । विन्दः । धारयः। पारयः । वेदयः । उदेजयः। चेतयः। सातिः सुखे । सातयः । साहयः॥ __(सुबोधिनी)-अनुपसर्गेभ्यो लिम्पविन्दधारिपारिवेद्युदेजिचेतिसातिसाहिभ्यः शः॥ लिप उपदेहे । विद्ल लाभे । तौदादिकाविमौ ।भाविना मुमा निर्दिष्टौ। तेन लाभार्थस्यैव विदेग्रहणं न तु सत्ताद्यर्थकस्य । लिम्पतीति । विन्दतीति । तुदादेरित्यः। अदेरित्यलोपः। लिम्पः। विन्दः । मुचादेरित मुम् ।। धृ धारणे । धृङ अवस्थाने । ञ्यन्तयोईयोरपि ग्रहणम् । धारयतीति धारयः ॥ पार कर्मसमाप्तौ । चुरादिः । पृ पालनादौ इति ज्यन्तो वा । पारयतीति पारयः ॥ विद चेतनादिषु चुरादिः । ज्ञानाद्यर्थानामन्यतमोज्यन्तो वा । वेदयतीति वेदयः॥ उत्पूर्वः एजृ कम्पने । ज्यन्तः। उदेजयतीति उदेजयः॥ चित संचेतने चुरादिः।चेतयतीति चेतयः॥ सातिः सुखे । सौत्रः । सातयतीति सातयः॥ विप्प्रत्यये तु सात् परमात्मा। सात् विद्यते येषां ते सात्वन्तो भक्ताः ॥ षह मर्षणे चुरादिः । प्रयोजकञ्यन्ता वा ॥ साहयतीति साहयः ॥ अनुपसर्गेभ्य इति किम् । प्रलिपः । नाम्युपधादिति कः ॥ ___(तत्त्वदी०) अनुपसर्गेभ्यः ॥ लिप उपदेहे । विदूल लाभे । समुनिर्देशाल्लाभा दन्येषामग्रहणम् । घृञ् धारण । धृङ् अवस्थाने । द्वयोरपि ञ्यन्तयोर्ग्रहणम् ॥ पार कर्मसमाप्तौ। पु पालनपूरणयोरिति वा ञ्यन्तः॥ विद चेतनाख्याननिवासेषु । चुरादिऊ न्तः । ज्ञानाद्यर्थानामन्यतमो वा प्रेरणञ्यन्तः । उत्पूर्व एन कम्पने ॥ षह मर्षणे चुरादिः । प्रेरणार्थञ्यन्तो वा ॥ लिम्पविन्दोस्तुदादित्वादः । मुचादित्वान्मुम् । धारयादिष्वबादयो गणाः यादृशाः ।। . (नौ लिम्पेः ) निलिम्पा देवाः॥ (सुबोधिनी)-नौ लिम्पेः॥ नौ पूर्वपदेशः॥ निलिम्पतीति निलिम्पा देवाः॥ (गवादिषु विन्देः संज्ञायाम् ) गोविन्दः । अरविन्दम् ॥ Page #233 -------------------------------------------------------------------------- ________________ { पूर्वकृदन्तप्रक्रिया ] टीकाद्वयोपेता। (२१३) (सुबोधिनी )-गवादिषु विन्देः संज्ञायाम् ॥ कार्येऽण् इत्यस्यापवादोऽयम् । गां विन्दतीति गोविन्दः॥ चक्रस्य नाभिनेम्योरन्तराले स्थितानि काष्ठान्यरा उच्यन्ते । अराकाराणि दलानि तत्सादृश्यादरास्तान् विन्दते लभत इत्यरविन्दम् ॥ (तत्त्वदी०)-अरविन्दमिति ॥ चक्रनाभिनेम्यन्तरालस्थितकाष्ठान्यरास्तदाकाराणि दलानिविन्दति प्राप्नोतीति विग्रहः ॥ (दाधानोर्वा ) ददः । दधः । (सुबोधिनी)-दाधाञोर्वा। अनुपसर्गाभ्यामाभ्यां वाशः॥ ददातीति। दधातीति । द्वादेरिति द्वित्वम् । शस्य ङित्त्वादादेरित्यलोपः। ददः । दधः । पक्षे ज्वलादेरिति णः । आतो युगिति युक् । दायः । धायः ॥ अनुपसर्गे किम् । प्रदः । प्रधः। उपसर्गे इति कः । दद दाने । दध धारणे । एतयोरपि ददः दध इति ॥ (ज्वलादेर्णः ) ज्वालः । चालः। तापः॥ (श्यादेश्च) अवश्यायः। दायः । धायः॥ __(सुबोधिनी)-ज्वलादेर्णः॥ अनुपसर्गाज्ज्वलादेर्वाणः॥णप्रत्ययमाह-णकारी वृद्धयर्थः । ज्वलतीति ज्वालः । चलतीति चालः। तप संतापे । तपतीति तापः। पर्छ पचादरित्यः । ज्वलः । चलः । तपः । उपसर्गे तु । उज्ज्वलः॥ __ (तत्त्वदी० )-ज्वलादेरिति ॥ पान्थ इत्यादौ ज्वलादिपाठसामर्थ्यादृद्रौ सत्यां नुम् । अणप्योति केचित् । 'प्रियाङ्गपान्थः कुचयोर्निपत्य' इति श्रीहर्षोऽपि ॥ - (कार्येऽण् ) कर्मण्युपपदे धातोरण ॥ कुम्भकारः॥ (सुबोधिनी)-कार्येऽण् ॥ अण्प्रत्ययमाह-णकारो वृद्धयर्थः । कुम्भं करोतीत्यत्राणि कृते कर्तृकार्ययोरिति षष्ठयन्तस्य कुम्भशब्दस्य नाम्नश्च कृतेति कारशब्देन समासः॥ कुम्भस्य कारः कुम्भकारः। कथं तर्हि गङ्गाधरभूधरादय इति चेत् पदसं. स्कारपक्षे धरतीति धरः गङ्गाया धरः गङ्गाधरः इति शेषे कृति वेति कर्मणि या षष्ठी तदन्तेन समासः ॥ (तत्त्वदी०)-कुम्भकार इति ॥ कुम्भं करोतीति नित्यसमासार्थमस्वपदविग्रहः । इहाणि कृते कृर्तृकार्ययोरिति पष्ठयन्तेन कुम्भशब्देन कारशब्दस्य समासः । गङ्गाधर इत्यादौ अचि गङ्गाया धर इति विग्रहो बोध्यः ॥ (हावामाभ्यश्च ) स्वर्गायः। तन्तुवायः। धान्यमायः॥ (सुबोधिनी)-हावामाभ्यश्च॥कर्मण्युपपदे एभ्योऽप्यण् ॥ आतो ड इत्यस्यापवादः । स्वर्ग बयतीति । सन्ध्यक्षराणामित्यावे आतो युक् । स्वर्गद्वायः॥ वेज़ Page #234 -------------------------------------------------------------------------- ________________ (२१४) सिद्धान्तचन्द्रिका। [पूर्वकृदन्तप्रक्रिया ] तन्तुसन्ताने । तन्तुं वयताति तन्तुवायः ॥ माङ्ग माने । मेड़ प्रणिदाने । अनयारिह ग्रहणं न तु मा माने इत्यस्याकर्मकत्वात् । धान्यं मिमीते इति धान्यमायः ॥ (शीलिकामिभक्ष्याचरिक्षमीक्षिभ्यो णः) मांसशीला। मांसकामा । मांसभक्षा । कल्याणाचारा । बहुक्षमा । सुखप्रतीक्षा॥ (सुबोधिनी) शीलिकामिभक्ष्याचरिक्षमीक्षिभ्यो णः॥णप्रत्ययमाह-णो वृद्धयर्थः ॥ शील समाधौ । मांसं शीलतीति। आवतः स्त्रियामित्याप । मांसशीला ॥ मांसं कामयते इति । कमेजिङिति जिङ । जोरीति जिलोपः। मांसकामा ॥ भक्ष अदने चुरादिः। मांस भक्षयतीति मांसभक्षा ॥ कल्याणमाचरतीति कल्याणाचारा ॥ क्षमूषु सहने।बहून् क्षमत इति बहुक्षमाईक्ष दर्शनादौ।सुख प्रतीक्षते इति सुखप्रतीक्षा । (आतो डः) कर्मण्युपपदे आदन्ताड्डः। गोदः। धनदः। पाणिः ॥ (सुबोधिनी)-आतो डः॥ अनुपसर्गादित्येव ॥ डप्रत्ययमाह-अणोऽपवादः । डित्त्वाहिलोपः । गां ददातीत गोदः ॥ धनं ददातीति धनदः ॥ पाणि पश्चात्पदं त्रायते इति पाणित्रः ॥ अनुपसर्गे किम् । गोसंदायः। अण् युकू च ॥ (तत्त्वदी०)-आतो डः॥ यद्यपि कप्रत्ययेनैवातोऽनपीत्यालोपे रूपसिद्धिस्तथाप्युत्तरार्थ डित्त्वम् । तथा च द्विज इत्यादिसिद्धिः फलम् ॥ (नाम्नि च) नाम्युपपदे धातोर्डः॥ द्विजः। द्विपः । गृहस्थः । गिरिशः । पादपः॥ ( सुबोधिनी)-नानि च ॥ नाममात्र इत्यर्थः । द्वाभ्यां मुखशुण्डाभ्यां पिवतीति द्विपः । गृहे तिष्ठतीति गृहस्थः ॥ गिरावुपपदे डः छन्दस्येव नान्यत्र भाष्याद्यनुक्तत्वात् । गिरौ शेत इति गिरिशः॥ पादैः पिबतीति पादपः॥ कथं तर्हि 'गिरिशमुपचचार प्रत्यहं सा सुकेशी' इति । गिरिरस्यास्तीति गिरिशः। लोमादित्वाच्छः ॥ (तत्त्वदी०)-नाम्नि चेति॥ नाममात्र इत्यर्थः॥ द्विप इति॥ द्वाभ्यां शुण्डादण्डमुखाभ्य पिबतीति द्विपः ॥ द्विर्जायते इति द्विजः ॥ 'मातुर्यदये जायन्ते द्वितीयं मौजिबन्धनात्।' इत्युक्तेः ।। (शुचः शूद्रे )शुचं द्रवतीति शूद्रः॥ (सुबोधिनी)-शुचः शूद्रे ॥ शुचः शब्दस्य शूरादेशो द्रे परे चात् ॥ दुधातोर्डप्रत्ययः। द्र गतौ । शुचं द्रवतीति शूद्रः॥ (तत्त्वदी०)-शुचः शूद्रे ॥ शुचः शू इत्ययमादेशः द्रे पर इत्यर्थः । शुचं द्विजसेवारूपं शोकं द्रवति प्राप्नोतीति शूद्रः ॥ (उरसो लोपो मुम्बा डान्ते गमौ) उरगः-उरंगः॥ Page #235 -------------------------------------------------------------------------- ________________ [पूर्वकृदन्तप्रक्रिया ] टीकाद्वयोपेता। (२१५) (सुबोधिनी)-उरसो लापो मुम्वाडान्ते गौ॥ उरस्शब्दस्य सस्य लोपः गमेर्डश्च वा मुमागमः ॥ उरसा गच्छीति उरगः-उरंगः॥ (तत्त्वदी०) उरसो लोप इति ॥ सस्येत्यर्थः । उरसा गच्छतीति विग्रहः ॥ (विहायसो विहो मुम्वा डान्ते गमौ )विहगः-विहंगः ॥ . (सुबोधिनी)-विहायसो विहो मुम्वा डान्ते गौ ॥ विहायसशब्दस्य विह आदेशः गमेर्डश्च वा मुम् ॥ विहायसा आकाशेन गच्छतीति विहगः-विहंगः॥ (भुजतुरयोर्मुम्वा )डान्ते गमौ । भुजगः-भुजंगः । तुरगः-तुरंगः॥ ( सुबोधिनी)-भुजतुरयोर्मुम्वा ॥ अनयोरुपपदयोर्गमेर्डः अनयोर्मुम् च वा ॥ भुजेन कौटिल्येन गच्छतीति भुजगः-भुजंगः॥ तुरेण वेगेन गच्छतीति तुरगः-तुरंगः (तत्त्वदी० )-भुजग इति ॥ भुजेन कौटिल्येन गच्छतीति विग्रहः ॥ (संप्रसारणिभ्यो डः ) कापवादः॥ प्रज्यः। आह्वः । प्रहः॥ (सुबोधिनी)-संप्रसारणिभ्यो डः॥ उपसर्गे आदन्तादित्यस्यापवादः । संप्रसारणं येषां धातूनामास्ति ते संप्रसारणिनस्तेभ्यो डः ॥ ज्या वयोहानौ।प्रजिनातीति प्रज्यः॥ हृञ् स्पर्द्धायाम् । आह्वयतीत आह्वः। प्रतः ॥ __ (तत्त्वदी०)-संप्रसारणिभ्य इति ॥ कापवाद इति॥ के तुः संप्रसारणं स्यादिति भावः ॥ प्रज्य इति ॥ प्रजानातीति विग्रहः ॥ ( तुन्दशोकयोः परिमृजापनुदोरालस्यसुखाहरणयोः कः) तुन्दपरिमृजोऽलसः। शोकापनुदः सुखस्याहर्ता ॥ (सुबोधिनी ) तुन्दशोकयोः परिमृजापनुदोरालस्यसुखाहरणयो:कः॥ तुन्दशोक्योः कर्मणोरुपपदयोराभ्यां कः आलस्यसुखाहरणयोरर्थयोः । नुदोरिति पञ्चम्यर्थे षष्ठी ॥ पुनः कप्रत्ययमाह-कित्त्वान्न गुणः । मृजूषु शुद्धौ । तुन्दं परि मार्टीति तुन्दपरिमृजोऽलसः। अत्र मृजेवृद्धिरिति वैकल्पिकी वृद्धिर्नेत्येके । स्यादेवेत्यन्ये ॥ णुद प्रेरणे । शोकमपनुदतीति शोकापनुदः सुखस्याहर्ता सुखाभिलाषी । अलसादन्यत्र तुन्दपरिमार्जः । यश्च संसारासारत्वोपदेशेन शोकमपनुदति स शोकापनोदः । अणेव ॥ ( तत्त्वदी०)-तुन्दशोकयोरिति ॥ तुन्दशोकयोरुपपदयोः । परिपूर्वो मृनष् शुद्धौ अपपूर्वो णुद प्रेरणे इत्यनयोः षष्ठी । पञ्चम्यर्थे षष्ठी । आलस्यसुखाहरणयोरर्थयोः ॥ तुन्दपरिमृजोऽलस इति॥य आलस्यात्तन्दं परिमार्टि स एवमुच्यते । मृजेर्वा वृद्धिरिति तु व्यवस्थितविभाषया न|अलसादन्यत्र तुन्दपरिमार्ज एव ॥ शोकापनुदः इति ॥ यस्तु संसारानित्यताद्युपदेशेन शोकमेवापनुदति स शोकापनोद एव ॥ Page #236 -------------------------------------------------------------------------- ________________ ( २१६ ) सिद्धान्तचन्द्रिका । [ पूर्वकृदन्तप्रक्रिया ] (मूलविभुजादेः कः ) मूलानि विभुजतति मूलविभुजो रथः । कुधः । महीधः । गिरः - गिलः ॥ (सुबोधिनी) - मूलविभुजादेः कः ॥ मूलानि विभुजतीति। भुजोऽकौटिल्य। पूलविभुजः ॥ धृञ धारणे । महीं धरतीति महीघ्रः पर्वतः । कुं धरतीति कुमः ॥ निग रणे । गिलतीति ऋत इरितीर् । गिरतेः स्वरे इति वा लः । गिल: ( तत्त्वदी० ) - मूलविभुजादेरिति || मूलविभुज इत्यादे रूपस्य सिद्धये को वक्तव्य इति व्याख्येयम् ॥ (गष्टक् ) सामगः । सामगी स्त्री ॥ ( सुबोधिनी ) - गष्ट ॥ कर्मण्युपपदेऽनुपसर्गाद्वायतेष्टक् ॥ टक्प्रत्ययमाहटाव्रत इति ईर्थः ॥ शब्देन तु गाङ् गतौ गा स्तुतावित्यनयोर्ग्रहणमनभिधानात् । साम गायतीति । आतोऽनपीत्यालोपः । सामगः । स्त्री सामगी ॥ अनुपसर्गे किम । सामसंगायः । अण युक् च ॥ ( तत्त्वदी ० ) - गष्टगिति । गै शब्दे इत्यस्यैव ग्रहणं न तु गाङ् गतौ गा स्तावित्यनयोः अनभिधानात् ॥ सामगीति ष्ट्रत इतीप् ॥ ( पिवतेः सुराशीध्वोः ) सुरापी | शीधुपी ॥ (सुबोधिनी) - पिबतेः सुराशीध्वोः ॥ सुराशीध्वोरुपपदयोः पिबतेष्टक् ॥ सुरां पिवतीति सुरापी ॥ शीधु मद्यं पिवतीति शीधुपी । अन्यत्र ड एव । क्षीरपा ब्राह्मणी ॥ (तत्त्वदी ० ) - सुरापीति ॥ सुरां पिवतीति विग्रहः । अन्यत्र क्षीरपा सुरां पातीति सुरापा (अटौ) नाम्नि कार्ये च अकारटकारौ प्रत्ययौ | अस्थिरः वा कवचहरः कुमारः। धनुर्धरो युवा । कुरुचरः । पुरःसरः । अग्रेसरः 1 पार्श्वशयः । पृष्ठशयः । शक्तिग्रहः । पूजाह । स्तम्बेरमो हस्ती । कर्णेजपः सूचकः | यशस्करी विद्या । श्राद्धकरः । वचनकरः । कर्मकरः । दिवाकरः । निशाकरः । ( सुबोधिनी ) - अटौ ॥ नाम्नि कार्ये च अकारटकारौ प्रत्ययौ भवतः ॥ अप्रत्ययमाह-अस्थि हरतीति अस्थिहरः । कवच हरतीति कवचहरः ॥ धनुर्धरतीति धनुर्धरः ॥ पार्श्वभ्यां शेते इति पार्श्वशयः ॥ पृष्ठेन शेते इति पृष्टशयः ॥ शक्ति गृह्णाafa शक्तिग्रहः ॥ अर्ह पूजायाम् । पूजामर्हतीति पूजार्हा ब्राह्मणी ॥ स्तम्बे रमते इति सप्तम्या अलुक् । स्तम्बेरमः ॥ कर्णे जपतीति सप्तम्या अलुक् । कर्णेजपः सूचकः पिशुनः । टप्रत्ययमाह - ट ईबर्थः । कुरुषु देशेषु चरतीति कुरुचरः । स्त्री कुरुचरी ॥ पुरःसरतीति पुरःसरः । अग्रे सरतीति । एदन्तत्त्वं निपात्यते अग्रेसरः || हेतुताच्छील्यानुलोम्येषु कृञष्टः । हेतौ यशः करोतीति यशस्करी । सहादित्वात्सः । ताच्छील्ये श्राद्धं Page #237 -------------------------------------------------------------------------- ________________ [ पूर्वकृदन्तप्रक्रिया ] टीकाइयोपेता । ( २१७ ) करोतीति श्राद्धकरः । आनुलोम्ये वचनं करोतीति वचनकरः । एषु किम् । कुम्भ कारः अव || कर्मशब्दपूर्वात् कृञो वेतने टः । कर्म करोतीति कर्मकरो भृतकः । अन्यः कर्मकारः। अणेव । दिवाऽव्ययं दिवसवाची । दिवा करोतीति दिवाकरः ॥ ( तत्त्वदी० ) - अटौ ॥ अश्व टश्व अटौ । कर्मत्वविशेषविवक्षायामपि यथा स्यादित्येवमर्थं कार्यस्यानुवर्तनम्। अन्यथा कार्ये अव स्यात् ॥ अस्थिर इति ॥ अस्थि हि विग्रहः ॥ कुरुचरीति ॥ ढिवादी ॥ ( इखखि ) नाम्नि कार्ये च ॥ शकृत्करिः । स्तम्बकरिः । फलानि गृह्णातीति फलेग्रहिः । फलस्यैदन्तत्वं निपातनात् । इतिहरिः । नाथहरिः । देवापिः । वातापिः ॥ ( सुबोधिनी ) - इखखि ॥ स्तम्बशकृत्पूर्वात्कृञ इब्रीहिवत्सयोरर्थयोः ॥ इप्रत्ययमाह-स्तम्बं करोतीति स्तम्बकरिव्रीहिः । शकृत्पुरीषं करोतीति शकृत्करिर्वत्सः ॥ अनयोः किम् । स्तम्बकारः, शकृत्कारः, अणेव ॥ फलानि गृह्णातीति । दन्तत्वं निपात्यते । फलेग्रहिः ॥ दृतिनाथपूर्वाद्धरतेरिः पशौ कर्तरि । हतिश्वर्ममयी खल्ला इति ख्याता । तां हरतीति दृतिहरिः पशुः ॥ नाथं नासारज्जुं हरतीति नाथहरिः ॥ पशौ किम् । दृतिहारः । नाथहारः । अणेव || आप्ल व्याप्तौ । देवान् आप्नोतीति देवापिः ॥ वातान् आप्नोतीति वातापिः ॥ ( तत्त्वदी ० ) - खखि || इश्व खश्च विश्व एतेषां समाहारः इखखि ॥ ( खिति पदस्य ) खिति परेऽनव्ययपूर्वपदस्य मुम् ॥ सर्वकषः । कूलंकषः । करीषेकषः ॥ (सुबोधिनी) - खिति पदस्य || खिदन्ते परेऽनव्ययस्य पूर्वपदस्य मुम् ॥ खप्रत्ययमाह-खित्वान्मुम् । सर्वकूलाभ्र करीषपूर्वात्कषः खः ॥ कष हिंसायाम् । सर्वं कष तीति सर्वकषः खलः । कूलं कपतीति कूलंकषा नंदी । अभ्रं कषतीति अकषों वायुः । 'करी गोमयं शुष्कम्' इत्यमरः ॥ करीषं कषतीति करीषकपा वात्या ॥ ( तवदी ० ) - खिति ॥ ख इद्यस्य खित् तस्मिन् ॥ ( वाचंयमादयो निपात्याः ) वाचंयमः । पुरंदरः । द्विषतपः । परंतपः । कुक्षिंभरिः । उदरंभरिः । आत्मंभरिः ॥ (सुबोधिनी) - वाचंयमादयो निपात्याः ॥ वाक्पूर्वाद्यमेः खो व्रतेऽर्थे ॥ मुः उपरमे । वाचं । यच्छतीति वाक्पुरोरदन्तत्वं निपात्यते । वाचंयमो मौनव्रती ॥ व्रते किम्। अशक्त्यादिना वाचं यच्छतीति वाग्यामः । अणेव ॥ दृ विदारणे । पुरं दृणातीति पुरंदरः ॥ भये दृ आदरे एतयोर्ग्रहणं न संप्रदायात् । द्विषत्परपूर्वात्तापेः खः । द्विवन्तं परं वा तापयतीति।जेरिति ञिलोपः । उपधाह्रस्वत्वं निपात्यते । मुमि कृते संयोगान्तस्येति तलोपः Page #238 -------------------------------------------------------------------------- ________________ ( २१८ ) सिद्धान्तचन्द्रिका | [ पूर्वकृदन्तप्रक्रिया ] द्विषतपः । परंतपः ॥ विप्रत्ययमाह - आत्मोदरकुक्षिषु भृञः खिः । आत्मानं विभर्तीति मुमि कृते संयोगान्तस्येति नलोपः । आत्मंभरिः । कुक्षिमुदरं वा बिभर्तीति कुक्षिंभरिः ॥ उदरंभरिः ॥ (आशिते भुवो भावकारणयोः खः) आशितेन भूयते आशितंभवः । आशितो भवत्यनेनेति वा ॥ (सुबोधिनी) - आशिते भुवो भावकरणयोः खः ॥ पुनः खप्रत्ययमाह ॥ आशितशब्दे उपपदे भवतेः खः भावे करणे च ॥ यावतौदनेनातिथ्यादिर्भोजितो भवति स ओदन आशितंभवः उच्यते ॥ ( तत्त्वदी० ) आशितंभव इति ॥ यावता ओदनेनातिथ्य दिर्भोजितो भवत्याशितंभवः स एवमुते ॥ एजां खश् ॥ जननेजयतीति जनमेजयः । आत्मानं पण्डित मन्यते इति पण्डितंमन्यः । मुखं धयतीति मुञ्जंधयः । कूलंघयः ॥ (सुबोधिनी) - एां खश् ॥ एजादिभ्यः खश ॥ खश्प्रत्ययमाह - खित्त्वान्मुम् । शित्त्वाच्चतुर्वत्कार्यम् । एज कम्पने । जनमेजयतीति । अप् कर्तरीत्यप् । अद इत्यलोपः । जनमेजयः ॥ पण्डितमात्मानं मन्यते इति । दिवादेरिति । यः पण्डितंमन्यः । णिनि प्रत्यये पण्डितमानी । मुअं धयतीति । अयादेशेन धेटो पयू । मुअंधयः । ( तत्त्वदी ० ) - जामिति ॥ बहुवचनमाद्यर्थम् ॥ ( खशन्ते पूर्वपदस्यानव्ययस्य ह्रस्वः ) मुष्टी धयतीति मुष्टिं - धयः । नाडिंधमः । नासिकंधयः । अनव्ययस्य किम् । दिवामन्या रात्रिः । दोषामन्यमहः । कूलमुद्रुजः । कूलमुद्वहः | अरुंतुदः ॥ ( सुबोधिनी ) - खशन्ते पूर्वपदस्यानव्ययस्य ह्रस्वः । मुष्टीं धयतीति मुष्टिधयः । मुष्टीं धमतीति मुष्टिधमः । नाडीं धमतीति नाडिंधमः । नासिकां धयतीति नासिकंधयः । नाडीमुष्टीनासिकानां हस्वः । दृशादेरिति ध्माधानोर्धम् । धटोऽयादेशः ॥ अनव्ययस्य किम् । दिवामन्या रात्रिः । दोषामन्यमहः । रुजो भङ्गे । कूलमुडुजतीति कूलमुद्रुजः । तदादेरित्यः । कूलमुद्वहतीति कूलमुद्वहः । अरुस्तदतीति अरुंतुदः । मुमि कृते संयोगान्तस्येति सलोपः । ' व्रणोऽस्त्रियामीर्ममरुः' इति 'अरुंतुदस्तु मर्म - पकू' इति चामरः ॥ ( तत्त्वदी०) - अरुंतुद इति ॥ 'व्रणोऽस्त्रियामीर्ममरुः' । अरुः तुद नीति विग्रहः । उकारात् मुमि कृते संयोगान्तस्येति सलोपः ॥ ( दारावाहनोऽणन्तस्य च टः संज्ञायाम् ) हनो घत् । उवम् । दारु आहन्तीति दार्वाघाटः ॥ Page #239 -------------------------------------------------------------------------- ________________ [ पूर्वकृदन्तप्रक्रिया ] टीकाद्वयोपेता। (२१९) (सुबोधिनी)-दारावाहनोऽणन्तस्य च टः संज्ञायाम् ॥ दारुशब्दे उपपदे आपूर्वाद्धन्तेरण अन्तस्य तस्य टश्च स्यात् ॥ पुनरणप्रत्ययमाह-णित्त्वाइद्धिदारु आहन्तीति। हनो घदिति घत् । उवमिति वः। दावाघाटः। सूत्रे शब्दापेक्षया दाराविति पुंस्त्वम्। 'काष्ठं दाविन्धनं त्वेधः' इत्यमरः॥टकारविधानार्थमिदं सूत्रम्। अण् तु कार्येऽणित्यनेनैव सिद्धः । अन्तग्रहणं स्पष्टार्थम् ॥ (चारौ वा ) चावाघाट:-चार्वाधातः ॥ (सुवाधिनी)-चारौ वा॥चारुशब्दे उपपदे आपूर्वाद्धन्तरण, वा टः॥ चारु आहन्तीति चार्वाघाट:-चार्वाघातः॥ (कर्मणि संपूर्वाच्च ) वर्णान् संहन्तीति वर्णसंघाटः-वर्णसंघातः। पदं संहन्तीति पदसंघाट:-पदसंघातः॥ ___ (सुबोधिनी)-कर्मणि संपूर्वाञ्च । कर्मण्युपपदे संपूर्वाद्धन्तरण, वा टः॥ वर्णान् संहन्तीति वर्णसंघाटः-वर्णसंघातः । एवं पदानि संहन्तीति पदसंघाट:-पदसंघातः॥ - (जायापत्योष्टक् लक्षणवति कर्तरि ) गमां स्वरे । हनोप्ने । जायां हन्तीति जायाघ्नो ना। पतिघ्नी स्त्री॥ _ (सुबोधिनी)-जायापत्योष्टक लक्षणवति कर्तरि ॥ हन्तष्टक । टक्प्रत्ययमाह-रीत्त्वात् 'ष्टिवतः' इतीमरणसूचकं पाणिरेखादिकं लक्षणं यस्यास्ति स लक्षणवान् तस्मिन्कर्तरि सति । जायां हन्तीति । 'गमां स्वरे' इत्युपधालोपः। हनो ने इति घः। जायानो ना । पतिघ्नी स्त्री ॥ (तत्त्वदी० )--जायापत्योरिति॥ कथं प्रलम्बन्नः कृतघ्नः शत्रुघ्नः इत्यादि। मूलविभुजादित्वात् को बोध्यः ॥ (अमनुष्यकर्तृके च)पतिघ्नी पाणिरेखा। जायाघ्नस्तिलकालका (सुबोधिनी)-अमनुष्यकर्तृके च ॥ कर्मण्युपपदे हन्तेष्टक मनुष्यभिन्ने कर्तरि सात ॥ जायानस्तिलकालकः । पित्तनं घृतम्॥अमनुष्येति किम् । आखुघातः शूद्रः। अणेव । कथं तर्हि 'बलभद्रः प्रलम्बघ्नः' इति, शत्रुघ्नः कृतघ्नः इति च । मूलविभुजादित्वात्कः॥ (पाणिघताडघौ शिल्पिनि निपात्यौ) पाणिघः । ताडघः । शिल्पिनि किम् । पाणिघातः। ताडघातः॥ (सुबोधिनी)-पाडिघताडघौ शिल्पिनि निपात्यौ ॥ पाणिताडयोरुपपद योर्हन्तष्टकुटिलोपघत्वे च निपात्यते । पाणिं हन्तीति पाणिघः। ताडं हन्तीति ताडघः। क्रियासु कौशल्यं शिल्पं तदस्यास्तीति शिल्पी॥ शिल्पिनि किम् । पाणिघातः। ताड-- घातः। कार्येणित्यण ॥ Page #240 -------------------------------------------------------------------------- ________________ (२२०) सिद्धान्तचन्द्रिका। [पूर्वकृदन्तप्रक्रिया ] (तत्त्वदी०)-शिल्पिनीति ॥ क्रियासु कौशल्यं शिल्पं तदस्यास्तीति शिल्पी तस्मिन्॥ (राजघश्च) राजानं हन्तीति राजघः॥ (सुबोधिनी)-राजघश्च॥राज्ञि हन्तेष्ट टिलोपधत्वे च॥राजानं हन्तीति राजघः॥ (भजां विण वेः) लोपः। अर्द्धाक्। सुखभाक् ।तुरापाट्।भारवाट्। (सुबोधिनी)-भजां विण्॥नाम्न्युपपदे भजादेविण ॥ विणप्रत्ययमाह--णित्त्वाइद्धिः । वेरिति विलोपः।अर्द्ध भजतीति अर्द्धभाक् । चोः कुरिति कः॥ सुखं भजतीति सुखभाक् ॥ षह मर्षणे। तुरां सहते इति सहेः षः, साढीति षत्वम् । तुरापाट । केचित्तुरशब्दमदन्तमाहुः । तन्मतेऽन्येषामपीति पूर्वपदस्य दीर्घः ॥ __ (तत्त्वदी०).-भजामिति।।बहुवचनमाद्यर्थम्।।तुराषाडिति॥तुरं वेग सहते इति विग्रहः । अन्येषामपीति अन्त्यस्वरस्य दीर्घः । सहादित्वाहा । तुरं न सहत इति कश्चित् । तद्बहूनामसंमतम् ।। (अभूततद्भावे कृभ्वस्तियोगे नानश्विः) च्ची दीर्घः।ई चास्य॥ च्वौ परेवर्णस्य ई ॥ इदुतोर्दीर्घः । मिथुनीकरणम् । शुक्लीभावः । शुचीभवति । सहायीस्यात् । हेतूकृतम् ॥ (सुबोधिनी)--अभूततद्भावे कृभ्वस्तियोगे नाम्नश्च्विः ॥नाम्नश्च्विप्रत्ययः। न प्राग़ भूतमभूतम्,अभूतस्य तेन भवनमभूततद्भावस्तस्मिन्नर्थे कृभू अम् एषांधातूनामन्वये सति । च्चिप्रत्ययमाह-चौ दीर्घ ई चास्य ॥ चौ परे अवर्णस्य ईकारः । इदुतोश्व दीर्घः॥ च्याविति विशेषणार्थे । वेरिति विलोपः। क्त्वाद्यन्तं चेति च्यन्तस्याव्ययत्वाद्विभक्तेलृक् । अमिथुनं मिथुनं क्रियत इति मिथुनीकरणम्।अशुक्लस्य शुक्लेन भवनमिति शुक्लीभावः । असहायः सहायः स्यादिति सहायीस्यात् । अहेतुना हेतुना कृतमिति हेतूकृतम् ॥ कृभ्वस्तियोगे इति किम् । अशुक्लः शुक्लो जायते ॥ (च्चौ सलोपः) सुमनीभावः। अरूकरोति । चषकरोति। सुचेतीभावः । रहीभवति। विरजीकरोति ॥ (सुबोधिनी) च्वौ स लोपः॥अरुर्मनश्चक्षुश्चेतोरहोरजसा सस्य लोपः च्चिप्रत्यय।। असुमनसा सुमनसा भवनमिति सुमनीभावः। अनरुररुः करोतीति अरूकरोति । अचक्षुश्चक्षुः करोतीति चर्करोति। असुचेताः सुचेता भवतीति सुचेतीभवति। अरहो रहो भवतीति रहीभवति । अविरजो विरजः करोतीति विरजीकरोति ॥ (कचिडा) सुखं करोतीति सुखाकरोति। दुःखाकरोति।शम्बाकरोति । द्विगुणाकरोति ॥ बीजाकरोति ॥ . (सुबोधिनी) क्वचिड्डा ॥ नाम्नो डाप्रत्ययः कृजो योगे ॥ दुःखात्प्रातिलोम्ये डा॥ डाप्रत्ययमाह-डित्वाहिलोपःोक्त्वाद्यन्तं चेति डाप्रत्ययान्तस्याव्ययत्वाद्विभक्तेः Page #241 -------------------------------------------------------------------------- ________________ [ पूर्वकृदन्तप्रक्रिया ] टीकाइयोपेता। (२२१) लुक॥दुःखाकरोति । स्वामिनं पीडयतीत्यर्थः ॥ सुखप्रियाभ्यामानुलोम्ये डा। सुखा. करोति प्रियाकरोति वा गुरुम् ।अनुकूलाचरणेनानन्दयतीत्यर्थः॥शम्बाद्विगुणबीजेभ्यो डा कृषिवाच्ये । शम्बाकरोति। शम्बशब्दः प्रतिलोमेऽर्थेऽस्ति । अनुलोम कृष्टं क्षेत्र पुनः प्रतिलोमं कर्षतीत्यर्थः । क्षेत्रं द्विगुणाकरोति । क्षेत्रकर्मकं द्विगुणं कर्षणं करोतीत्यर्थः। बीजाकरोति। काशिकायां बीजशब्दो बीजवापनसहितविलेखने वर्तते । बीजवापनसहितं विलेखनं करोतीत्यर्थ इत्युक्तम् ॥ . (तत्त्वदी०)-दुःखाकरोतीति ॥ पीडयतीत्यथः ॥ सुखाकरोति ॥ अनुकूलाचरणेनानन्दयतीत्यर्थः ॥ शम्बाकरोति॥ अनुलोमं कृष्टं क्षेत्रं पुनः प्रतिलोमं कर्षतीत्यर्थः।। द्विगुणाकरोति ॥ क्षेत्रकर्मकं द्विगुणं कर्षणं करोतीत्यर्थः ॥ बीजाकरोति ॥ · बीजेन सह विलेखनं करोतीत्यर्थः ॥ (अव्ययस्य च्वावीत्व न) दोषाभूतमहः। दिवाभूता रात्रिः । हसात्तद्धितयस्य लोपो ये च्वौ च । अगायो गाग्र्यो भवति गार्गीभवति ॥ (सुबोधिनी)-अव्ययस्य च्वावीत्वं न॥पुनश्चिप्रत्ययमाह-अदोषा दोषाभूतमिति दोषाभूतमहो दिनम्। अदिवा दिवाभूतेति दिवाभूता रात्रिः। ‘ण्यायनणेयणणीयाः' इतिण्यः। गार्ग्यः। अगाग्र्यो गाग्र्यो भवति । हसात्तद्धितयस्येति । यलोपे च्वावितीत्वे च गार्गीभवति ॥ (रीङ्तः ) मात्रीकरोति ॥ (सुबोधिनी )-रीङ् ऋतः॥ ऋकारस्य रीङ स्यात् च्चो ॥ अमातरं मातर करोतीति मात्रीकरोति ॥ (विविषये साद्वा) (सुबोधिनी)-च्विविषये साद्वा॥नाम्नोऽभूततद्भावे एव सात्प्रत्ययो वा स्यात्साकल्येऽर्थे । सात्प्रत्ययमाह-सात्प्रत्ययस्याव्ययत्वाद्विभक्तेलक (सात्पदायोः )सस्य षत्वं न ॥ अग्निसाद्भवति । अग्नीभवति॥ (सुबोधिनी)-सात्पदाद्योः॥सात्प्रत्ययस्य पदादौ वर्तमानस्य च सस्य षत्वं न ॥ दधि सिञ्चात । किलादिति षत्वे प्राप्त निषेधः । अनग्निरग्निर्भवतीति अग्निसाद्भवति । कृत्स्नं सर्वावयवीपेतं शस्त्रमग्नीभवतीत्यर्थः। सादभावपक्ष विरेव। साकल्ये किम् । एकदेशेन शुक्लीभवति पटः ॥ (संपदा योगे च) जलसात्संपद्यते॥ (सुबोधिनी )-संपदा योगे च ॥ नाम्नः संपद्धातुयोगे सात्प्रत्ययो वा भवति । अजलं जलं संपद्यते इति जलसात्संपद्यते लवणम् । पक्षे संपदा योगे वाक्यमेव ॥ Page #242 -------------------------------------------------------------------------- ________________ (२२२) सिद्धान्तचन्द्रिका। [ पूर्वकृदन्तप्रक्रिया ] (अधीने च ) राजसात्संपद्यते ॥ (सुबोधिनी )-अधीने च ॥ नाम्नस्तदधीनेऽर्थे सात् स्यात् कृभ्वस्तिसंपद्योगे।। राजाधीनं संपद्यते इति । नाम्नो नो लोपशिति नलोपः ।राजसात्सपंद्यते । राजाधीनं करोतीति राजसात्करोति ॥ ( देये त्राच) विप्राधीनं देयं करोति विप्रत्राकरोति । विप्रत्रासंपद्यते। विप्रसात्करोति ॥ . (सुबोधिनी)-देये त्रा च॥नाम्नस्तदधीने देयेऽर्थे त्राप्रत्ययः स्यात् चात्सादपि कृभ्वस्तिसंपद्योगे ॥ त्राप्रत्ययमाह-अव्ययत्वाद्विभक्त क् । विप्राधीनं देयं करोतीति विप्रवाकरोति । विप्राधीनं देयं संपद्यते इति विप्रत्रासंपद्यते ॥ देये किम् । गजसादवति राष्ट्रम् ॥ ( देवमनुष्यपुरुषपुरुमत्येभ्यो द्वितीयासप्तम्यन्तेभ्यो वा त्रा) देवत्रावन्दे । देवं वन्दे ॥ (सुबोधिनी)-देवमनुष्यपुरुषपुरुमत्येभ्यो द्वितीयासप्तम्यन्तेभ्योवात्रा।। द्वितीयान्तेभ्यः सप्तम्यन्तेभ्यश्चैभ्यस्त्रावास्यात्॥देवान् इति देवत्रा वन्दोदेवेषु इतिदेवत्रारमे । मनुष्यान् इति मनुष्यत्रा गच्छति।मनुष्येषु इति मनुष्यत्रा वसति । पुरुषान् इति पुरुषत्रा गच्छति । पुरुषेषु इति पुरुषत्रा वसति । पुरून् इति। पुरुशब्दोऽत्र बहुशब्दा पर्यायः । “पुरुः परागे प्रचुरे स्वलोकनृपभदयोः॥” इति हैमः । पुरुत्रा गच्छति । पुरुषु इति पुरुत्रा वसति । मत्योन् इति मत्यंत्रा गच्छति । मत्र्येषु इति मर्त्यत्रा वसति ।।. (ख्युट करणे) आढयसुभगस्थूलपलितनग्नान्धप्रियेषु व्यर्थषूपफ. देषु कृञः करणेऽथै ख्युट्प्रत्ययः ॥ अनाढयमाढयं करोत्यनेनाढयंकरणम् । सुभगंकरणम् । स्थूलंकरणं दधि । पलितंकरणम् । न करणं द्यूतम् । अन्धंकरणम् । प्रियंकरणम् ॥ (सुबोधिनी)-ख्युट करणे ॥ ख्युट्प्रत्ययमाह-खः खिति पदस्यति मुमर्थः । ट ईवर्थः । युवोरित्यनः । आढयकरणम् । एवं सुभगंकरणम् । स्थूलंकरणम् । पलितं करणम् । नम्रकरणम् । अन्धंकरणम् । प्रियंकरणम् ॥ __ (तत्त्वदी०)-व्यर्थेष्विति ॥ अभूततद्भावविषयेष्वित्यर्थः॥ आढयंकरणमिति । खित्त्वान्मुम् ॥ (भुवः खिष्णुखुको कर्तरि ) अनाढ्य आढयो भवति आढ्यम्भविष्णुः। आढयम्भावुकः ॥ (सुबोधिनी )-भुवः खिष्णुखुको कर्तरि॥आढयादिषु च्व्यर्थेषूपपदेषु भव. तेरेतौ स्तः ॥ खिष्णुप्रत्ययमाह-खित्त्वान्मुम् । आढयभविष्णुः। एवं सुभगंभविष्णुः। Page #243 -------------------------------------------------------------------------- ________________ [ पूर्वकृदन्तप्रक्रिया ] टीकाद्वयोपेता। (२२३) स्थूलभविष्णुः । पलितंभविष्याः न भविष्णुः। अन्धंभविष्णुः। प्रियंभविष्णुः॥खुकञ्प्रत्ययमाह-खित्त्वान्मुम् । जि वाढद्धिः । अनाढय आढयो भवतीति आढयंभावुकः । एवं सुभगंभावुकः । स्थूलंभा एकः । पलितंभावुकः । अन्धंभावुकः । प्रियंभावुकः । (आतो मनिकनिब्वनिपः ) नाम्न्युपपदे आदन्ताद्धातोरेते प्रत्ययाः स्युः॥सुदामा।अश्वे तिष्ठतीति अश्वत्थामा। निपातात्सस्य तः।। (सुबोधिनी)-आतो मनिपक्कानिध्वनिपः ॥ प्रत्ययानाह-पित्त्वात्तुक् । कित्त्वान्न गुणः । इकार उच्चारणार्थः। सुष्टु ददातीति । नोपधाया इति दीर्घा नाम्नो नो लोपशिति नलोपः । सुदामा ॥ (स्थामि ) तादौ किति दोसोमास्थामिर्भवति ॥ (सुबोधिनी)-स्थामि। दोऽवखण्डने। षोऽन्तकर्मणि ॥ मा माने । माङ् मान मेङ प्रणिदाने । इति त्रयाणां ग्रहणम् ॥ ष्ठा गतिनिवृत्तौ।एषामित्त्वं स्यात्तादौ किति । ईत्वदत्वयोरपवादः ॥ (तत्त्वदी० )-स्थामि । स्थाम् इ इति च्छेदः इत्यभिप्रेत्याह-दोसो इत्यादि । (शाछोर्वा) (सुबोधिनी)-शाछो॥शो तनूकरणे।छो छेदन।अनयोरिवं वा तादौ किति ।। ( तत्त्वदी०)-शाछोर्वा ॥ स्थामीत्यत्र इश्च ईश्चाऽनयोः समाहार इरित्याश्रयणेन शाछोर्वेतीदं लब्धम् ॥ (अपिदाधागैहापिबतीनामीः किति हसे किपि वा न तु क्यपि ) सुपीवा । घृतपीवा । भूरिदीवा । अनादन्तादपि । मुशर्मा । मुकर्मा । द्वस्वस्य पिति कृति तुक । प्रातरित्वा । वनिपि ॥ (सुबोधिनी)-अपिदाधागेहापिबतीनामी॥दो अवखण्डनांदङ् पालने। दाणू दाने । डुदाञ् दाने । एषां चतुर्णा ग्रहणम् । धेट पाने, डुधाञ् धारणपोषणयोरित्युभयोर्ग्रहणम् । गै शब्द । ओहाक त्यागे । पा पाने । एषामीत्वं स्यात्किति हस । विपि तु ईत्वं वा । क्यपि ईत्वं न ॥ सुष्टु पिबतीति । कित्त्वान्न गुणः । सुपीवा । घृतं पिवतीति घृत पीवा । अनादन्तादपि एते प्रत्ययाः स्युः। शु हिंसायाम् । सुष्टु शृणातीति । हबक्त्यो रेतीण न । सुशर्मा । ह्रस्वस्य पिति कृति तुक । हस्वस्य तुगागमः स्यात्पिति कृति । इण गतौ । प्रातरेतीति प्रातरित्वा । वनिपि ॥ (ञमस्यात्वम्)विशेषेण जायते विजावा।ओण। ओणतीत्यवावा। पारदृश्वा । राजयुध्वा । निरुपपदेभ्योऽपि सुत्वा । धीवा । पीवा ॥ Page #244 -------------------------------------------------------------------------- ________________ (२२४) सिद्धान्तचन्द्रिका। [पूवकृदन्तप्रक्रिया ) (सुबोधिनी)-अमस्यात्वम् ॥ जमान्तस्य धातोरात्वं स्यादनिपि ॥ षष्ठीनिर्दिष्टस्येत्यन्तस्यादेशः। जनी प्रादुर्भावे । विजायते इति विजावा ॥ ओपा अपनयन। ओणतीति अनुनासिकस्यात्वे अवादेशे च अवावा । कर्मण्युपपदे दृशः कनिप् । भूते इति केचित् । पारं दृष्टवान् इति पारदृश्वा। वर्तमानेऽपि स्यात् । विश्वदृश्वनयना वयम्' इत्यत्र विश्वं पश्यन्तीति विश्वदृश्वानि नयनानि येषां ते विश्वदृश्वनयना इति वर्तमानेन विग्रहेऽपि न क्षतिः। युध संग्रहारे । राजानं युध्यते इति राजयुध्वा । षुञ् आभिषवं । सुनीतीति । ह्रस्वस्येति तुक । सुत्वा । दधातीति । अपिदाधेतीत्वम् । धीवा। पिबतीति पीवा ।। (तत्त्वदी० )-अवावेति ॥ ओणो णस्यात्वे ओतोऽवादेशे रूपम् ॥ पारश्वेति॥ पारं दृष्टवान् ॥राजयुध्वेति ॥ अन्तर्भावितण्यर्थोऽत्र युधिः । राजानं योधितवान् ॥ (किप) धातोः विप्स्यात् ॥ कर्मकृत् । मो नो धातोः। प्रशान् । प्रदान् । अग्निचित् । सोमसुत । सोमपाः । सर्वदृक् । दिश अतिसर्जने । दिक्॥ (सुबोधिनी)-विप् ॥ सर्वधातुभ्यः क्वि' स्यात् । किप्प्रत्ययमाह-कित्त्वान्न गुणः । पित्त्वात्तुक् । वेरिति विलोपः। कर्म करोतीति कर्मकृत्। प्रशाम्यतीति । जमा न्तस्येति दीर्घः। मो नो धातोरिति नत्वम्। प्रशान् । सोमं सुनोतीति सोमसुत् । अग्निं चिनांतीत आग्निचित् । सामं पिबतीति । आपिदाधेति विपि वेत्वम् । सोमपाः । सर्व पश्यतीति सर्वदृक । दिशामिति कः । दिश अतिसर्जने । दिशतीति दिक् ॥ (विपि वचिप्रच्छयायतस्तुकटग्रुजुश्रीणां दीर्घोऽसंप्रसारणं च) वाक् । किङति झसे क्वौ अमे च छस्य शो वस्य । तत्त्वप्राट, तत्त्वत्राशी ॥ आयतस्तूः। कटप्रूः । जु गती। जूः। श्रीः॥ (सुबोधिनी)-क्विपि वचिनच्छयायतस्तुकटग्रुजुश्रीणां दीर्घोऽसंसारणं च ॥ एषां दीर्घः संप्रसारणाभावश्च स्याक्विपि ॥ वच परिभाषणे । प्रच्छ सीप्सायाम् । आयतपूर्वः ष्टुञ् स्तुतौ । कटपूर्वः पृङ् गतौ । जु गतौ । श्रिञ् सेवायाम् । वक्तीति । चीः कुरिति कः। वाक । तत्त्वं पृच्छतीति। क्ङिति झसे को जमे चेति शस्य शः। छशषेति षः । षो ड इति डः। तत्त्वप्राड् । आयतं स्तोतीति आयतस्तुः । कटं प्रवते इति कटप्रः । जवतीति जूः । हरिं श्रयतीति हरिश्रीः । वचिप्रच्छयोः संप्रसारणाभावः। ( तत्त्वदी० )-बागिति ॥ वक्तीति विग्रहः ॥ तत्त्वप्राडिति ॥ तत्त्वं पृच्छति ।। एवमन्यदपि कर्तरि ॥ ( ध्यायतेः विपि संप्रसारणम् ) सुधीः ॥ Page #245 -------------------------------------------------------------------------- ________________ [ पर्वकृदन्तप्रक्रिया ] टीकाद्वयोपेता । ( २२५ ) (सुबोधिनी) - ध्यायतेः क्विपि संप्रसारणम् ॥ ध्यै चिन्तायाम् । सुष्ठु ध्यायतीति सुधीः ॥ ( गमादीनां ञमस्य लोपः किपि क्यपि वा ) अङ्गगत् । परी तत् । संयत् । सुनत् ॥ (सुबोधिनी ) - गमादीनां ञमस्य लोपः क्विपि क्यपि वा ॥ गम् तन् यम् णम् इत्यादीनामनुनासिकस्य लोपः स्यात्किपि, क्यपि तु वा ॥ अङ्गं गच्छतीति । ह्रस्वस्य पितीति तुक् । अङ्गगत् ॥ परि तनोतीति परीतत् । नहिवृतिवृषिव्यधीति पूर्वस्य दीर्घः ॥ संयच्छतीति संयत् । सुनमतीति सुनत् ॥ ( ऊङ् च ) अग्रेगूः । अग्रेभ्रूः ॥ (सुबोधिनी ) - ऊङ् च ॥ गम्यादीनामूङादेशो नमस्य लोपश्च स्यात्किपि । ङित्त्वादन्त्यस्यादेशः । अग्रे च्छतीति अग्रेगूः । अग्रे भ्रमतीत अग्रेभ्रूः । सप्तम्या अलुक् ॥ (तत्त्वदी० - अग्रेगूः ॥ अत्र गच्छति ॥ (द्युतिगमिजुहोतीनां किपि द्वित्वम् ) दिद्युत् । जगत् । (सुबोधिनी ) - @तिगमिजुहोतीनां विपि द्वित्वम् ॥ द्योतते इति । श्रुतेः पूर्वस्येति संप्रसारणम् । दिद्युत् । गच्छतीति गम्यादीनामिति मलोपः । हस्वस्येति तु । जगत् ॥ ( जुहोतेर्दीर्घः ) जहः ॥ (सुबोधिनी ) - जुहोते दीर्घः ॥ अस्य दीर्घः स्यात्किपि ॥ जुहोतीति जुहूः । करणस्य कर्तृत्वविवक्षायां किए ॥ (पदान्तस्यानितर्नस्य णत्वमुपसर्गस्था निमित्तात्) अन प्राणने । हे प्राण ॥ मित्राणि शास्तीति मित्रशीः ॥ (सुबोधिनी ) - पदान्तस्यानितेर्नस्य णत्वमुपसर्गस्थान्निमित्तात् ॥ उपसर्गस्यान्निमित्तात्परस्य पदान्तस्यानितेर्नस्य णत्वं स्यात् ॥ अन प्राणने । प्रकर्षेण अनितीति । सम्बोधने हे प्राण ॥ नाम्नो नो लोपशिति सूत्रे अधावित्युक्तत्वान्नलोपो न ॥ आसु अनुशिष्टौ । क्किपो लोपे प्रत्ययलोपे प्रत्ययलक्षणमिति न्यायेन हसादिकित्प्रत्ययपरत्वात् शासोररितीकारः । घसादेरिति षः । दोषामिति रः । ' य्वोविं हसे' इति दीर्घे मित्रशीः ॥ (तत्त्वदी०) हे प्राणिति ॥ नाम्नो नो लोपशधावित्यत्राधाविति निषेधाद्धावेव नलोपाभावोऽन्यत्र भ्यामादौ भवत्येवेति सूचनाय संबोधनान्तमवोदाहृतम् ॥ १५ Page #246 -------------------------------------------------------------------------- ________________ (२२६) सिद्धान्तचन्द्रिका । [पूर्वकृदन्तप्रक्रिया ] (आशासःक्वायुपधाया ईत्वम् ) आशीः ।गी। पूः ॥ (सुबोधिनी)-आशासः क्वावुपधाया ईत्वम् । आङः शासु इच्छायामित्यात्मनेपदी । शारिरिति सूत्रेणेत्वे सिद्धे आशास उपध या ईत्वं कावेव नान्यवेति नियमार्थमिदं सूत्रम् । तेनाशास्ते इत्यत्रेत्वं न भवति। आशास्ते इति आशीः॥ गृ निगरणे । गिरतीति । ऋत इरितीर । वोविं हसे इति गर्घः । गीः॥ पृ पालनादौ । पिपर्तीति । पोरुरित्युर । 'वोवि हसे' इति दीर्घः। पूः॥ (इस्मन्त्रक्विषु च्छादेवस्वः) छद अपवारणे चुरादिः । तनु छादयतीति तनुच्छत् ॥ अक्षयूः । रेफाच्छोलापः क्वो झसादौ ह च प्रत्यये । मूः मुरौ । धूः धुरौ ॥ (सुबोधिनी)-इस्मन्त्रविषु च्छादेईस्वः ॥ छद अपवारणे । ञ्यन्तस्यास्य हस्वः स्यादेषु परेषु ॥ इसि प्रत्यये छर्दिः । मन्प्रत्यये छन । प्रत्यये छत्रम् । क्विपि तु तनुं छादयतीति । जेरिति जिलोपः। तनुच्छत् । दिवु क्रीडादौ । अझैदीव्यतीति । विङति झसे क्वौ जमे चेति वस्य ऊः । अक्षयूः ॥ मुर्छा मोहसमुच्छाययोः । मूर्छतीति । रेफाच्छोरिति छलोपः । 'य्वोर्वि हसे इति दीर्घः । मू: । धुर्वी हिंसायाम् । धूर्वतीति । रेफाच्छोरिति वलोपः। धूः ॥ (तत्त्वदी० )-तनुच्छदिति ।। तनुं छादयतीति विग्रहः । अक्षर्दीव्यतीति अक्षयः । मूरिति ॥ मूर्छतीति विग्रहः ॥ (दुहः को घोऽन्तादेशश्च ) कामदुधा ॥ __ (सुबोधिनी)-दुहः को घोऽन्तादेशश्च ॥ दुहः कमत्ययो हस्य घश्च स्यात् ॥ कप्रत्ययमाह-कित्त्वाद् गुणो न । कामं दोग्धीति कामदुघा धेनुः ॥ (दृशेष्टक्सको चोपमाने कार्ये) उपमान कर्मण्युपपदे दृशेष्टक्सको चाक्विः ॥ (सुबोधिनी)-दृशेष्टक्सको चोपमाने कार्ये ॥ ? क्सको प्रत्ययावाह-टित्त्वादीप् । कित्त्वाद् गुणो न ॥ (आसादेः) एषु परेषु सर्वादेष्टेरात्वम् ॥ अन्यादृशः। अन्यादृक्षः। अन्यादृक् । तादृशः। तादृक्षः । तादृक् ॥ (सुबोधिनी)-आ सर्वादेः॥ सर्वादेष्टेरात्स्याद् दृशक्षेषु परेषु ॥ अन्यमिव पश्यतीति अन्यादृशः। ईपि अन्यादृशी॥छशषेति षत्वम्। षढोरिति कत्वम् । अन्यादृक्षः॥क्विपि अन्यादृक् । तमिव पश्यतीति तादृशः।ईपि तादृशी । तादृक्षः। ताहक ।। (तत्त्वदी०).-एषु परेण्विति॥एवं चोपमाने कर्मोपपदनिमित्तकटक्सककिप् एषु परेषु सर्वाटेरात्वं नान्यत्र । तेनसर्व पश्यतीति सर्वदृगित्यत्र न उपमानाभावात ॥ अन्यादृश इति ॥ Page #247 -------------------------------------------------------------------------- ________________ [ पूर्वकृदन्तप्रक्रिया ] टीकाद्वयोपेता। (२२७) अन्य इव दृश्यते इति विग्रहः । एवमन्यत्रापि । अत्राहुः कर्तरि कृतो विधानात्कर्मार्थताऽयुक्ता। तमिव पश्यतीति चेन कर्मण्यणबाधात् , अपेक्षितार्थानुपस्थितेश्च । अत्र भाष्ये स इव भवति तादृश इति कर्मकर्तरि व्युत्पत्तिः प्रदर्शिता । बाहुलकात्कर्मण्यपीति तु बहवः ॥ (किमिदमः कीश् ) कीदृशः । कीदृक्षः। कीदृक् ॥ईदृशः ईदृक्षः ईदृक् ॥ भवादृशः । भवाहक्षः। भवाहक्॥ यादृशः यादृक्षः यादृक् ॥ अदसोऽमूः ॥ अदसोऽमूः स्यादृग्दृशक्षेषु ॥ अमूदृशः । अमूदृक्षः । अमूहक ॥ मादृशः । यादृक्षः। माहक ॥ त्वादृशः । त्वादृक्षः । त्वाहक्॥ युष्मादृशः । युष्मादृक्षः। युष्मादृक् ॥ अस्मादृशः । अस्माक्षः। अस्माक् ॥ समानस्य सः । सदृशः। सहक्षः। सहकू ॥ (सुबोधिनी)-किमिदमः कीश् ॥ किम्शब्दस्य इदम्शब्दस्य च की ईश आदेशौ स्तः । कमिव पश्यतीति कीदृशः। ईपि कीदृशी । कीदृक्षः । कीहक्॥इदमिव पश्यतीति ईदृशः । ईपि ईदृशी । ईदृक्षः। ईदृक् ॥ भवन्तमिव पश्यतीति भवादृशः। ईपि भवादृशी। भवादृक्षः। भवाक्यमिव यश्यतीति यादृशः। ईपि याशी यादृक्षः । यादृक्॥ अमुमिव पश्यतीति। अदसष्टेरावे कृते दस्य म इति मः।मादू इत्यूत्वम् । अमूदृशः। ईपि अमूदृशी अमूहक्षः। अमूहक्॥ मामिव त्वामिव च पश्यतीति। त्वन्मदेकत्वे इति त्वन्मदादेशे टेरात्वे च मादृशः। ईपि मादृशी।मादृक्षः । माकू ।। त्वादृशः। ईपि त्वादशी। त्वादृक्षः । त्वादृक् ॥ अस्मानिव युष्मानिव च पश्यतीति अस्मादृशः । ईपि अस्मादृशी । अस्मादृक्षः । अस्मादृक् ॥ युष्मादृशः । ईपि युष्मादृशी। युष्मादृक्षः । युष्मादृक् ॥ (णिनिरतीते ) धातोरतीते काले शीले च णिनिः ॥ अग्निष्टोमेनायाक्षीत् यजनशीलो वा अग्निष्टोमयाजी । पितृव्यघाती । उष्णभोजी॥ (सुबोधिनी)-णिनिरतीते॥नाम्न्युपसर्गे चोपपदे धातोरतीतेकाले ताच्छील्येच णिनिः स्यात्कर्तरि ॥ णिनिप्रत्ययमाह-णित्त्वाद् वृद्धिः। इकार उच्चारणार्थः। यज देवपूजादौ । अग्निष्टोमेनेष्टवान् इति । इनामिति दीर्घः । अनिष्टोमयाजी । स्तोत्रण समाप्यमानो यो यागः सोऽग्निष्टोमः । पितृव्यं हतवानिति। हनो घत् । पितृव्यघाती। शीले तु उष्णं भोक्तुं शीलमस्येति उष्णभोजी॥शीले किम् ।उष्णं भुङ्क्ते कदाचित॥ (तत्त्वदी०)-णिनिरतीते ॥ शीले तृन्नित्यतः शीले इत्यनुवर्तते । अग्निष्टोमेनायाक्षीदिति ॥ नन्वग्निष्टोमस्य कर्मनामधेयत्वेनाभेदात्कथं करणत्वमस्येति चेत्सत्यम् । अभ्यासोऽपि 'फलोत्पादनायां करणं संभवतीत्याकरे समाहितत्वादग्निष्टोमः फलभावनायां करणं भवत्येव ॥ उष्णभोजीति ॥ उष्णं भोक्तुं शीलमस्येति विग्रहः ॥ Page #248 -------------------------------------------------------------------------- ________________ सिद्धान्तचन्द्रिका | [ पूर्वकृदन्तप्रक्रिया ] ( २२८ ) ( व्रते च ) स्यण्डिलशायी ॥ (सुबोधिनी) - ते च ॥ व्रतेऽर्थे णिनिः स्यात् ॥ स्थण्डिले शेते व्रतार्थमिति स्थण्डिलशायी । बहुलमाभीक्ष्ण्ये णिनिः । आभीक्ष्ण्यं पौनःपुन्यम् । क्षीरपायिण उशीनराः । एतत्सर्वमनुक्तसमुच्चयार्थकचशब्दानुवृत्तेर्लभ्यते । (क्किब्वनिबडाः) धातोरतीते काले शीले चैते ॥ ब्रह्महा । भ्रूणहा | वृत्रहा | सुकृत् । धर्मकृत् । पापकृत् । अग्निचित् । सोमसुत् । यज्वा । सरसिजम् । सरोजम् । संस्कारजः । प्रजा । अजः । द्विजः । परितः खाता परिखा ॥ (सुबोधिनी) - विनिबडाः॥ पुनः क्विब्वनिवड प्रत्ययानाह - कित्त्वाद् गुणो न । पित्त्वात्तुक् । डित्त्वाट्टिलोपः । इकार उच्चारणार्थः । वेरिति विलोपः । ब्रह्मभ्रूणवृत्रेषु कर्मसूपपदेषु हन्तेः क्विनान्यत्र । ब्रह्माणं हतवानिति । इनामिति दीर्घः । ब्रह्मा । भ्रूणं गर्भे हतवानिति भ्रूणहा । वृत्रं दैत्यं हतवानिति वृत्रहा इन्द्रः । कर्म कृतवानिति कर्मकृत् । पापं कृतवानिति पापकृत् । अग्निं चितवानिति अग्निचित् । पुत्र अभिषवे । सोमं सुतवानिति सोमसुत् । वनिपि तु यज देवपूजादौ । इष्टवानिति । नोपधाया इति दीर्घः। यज्वा । डप्रत्यये तु जनी प्रादुर्भावे । सरसि जातमिति सरसिजम् - संगजम् । सप्तम्या अलुक वा | संस्काराज्जात इति संस्कारजः । प्रकर्षेण जातेति प्रजा । आवत इत्या! | 'प्रजा स्यात्संततौ जने' इत्यमरः ॥ न जात इति अजः । समासे ना इत्यादादेशः । द्वाभ्यां जन्मः संस्काराभ्यां जात इति द्विजः । खन् खनने । परितः खातेति । आवत इत्या परिखा। - 0 ( तत्त्वदी ० ) - विब्वनिब्डाः ॥ किपः सिद्धावपि पुनरुपादान नियमार्थम् । तेन हन्तेर्भूते ब्रह्मभ्रूणवृत्रेष्वेवेति । वनिपोऽपि पूर्वं वर्तमानार्थत्वात् पुर्नग्रहणं भूतेऽपि यथा स्यादित्येवमर्थम् । यज्वेति । इष्टवानिति वाक्यम् । प्रजा इति ॥ प्राणिजातस्य संरेषा । द्विज इति । 'मातुर्यदये जायन्ते' इति स्मृतेः ॥ ( क्तक्तवतू ) धातोरतीते काले क्तक्तवतू एतौ स्तः ॥ भावकर्मणोः क्तः । स्नातम् । कृतः कटः । विष्णुर्विश्वं कृतवान् ॥ 1 ( सुबोधिनी ) - क्तक्तवतू ॥ कित्त्वाद् गुणो न । उकारा व्रितो नुमिति नुमर्थः । प्रत्ययो भावकर्मकर्तृषु भवति । क्तवतुः कर्तर्येव । ष्णा शँ चे । त्वयाऽस्नायि इति स्नातम् । अकारीति कृतः कटस्त्वया । अकार्षीदिति कृतवान् । अत्वसोः साविति दीर्घः ॥ ( तत्त्वदी ० ) - क्तक्तवतू ॥ भावकर्मणोरिति । मण्डूका लुत्येदमनुवृत्तम् । क्तवतुस्तु कर्तरि परिशेषात् ॥ स्नातमिति ॥ अस्नायीति विग्रहः ॥ कृत इति ॥ अकारीति विग्रहः ॥ कृतचानिति ॥ आकार्षीदिति विग्रहः ॥ एवमन्यो विग्रहो यथावदवर न्तव्यः ॥ Page #249 -------------------------------------------------------------------------- ________________ [ पूर्वकृदन्तप्रक्रिया ] टीकाद्वयोपेता। (२२९) - (गत्यर्थादकर्मकाच कर्तरि क्तः) भावकर्मणोरपि गङ्गां गतः । स्थितः। अमान्तस्योपधाया दीर्घः क्ङिति झसे कौ च । शान्तः । दान्तः॥ (सुबोधिनी)-गत्यर्थादकर्मकाच्च कर्तरि क्तः॥गत्यर्थादकर्मकाच्च धातोःक्तः स्थाद्भावकर्मकर्तृषु ॥ अगमदिति गतो गङ्गां सः।लोपस्त्वनुदात्ततनामिति मलोपः । अस्थादिति स्थितः सः। स्थामीतीत्वम् ॥शमु दमु उपशमे। अशमददमदिति । 'अमान्त स्योपधायाः' इति दीर्घः। शान्तः । दान्तः ॥ (तत्त्वदी०)-गत इति । अगमदिति विग्रहः ॥ (श्लिषशीङ्स्थाऽऽसवसजनरुहजीर्यतिभ्यश्च ) रामः सीतामा'श्लिष्टः। शेषमधिशयितः । स्वर्गमधिष्ठितः । हरिमुपासितः । हरिदिनमुपोषितः। राममनुजातः । वृषमारूढः । जगदतुजीर्णः ॥ (सुबोधिनी)-श्लिषशीस्थाऽऽसवसजनरुहजीर्यतिभ्यश्च॥ एभ्यः कर्तरि क्तः भावकर्मणोश्च । श्लिष आलिङ्गने। शीङ् स्वने। ष्ठा गतिनिवृत्तौ । आस उपवेशने । वस निवासे। जनी प्रादुर्भावे ।रुह बीजजन्मनि प्रादुर्भावे च । न वयोहानौ । आधिपूर्वा णां शीस्थासामित्याधारस्य कर्मसंज्ञा । उपान्वध्यापूर्वस्यति वस आधारस्य कर्मसंज्ञा। आश्लिक्षदिति आश्लिष्टोराम सीताम्॥अध्यशयिष्टेति अधिशयितो हरिःशेषम्। अध्यष्ठादिति अधिष्ठितः स स्वर्गम् । स्थामीतीत्वम् ॥ उपासिष्टेति उपासितःसहरिम् ॥ उपावासीदिति । वसति क्षुधोरितीट। यजामिति संप्रसारणम् । घसादेरिति षः । उपोषितः स हरिदिनम्॥अन्वजनिष्टेति । जनसनखनामित्यात्वम् । अनुजातः स रामम् ।। आरुक्षदिति । होढ इति ढत्वम् । तथोर्ध इति तस्य धत्वं ष्टुत्वं च । ढिढो लोप इति ढलोपपूर्वदीपों । आरूढः स वृषम्॥अन्वजारीदिति । ऋत इरितीर्। 'बोर्वि हसे' इति दीर्घः। र इति तस्य नत्वम् । अनुजीर्णः स विश्वम्॥कर्मणि तुगता प्राप्ता गङ्गा तेन ॥ आश्लिष्टा सीता रामेण॥ अधिशयितः शेषो हरिणा॥ अधिष्ठितः स्वर्गस्तेन ॥उपासितो हरिस्तेन ॥ उपोषितं हरिदिनं तेन ॥ अनुजातो रामस्तेन ॥ आरूढो वृषस्तेन ॥ अनुजीर्णो विश्वस्तेन ॥ (तत्त्वदी०)-आश्लिष्ट इति ॥ सकर्मकत्वादप्राप्तौ वचनम् ॥ अधिशयित इति॥ अध्यशयिष्टेति विग्रहः ॥ . तो वा सेट् ॥ उदुपधात्सेट् क्तो वा कित् ॥ द्युतितम्-द्योतितम् । प्रमुदितः-प्रमोदितः साधुः॥ ___(सुबोधिनी)-क्तो वा सेट् ॥ उदुपधादविकरणादिट भावकर्मणोः सेट् क्तो वा कित्संज्ञः स्यात्॥ कित्त्वाभावे गुणः । युत दीप्तौ । अद्योति इति द्युतितं-द्योतितं तेन । Page #250 -------------------------------------------------------------------------- ________________ (२३०) सिद्धान्तचन्द्रिका। [ पूर्वकृदन्तप्रक्रिया ] मुद हर्षे । प्रामादि इति प्रमुदितः प्रमोदितःसाधुः॥ उदुपधात् किम् । विदितम् ।भावकर्मणोः किम् । रुचितं वनम् । गत्यर्थादकर्मकादिति कर्तरि क्तः । सेट् किम् । कुष्टम् । कुष निष्कर्षे । अविकरणास्किम् । गुध्यतेर्गुधितम् ॥ (शीस्विदिमिदिक्ष्विदिधृषभूषपूङः सेटौ तक्तवतू कितौ न) शयितः। शयितवान् । प्रस्वेदितः। प्रस्वेदितवान् । श्वेदितः। श्वेदितवान् । र्षितः। र्षितवान् ॥ ___( सुबोधिनी )-शीस्विदिमिदिक्ष्विदिधृषभूषपृङः सेटौ तक्तवतू कितौ न ॥ अकित्त्वाद् गुणः । अशायष्टोत शयितः शयितवान् सः । कृत इतीट् । अनुबन्धनिर्देशो यङ्लुनिवृत्त्यर्थः । शेश्यितः।शेश्यितवान्। नुधातोरिति यः। किंच स्विदादीनामादीदित इतीणो निषेधे प्राप्ते, भावे कर्तरि चादित इति सेटकत्वम् । पूङः कित इतीनिषधे प्राप्ते पूङो वा कित इति सेटकत्वम् । जिष्विदा स्नेहनमोचनयोरिति भ्वादिरत्रं गृह्यते न तु 'जिष्विदा गात्रप्रक्षरणे' दिवादिः भ्वादिसाहचर्यात् । प्रास्वेदिष्टेति प्रस्वेदितश्चैत्रः । प्रस्वेदितं तेन । प्रस्वेदितवान् । जिधृषा प्रागल्भ्ये । प्रधर्षितः । प्रधर्षितवान् । प्रर्षितं तेन ॥ (मृषः क्षान्तौ ) मर्षितः । मर्षितवान् ॥ (सुबोधिनी)-मृषःक्षान्तौ ॥ मृषः सेटौ क्तक्तवतू कितौ न स्तः क्षमायाम!।। मर्षितः । मर्षितवान् ॥ क्षमायां किम् । अपमृषितं वाक्यम्। अविस्पष्टमित्यर्यः॥ (पूडो वा कितस्तस्येट) पवितः-पूतः । पवितवान्-पूतवान् ।। (सुबोधिनी)-पूङो वा कितस्तस्येट् ॥ पूङः परस्य कितस्तस्येवा स्यात् ॥ पूङ पवने । पवितः। पूतः॥ (कितः) उवर्णान्ताहवर्णान्तात् श्रिश्विभ्यां च पुरस्य कितस्तस्येण्न ॥ भूतः। वृतः। श्रितः। श्वयतेः संप्रसारणस्य दीर्घः किति ते । शूनः। वेञो हस्वः किति ते । उतम् ॥ (सुबोधिनी)-कितः॥ वुः से इत्यतो दुरित्यनुवृत्तम् ॥ श्रिश्विऋवर्णोवर्णान्तेभ्यः परस्य कितः प्रत्ययस्येन ॥ अभूदिति भूतः । वृ भक्तौ । वृज वरणे च । वृतः। श्रिञ् सेवायाम् । श्रितः। टु ओ श्वि इर गतिवृद्धयोः । यजामिति सम्प्रसारणम् । श्वयतेः संप्रसारणस्य दीर्घः। शूनः । वेज्ञ तन्तुसन्ताने । यजामिति संप्रसारणे वेजो ह्रस्वः। उतम् ।। (तत्त्वदी०)-कित इति॥वुः सेरित्यतो वुरित्यस्यानुवृत्तेरुवर्णान्तादित्यादि । नैकस्वरादित्यतो नेति योगविभागात् ।। श्रिीश्विभ्यामिति च लभ्यते ॥ Page #251 -------------------------------------------------------------------------- ________________ [ पूर्वकृदन्तप्रक्रिया ] टीकाद्वयोपेता। (२३१) (आदीदितः) आदित ईदितश्च क्तक्तवत्वोर्नेट् ॥ ( सुबोधिनी)-आदीदितः॥ आच्च ईच्च आदीतौ आदीतौ इतौ यस्य स आदीदित् तस्मादादीदितो धातोः क्तक्तवत्वोरिण्न स्यात् ॥ कृत इत्यस्यापवादः॥ (तत्त्वदी०)-आदीदित इति ॥ आच ईच्च आदीतौ इतौ यस्य तथा तस्मात् । कृत इति प्राप्तस्यापवादः ॥ ( जीतां तक वर्तमानेऽपि) जीतां धातूनां मर्तिबुद्धिपूजार्थानां च वर्तमानेऽपि तक ॥ राज्ञां मतः इष्टः । बुद्धः॥ (सुबोधिनी)-जीतां नक् वर्तमानेऽपि॥जिरियेषां तेजीतस्तेषां मतिबुद्धिपूजार्थेभ्यश्च तक् स्यात् वर्तमानेऽर्थे । मतिरिहेच्छा बुद्धः पृथग् ग्रहणात् । राज्ञा मतः। इष्टः । तैरिष्यमाण इत्यर्थः ।। बुद्धः । विदितः ॥ पूजितः । अर्चितः॥ (तत्त्वदी०)-जीतामि ते ॥ जिरियेषां ते जीतस्तेषाम् ॥ . (दस्तस्य नो दश्च ) दकारात्परस्य कितस्तस्य नत्वं दकारस्य च॥ भिन्नम् ॥ (सुबोधिनी) दस्तस्य नो दश्च॥दात्परस्य कितस्तस्य नत्वं स्याहस्यापि नत्वं स्यात्॥ (भावे कर्तरि चादितःक्तक्तवत्वोरिड्डा) ॥मेदितः-मिन्नः। प्रस्वेदितः-प्रस्विनः । श्वेदितः-विण्णः॥ (सुबोधिनी)-भावे वर्तरि चादितः क्तक्तवत्वोरिड्वा॥आकारतो धातोर्भावकर्तृस्थितयोः क्तक्तवत्वा रेडा स्यात् ॥ जिमिदास्नेहने । मिद्यते इति मिन्नं तेन । शीस्विदिमिदीति तस्याकित्त्वाद् गुणः। मेदते इति मेदितः सः ॥ निविदा स्नेहनमोचनयोः। प्रस्विद्यते इति प्रस्विन्नं तेन । प्रस्वेदते हति प्रस्वेदितः सः ॥ निविदा स्नेहनमोचनयोः । विण्णं तेन । श्वेदितः सः॥ (तत्त्वदी०)-आदित इति ॥ आत् इद्यस्य स तथा ॥ (अदो जघुः) किति तकारे ॥ जग्धम् ॥ (सुबोधिनी)-अंदो जघुः॥ अदो जघुरादेशः स्याकिति तादौ प्रत्यये ॥ उकार उच्चारणार्थः । तथोर्ध इति तस्य धः। झबे जबा इति कस्य गः । जग्धम् । (रः) रेफात्कितस्तस्य नत्वम् ॥ विकीर्णम् । जीर्णम् । __ (सुबोधिनी)-रः ॥र कितस्तस्य नत्वं स्यात् ॥ कृ विक्षेपे । जृ वयोहानौ । ऋत इरितीर । 'य्वो हसे इति दीर्घः । विकीर्णम् । जीर्णम् । ___ (तत्त्वदी० )-रः इति ॥ कृतस्यापत्य कार्तिरित्यत्र । वृद्धरसिद्धत्त्वान्न स्वरात्तो वेत्यतो वेत्यस्यानुवृत्तेर्व्यवस्थया कचिन्न कचिद्वेति बोध्यम् । तेन पूर्त इत्यादौ न । रदस्तस्येति सुवचम् ॥ Page #252 -------------------------------------------------------------------------- ________________ (२३२) सिद्धान्तचन्द्रिका। [पूर्वकृदन्तप्रक्रिया ] (ल्वाद्योदितश्च ) ल्वादेरोदितश्च धातोः कितन्तस्य नो भवति॥ लूनः । लूनवान् । ज्या वयोहानौ । जीनः॥ (सुबोधिनी)-ल्वाद्योदितश्च ॥ ल्वादेरेकविंशतेर्धाता गादितश्च कितस्तस्य नत्वं स्यात् ।।यादरन्तर्गणो ल्वादिः । लूज १ । स्तृञ् २ । कृञ् ३ । वृञ् ४। धूञ् ५। श६ । द ७। पृ ८ । भृ९। मृ १० । दृ ११ । जृ १२ । न १३ कृ १४ ॥ ऋ१५ । गृ १६ । ज्या १७॥री १८ । ली १९ । व्ला २० ।ठी २१ इति ल्वादिः॥ लूञ् छेदने । लूयते स्म इति लूनः । लुनाति स्मेति लूनवान् ॥ ज्या वयोहानौ । ग्रहामिति संप्रसारणे जीनः ॥ (तत्त्वदी० )- ल्वाद्योदितश्च इति ॥ लू आदिर्यस्य स ल्वादि. । ओदिद्यस्य स ओदित्। वादिश्च ओदिच्चल्वाद्योदित् तस्मात् ।। लून इति।लूयते स्म इति॥लूनवानितिलुनाति स्मेति। (प्यायः पी ति किति ) पीनः। भुजो कौटिल्ये । भुग्नः । हीनः। स्वादय ओदितः। दूङ् प्राणिप्रसवे । सूनः सून न् । प्रङ् परितापे। दूनः। मीनः । डीडू । उड्डीनः। दीनः । लीनः। वीणः । रीणः । धीनः॥ (सुबोधिनी)-प्यायः पी ति किति ॥ प्यायः पी आदेशः स्यात् तादौ किति ॥ ओप्यायी वृद्धौ । पीनः ॥ भुजो कौटिल्ये । नत्वस्यासिद्धत्वेन झस्परत्वात् चोः कुरिति गः । भुनः ॥ ओहाक् त्यागे। अपिदा तीत्वम् । हीनः ॥ पूड प्राणिप्रसवे । स्वादय ओदित इत्योदित्वान्नत्वम् । सूनः । सूनवान्। दिवादेरन्तर्गणोऽयं स्वादिः । षूङ १ । दङ् २। दी: ३ । डीङ ४ । धीङ् ५ । मीङ्६। री ७। लीङ्८ । वीङ् ९। स्वादयो नव ॥ दू परितापे । दूनः। दनवान् । डीङ् विहायसा गतौ । ओदिन्मध्ये डीङः पाठसामर्थ्यादिण्न । उड्डीनः। दङ् क्षये। दीनः । लीड श्लेषणे । लीनः। री स्रवणे। रीणः । धीङ् आधार । धीनः । (तत्त्वदी०) उड्डीन इति ॥ ओदिन्मध्ये डीङः पाठसामर्थ्यानेट् । एवमन्यत्रापि कर्नाद्यर्थभेदेन वाक्यमेदः ॥ (दुग्वोर्दीर्घश्च ) दूनः। गूनः॥ (सुबोधिनी)-दुग्वोर्दीर्घश्च ॥ दुगुभ्यां परस्य कित तस्य नत्वमनयोर्दीर्घश्च स्यात् ॥ गु पुरीपोत्सर्गे । दु गतौ ॥ टुदु उपतापे अयं तु न गृह्यते सानुबन्धकत्वात् । 'मृदुतया दुतया' इति माधः॥ दूनः। गूनः ॥ (तत्त्वदी०)-दुग्वोरिति ॥ दु गतावित्येव गृह्यते न तु टुदु उपताप इत्यपि सानुबन्धकत्वात् । मृदुतया दुतयेति माघोऽपि ॥ Page #253 -------------------------------------------------------------------------- ________________ [ पूर्वकृदन्तप्रक्रिया ] टीकाद्वयोपेता । (२३३) (क्षियो दीर्घः कतारे तक्तवत्वोनत्वं च )क्षीणः । क्षीणवान् । कर्तरि किम् । क्षितम् ॥ ( सुबोधिनी)-क्षियो दीर्घः कर्तरि क्तक्तवत्वोर्नत्वं च ॥ क्षियः परयोः कर्तरि स्थितयोः क्तक्तवत्वोस्तस्य नत्वं क्षियो दीर्घश्च स्यात्॥ क्षि क्षये । क्षि निवासगत्योः। क्षयति स्मति क्षीणः । क्षीणवान् ॥कर्तरि किम् । क्षीयते स्मोति क्षितं कामेन । (यलसंयोगादेरादन्तात्कितस्तस्य नत्वम् ) द्राणः । ग्लानः । म्लानः॥ - (सुबोधिनी)- यलसंयोगादेरादन्तात्कितस्तस्य नत्वम्॥यलप्रत्याहारसंयोगादेराकारान्ताद्धातोः परस्य कितस्तस्य नत्वं स्यात् ॥ द्रा कुत्सायाम् । द्राणः॥ ग्लै म्लै हर्षक्षये । ग्लानः । म्लानः॥ (नुदविदोन्दवाना ब्रीनिर्वाभ्यो वा) त्राणः-त्रातः । घ्राणःघ्रातः । ह्रीणः-हीतः । नुत्तः-तुन्नः। विद विचारणे । वित्तः-विनः। उन्दी क्लेदने । उत्त:-उन्नः । 'निर्वाणो मुनिवढ्यादौ निर्वातस्तु गतेऽनिले ॥' " (सुबोधिनी)-नुदाविदोन्दत्राघ्राहीनिर्वाभ्यो वा॥एभ्यः कितस्तस्य नत्वं वा स्यात् ॥ आद्यानां त्रयाणां दस्तस्येति नित्यं नत्वे प्राप्ते त्रा घ्रा अनयोयलसंयोगादेरिति नत्वे प्राप्त ही वा पनयोरप्राप्ते सात विभाषेयम्। नुद प्रेरणे। नुत्तः नुन्नः। विद विचारणे । रौधादिक एव गृह्यते उन्दिना परेण साहचर्यात् । वित्तः-विन्नः। तथा च भाष्यम्-"वेत्तेस्तु विदितो निष्ठा विद्यतेर्विन्न इष्यते । विन्तेर्वित्तश्च विन्नश्च भोगे वित्तश्च विन्दतेः॥” इनि ॥ उन्दी क्लेदने । आदीदित इतीण्न । नो लोप इति नलोपः। उन्नः-उत्तः॥ त्रैड पालने । त्राणः-त्रातः ॥त्रा गन्धोपादाने । घ्राण:घातः ॥ ही लज्जायाम् । ह्रीणः-हीतः ॥ वा गतिगन्धनयोः । अवाते कर्तरि सति नत्वं स्यात् । निर्वाणोऽग्निर्मुनिर्वा । मुक्तिं गत इत्यर्थः । वाते कर्तरि तु निर्वातो वातः। नितरां वातो गत इत्यर्थः । गत्यर्थादिति कर्तरि क्तः॥. .(दो दत्ति)दा इत्यस्य दथ् किति तकारे न तु पितः॥दत्तादत्तवान्।। (सुबोधिनी)-दो दति ॥ ददातेर्दथादेशः स्यात्किति तकारे दाप लवने अस्य तुं न व्याख्यानात् प्रयोगाभापाच्च । थान्तोऽयमादेशः । किं च यदि तान्त आदेशस्तदा विदत्तमित्यादौ आद्यन्तवदेकस्मिन्निति न्यायेन नाम्यन्तोपसर्गस्येति दीर्घः स्यात् । याद दान्तस्तदा दस्तस्येति नत्वं स्यात् । यदि धान्तस्तदा तथोर्ध इति तस्य धः स्पात् । थान्ते तु 'खसे चपा' इति थस्य तः । दत्तः। दत्तवान् । पितस्तु दातः॥ Page #254 -------------------------------------------------------------------------- ________________ ( २३४ ) सिद्धान्तचन्द्रिका | [ पूर्वकृदन्तप्रक्रिया ] (स्वरात्तो वा) स्वरान्तादुपसगार्दुत्तरस्य दा इत्यस्य तो वा किति तकारे न तु पितः ॥ प्रत्तः प्रदत्तः । अवन्तः - अवदन्तः ॥ (सुबोधिनी ) - स्वरात्तो वा ॥ पक्षे दथादेशः ॥ (तत्त्वदी० )-स्वरपदं स्वरान्तोपसर्गोपलक्षणकमित्याह - स्वरान्तादुपसर्गादिति ॥ तेन देवदत्त इत्यादौ न ॥ ( नाम्यन्तोपसर्गस्य दीर्घो दादेशे तकारे) खण्ड अदायि मूत्तम् । नीतम् ॥ ( सुबोधिनी ) - नाम्यन्तोपसर्गस्य दीर्घो दादेशे तकारे ॥ नाम्यन्तस्योपसर्गस्य दीर्घः स्याद्दास्थाने आदेशो यस्तकारस्तस्मिन् परे || ( धाञ हिः किति ते) निहितः ॥ ( सुबोधिनी) - धाञ हिः किति ते ॥ दधातेर्हिरादेश स्यात् किति तकारे ॥ ( ध्याख्यापृमूर्छिमदिभ्यो न नत्वम् ) ध्यानः । ख्यातः । पूर्तः॥ मूर्तः । मत्तः ॥ यज इष्टम् । उप्तम् । ऊढः । व्येञ् वीतः । हृञ् हूतः । उदितः । उक्तः ॥ ( सुबोधिनी ) - ध्याख्यापृमूर्छिमदिभ्यो न नत्वम् ॥ आद्ययोर्यलसंयोगादे रिति नत्वे प्राप्ते पृ इत्यस्य तु ल्वादिषु पाठात् ल्वाद्योदित इति नत्वे प्राप्ते मूर्च्छतस्तु छस्य लोपे कृते र इति नत्वे प्राप्ते माद्यतेस्तु दस्तस्येति नत्वे प्राप्ते निषेधः । ध्यै चिन्तायाम् । ध्यातः ॥ ख्या प्रकथने । ख्यातः ॥ पृ पालना हौ । पोरुरित्युर । 'खोहिसे' इति दर्घिः । कित इतीन्न । पूर्तः ॥ मुर्च्छा मोहसमुच्छ्राययोः । रेफाच्छ्रोरिति छलोपः । आदीदित इतीण्न । मूर्तः ॥ मदी हर्षे । आदीदित इतीन्न । मत्तः ॥ यज देवपूजादौ । छशषोत षत्वम् । ष्टुत्वम् यजादित्वात् यजामिति संप्रसारणम् । इष्टम् ॥ डुव बीजसंताने । उप्तम् ॥ वह प्रापणे । होढ इति हस्य हः । तथार्ध इति तस्य धः । ष्टुत्वम् । ढि ढ इति ढलोपपूर्व दीर्घौ । ऊढः । व्यं संवरणे । वीतः ॥ स्पर्द्धायाम् । हृतः ॥ वद व्यक्तायां वाचि । कृत इतीट् | उदितः ॥ वच परिभाषणे । उक्तः ॥ 1 ( वसतिक्षुधोरिट् क्त्वा क्तक्तवतूनाम् ) उषिनः । क्षुधितः॥सुप्तः॥ (सुबोधिनी ) - वसतिक्षुधोरिट् क्त्वाक्तक्तवतूनाम् ॥ वस निवासे । यजामिति संप्रसारणम् । घसादेरिति षः । उषितः ॥ क्षुध बुभुक्षायाम् । क्षुधितः ॥ ञिष्व शये । यजामिति संप्रसारणम् । सुप्तः ॥ ( क्वचिद्वेटः क्तक्तवत्वोर्नेट् ) ब्रश्चू । वृक्णः ॥ 1 Page #255 -------------------------------------------------------------------------- ________________ पूर्वकृदन्तप्रक्रिया ] टीकाद्वयोपेता । ( २३५ ) (सुबोधिनी) - कचिद्वेट क्तक्तवत्वोनेंट् ॥ यस्य धातोः कुत्रचित्स्थले विकल्पे--: नडिहितस्तस्माद्धातोः परयोः क्तक्तवत्वोरिण्न स्यात् ॥ ओव्रश्चू छेदने । ऊदितो वे वेट्त्वादिण्न । ग्रहामिति संप्रसारणम् । ल्वाद्योदित इति नत्वम् । नत्वस्यासिद्धत्वात् झसे परतः छशषेति षत्वे प्राप्ते " तक्तवत्वोरादेशः षत्वस्वरप्रत्ययेड्डिधिषु सिद्धो बाच्यः" इति । चोः कुरिति कुत्वम् । स्कोरिति सलोपः । वृक्णः । वृक्णवान् ॥ ( अञ्चेः पूजायामिट्) अश्चितः । जातः ॥ ( सुबोधिनी ) - अश्वः पूजायामि ॥ पूजार्थादञ्चतेः परयोः क्तक्तवत्वोरिट स्यात् ॥ उदितः क्त्वो वेडिति अञ्चेः क्त्वायां वेट्कत्वात् क्वचिद्वेद्र इति निषेधे प्राप्ते सति विधिः । पूजार्थाश्वतेर्ने ति नलोपो न । अञ्चितः। गतौ तु नो लोप इति नलोपः ॥ चोः कुरिति कः । अक्तः । जनी प्रादुर्भावें ॥ जनसनेत्यात्वम् । जातः ॥ ( पचो वः ) तक्तत्वोस्तस्य । पक्कः । पक्कवान् ॥ (सुबोधिनी ) - पचो : ॥ पचतेः परस्य क्तक्तवत्वोस्तस्य वः स्यात् । डुपचष पाके । वस्यासिद्धत्वाच्चोः कुरिति कः । पक्कः ॥ ( क्षायो मः ) क्षामः । क्षामवान् ॥ (सुबोधिनी) - क्षायो मः ॥ क्षायतेः परस्य क्तक्तवत्वोस्तस्य मः स्यात् ॥ क्षे क्षये | संध्यक्षराणामित्यात्वम् । क्षामः ॥ ( तत्त्वदी ० ) - क्षामः ते ॥ क्षै क्षये इत्यस्यात्वे ॥ ( प्रस्त्यः संप्रसारणं किति तस्य मो वा ) प्रस्तीमः- प्रस्तीतः ॥ (सुबोधिनी ) - प्रस्त्यः संप्रसारणं किति तस्य मो वा ॥ प्रपूर्वस्य स्त्यायतेः संप्रसारणं स्यात् किति त्तक्तवत्वोस्तस्य मश्च वा ॥ स्त्यै शब्दसंघातयोः । प्रस्तीमः - प्रस्तीतः ॥ ( तत्त्वदी ० ) - प्रस्त्य इति ॥ प्रस्त्यः संप्रसारणं नित्यं तस्य तु मो वेत्यर्थः ॥ प्रस्तीमः -- प्रस्तीतः । आदौ संप्रसारणे कृते यलसंयोगादित्वाभावान्न नत्वम् ॥ (शुषेः कः ) शुकः । शुष्कवान् ॥ (सुबोधिनी ) - शुषेः कः ॥ शुषेः परस्य क्तक्तवत्वोस्तस्य कः स्यात् ॥ शुष शोषणे । शुष्कः ॥ (स्फायः स्फीति किति) स्फीतः । धेट् धीतम् । गीतम् । पीतम्। दो दितम् । सो सितम् । मितम् ॥ ( सुबोधिनी ) - स्फायः स्फी ति किति ॥ स्फायतेः स्फीरादेशः स्यात् तादौ किति ॥ स्फायी वृद्धौ । स्फीतः ॥ धेटू पाने । गै शब्दे । पा पाने । एषां त्रयाणा Page #256 -------------------------------------------------------------------------- ________________ (२३६) सिद्धान्तचन्द्रिका। [पूर्वकृदन्तप्रक्रिया ] मापिदाधेतीत्वम् । धीतम् ॥ गीतम् ॥ पीतम् ॥ दोअवखण्डने । षो अन्तकर्मणि । मा -माने। माङ्ग माने । मेङ् प्रणिदाने । एषां स्थामीतीत्वम् । दितम । सितम् । मितम् ॥ (सेटोः क्तक्तवत्वोर्बिलोपः) चोरितः। चोरितवान् । पाचितः । 'पाचितवान् ॥ (सुबोधिनी)-सेटोः क्तक्तवत्वोर्जिलापः॥ जिप्रत्ययर य लोपः स्यात् सेटोः क्तक्तवत्वोः परयोः। चुर स्तये । कृत इतीट । जिलोपे चोरितः ॥ डुपचष् पाके । ज्यन्तः । कृत इतीट । पाचितः ॥ .(ऊोतर्नेट) ऊर्गुतः। ऊर्गुतवान् ॥ (सुबोधिनी)-ऊोतर्नेट॥ऊोंतेरिण्न स्यात् तादौ किति ॥ ऊर्गुञ् आच्छादने । ऊर्णतः। ऊर्गुतवान् ॥ (द्रवस्य काठिन्येऽस्पश चार्थे श्यैङः संप्रसारणं कितस्तस्य नत्वं च न तु स्पश) शीनं वृतम् । स्पर्श तु शेतं जलम् ॥ (सुबोधिनी)-द्रवस्य काठिन्येऽस्पर्श चार्थे श्यैङः संप्रसारणं कितस्तस्य नत्वं च न तु स्पर्शे ॥ श्यैङः संप्रसारणं स्यात् द्रवरूपस्य द्रव्यस्य, कठिनस्य भावः काठिन्यं तस्मिन् काठिन्येऽर्थे, च पुनः द्रवस्यास्पर्शेऽर्थे श्यैङः परस्य कितस्तस्य नश्च स्यात् स्पर्शेऽर्थे नत्वं न । श्यैङ गतौ । शीनं घृतम् । अस्पर्शे किम् । शीतं जलम् । काठिन्ये स्पर्श च किम् । संश्यानो वृश्चिकः । शीतात्संकुचित इ यर्थः । यलसंयोगादेरिति नत्वम् ॥ (अञ्चेः कितस्तस्य नत्वं न त्वपादाने) समनः । अन्यत्रोदक्तमुदकं कूपात् ॥ (सुबोधिनी)-अञ्चेः कितस्तस्य नत्वं न त्वपादाने॥ञ्चु गातपूजनयो। नत्वस्यासिद्धत्वात् चोः कुरिति कः । उदितः क्त्वो वेडिति क्वायां वेटकत्वात्कचिटेट इतीण्न । समनः । अनपादाने किम् । उदक्तमुदकं कूपात् ॥ (दिवोऽविजिगीषायाम् ) आयूनः। विजिगीषायां तु द्यूतम् ।। (सुबोधिनी)-दिवोऽविजिगीषायाम् ॥ दिवः क्तक्तवलोस्तस्य नः स्यात् । विजेतुमिच्छा विजिगीषा तस्यां वाच्यायां नवं न ॥ दिवु नोडाविजिगीषादौ । विङति झसे इति वस्य ऊः। धूनः। क्षीण इत्यर्थः । “आद्यूनः र यादौदरिकः" इति हैमः ॥ विजिगीषायां तु द्यूतम् । द्यूते विजिगीपयाऽक्षाः पात्यन्ते इति ॥ - (अनुपसर्गात्फुल्लक्षीबकृशोल्लाघा निपात्यन्ते) फुल्लः।फुल्लवान् । क्षीबृमदे । क्षीबो मत्तः । कृशस्तनुः । ला शोषणालार्थयोः उल्लायो Page #257 -------------------------------------------------------------------------- ________________ [ पूर्वकृदन्तप्रक्रिया ] टीकाद्वयोपेता । ( २३७ नीरोगः । उपसर्गात्तु ॥ (चरफलोरत उत्ति किति) प्रफुल्तः । प्रक्षीबितः । प्रकृशितः । प्रोल्लाधितः । चरः चूर्णः ॥ (सुबोधिनी) - अनुपसर्गात् फुल्लक्षीबकृशोल्लाघा निपात्यन्ते ॥ ञिफला विशरणे । क्तक्तवत्वोस्तस्य लत्वं निपात्यते ॥ चरफलोरत उत्ति किति ॥ एतयो-रस्य उत्स्यात् तादौ किति ॥ आदीदित इतीण न । फुलः । क्षीबृ मदे । कृश तनूकरणे - लाघृ शक्तौ । एषां त्रयाणां क्तस्य तलोपो निपात्यते । तलोपस्यासिद्धत्वात् प्राप्तस्येटो । Sभावश्च निपात्यते । ननु फुल्ल विकसने, लाघृ शक्तौ, आभ्यां पचादेर इत्यप्रत्यये इतराभ्यां नाम्युपधात्क इति कप्रत्यये फुल्लोल्लावक्षीवकृशाः शब्दाः सिद्धयन्ति किमनेन । उच्यते । फुल्तादिनिवृत्त्यर्थं सूत्रम् ॥ ( तत्त्वदी०) - अनुपसर्गादिति ॥ फुल्ल इति । तस्य लत्वं निपात्यते । 'लोध्रद्रुमं सानुमतः प्रफुलुम्।' ‘प्रफुल्लुराजीवमिवाङ्कमध्ये ।' इत्यादौ तु फुल्ल विकसने इत्यस्मात्पचाद्ये बोध्यम् । यद्व प्रस्य फुलेन समासः ॥ ( उत्फुल्लसंफुल्लौ च ) (सुबोधिनी) - उत्फुल्लसंफुल्लौ च ॥ उत्संपूर्वकावप्येतौ निपात्येते ॥ कथं तर्हि 'लोध्रद्रुमं सानुमतः प्रफुल्लम्' इति रघुवंशे । फुल विकसने प्रपूर्वादस्मात् पचादेरित्यप्रत्यये प्रफुल्ल इति । यद्यपि प्रफुल्लवदुत्फुल्लसंफुल्लावपि पचादेरित्यनेन सिद्ध्यतस्तथापि : उत्फुल्तः संफुल्त इति प्रयोगनिवृत्त्यर्थं सूत्रम् ॥ (तत्त्वदी० ) - उत्फुल्लेति ॥ यद्यपि प्रफुल्लवदेतयोरपि सिद्धिस्तथापि उत्फुल्त इत्यादिरूप -- वृत्त्यर्थमिदम् ॥ (वित्तो भोगप्रतीतयोः) वित्तं धनम् । वित्तः पुरुषः । अन्यत्र विन्नः ॥ ( भित्तं शकलम ) भिन्नमन्यत्र ॥ ( सुबोधिनी) - वित्तो भोगप्रतीतयोः ॥ भुज्यते इति भोगस्तस्मिन् भोगेऽथ प्रतीतः प्रसिद्धस्तस्मिन्प्रतीतेऽर्थे च विन्दतेः परस्य क्तस्य नत्वाभावो निपात्यते । दस्त स्यति नत्वे प्राप्ते निषेधः । विद्ल लाभे । वित्तः । विद्यतेर्विन्नः । विन्दतेर्वित्तः विन्नश्च । वेत्तेर्विदितः।विद सत्तायाम् । विद विचारणे । दैवादिकरौधादिकावेतावनिटयै । विद ज्ञाने । विद्ल लाभे । आदादि कतौदादिकावेतौ सेटौ । विद्ल लाभे अस्य तु गमहनावेदेति सुप्रत्यये वेकत्वात् क्वचिद्वेट इतीन ॥ भित्तं शकलम् ॥ भिदेः परस्य क्तस्य नत्वाभावो निपात्यते शकलेऽर्थे । दस्तस्येति प्राप्ते निषेधः । 'भित्तं शकलखण्डे वा इत्यमरः ॥ अन्यद्भिन्नम् । विदीर्णमित्यर्थः ॥ ( ऋणमाधम ) ऋतमन्यत्र ॥ Page #258 -------------------------------------------------------------------------- ________________ (२३८) सिद्धान्तचन्द्रिका। [ पूर्वकृदन्तप्रक्रिया ] (सुबोधिनी)-ऋणमाधमण्यें॥ऋ गतौ अस्मात् तस्य नत्वं निपात्यते॥अधर्म दुःखप्रदमृणमस्य सोऽधमर्णस्तस्य भाव आधमय तस्मिन्नाधमर्येऽर्थे। अधमर्णस्तु ग्राहकः' इत्यमरः ॥ ( तत्त्वदी०) ऋणमाधमर्ण्य इति ॥आधमर्ण्य इति ॥ अधमे ऋणे अधममृण यस्येति वाऽधमर्णस्तस्य भावस्तस्मिन् । तेन चाधमर्ण्यव्यवहारो लक्ष्यते तथा चोत्तमर्णेऽपि प्रयोगः सिध्यति ॥ (क्षुब्धस्वान्तध्वान्तलग्नम्लिष्टविरिब्धफाण्टबाढानि मन्थमनस्तमःसत्ताविस्पष्टस्वरानायासभृशेषु) क्षुब्धो मन्थः । स्वन शब्दे । स्वान्तं मनः। ध्वान्तं तमः । लगे संगे । लग्नं सक्तम् । म्लिष्टमविस्पष्टम् । रेभृ शब्दे । विरिब्धः स्वरः । फाण्टमनायाससाध्यः कषायविशेषः । बाहृ प्रयत्ने । बाढं भृशम् । अन्यत्र तु क्षुभितम् । स्वनितम् । ध्वनितम् । लगितम् । म्लेच्छितम् । विरेभितम् । फणितम् । बाहितम् ॥ (सुबोधिनी) क्षुब्ध १ स्वान्त २ ध्वान्त ३ लग्न ४ गिलष्ट ५ विरिब्ध ६ फाण्ट ७ वाढानि ८ मन्थ १ मन २ स्तमः ३ सक्ता ४ विस्पष्ट ५ स्वरा ६ नायास ७भृशेषु ८॥ क्षुब्धादीन्यष्टावनिटकानि निपात्यन्ते मन्थादिष्वर्थेषु ॥ शुभ संचलने । तथोर्ध इति तस्य धः । 'झवे जबाः' इति भस्य बः। क्षुब्धः॥ स्वन ध्वन शब्दे। जमान्तस्येति दीर्घः । स्वान्तम् । ध्वान्तम्॥लगे नत्वमपि निपात्यते। लग्नाम्लेच्छ अव्यक्ते शब्दे । रेभृ शब्दे । अनयोरुपधाया इत्वमपि निपात्यते । छशषेति षत्वं ष्टुत्वम् । म्लिष्टम् । तथोध इति धः । झबे इति भस्य बः । विरिब्धः॥ फण गतौ । अमान्तस्यति दीर्घः। ष्टुत्वम् । णस्यानुस्वारो निपात्यते । फाण्टम् ।। बाह प्रया ते । हो ढ इति ढः। तथार्थ इति तस्य धः। ष्टुत्वम् । ढि ढ इति ढलोपे बाढम्। कथं ता क्षुब्धो राजेति। आगमजमनित्यमित्यागमजस्यानित्यत्वादिडभावः ॥ (तत्त्वदी०) क्षुब्धमित्यादि|क्षुब्धमित्यादीन्यष्टौ निपात्यन्ते मन्थादिष्वर्थविशेषेषु वाच्येवित्यर्थः ॥ मन्थः इति ॥ द्रवद्रव्यसंपृक्ताः सक्तवो मन्थः मन्थन् दण्डश्च ।। . (धृष्टविशस्तावविनये) धृष्टः। विशस्तः । अन्यत्र धर्षितः। विशसितः॥ (सुबोधिनी)-धृष्टविशस्तावविनये ॥ अविनयेऽर्थे एतावनिटौ स्तः ॥ जिधृषा प्रागल्भ्ये । अस्य आदीदित इतीनिषेधे सिद्धेशसु हिंसायामस्य उदितः क्त्वोवेडिति क्त्वायां वेदकत्वात्क्वचिद्वेट इतीनिषेधे सिद्धे अनयोरविनये एवानिट्त्वं नान्यत्रेति नियमार्थ सूत्रम् । विनये तुर्षितः । शीस्विदिमिदीति तस्याकित्त्वाद्गुणः ॥ Page #259 -------------------------------------------------------------------------- ________________ [ पूर्वकृदन्तप्रक्रिया ] टीकाद्वयोपेता। (२३९) (तत्त्वदी०)-अन्यत्रेति॥अविनयादन्यत्रेत्यर्थः । धृषेरादित्वं चिन्त्यमिति कश्चित् । अन्यस्तु अविनयादन्यत्र भावकर्मणोष्टं धर्षितमित्यादौ विकल्पेटकत्वार्थमाह ॥ (दृढः स्थूलबलयोः) हितो दंहितोऽन्यः॥ (सुबोधिनी)-दृढः स्थूलबलयोः॥ स्थूलो मांसलस्तस्मिन्नर्थे । बलमस्यास्तीति बलः। अइको चेत्यः। तस्मिन् बलवत्यर्थे च दृह दृहि आभ्यां परस्य क्तप्रत्ययस्य ढत्वं . धातोरिडभावहलोपौ च इदितो नलोपश्च निपात्यते । दृढः ॥ ननु हो ढ इति ढत्व तथोर्ध इति धत्वे ष्टुत्वे च ढि ढ इति ढलोपे कृते दृढेति रूपसिद्धौ सत्यां किमर्थं ढत्वहलोपयोनिपातनम्। उच्यते।तथा हिंसति ढलोपस्यासिद्धत्वेनालघुत्वात् द्रढिमेत्यत्र र इमनीति रभावो न स्यात् ॥ परिद्रढय्य गत इत्यत्र परिद्रढीत्यस्मान्नामधातोः क्त्वाप्रत्यये क्यपि लघुपूर्वात्परस्य जेरिति बेरयादेशो न स्याच्च । अतोऽसिद्धत्वनिवृत्तये निपातनम् ॥ '(तत्त्वदी०)-स्थूलबलयोरिति॥बलमस्यास्तीति बलः।अइकावित्यः।मांसलोऽतिबलो दृढः ।। (प्रभौ परिवृढः) वृह वृहि वृद्धौ। परिवृहितः परिवृंहितोऽन्यः॥ (सुबोधिनी)-प्रभौ परिवृढः ॥ प्रभौ वाच्ये वृह वृहि वृद्धौ आभ्यां परस्य क्तस्य ढत्वं धातोरिडभावहलोपौ च इदितो नलोपश्च निपात्यते । 'प्रभुः परिवृढो ऽधिपः' इत्यमरः॥ अत्रापि ढत्वहलोपयोनिपातनं वढिमा परिवढय्येत्यादिसिद्ध्यर्थ प्राग्वदेव ॥ (कृच्छ्रगहनयोः कषः) कष्टम् । कष्टो मोहः । कष्टं शास्त्रम् । कषितमन्यत् ॥ (सुबोधिनी) कृच्छगहनयोः कषः॥ एतयोरर्थयोः कषः परस्य क्तस्येन स्यात् ॥ स्यात्कष्टं कृच्छ्रमाभीलम्' इत्यमरः ॥ अत्र कष्टशब्देन दुःखं तत्कारणं च गृह्यते । कष हिंसायाम्। कष्टो मोहः। दुःखहेतुरित्यर्थः । कष्टं शास्त्रम् । दुरवगाहमित्यर्थः॥ (घुष्टोऽविशब्दने) घुष्टा रज्जुः अविशब्दने किम्।घुषितं वाक्यम्। (सुबोधिनी)-घुष्टोऽविशब्दने-विशब्दनं प्रतिज्ञानं न विशब्दनमविशब्दनं तस्मिन्नर्थे घुषेः परस्य क्तस्येन स्यात् । घुषिर् शब्दार्थे भ्वादिः । घुपिर अविशब्दने चुरादिः । द्वयोरप्यत्र ग्रहणम् । ननु विशब्दनेऽर्थे इनिषेधाभावात् जिप्रत्यये उपधागुणे कृते सेटोः क्तक्तवत्वोरिति जिलोपे च घोषितमित्यपि स्यात् । अत्राहुः । विशब्दनथें चुरादेर्जिरेवानित्य इति ॥ (तत्त्वदी०)--घुषितमिति ॥ शब्देन प्रकटीकृताभिप्रायमित्यर्थः ।। Page #260 -------------------------------------------------------------------------- ________________ (२४०) सिद्धान्तचन्द्रिका। [ पूर्वकृदन्तप्रक्रिया ] -- (अभ्यर्णमाविदूर्ये ) अभ्यर्दितमन्यत् ॥ (सुबोधिनी)-अभ्यर्णमाविदूर्ये ॥ अः परस्य क्तस्येण्न स्यादाविदूर्येऽर्थे । विशेषेण दूरं विदूरं नविदूरम् अविदूरम् अविदूरस्य भाव आविदूर्यम् ॥ अर्द गतौ याचने च । दस्तस्येति तदयो त्वम् । अभ्यर्णम् । नातिदूरमासन्नं वा ॥ (तत्त्वदी०)-आविदूर्ये इति ॥ विशेषेण दूरं विदूरं र तोऽन्यदविदूरं नातिदूरमासन्नं वा। सामीप्य इति तु नोक्तं संकोचात् ॥ . (क्षीरहविषोः पाके शृतम्) अन्यत्र श्राणं श्रपितं वा ॥ (सुबोधिनी)-क्षीरहविषोःपाके शतम् ॥ श्रयतेःश आदेशो निपात्यते । श्रा पाके । अदादौ चुरादौ घटादावदि पठ्यते।औ पाके भ्वादौ। अस्यापिकृतात्वस्येह ग्रहणम् । निपातनसामर्थ्याल्लक्षणप्रतिपदोक्तयोरिति परिभाषा नाश्रीयते । शृतं क्षीरं स्वयमेव । विक्लिन्नं पक्वं वेत्यर्थः । क्षीरहविभ्यामन्यत्तु भणम् । यलसंयोगादेरिति नत्वम् । श्रपितं शाकादि। मितां ह्रस्व इति ह्रस्वः॥ (तत्त्वदी०)-शतमिति ॥ श्राश्रपयत्योर्निपातनम् । श्राणमिति ॥ शाकादि ।। .. (दान्तादयो वा निपात्यन्ते )दान्तः-दमितः ।शान्तः-शमितः। पूर्ण:-पूरितः। दसु उपक्षये । दस्तः-दासितः । स्पष्टः-स्पाशितः। छन्नः-छादितः। ज्ञप्तः-ज्ञपितः । रुष्टः-रुषितः । आन्तः-अमितः । तूर्णः-त्वरितः। संघुष्टः-संतुषितः । आस्वान्त:-आस्वानितः । हृष् तुष्टौ। हृष्टम्-हृषितम् । अपचायितः-अपचितः । प्यानः-पीनः ॥ (सुबोधिनी)-दान्तादयो वा निपात्यन्ते ॥ दान्तादयः सप्त जिप्रत्यये कृते सतिं क्तप्रत्ययान्ता वा निपात्यन्ते॥शमु दमु उपशमे। मनीषिति मित्त्वादुपधाया ह्रस्वः । एषांसप्तानां निपातनादिडभावः । रिति जिलोप छ । जमान्तस्येति दीर्घः । दान्तः । शान्तः। पूरी आप्यायने । दिवादौ चुरादौ च । र इति तस्य नत्वम् । पूर्णः । दसु उपक्षये । स्पश बाधने । छद अपवारणे । एषां त्रयाणां वृद्धयभावो निपात्यते । दस्तः । छशषेति षत्वम् । ष्टुत्वम् । स्पष्टः । दस्तस्येति तदयं त्वम् । छन्नः।ज्ञपज्ञानज्ञापनयोश्चुरादिः। मित्त्वादुपधाया ह्रस्वः । ज्ञप्तः। पक्षेकृत इमीद। सेटोः क्तक्तवत्वोरिति जिलोपः । शमित इत्यादि॥रुषादिभ्यः पञ्चभ्यः क्तस्येड गमो वा निपात्यये । रुष रोषे। इषुसहेति वेदकत्वात् क्वचिद्वेट इति निषेधे प्राप्ते विकल्पो निपात्यते । रुष्टःरुषितः अमगत्यादिषु । अमरोगे इति चौरादिकस्तु नगृह्यते एकस्वरादित्यधिकारात्। जमान्तस्येति दीर्घः।आन्तः-अमितः। जित्वरा संभ्रमे। आदीदत इति निषेधे प्राप्ते इडविकल्पोनिपात्यते। ज्वरत्वरेत्यूः। र इति तस्य नत्वम् । तूर्ण:-त्वरितः॥ घुषिर् अवि Page #261 -------------------------------------------------------------------------- ________________ [ पूर्वकृदन्तप्रक्रिया ] टीकादयोपेता। (२४१) शब्दन। घुष्टोऽविशब्दने इति विशब्दनेऽर्थे नित्यमिटि प्राप्ते विकल्पो निपात्यते।संघुष्टःसंघुषितः । स्वन शब्दे । अमान्तस्येति दीर्घः । आस्वान्तः-आस्वनितः। आपूर्वस्य स्वनेर्मनोऽभिधानेऽप्ययं विकल्पः परत्वात्।आस्वान्तम् आस्वनितं वा मनः।हृषु अलीके। अस्योदित इति क्त्वायां वेटकत्वात् कचिद्वेट इतीनिषेधे प्राप्ते, हृष तुष्टौ सेटत्वादस्य नित्यमिटि प्राप्ते विकल्पो निपात्यते । उभयोरिह ग्रहणम्। हृष्टं-हृषितं लोम। हृष्टोहृषितो मैत्रः । विस्मितः प्रतिहतो वेत्यर्थः ॥ चाय पूजानिशामनयोः । अस्य च्यादेशो निपात्यते वा क्ते । अपचितः-अपचायितः ॥ ओप्यायी वृद्धौ । अस्य पीति निपात्यते वा क्ते । आदीदित इतीनिषेधः । यवयोर्वसे इति यलोपः । ल्वाद्योदित इति नत्वम् । प्यानः-पीनः स्वेदः। स्वाङ्गे नित्यम् । पीनं मुखम् । सोपसर्गस्य न । प्रप्यानः । आपूर्वस्य तु स्यादेव । आपीनः कूपः । आपीनमूधः॥। (तत्त्वदी०) दान्तादय इति ॥ ञ्यन्ता इत्यर्थः । तूर्ण इति ॥ जित्वरा संभ्रम इत्यस्य । आदित्वमस्य मन्दफलम् । इटो वैकल्पिकत्वेन निपातनात् ॥ (हादेवस्वः किति ते) ह्लादी सुखे । प्रह्लन्नः॥ सुबोधिनी)-ह्लादेहस्वः किति ते ॥ हादी सुखे । आदीदित इतीन ॥ दस्तस्येति नत्वम् । प्रह्लन्नः ॥ ( तत्त्वदी०)-प्रह्लन इति ॥ हादी सुखे । ईदित्वान्नेट् ॥ (निनदीभ्यां स्नातेः सस्य षः कौशले) निष्णातः। नदीष्णः॥ (सुबोधिनी)-निनदीभ्यां स्नातेः सस्य षः कौशले ॥ आभ्यां स्नाते: सस्य षः स्यात् कौशले गम्ये ॥ शास्त्रेषु निष्णातः कुशलः । नद्यां स्नातो नदी ष्णः। नदीस्नाने कुशलः । नाम्नि चेति डः॥ (तत्त्वदी० )-निनदीभ्यामिति ॥ नदीष्ण इति ॥ नदीस्नाने कुशल इत्यर्थः ।। (स्थैर्यगतिभक्षणार्थेभ्योऽधिकरणेऽपि क्तः) तथा च "मुकुन्दस्यासितमिदमिदं यातं रमापतेः।भुक्तमेतदनन्तस्येत्यूचुर्गोप्यो दिदृक्षवः॥" ( सुबोधिनी)-स्थैर्यगतिभक्षणार्थेभ्योऽधिकरणेऽपि क्तः ॥ एभ्य आधारेऽर्थे क्तः स्यात्॥अपिशब्देन यथाप्राप्तम्। "मुकुन्दस्यासितमिदमिदं यातं रमापतेः।भुक्तमतदनन्तस्येत्यूचुर्गोप्यो दिदृक्षवः ॥” द्रष्टुमिच्छन्ति दिदृक्षन्ते इति दिदृक्षवो गोप्य इत्यूचुः । इतीति किम् । मुकुन्दस्य कृष्णस्येदमासितम् । आस्यतेऽस्मिन्नित्यासितमासनम् । रमापतेर्विष्णोरिदं यातम् । यायतेऽस्मिन्निति यातं मार्गः। अनन्तस्य हरेरे तद्भक्तम् । भुज्यतेऽस्मिन्निति भुक्तं भाजनम् । मुकुन्दस्येत्यादिषु वर्तमानाधारार्थत्तस्य योग षष्ठी इति कर्तरि षष्ठी। पक्षेआसेरकर्मकत्वात् कर्तरि भावे चक्तः। आसितःसः। १६ Page #262 -------------------------------------------------------------------------- ________________ (२४२) सिद्धान्तचन्द्रिका । पूर्वकृदन्तप्रक्रिया ] आसितं तेन । गत्यर्थेभ्यः कर्तरि कर्मणि च क्तः । ग्रामं यातः सः । ग्रामो यातस्तेन। भुजेः कर्मणि क्तः । तेन भुक्तमन्नम् । कथं तर्हि "भुक्ता ब्राह्मणाः पीता गावः" इति । उच्यते । भुक्तमस्त्येषामिति अस्त्यर्थं अः॥ - (तत्त्वदी०) मुकुन्दस्येत्यादि॥ आस्यतेऽस्मिन्नित्यासितमास नमित्यर्थः । यायतेऽस्मिन्निति यातम् । भुज्यतेऽस्मिन्निति भुक्तम् । भाजनमित्यर्थः। त्रिष्वपि वर्तमाना' रार्थक्तस्येति कर्तरि षष्टी ।। (जीर्यतेरत) जरन्, जरन्तौ ॥ सुबोधिनी)-जीर्यतेरत ॥ जृष वयोहानौ। अस्माद्भतेऽथे अतृ प्रत्ययः स्यात् ।। अतृप्रत्ययमाह-ऋदित्त्वाद् वितो नुमिति नुम्।ऋतो गुणे कृते नामत्वात्स्यादौ संयोगान्तस्येति तलोपः । तलोपस्यासिद्धत्वान्नोपधाया इति दीघों न भवति । ता जरन् । स्त्री जरती। क्तक्तवत्वोः जर्णिः । जीर्णवान् ॥ __ (कसुकानौ णबेवत् ) धातोरतीते काले एतौ भवतस्तौ च यथाक्रम णबेवत् ॥ द्वित्वम् । संयोगान्तस्य लोपः ॥ चकृवान् । वसोर्व उः । चक्रुषः । चक्रुषा । वसां रसे । चकृवद्याम् । चक्राणः । भेजिवान् । जजागृवान् । द्वित्वे सत्येकस्वरादादन्तासेश्च वसोरिट् नान्यस्मात् ॥ (सुबोधिनी) कसुकानौ णबेवत्॥भूतसामान्ये कसुकानों प्रत्ययावाह-कसोः ककारो गुणनिषेधार्थः। उकारस्तु पुंसि ब्रितो नुमिति नुमर्थः । स्त्रियां तु ष्ट्रवित इतीबर्थः । कानप्रत्ययस्य कित्करणं तिस्तिराण इत्यत्र ऋसंयो आदित्यकित्वाद् गुणस्य निषेधार्थम् । णवादिपर यत्कार्यं द्वित्वादि तत्सर्वमनयोः परयोरपि स्यात् । डुकृञ् करणे। द्वित्वादिना चकृवसिति जाते नामसंज्ञायां स्यादिः । सन्महत इति पुंसि पञ्चसु दीर्घः । क्लीवे तु शौ दीर्घः। संयोगान्तस्येति सलोपः । चकृवान्, चकृवांसौ, चकृवांसः। चकृवांसम्,चकृवांसौ, शसादौ तु वसोवे उरित्युवे ऋ रमिति चक्रुषः। चक्रुषा। वसां रसे इति सस्य दत्वम्।चकृवद्भयाम्, चकृवद्भिरित्यादि। स्त्रियां तु ष्टवित इतीप् । वसोर्व उरित्युत्वे षत्वे च चऋषी । क्लीवे तु चकृवत, चकृषी, चकृवांसि ॥ भज सेवायाम् । भेजिवान् । भेजुषी स्त्री॥जागृ निद्राक्षये । जजागृवान्।जजाग्रुषी स्त्री। द्वित्वे सत्येकस्वरादादन्ताद् घसेश्व वसोरिट् नान्यस्मात् । दित्वे कृते सत्येकस्वराद्धातोरादन्ताद्धातोर्घसेश्च परस्य वसोरिट् स्यात् नान्येभ्यः परस्प वसोः । कृतेऽपि द्वित्वे एकस्वरा ये धातवोऽवशिष्यन्ते तेभ्य इत्यर्थः । हबक्त्योरिति निषेधं बाधित्वा क्रादेरिति नियमात्सर्वत्र प्राप्तस्येटो नियमः॥ (तत्त्वदी०)-णबेवदिति ॥ यथा परस्मैपदिभ्यो णप् तथा वसुः। यथाऽऽत्मनेपदिभ्य ए तथा कानः । द्वित्वे सतीति ॥ द्वित्वे कृते सति एकस्वरो यस्तस्मादित्यर्थः ॥ Page #263 -------------------------------------------------------------------------- ________________ [ पूर्वकृदन्तप्रक्रिया ] टीकाद्वयोपेता। (२४३) (गमहनविदविशदृशां वा) बभूवान् । भुवो वुक् । बभूवुषः । बभूवुषा । अद भक्षणे । आदिवान् । वस्योत्वे इडभावः। आदुषी । ऋ गतौ । आरिवान् । डुदान दाने । ददिवान् । ददरिद्रिवान् । जज्ञिवान् । जक्षिवान् । जग्मिवान्-जगन्वान् । जग्मुषः । जटिनवान्जघन्वान् । जघ्नुषा । विविदिवान-विविद्वान् । विविदषः । विविशिवान्-विविश्वान् । ददृशिवान्-ददृश्वान् । ईयिवान् । सेदिवान् । ऊपिवान् । शुश्रुवान् । शुश्रुतुषः॥ (सुबोधिनी)-गमहनविदविशदृशां वा ॥ एभ्यः परस्य वसुप्रत्ययस्येडा स्यात् ॥ विशिना साहचर्यात् विदल लाभे इत्यस्य ग्रहणम्। भूसत्तायाम् । बभूवान्, बभूवांसौ । शसादौ तु वसोर्व उरित्युत्वे कृते भुवो वुगिति वुक् । बभूवुषः । बभूवुषा। बभूवद्भयामित्यादि । बभूवुषी स्त्री ॥ अद भक्षणे । द्वित्वहसादिशेषपूर्वदीर्घसवर्णदीर्येषु कृतेषु कृते द्वित्वेऽप्ययमेकस्वर एंवति इड् भवति।आदिवान् । वस्योत्वे कृते इडभावो भवति । निमित्ताभावे नैमित्तिकस्याप्यभाव इत्युक्तत्वात् । आदुषी स्त्री ॥ ऋगतौ । गुणोऽति गुणे कृते द्वित्वादिषु कृतेष्वप्येकस्वर एवेति इड् भवति । आरिवान् । आरुषी स्त्री ॥ डुदाज़ दाने । कृते द्वित्व नायमेकस्वरः। अनेकस्वरत्वादिनिषेधे प्राप्त सूत्रे आदन्तग्रहणादिड् भवति । आतोऽनपीत्यालोपः । ददिवान् । ददुषी स्त्री ॥ दरिद्रा दुर्गतौ । आदन्तग्रहणादिट। आतोऽनपीत्यालोपः । ददरिद्रिवान् । ददरिद्रुषी स्त्री । अद भक्षणे । सिसयोरदेघस्ल इति लिटि वा घस्ल आदेशः । द्वित्वे कृते नायमेकस्वरः । सूत्रे घसम्रहणादिट् । उपधालोपात्प्रागेव द्वित्वम् । पश्चाद्गमा स्वरे इत्युपधालोपः । घसादेः ष इति षत्वम् । खसे चपा इति घस्य कः । जक्षिवान् । जक्षुषी स्त्री ॥ गम्ल गतौ । गमादीनां चतुर्णामिड्डा । द्वित्वादि । गमामित्युपधालोपः। जगामेति जग्मिवान् । इडभावे मो नो धातोरिति मस्प नः । जगन्वान् । जग्मुषी स्त्री। श्रेयांसि सर्वाण्यधिजग्मुषस्ते' इति रघुवंशे ॥ हन हिंसागत्योः । द्वित्वादि । गमामित्युपधालोपः । हनो ने इति हस्य घः । जन्निवान् । इडभावे हन्तेरिति परस्य हस्य घाजघन्वान् । जघ्नुषी स्त्री ॥ विद्ल लाभे । विविदिवान्।इडभावे विविद्वान् । विविदुषी स्त्री ॥ विश प्रवेशने । विविशिवान्-विविश्वान् । विविशषी स्त्री॥ इण् गतौ । द्वित्वम् । इणः परस्य वसोरिट निपात्यते। द्वित्वे सत्येकस्वराभावाद्विधिरयम् । इणः किति णादाविति पूर्वदीर्घः । सवर्णे दीर्घ इति सूत्रं बाधित्वा नित्यत्वादिणः क्ङिति स्वरे इति यः । वसोरिडागमस्य कित्स्वरस्य परत्र सत्त्वात् । ईयिवान् । ईयुषी स्त्री ॥षदल विशरणादौ । द्वित्वादि । लोपः पचामित्येत्वपूर्वलोपौ । इंट् । सेदिवान् । सेदुषी स्त्री । 'निषेदुषीमासनबन्धधीरः' इति रघुवंशे ॥ वस निवासे । Page #264 -------------------------------------------------------------------------- ________________ (२४४) सिद्धान्तचन्द्रिका। [ पूर्वकृदन्तप्रक्रिया द्वित्वादिाणबादौ पूर्वस्येति पूर्वस्य संप्रसारणम्।यजामति परस्य संप्रसारणम् । सवर्णे दीर्घ इति दीर्घे कृते एकस्वरत्वादिटाघसादेरिति षः। ऊषिवान्। ऊषुषी स्त्री । 'अध्यूषुषस्तामभवज्जनस्य' इति माघः । श्रु श्रवणे । शुश्रुवान् । शुश्रुषी स्त्री ॥ (तत्त्वदी०)-बभूवानिति॥केवलस्यैकरवरत्वेऽपि कृतद्वित्वा तदभावात्। एतौ छन्दस्येवेति पाणिनीयानुसारिणः । भाषायामपीत्यन्ये ॥ (शतृशानौ तिप्तेवत्कियायाम ) क्रियायां गम्यमानायां धातो: शतृशानौ भवतस्तौ च तिवत् ॥ पचन्नास्ते ॥ पठस्तिष्ठति । गायन्नागच्छति ॥ (सुबोधिनी)-शतृशानौ तिप्तेवत् क्रियायाम ॥ शतृशामप्रत्ययावाहउभयोः शित्त्वाच्चतुर्वत्कार्यम्।ऋदित्त्वात्पुंसि व्रितो नुमिति नुमास्त्रियां तु ष्टवित इतीप। पचतीति । अप् । पचन् । विक्लित्त्यनुकूलवर्तमानव्यापाराश्रयश्चैत्रः ॥ (तत्त्वदी०)-शतृशानाविति ॥ परस्मैपदिभ्यः शतृ आत्मनेपदिभ्यः शान उभयपदिभ्यस्तूभयम् । .. (मुगानेऽतः) अकारस्याने मुगागमः स्यात ॥ पचमानः पठति । मन्वानः । कुर्वाणः । दादेरिः। पीयमानः सोमो भवता।दयिमाना गौः __ (सुबोधिनी)-मुगानेतः॥ अदन्तस्य मुगागमः स्यादाने परे ॥ पचते इति पच. मानः। मनुते इति मन्वानः। कुरुते इति कुर्वाणः। उभयत्र उप । ङित्यदुरित्यत उत् ॥ पीपाने । दीङ्क्षये । देवादिकाविमौ । अथवा पा पाने इदाञ् दाने । आभ्यां कर्मणि शानप्रत्यये कृते यक चतुर्विति यक । दादेरिरितीत्वम् । ये इति दीर्घादीयमानः । पीयमानः॥ (आसेरान ई.) आसेः परस्यान ईः स्यात् ॥ आसीनः॥ (सुबोधिनी)-आसेरान ईः ॥ आनस्य आत ईत्वम् ॥ आस उपवेशने।आस्त इति आसीनः॥ (तत्त्वदी०)-आसेरान ईआनस्य आ तस्य आनः क्व इतिवदधातोरप्यालोपः कचित्।। (वाऽऽदीपोः शतुः)अवर्णात्परस्य शतुर्वा नुमीकारे ईपि च परे । तुदन् सः । तुदती-तुदन्ती कुले स्त्री वा ॥ (सुबोधिनी)-वादीपोः शतुः॥ अवर्णात्परस्य शाप्रत्ययस्य नुम् वा स्यादी पि ईकारे च ॥ तुदतीति तुदन्, तुदन्तौ,तुदन्तः । स्त्रियां तु तुदती तुदन्ती । क्लीवे तु तुदत, तुदती-तुदन्ती, तुदन्ति ॥ (अप्ययोरानित्यम् ) अप्प्रत्यययप्रत्ययसंबन्धिनोऽवर्णात्परस्य शतुर्नुनित्यमीकारे ईपि च ॥ भवन साभवन्ती। दीव्यत् । दीव्यन्ती । Page #265 -------------------------------------------------------------------------- ________________ [ पूर्वकृदन्तप्रक्रिया ] टीकाद्वयोपेता । ( २४५ ) दीव्यन्त्यौ गङ्गायमुने ॥ द्विरुक्तानां जक्षादीनां च परस्य शतुर्तुम्न शौ वा ॥ ददत् । दधत् । ( सुबोधिनी ) - अप्ययोरान्नित्यम् ॥ अश्यप्रत्ययाभ्यां परस्य शत्रुर्नित्यं नुम् स्यात् ईपि ईकारे च ॥ भवनीति पुंसि भवन् भवन्तौ । स्त्रियां तु भवन्ती । क्लीबेतु भवत्, भवती, भवन्ति ॥ दीव्यतीति 'य्वोविं हसे' इति दीर्घः । दीव्यन, दीव्यन्तौ । स्त्रियां तु दीव्यन्ती । क्लींबे तु दीव्यत्, दीव्यती, दीव्यन्ति ॥ ददातीति दधातीति चहादेश्चेति द्वित्वादि । दादेरित्यालोपः । ददत् सः । ददती स्त्री । ददत् ददती, ददतिददन्ति ॥ दधत् सः । दधती स्त्री । दधत् दधती, दधति - दधन्ति ॥ (विदेर्वा वसुः) वेत्तेः परस्य शतुर्वा वसुरादेशः ॥ विद्वान् विदन् ॥ (सुबोधिनी) - विदेर्वा वसुः ॥ वसोरुदित्करणं वसोर्व उरित्युत्वार्थम् । नुम् तु स्थानिवत्त्वेनैव सिद्धः। वेत्तीति अपित्तादिर्डिंदिति । वसुशत्रोर्डित्त्वम् । ङित्त्वाद् गुणो न । विद्वान् विदन् । विदुषी स्त्री ॥ (तत्त्वदी ० ) - विदेवेंति । शतृवदेव ऋदित्त्वेन नुमि सिद्धे वसोरुदित्करणं वसुग्रहणेन कसोरपि ग्रहणार्थम् ॥ ( माझ्याक्रोशे ) भाजीवन् ॥ ( सुबोधिनी) - माङया कोशे | माङयुपपदे निन्दायामर्थे धातोः शतृप्रत्ययः स्यात् ॥ माङि सिरेवेति लुप्राप्ते लविधिः । जीव प्राणधारणे । माजीवन् ॥ (लक्षणहेत्वोः क्रियायाः ) शयाना भुञ्जते यवनाः । अर्ज प्रतियत्ने चुरादिः । अर्जयन्त्रसति ॥ (सुबोधिनी) - लक्षणहेत्वोः क्रियायाः ॥ क्रियायाः चिह्ने हेतौ चार्थे वर्तमानाद्धातोः शतृशानौ स्तः ॥ अ हेतुशब्देन फलं कारणं चोच्यते । शेरते इति । शीङो गुण इति गुणः । शयाना भुञ्जते यवनाः । यवनकर्तृकभोजनस्य शयनं लक्षणम् ॥ अर्ज प्रतियत्ने चुरादिः । अर्तयतीति अर्जयन् वसति । अर्जनार्थो वास इत्यर्थः ॥ ( तत्त्वदी ० ) - शयाना इति । अत्र शयनं भोजनस्य लक्षणम् ॥ अर्जयन्निति ॥ अर्ज प्रतियत्ने चुरादिः । अर्जना वास इत्यर्थः । लक्षणहेत्वोः किम् । पचति पठति च ॥ क्रियायाः किम् ॥ द्रव्यगुणयोर्लक्ष मा भूत् । यः कम्पते सोऽश्वत्थवत्प्लवते तलघु । हन्तीति पलायते वर्षतीति धावतीत्यत्र इतिना हेतुत्वस्य द्योतितत्वान्न ॥ (भविष्यति स्यप्रशतृशानपरः ) हन्नृतः स्यपः । करिष्यन् । करिष्यमाणः ॥ Page #266 -------------------------------------------------------------------------- ________________ (२४६) सिद्धान्तचन्द्रिका। [ पूर्वकृदन्तप्रक्रिया ] (सुबोधिनी)-भविष्यति स्यप् शतृशानपरः ।। भविष्यत्स्यबन्ताद्धातोः परयोरात्पयोः स्थाने शतृशानौ वा स्तः ॥ करिष्यतीति करिष्यन् । सिसतेतीट् । करिष्यते इति करिष्यमाणः ॥ (ताच्छील्यवयोवचनशक्तिष्वानश्) भोग भुञ्जानः । कवचं बिभ्राणः । शत्रु निघ्नानः॥ __ (सुबोधिनी)-ताच्छील्यवयोवचनशक्तिष्वान ॥ ताच्छील्यं तत्स्वभावता । वयो यौवनादिः । शक्तिः सामर्थ्यम् । एषु द्योत्येषु धातोः कर्तरि आनशू स्यात् ॥ आनश्प्रत्ययमाह-शिवाच्चतुर्वत्कार्यम् । परस्मै पदिभ्योऽप्यानश् स्यादेतदर्थमिदम् । भुनक्तीति । रुधादित्वान्नुम् । नमसोऽस्येत्यलोपः भुञ्जानः । बिभर्तीति बिभ्राणः । हन्तीति । गमामित्युपधालोपः। हनो ने इति हस्य घः। निघ्नानः॥ (तत्त्वदी०)-ताच्छील्य इति ॥ ताच्छील्यं तत्स्वभावता । वयो यौवनादिः । शक्तिः सामर्थ्यम् ॥ पदानियमोऽत्र ॥ (इचार्योस्कृच्छिणि कर्तरि शतृ ) इङ् ध्ययने । अधीयन् । धृ धारणे ज्यन्तः । धारयन् ॥ __ (सुबोधिनी )-इधार्योरकृच्छिणि कर्तरि शतृ ।। अकृच्छः सुखसाध्यो धात्वर्थः। आभ्यां शतृप्रत्ययः स्यादकृच्छिणि कर्तरि । पुनः शतृप्रत्ययमाह-इङ आत्मनेपदित्वाच्छतृप्रत्ययो न सिद्धयतिधारयतेराप आत्मगामिनि क्रियाफले शतृप्रत्ययो न सिध्यति तदर्थोऽयमारम्भः । इङ अध्ययने । अर्ध ते इति । अदादित्वादपो लुकू । नुधातोरितीय । अधीयन् । धारयते इति अप । धारय त् ॥ (तत्त्वदी०) इङ् ॥ अकृच्छ्रः सुखसाध्यो धात्वर्थः सोऽस्सास्तीत्यकृच्छ्री । ञ्यन्तत्वादुमयपदित्वेनोभयप्राप्तौ शत्रेव यथा स्यादित्येतदर्थमिदम् ॥ (द्विषः शत्रौ) द्विष अनीता द्वेष्टीति द्विषन् ।। (सुबोधिनी)-दिषः शत्रौ ॥ द्विष अप्रीतौ । अस्मा च्छत्री वाच्ये शतृप्रत्ययः स्यात् ॥ द्वेष्टीति द्विषन् । (अर्ह पूजायाम् ) अर्हन् ॥ (सुबोधिनी)-अर्ह पूजायाम् ॥ अर्ह पूजायामस्माच्छतृप्रत्ययः स्यात्पूजायामर्थे । अर्हतीति अर्हन् । . ( तत्त्वदी०)-अर्ह इति ॥ पूजायां किम् । अर्हति चौरो व ॥ (शीले तृन् ) कटं कर्ता । हृञ् । हर्ता ॥ (सुबोधिनी)-शीले तृन् ॥ तृन्प्रत्ययमाह-नकारः स्वरार्थः । इतः पं वक्ष्यमाणाः प्रत्ययाः ताच्छील्यादिषु बोध्याः। करोतीत्येवंशीलः कर्ता कटम् ॥ Page #267 -------------------------------------------------------------------------- ________________ [ पूर्वकृदन्तप्रक्रिया ] टीकाद्वयोपेता। (२४७) (इष्णुस्नुक्नु शीले) अलंकरिष्णुः। निराकरिष्णुः । जनी प्रजनिष्णुः॥ (सुबोधिनी) इष्णुस्त क्तु शीले ॥धातोरेते प्रत्ययाः शीलेऽथे।इष्णुस्नुक्नुप्रत्ययानाह-क्नुककारो गुण नेषेधार्थः । अलंकरोतीत्येवंशीलोऽलं करिष्णुः । निराकरोतीत्येवंशीलो निराकरिष्णुः । जनी प्रादुर्भावे । प्रजायते इत्येवंशीलः प्रजनिष्णुः॥ (तत्त्वदी०) इष्णुस्तुमनु-॥इष्णुश्च स्नुश्च क्नुश्च एषां समाहारः। ञ्यन्तभ्राजभूसहचरवृधवृतप्रजनरुच्यपत्रपालंकृनिरा उत्पचोत्पतोन्मद इष्णुः । (जिभुवोर्नेड्गुणौ स्नौ) जि जये। जिष्णुः। भूष्णुः । ग्लास्तुः। त्रसी त्रस्नुः । गृध्नुः । निधृषा धृष्णुः । क्षिप क्षिप्तुः॥ __(सुबोधिनी)-जिभुवानेंडगुणौ स्नौ ॥ जयतीत्येवंशीलो जिष्णुः॥ भवतीत्येवंशीलो भूष्णुः ॥ ग्लायीत्येवंशीलो ग्लास्नुः ॥ त्रसी उद्वेगे । क्नुः ॥ हवक्त्योरितीन । त्रस्नुः॥ गृधु आकाङ्क्षायाम् । गृध्नुः ॥ जिधृषा प्रागल्भ्य । धृष्णुः ॥ क्षिप प्रेरणे । क्षिप्नुः ॥ (षाकोकणः) शीलार्थे षाक उ उकण् प्रत्यया भवन्ति। जल्पाकः। भिक्ष याच्आयाम् । भिक्षाकः। कुट्ट च्छेदने । कुट्टाकः दुष्टः । लुण्ठ चौर्ये । लुण्ठाकः । वृङ संभक्तौ । वराकः॥ भिक्षुः। आङः शसि इच्छायाम् । इदिती नुम् । आशसुः । चिकीर्षुः ॥ लष कान्तौ । लाषुकः। पत्ल पतने । पातुकः । तातो युक् । स्थायुकः । भावुकः । वृषु सेचने । वर्षुकः । घातुकः । कामकः॥ (सुबोधिनी)-पाकोकणः ॥ पाक उ उकण-प्रत्ययानाह-पाकस्य षः ष्ट्रव्रित इतीवर्थः । उकणो णो वृद्ध पर्थः । जल्पतीत्येवंशीलः । जल्प व्यक्तायां वाचि । जल्पाकः ॥ भिक्ष भिक्षायार । भिक्षाकः कुट्ट छेदने । लुण्ठ स्तये । चौरादिकाविमौ । कुट्टाकः । लुण्ठाकः । वृञ् वरणे । वृङ संभक्तौ । वराकः ॥ सान्ताशंसभिक्षिभ्य उः। सः प्रत्ययस्तदन्तो धातुः सान्त उच्यते । कर्तुमिच्छति चिकीर्षतीति सप्रत्यये द्वित्वादि। यः से इतीत्वम्। से दीर्घ इति दीर्घः।ऋत इरितीर। वो वि हसे इति दीर्घः । पत्वम् । चिकीर्षति जातम् । उप्रत्यये यत इत्यल्लोपः। चिकीर्षुः ॥ आङः शसि इच्छायाम् । यमेव गृह्यते न तु शंसु स्तुतौ आङा सह निर्देशात् ।। आशंसुः। भिक्ष भिक्षायाम् भिक्षुः । लष कान्तौ । उकण् । लाषुकः॥ पत्ल पतने । पातुकः ॥ पद गतौ । पादुवः ॥ ष्ठा गतिनिवृत्तौ । आतो युगिति युक् । स्थायुकः।। भू सत्तायाम् । भावुकः।। वृषु सेचने । उपधाया लघोरिति गुणः । वर्षकः ॥ हन हिंसागत्योः। हनो घदिति वत् । घातुकः ॥ कमु कान्तौ । कामुकः॥ गम्ल गतौ। गामुकः ॥ शू हिंसायाम् । शारुकः ॥ Page #268 -------------------------------------------------------------------------- ________________ (२४८) सिद्धान्तचन्द्रिका। [पूर्वकृदन्तप्रक्रिया ] (तत्त्वदी०)-जल्पाक इति ॥ जल्पनशीलः । एवं सत्र शीलार्थप्रत्यये वाक्यम् । प ईबर्थः। तेन वराकी॥ जल्पभिक्षकुट्टलुण्ठवृङः षाकः। सान्ताशंसभिक्ष उः। लषपतपदस्थाभूवृषहनकमगमशृभ्य उकण् ॥ (शवन्द्योरारुः) शृ हिंसायाम् । शरारुः । वदि वन्दारुः॥ (सुबोधिनी)-शवन्द्योरारुः॥श हिंसायाम्। वदि अभिवादनस्तुत्यो|आभ्यामारुः । आरुप्रत्ययमाह-शरारुः । वन्दारुः । “शरारुर्घातको हिंस्रो वन्दारुरभिवादके” इत्यमरः ॥ (स्पृहिगृहिपतिदयिनिद्रातन्द्राश्रद्धाशीङ्भ्य आलुः) स्पृहयालुः। गृह ग्रहणे चुरादिः। गृहयालुः । पतयालुः। दय दाने । दयालुः। द्रा कुत्सायाम् । निद्रालुः । तदो नान्तत्वम् । तन्द्रालुः। श्रद्धालुः। शीशयालुः॥ (सुबोधिनी) स्पृहिगृहिपतिदयिनिद्रातन्द्राश्र द्वाशीभ्य आलुः ॥ आलुप्रत्ययमाह-स्पृह ईप्सायाम् । गृह ग्रहणे । पत गतौ । एते त्रयश्चुरादावदन्ताः। अल्लोपस्य स्थानिवत्त्वान्नोपधाया गुणवृद्धी । रिति जिलोपो न । न त्विडामन्तेति निषेधात् । अर्गुणे कृते स्पृहयालुः। गृहयालुः। पतयालुः । दय दाने । दयालुः । द्रा कुत्सायाम् । निपूर्वः। आतोऽनपीत्यालोपः । निद्रालुः। तत्पूर्वी द्रा । तच्छब्दस्य समासे नत्वं निपात्यते । तन्द्रालुः ।। श्रत्पूर्वो डुधाञ् धाणादौ । धेट् पनि।अयं तु न गृह्यते श्रत्पूर्वस्य धेटः प्रयोगाभावात् । शीङ् स्वप्ने । यालुः कथं तर्हि कृपालुः स्पर्धालुारीत । कृपां स्पर्दा च लातीति विग्रहे मृगय्वादित्वात्कुः॥ . __ (तत्त्वदी०) स्पृहि इति ॥ स्पृहयालुरिति ॥स्पृह्यादयत्रोऽपि चुरादावदन्ताः । अल्लोपस्य स्थानिवत्त्वान्नोपधागुणवृद्धी । न विडामन्तेत्यादिना निषेधात्र्लोपो न ॥ __ (शमादिभ्यो घिनुण ) शम उपशमे। शमी। तमी । दमी । भ्रमी। क्षमी । कमी । श्रमी । प्रमादी ॥ चजोः कगो घिति ॥ चकारजकारयोः ककारगकारी घिति ॥ संपर्की । योगी । विवेकी । त्यागी। (असि उसि अन अके घिनुणि रञ्जनलोपो वाच्यः ) रागी। भागी। विकाषी । विलासी । प्रलापी । प्रसारी । मथे विलोडने । प्रमाथी । प्रवासी। (सुबोधिनी)-शमादिभ्यो घिनु॥शमु तमु दमु श्रमुभ्रमु क्षमु क्लमु मदीति शमादयोऽष्टौ॥घिनुणप्रत्ययमाह-उकार उच्चारणार्थः।घित्त्वाच्चजेरिति कगौ । णित्त्वात् वृद्धि। शाम्यतीत्येवंशीलः। मान्तस्य सेट इति न वृद्धिः । नामिति दीर्घःशमी।तमी। Page #269 -------------------------------------------------------------------------- ________________ [ पूर्वकृदन्तप्रक्रिया ] टीकाद्वयोपेता। (२४९) दमी । श्रमी । भ्रमी । क्षमी।मी। प्रपूर्वस्य मदेर्दीर्घः। प्रमादी। आदिशब्देनान्येऽपि ग्राह्याः । पृची संपर्के । चजोरीत कः। संपर्की ॥ युज समाधौ । युजिर योगे वा । योगी ॥ विचिर पृथग्भावे । विवेकी । त्यज हानौ । त्यागी ॥ राज दीप्तौ । रञ्ज रागे वा। रागी॥भज सेवायाम् । भागी॥ कष् हिंसायाम् । विकाषी॥ लसश्लेषणक्रीडनयोः । विलासी ॥ लप व्यक्तायां वाचि । प्रलापी ॥ स गतौ । प्रसारी॥ मथे विलोडने । प्रमाथी ॥ वस निवासे । प्रवासी ॥ (तत्त्वदी०) शमादिभ्य इति ॥ घो घित्कार्यार्थः । उकार उच्चारणार्थ इति वृत्तिः । उदिदिति भाष्यम् । तेन शमिनित्रा-शमिनीतरेत्यत्र वितः परस्येति ह्रस्वो वा । शमी, शमिनावित्यत्र नुमभावस्तु झसग्रहणमपकृ' य झसान्तानामेव तद्विधानात् ॥ शमीति ॥ शमनशील इति वाक्यम् ॥ अमन्तत्वादस्वः ॥ (निन्दादेव) निन्दकः । हिंसकः । परिक्षेपकः । परिवादकः ।। ' (सुबोधिनी)-निन्दा न॥वुणप्रत्ययेनापि सिद्धे वुवचनं ज्ञापकं शीलादिवर्थेषु त्रादयो न भवन्तीति।प्रत्ययमाह-त्रित्त्वाइद्धिः। युवोरनाकावित्यकादेशः । णिदि कुत्सायाम् । निन्दकः ॥ हिसि हिंसायाम् । हिंसकः ॥ क्षिप प्रेरणे । क्षेपकः ।। वद व्यक्तायां वाचि । ज्यन्तः । रिति जिलोपः। परिवादकः ॥ (तत्त्वंदी०)-निन्दादेरिति॥वुणैव सिद्धे वुवचनं ताच्छीलिकेषु वाऽसरूपविधिर्नास्तीति ज्ञापयति । तेनैतेषु तृन्नादयो न । (चलनशब्दार्थाद कर्मकायुः) चलनः। चुप मन्दायां गतौ । चोपनः । कम्पनः । शब्दनः। रवणः॥ ___ (तत्त्वदी०)-चलनशब्दार्थादकर्मकायुः ॥ चलनार्थादकर्मकाच्छब्दार्थाच्च युः स्यात् ॥ युप्रत्ययमाह-वोरित्यनादेशः । चल कम्पने । चलनः॥चुप मन्दायां गतौ । चोपनः॥कपि चलने । कम्पनः॥ शब्द शब्दने । अदन्तः चुरादिः । जेरिति जिलोपः । शब्दनः॥ शब्टे । रवणः॥ अकर्मकात् किम् । पठिता विद्याम् ।। (तत्त्वदी०)-चलनशब्दार्थादिति ॥ चलनं देशान्तरप्राप्तिहेतुः क्रियाविशेषः । शब्दः श्रोत्रप्राह्योऽर्थः । चल कम्पने । शब्द शब्दने चुरादिः ॥ (अनुदात्तेतो हसादेरकर्मकात )वर्तनः । रमणः ॥ (सुबोधिनी)-अनुद त्तेतो हसादेरकर्मकात् ॥ युः स्यात् ॥ वृतु वर्तने । वर्तनः ॥ अनुदात्तेतः किम । भविता ॥ हसादेः किम् । एधिता ।। अकर्मकात्किम् । वसिता वस्त्रम् ॥ (तत्त्वदी०)-अनुदात्तेत इति॥यद्यपि र्सेर्वाऽनुदात्तेद्धसान्त एवातो हसग्रहणसामर्थ्यादेव हसादिर्गृह्यते,तथापि जुगुप्सादिसान्तेऽनुदात्तेत्त्वमस्ति, अवयवेकृतं लिङ्गमचरितार्थ समुदायस्य विशेषकमि Page #270 -------------------------------------------------------------------------- ________________ (२५०) सिद्धान्तचन्द्रिका | [ पूर्वकृदन्त प्रक्रिया ] त्युक्तत्वात् । अतस्तद्व्यावृत्तये तदन्तविधिः स्यादित्यादिग्रहणम् ॥ वर्तन इति ॥ वर्तते तच्छील इति विग्रहः । अनुदात्तेतः किम् । भविता ॥ हसादेः किम् ||एधिता || अकमकात्किम् ॥ वसिता वस्त्रम् ॥ ( ज्वादेश्व ) जुगत वेगे च । जवनः । सरणः । गर्द्धनः। क्रोधनः । रोषणः । मण्डनः । भूषणः ॥ (सुबोधिनी ) – ज्वादेश्च ॥ युः स्यात् ॥ जुगतौ वेगे च । जवनः ॥ सृ गतौ । सरणः ॥ गृधु अभिकाङ्क्षायाम् । गर्द्धनः ॥ क्रुध क्रोधे । क्रोधनः। रुप रोषे । रोषणः । माडे भूषायाम् । मण्डनः ॥ भूष अलंकारे । भूषणः ॥ ( ज्यादरिनिः ) जयी । प्रजवी । दरी । क्षयी ॥ (सुबोधिनी ) – ज्यादेरिनिः ॥ इनिप्रत्ययः स्यात् ॥ इनिप्रत्ययमाह-इकार उच्चारणार्थः ॥ जिजये । जि अभिभवे च । इनामिति दीर्घः । जयी ॥ जुगतौ वेगे च । प्रजवी ॥ दृडू आदरे । दरी || क्षि क्षये । क्षि निवासर त्योश्च । क्षयी ॥ ( दादेरुः ) दारुः । धारुः । सेरुः ॥ (सुबोधिनी) - दादेरुः ॥ रुप्रत्ययः स्यात् ॥ रुप्रत्ययमाह - डुदाञ् दाने । दो अवखण्डने । देङ् पालने । त्रयाणामेषां ग्रहणम् । दारुः । न तु दादापेोर्ग्रहणम् ॥ डुधाञ् धारणादौ । धारुः । षिञ् बन्धने । सेरुः ॥ ( सृघस्यदः क्मरः ) सृमरः । घस्मरः । अद्मः ॥ ( सुबोधिनी ) - घस्यदः क्मरः ॥ क्मरप्रत्ययः स्वात् ॥ क्मरप्रत्ययमाह - कित्त्वाद्गुणो न । सृ गतौ । सृमरः ॥ घस्ल अदने । घस्मरः ॥ अद भक्षणे । अझरः ॥ ( भभासमिदो घुरः ) भङ्गरः । भासुरः । मेदुरः । ( सुबोधिनी) - भञ्जभासमिदो घुरः ॥ एभ्यो घुरप्रत्ययः स्यात् ॥ घुरप्रत्ययमाह-घित्वात् चजोरिति गः । भओ आमर्दने । भङ्गुरः ॥ भासृ दीप्तौ । भासुरः ॥ ञिमिदा स्नेहने । मेदुरः ॥ (तत्त्वदी० )-भञ्जभासमिद इति ॥ भजेः कर्मकर्तरि । अभिधानस्वाभाव्यमत्र हेतुः ॥ (विदिभिदिच्छिदेः कुरः ) विदुरः । भिदुरम् | छिदुरम् ॥ (सुबोधिनी) - विदिभिदिच्छिदेः कुरः ॥ कुरप्रत्ययः स्यात् ॥ कुरप्रत्ययमाह - कित्त्वाद्गुणो न । विद ज्ञाने अस्यैव ग्रहणं न तु विद्ल लाभ इत्यस्य संप्रदायात् । विदुरः ॥ भिदिर् विदारणे । भिदुरम् ॥ छिदिर द्वैधीकरण | छिदुरम् ॥ कुरः कर्तरि भवति । तथा च माघः 'प्रियतमाय वपुर्गुरुमत्सर च्छिदुरयादुरयीच तमङ्गनाः" इह अदुरिति च्छेदः ॥ Page #271 -------------------------------------------------------------------------- ________________ [पूर्वकृदन्तप्रक्रिया ] टीकाद्वयोपेता। (२५१) (तत्त्वदी०)-विदिभिदीति ॥ ज्ञानार्थे विदिाख्यानात् । छिदुरमिति ॥ कर्मकर्तरीति कश्चित् । भाष्ये तु न तथा । एवमाद्योऽपि प्रागुक्त एव मुख्यकर्तरि । 'गुरुमत्सरच्छिदुरयाऽदुरयाचितमङ्गनाः' इति ॥ (इण्नशजिसर्तिभ्यः करट्प) ह्रस्वस्य पिति तुक् ॥ इत्वरः । इत्वरी । नश्वरः । जित्वरः । सृत्वरः। गमेर्लोपश्च । गत्वरः॥ (सुबोधिनी)-इणनशजिसर्तिभ्यः करटप् ॥ एभ्यः वरटप् प्रत्ययः स्यात् करट्पप्रत्ययमाह । कित्त्वान्न गुणः । टित्त्वात् ष्टवित इतीप् । पित्त्वात्तुक् । इण गतौ । इत्वरः । इत्वरी स्त्री ॥ णश अदर्शने । नश्वरः ॥ जि जये। जित्वरः ॥ सृ गतौ । सृत्वरः । गम्ल गता । मलोपो निपात्यते । गत्वरः ॥ (तत्त्वदी०)-इत्वरः । हस्तस्येति तुक् । ट् ईबर्थः ॥ (जागरूकः) जागरूकः ॥ (सुबोधिनी)-जागर्तेरूकः ॥ ऊकप्रत्ययः स्यात् ॥ ऊकप्रत्ययमाह-जागृ निद्राक्षये । जागरूकः॥ यङ ऊकः॥ यजजपदशवदिभ्यो यङन्तेभ्य ऊकः शीले लुक्॥ ऊके सति यङो लुक् ॥ यायजूकः । जञ्जपूकः । दंदशकः । वावदकः॥ (सुबोधिनी)-यङ ऊकः ॥ यजादिभ्यो यङन्तेभ्य ऊकः स्यात् । यजेङि कृते. द्वित्वादि । आत इति पूर्वस्य दीर्घतिशयेन यजतीति यायज्यते, यायज्याते इति यायजूकः॥जप व्यक्तायां वाचि। अतिशयेन जपतीति।अमजपामिति नुक । जंजप्यते, जंजप्यते इति जंजपूकः॥दश दशने।अतिशयेन दशतीति । नुक । दंदश्यते, दंदश्यते इति दंद शूकः । नो लोप इति नलोपः ॥ वद व्यक्तायां वाचि । अतिशयेन वदतीति वावद्यते, वावद्यते इति वावदूकः ॥ (भियः क्रुस्क्लकाः) भीरुः । भीरुकः । भीलुकः ॥ (सुबोधिनी)-भियः नुक्रुकक्लुकाः॥ त्रिभी भये । अस्मादेते प्रत्ययाः स्युः॥ कुकुकक्लुकप्रत्ययानाह-कित्त्वान्न गुणः । भीरुभीरुकभीलुकाः' इत्यमरः॥ (नमादे रः) नम्रः । स्मेरः । कम्प्रः । नपूर्वाजसेः क्रियासातत्ये अजस्रम् । कम्रः। हिंस्रः । दीप्रः॥ (सुबोधिनी) नमादे रः॥रप्रत्ययः स्यात् ॥रप्रत्ययमाह-णम् प्रवत्वे शब्दे च। नम्रः। कपि चलने । कम्पः ॥ ष्मिङ इषद्धसने । स्मेरः ॥ जसु मोक्षणे नपूर्वः। ना इत्यः। अजस्रम् ॥ कमु कान्तौ। कम्रः॥ हिसि हिंसायाम् । हिंस्रः ॥ दीपी दीप्तौ । दीपः॥ Page #272 -------------------------------------------------------------------------- ________________ (२५२) सिद्धान्तचन्द्रिका। [ पूर्वकृदन्तप्रक्रिया ] (विन्दुरिच्छुरेतौ निपात्यौ) वेत्ति तच्छीलो विन्दुः । इच्छतीतीच्छुः ॥ (सुबोधिनी)-विन्दुरिच्छरौ निपात्यौ॥वेत्तेर्नुम् इषेश्छत्वं च निपात्यते।। विद ज्ञाने इत्यस्यैव ग्रहणं नेतरेषाम् । इषु इच्छायामित्यस्यैव ग्रहणं न तु इष गतौ इष आभीण्ये इत्यनयोरनभिधानान्निपातनाद्वा । वेत्तीत्येवंशीलो विन्दुः। इच्छतीत्येवंशील इच्छुः बिन्दुशब्दःपवर्गीयादिस्तु बिदि अवयवे अस्मान्मृगय्वादित्वात्कुप्रत्यये बोध्यः।। (तत्त्वदी० )-विन्दुरिच्छुरिति॥वेत्तेर्ज्ञानार्थस्य नुमागमः॥एवमिषेरिच्छार्थस्य छत्वमुप्रत्ययश्च।। (स्वपितृषिधृषेनजिङ्) स्वप्नक् । तृष्णक् । धृष्णक ॥ __ (सुबोधिनी )- स्वपितृषिधृषेनजिङ्॥ एभ्यो नजिङ् प्रत्ययः स्यात् ॥नजि प्रत्ययमाह । ङित्त्वान्न गुणः । इकारः उच्चारणार्थः । विष्वप् शये । चोः कुरिति जस्य गः। स्वामक ॥ तृष पिपासायाम् । तृष्णक् ॥ जिघृषा प्रागल्भ्ये । धृष्णक् ॥ (तत्त्वदी०) स्वपि ॥ धृष्णगिति ॥ ङित्त्वान्न गुणः ॥ (स्थादेर्वरः ) स्थावरः । ईश्वरः । भास्वरः । पेस्वरः । कस्वरः ।। (सुबोधिनी)-स्थादेर्वरः ॥ एभ्यो वरप्रत्ययः स्यात् ॥ वरप्रत्ययमाह-ष्ठा गतिनिवृत्तौ । स्थावरः ॥ ईश ऐश्वर्ये । हबक्त्योरितीन । ईश्वरः॥ भासू दीप्तौ भास्वरः। पिस गतौ । पेस्वरः ॥ कस गतौ । कस्वरः ॥ (तत्त्वदी० )ईश्वर इति ॥ हबक्क्योरिति नेट् । आहतः किर्द्धिश्च भूते ॥ आदन्तादृदन्ताजनिगमिनमिभ्योयङन्तेभ्यः सासहिवावहिचाचलिपापतिभ्यः किप्रत्ययो भूते शीले धातोश्च द्वित्वं किलिड्वद्वाच्यः ॥ "रामः सोमं पपिर्यज्ञे ददिर्गाश्चक्रिरद्भुतम् । याजकान्वविराजहिः पौण्डरीके महाद्विजान् ॥" जज्ञिः। नेमिः । जग्मिः । सासहिः । वावहिः। चाचलिः। पापतिः॥ (सुबोधिनी)-आदृतः किद्विश्च भूते ॥ किप्रत्ययमाह--कित्त्वान्न गुणः। किप्रत्यये द्वित्वादि । पा पाने । द्वित्वादि। आतोऽनपीत्यालोपः। पपिः॥ डुदाञ् दाने । ददिः ॥ डुकृञ करणे । चक्रिः ॥ वृङ् संभक्तौ । र इत्यः । वविः ॥ हज हरणे । आजहिः॥ जनी प्रादुर्भावे । गमामित्युपधालोपः । जज्ञिः ॥णम प्रदत्वे शब्दे च । लोपः पचामित्येत्वपूर्वलोपौ । नेमिः ॥ गम्ल गतौ । गमामित्युपधालोपः । जग्मिः ।। पह मर्षणे । वह प्रापणे । चल कम्पने । पत्ल पतने। एते यङन्ताः ।अतिशयेन सहते इति।आत इति पूर्वस्पात्वम् । सासह्यते । सासहांचके इति । यत इत्यलोपः। अनपिच हसाादेति यलोपः। सासहिः॥अतिशयेन वहतीति वावह्यते । वावहां चक्रे इति वावहि । Page #273 -------------------------------------------------------------------------- ________________ [ पूर्वकृदन्ते उणादयः ] टीकाद्वयोपेता । (२५३) अतिशयन चलतीति चाचल्यते । चाचलांचके इति चाचलिः ॥ अतिशयेन पततीत पनीपत्यन्ते। पनीपतांचक्रे इति। वञ्चुस्रंसु इति प्राप्तस्य नीकोऽभावो निपात्यते। पापतिः ॥ “रामःसोमं पपिर्यज्ञे ददिर्गाश्चक्रिरद्भुतम् । याजकान्वबिराजह्निः पौण्डरीके महाद्विजान्॥"रामो यज्ञ सोमं पपाविति पपिः।अक्तादाविति वर्जनान्न कर्मणि षष्ठी । रामो यज्ञ गाः सुरभीः ददाविति ददिः। रामो यज्ञे अद्भुतमाश्चर्यं चकारोत चक्रिः। रामो यज्ञे याजकान् यज्ञकर्तृन् वव्रे इति वत्रिः। रामः पौण्डरीकनाम्नि यज्ञे महान्तश्च ते द्विजाश्च महाद्विजास्तान् आजहारोत आजहिः ॥ (तत्त्वदी०)-आदृत इति ॥ आच ऋच तत्तस्मात् । लिङ्घद्भावान्नेमिरित्यादावेत्वपूर्वलोपौ। जम्मिरिति ॥ गमां स्वर इत्यलोपः ॥ अथोणादयः। (क्रादेरुण ) कारुः। वातीति वायुः। पायुः। जायुः। मिनोतीति मायुः । स्वद आस्वादने स्वादुः । साधुः। आशुः । दीर्यते इति दारुः। सानुः॥ (सुबोधिनी)-अथोणादयः॥क्रादेरुण्॥ उण् प्रत्ययःस्यात्॥ उणूप्रत्ययमाहणित्वाद् वृद्धयादि। डुकृञ् करणे । करोतीति कारुः शिल्पी कारकश्च। तत्राद्ये योगरूढिदितीये तु योगमात्रमिति विवेकः। अत एव यौगिके तु धात्वर्थ प्रति कारकान्वयो भवत्येव । तथा च भट्टिः"राघवस्य ततः कार्य कारुर्वानरपुंगवः । सर्ववानरसेनानामाश्वागमनमादिशत्॥" इति ॥ "विश्वकर्मणि ना कारुस्त्रिषु कारकशिल्पिनोः।” इति मेदिनी ॥ 'कारुः शिल्पिान कारके' इति धरणिः॥ वा गतिगन्धनयोः । आतो युगिति युक् । वायुः॥पा पाने । पा रक्षणे च । पिवत्यनेन तैलादिकमिति पायुः। युक । 'गुदं त्वपानं पायुर्ना' इत्यमरः ॥ पाति रक्षतीति विग्रहे रक्षकोऽपि पायुः ॥ जि अभिभव । जयत्यभिभवात रोगान् इति जायुः औषधम् । 'भेषजौषधभैषज्यान्यगदो जायुः इत्यमरः॥ पुंलिङ्गसाहचर्याजायुः पुंसि ॥ डुमिज प्रक्षेपणे । मिनोति प्रक्षिपति दहे ऊष्माणमिति। मीनातिमिनातिदीङामित्यात्वम् युक् च । मायुः। मायुःपित्तं कफः श्लेष्मा इत्यमरः ॥ गां वाचं विकृतां मिनोति प्रक्षिपतीति गोमायुः शृगालः ॥ स्वद आस्वादन। स्वदते रोचत इति स्वादुः॥ साध संसिद्धौ। सानोति परकार्यमिति साधुः । स्वादुसाधू विशेष्यनिनौ ॥ अशूङ् व्याप्तौ । अश्नुते इत्याशुः । 'आशु/हिः पाटल: स्यात् । शघ्रिार्थोऽप्ययम् । तत्र विलम्बाभावमात्रपरत्वे क्लीवः । तद्विशिष्टद्रव्यपरत्वे तु त्रिलिङ्गः । अथ शघ्रिं त्वरितमित्युक्तम् । "क्लीवे शीघ्राद्यसत्त्वे स्यात्रिष्वेषां भेद्यगामि यत् ।” इत्यमरः ॥ दृ विदारणे। दीर्यते इति दारु । 'काष्ठं दार्विन्धनं त्वेधः' इत्यमरः ॥षण दाने । सानुः । 'स्नुः त्रस्थः सानुरास्त्रियाम्' इत्यमरः ॥ Page #274 -------------------------------------------------------------------------- ________________ (२५४) सिद्धान्तचन्द्रिका | [ पूर्वकृदन्ते उणादयः ] .: (तत्त्वदी ० ) - क्रादेरिति ॥ कृ आदिर्यस्य स क्रादिस्तस्मात् । वापाजिमिस्वदीत्यादय आदिशब्दप्राह्याः । णो वृद्ध्यर्थः ॥ कारुरिति || ' कारुः शिल्पिनि कारके । द्वितीयेऽर्थे योगमात्रम्। 'राघवस्य ततः कार्यं कारुर्वानरपुंगवः' इति भट्टिश्चात एव ॥ वायुरिति ॥ आतो युक् ॥ पायुरिति ॥ पिबत्यनेनौषधमिति पायुर्गुदम् । 'गुदं त्वपानं पायुर्ना' इत्यमरः ॥ जाखुरिति ॥ जयति रोगानिति रौषधम् । 'भेषजौषधभैषज्यान्यगदो जायुः' इत्यमरः । मिनोतीति । प्रक्षिपति देहे ऊष्माणमिति । ‘मायुः पित्तं कफः श्लेष्मा' इत्यमरः ॥ स्वदते रोचते इति स्वादु मिष्टम् ॥ साध्नोति परकार्यमिति साधुः॥ अश्नुते इत्याशुहिभेदः शीघ्रार्थश्च । विलम्बाभाव मात्रपरत्वे क्लीम् । तद्विशिष्टद्रव्य'परत्वे तु त्रिलिङ्गम् ।‘त्रिष्वेषां भेद्यगामि यत्' इत्यमरोक्तेः ॥ ( जनेर्जुञ् ) जानु । चारु । चाटु । किंशृणातीति किंशारुः । जरामेति जरायुः ॥ (सुबोधिनी) - जने । जुञप्रत्ययमाह - ञकारावितौ । अनुबन्धद्वयसामर्थ्यात् जानेवध्योर्नेति वृद्धिनिषेधो न प्रवर्तते । जन जनने । जानु, जानुनी ॥चर गतौ। चारु रम्यम् ॥ चट भेदन | चाटु | 'चटु चाटु प्रियं वाक्यम्' इति हेमचन्द्रः ॥ 'चाटुर्नस् . प्रियोक्तिः स्यात्' इति रत्नमाला ॥ तथा च माघः 'चकर च किल चाटून्प्रौढयोषिद्वदस्य' इति । स एव क्लीवेऽपि । 'चाटु चाकृतकसंभ्रममासाम् इति । शू हिंसायाम् ॥ किंशारुः। ‘किंशारुर्ना सस्यशूके विशिखे कङ्कपक्षिणि ।' इति मेदिनी ॥ इण गतौ । वृद्धौ कृतायामायादेशे च जरायुः गर्भाशयः ॥ (तत्त्वदी० ) - जनेञिति ॥ 'चटु चाटु प्रियं वाक्यम्' इति हेमचन्द्रः ॥ ' चाटुर्न रि प्रियोक्तिः स्यात्' इति रत्नकोशात्पुंस्त्वमपि । तथोभयत्रोदाहृतं माघेन - 'चाटु चाकृतकसंभ्रममासाम् ॥” "चकर च किल चाटून्प्रौढयोषिद्वदस्य' इति च ॥ 'किंशारुर्ना सस्यशु के विशिखे कङ्कपक्षिणि' इति। ( त्रोरस्य लः ) तरन्ति वर्णा अनेनेति तालु ॥ (सुबोधिनी ) - त्रोरस्य लः । ऋ इति प्रश्लिष्य द्वयोरपि सवर्णे दीर्घे कृते त्र तयोस्त्रोः । तृप्लवनतरणयोः । ऋ गतौ । अनयोरस्य लः स्यात् ॥ उणि वृद्धौ सत्यां तालु || इयर्ति अर्यते वा आलुः । शाकविशेषो घटी चा 'कर्कर्यालुर्गलन्तिका' इति ॥ ( कृके वचः कश्च ) कृकेन गलेन वक्तीति कृकवाकुः ॥ (सुबोधिनी ) - कृके वचः कश्च ॥ कृकशब्दे उपपदे वचेः कोऽन्तादेशः स्यादुणि कृकवाकुः । 'कृकवाकुर्मयूरे च सरटे चरणायुधे ' इति विश्वः ॥ ( म्रादेरुः ) मरुः । शयुः । तरुः । चरुः । त्सर छद्मगतौ । त्सरुः । तनुः । धनुः । मयुः । कटुः । बटुः । अणुः । शृणातीति शरुः । स्वरुः । त्रपुः । असवः । वसुः । हनुः । बन्धुः । मनुः । बिन्दुः ॥ 1 Page #275 -------------------------------------------------------------------------- ________________ [ पूर्वकृदन्ते उणादयः ] टीकाद्वयोपेता । (२५५) (सुबोधिनी)-म्रादेरुः॥ उप्रत्ययः स्यात् ॥ उप्रत्ययमाह-मृङ् प्राणत्यागे । म्रियन्तेऽस्मिन्भूतानीति मरुः निर्जलदेशः। भृज्ञ भरणे । दुभृज्ञ धारणादौ च । भरति बिभर्ति वा भरुः। 'भरुःस्वर्णे हरे पुसि' इति मेदिनी॥ भर्भर्तृकनकयोः इति हैमः।। शीङ् स्वने । शेत इति शयुः। 'अजगरे शयुर्वाहस इत्युभो ।' इत्यमरः ।। त प्लवनतरणयोः। तरन्ति नरकमनेन रोपका इति तरुवृक्षः॥ चर गत्यादौ । चरन्ति भक्षयन्ति देवा इममिति चरुः। 'चरुर्भाण्डे च हव्याने' इति विश्वः । घृतपक्वमन्नमित्यर्थः ।। त्सर छद्मगतौ । सरुः खङ्गादिमुष्टिः॥ तनुविस्तार । तनुः । "तनुः काय त्वचि स्त्री स्यात्रिष्वल्पे विरले कृशे ।" इति मेदिनी ॥ 'स्त्रियां मूर्तिस्तनुस्तनुः' इत्यमरः ॥ धन धान्ये । धनुः। स्यात्तनुस्तनुषा सार्धं धनुवा च धनुर्विदुः।” इति विश्वः ॥ उकारान्ते श्रीहर्षः-"शुद्धवंशजनितोऽपि गुणस्य स्थानतामनुभवन्नपि शक्रः । क्षिप्नुरेनमृजुमाशु सपक्षं सायकं धनुरिवाजनि वक्रः॥” 'धनुः पुमान् प्रियालद्रौ गशिभेदे शरासने'। इति सान्ते मंदिनी ॥ 'अथास्त्रियां धनुश्चापौ' इत्यमरः॥डुमिञ् प्रक्षेपणे। मीनातिमिनोतीत्यात्वं तु नेह बाहुलकात् । मयुः । 'तुरङ्गवदनो मयुः । इत्यमरः॥ मयुस्तुरङ्गवदने मृडोऽपि मयुरिष्यते।' इति विश्वः ॥ टुमस्जा शुद्धौ । मजति पानीये इति न्यछादित्वाद्गः । झबे जवा इति सस्य दः । मद्गुः । 'मद्गुः पानीयकाकिका ।' इति रभसः। अण अब्दे । अणुः। व्रीहिभेदस्त्वणुः पुमान्।' इति 'लवलेशकणाणवः।' इति चामरः। कटे वर्षादौ । कटति रसनामिति कटुः। “कटुः स्त्री कटुरोहिण्यां लताराजिकयोरपि । नपुंसकमकार्ये स्थात्पुंल्लिङ्गो रसमात्रके ॥ त्रिषु तद्वत्सुगन्धश्च मत्सरेऽपि खरेऽपि च ।" इति मेदिनी ॥ वट वेष्टने। वटतीति वटुः । 'वटुर्दिजसुतः स्मृतः।' इति संसारावर्तः । श हिंसायाम् । शरुः। 'शरुःकोपे शरे वज्र' इति हैमः ॥स्थ शब्दोपतापयाः।स्वरुः। 'शतकोटिः स्वरुः शम्बः' इत्यमरः॥त्रपूष् लज्जायाम् । अग्निं दृष्ट्वा प्रपंत लज्जते इति त्रपुः । रंगसीसकयोस्त्रपुः।' इति मंदिनी ॥ असु क्षेपणे । अस्यन्ति क्षिपन्ति शरीरमिति असवः । 'पुंसि भूम्न्यसवःप्राणाः'इत्यमरः ।। वस निवासे । वसुः । “वसुमैदेऽग्नौ योकोऽशौ वसु तोये धने मणौ॥"हन हिंसागत्योः। हनुः । हनुः पुमान् परो गण्डात्' इति वररुचिकोशः॥ स्त्रीलिङ्गेऽप्ययम् । “हनुहट्टविलासिन्यां नृत्यारम्भे गदे स्त्रियाम् । द्वयोः कपोलावयवे" इति मेदिनी ॥ मतुप्रत्यये हनुमान् । पाक्षिको दी?ऽपि निपात्यते । हनूमान्॥बन्ध बन्धने । स्नेहेन बन्नातीति बन्धुः। 'वन्धुर्बन्धूकपुष्प स्याद्वन्धु_तरि बान्धव ।' इति विश्वः ॥ मन ज्ञाने । मनुः । आदिराजो मन्त्रश्च ॥ विदि अवयवे । बिन्दुः ॥ (तत्त्वदी०)-म्रादेरिति॥भरुरिति॥ भरुः स्वर्णेहरे पुंसि'इति मेदिनी ॥ भर्भर्तृकनकयोः' इति हेमचन्द्रः ॥ शयुरिति ॥ अजगरे शयुः ॥ तरुरिति ॥ तरन्ति नरकमनेन रोपकाः ।। चरुरिति ॥ 'चरुर्भाण्डे च हव्याने' इति विश्वः॥ त्सरुः खड्गमुष्टिः॥ तनुः स्वल्पः। मूर्ती स्त्रियाम्॥ धनुः शस्त्रविशेषे । 'धनुषा च धनुर्विदुः ॥' मयुः किन्नरः ॥ अणुर्लेशः ॥ 'वटुर्द्विजसुतः स्मृतः। Page #276 -------------------------------------------------------------------------- ________________ (२५६) सिद्धान्तचन्द्रिका। [पूर्वकृदन्ते उणादयः] स्वर्वज्रम् ॥त्रपुरिति ॥ त्रपतेऽग्निं दृष्ट्वा त्रपुः । 'रङ्गसीसकयोस्त्रपुः । 'पुंसि भूम्न्यसवः प्राणाः ।' 'वसु तोये धने मणौ ।' 'हनुः पुमान् परो गण्डात्॥'बन्धुः।स्नेहेन बध्न ति ।। मनुरादिराजो मन्त्रश्च ॥ (स्यन्देःसंप्रसारणं धश्च) सिन्धुः॥ (सुबोधिनी) स्यन्देः संप्रसारणं धश्च ॥ स्यन्दू पस्रवणे । अस्य यकारस्य संप्रसारणं दस्य धश्च स्यादुप्रत्यये ॥ सिन्धुः । 'देशे नदविशेषेऽब्धौ सिन्धुर्ना सरिति स्त्रियाम् ।' इत्यमरः॥ (तत्त्वदी०) सिन्धुरिति ॥ 'देशे नदविशेषेऽन्धौ सिन्धुन सरिति स्त्रियाम् ।' इत्यमरः । (उन्देरिच्चादेः) उनत्तीति इन्दुः॥ (सुबोधिनी)-उन्देरिच्चादेः॥ उन्दी क्लेदने । अस्योकारस्य इः स्यादुप्रत्यय ॥ इन्दुः ॥ (स्कन्देः सलोपश्च) कन्दुः ॥ (सुबोधिनी)--स्कन्दः सलोपश्च ॥ स्कन्दिर गति षणयोः । अस्य सस्य लोपः स्यादुप्रत्यये ॥ स्कन्दति शोषयतीति कन्दुः। क्लीवेऽम्बरीषं भ्राष्ट्रो ना कन्दु स्वेदनी स्त्रियाम् ।' इत्यमरः ॥ स्कन्दति जनता यस्मिन्निनि व्युत्पत्त्या भोगस्थानं कन्दुरिति केचित् ॥ (तत्त्वदी०)-कन्दुरिति ॥ स्कन्दत्यस्मिञ्जनता इति कन्दुर्भोगस्थानम् ॥ (सृजेरसुम् सलोपश्च ) रज्जुः॥ (सुबोधिनी)-सृजेरसुम्सलापश्च॥सृज विसर्गे।आमसकारस्य श्चुत्वेन शः। झवे जबा इति जः । सृजतीति रज्जुः । 'रज्जुर्वेण्यां गुणे योषित्' इति मेदिनी ॥ (तत्त्वदी०)-रज्जुरिति ॥ सस्य श्चुत्वेन शस्तस्य जः ॥ (फलेगुक् च) फल्गुः । (सुबोधिनी)-फलेमुक च॥ फल निष्पत्तौ । फल्गुः । फल्गुः काकोदुम्बरिका भवेत्फल्गु निरर्थकम् ।” इति हैमः॥ नदी च ॥ (पाटेः पटिश्च) पाटयतीति पटुः समर्थः।।. (सुबोधिनी)-पाटेः पटिश्च ॥ पटिरादेशः स्यात् ।' पट गतौ ञ्यन्तः। पाटयतीति पटुः॥ - (मनेर्धश्च ) मन ज्ञाने । मधुः ।। (मुबोधिनी)-मनेर्धश्च ॥ धान्तादेशः स्यादुप्रत्यये ॥ मन ज्ञाने । मन्यत इति मधुः । मधुश्चैत्रे च दैत्ये च मद्ये पुष्परसे मधु।' इति हेमचन्द्रः॥"मकरन्दस्य मद्यस्य माक्षिकस्यापि वाचकः। अर्द्धर्चादिगणे पाठात् पुनपुंसकयोर्मधु ॥” इति शाश्वतः । Page #277 -------------------------------------------------------------------------- ________________ [ पूर्वकृदन्ते उणादयः ] टीकाद्वयोपेता । (२५७) (जनेस्तश्च ) जतु ॥ (सुबोधिनी)-जनेस्तश्च ॥ तान्तादेशः स्यादुप्रत्यये ॥ जनी प्रादुर्भाव। जायते इति जतु लाक्षा ॥ (वलेगु च )वल संवरणे । वल्गुः ॥ (सुबोधिनी)-वलेणुक च ॥ गुगागमः स्यादुप्रत्यये ॥ वल संवरणे । दन्तोठयादिः । वल्गुः । “वल्गुःन्याच्छागले पुंसि सुन्दरे चाभिधेयवत्।” इति मेदिनी॥ (नमे किश्च) नम्यतेऽनेनेति नाकुः॥ (सुबोधिनी )-नमे किश्च ॥ णम प्रहत्वे शब्दे च। नाकुः । “वामलूरश्च नाकुश्च वल्मीकं पुनपुंसकम् ।” इत्यमरः॥ . (तत्त्वदी ०)-नाकुर्वल्मीकम् ।। (श्यतेः कुः सव:) शिशुः॥ (सुबोधिनी)-श्यते । सवञ्च ॥ कुप्रत्ययः स्यात् स कु: सप्रत्ययवद्भवति॥ तेन सप्रत्यये यत्कार्य द्वित्वादि तत्स्यात्। कुप्रत्ययमाह-कित्त्वान्न गुणः। शो तनूकरणे। कुप्रत्यये संध्यक्षराणामित्यासम् । द्वित्वम् । यः से इति पूर्वस्येत्वम् । आतोऽनपीत्या; लोपः। शिशुर्वालकः ॥ (यानोईिश्च) यर । बभ्रुः॥ (सुबोधिनी)-याधीदिश्च ॥ आभ्यां कुः स्याद्धातात्विं च ॥ या प्रापणे. भृञ् भरणे । यातीतिं ययुः । भरतीति बभ्रुः । 'ययुरश्वोऽश्वमेधीयः' "बभ्रुर्वैश्वानरे शूलपाणौ च गरुडध्वजे । विशाले नकुले पुंसि पिङ्गले त्वभिधेयवत्॥” इति मेदिनी। "बभ्रुमन्वन्तरे विष्णौ बभ्रुकुलपिङ्गलौ।” इति धराणः ॥ चादन्यतोऽपि । चक्रुः कर्ता । जघ्नुर्हन्ता । पपुः पाठकः ॥ (व्यधेः कुः) विधुः ॥ (सुबोधिनी)-व्यधेः कः॥ कुप्रत्ययः स्यात्।।व्यध ताडने।ग्रहामिति संप्रसारणमाविरहिणं विध्यतीति विधुः। “विधुःशशाङ्के कर्पूरे हृषीकेशे च राक्षसे।” इति विश्वः। (कृग्रोरुरङ् च) करोतीति कुरुः । गृ शब्दे । गणातीति गुरुः॥ (सुबोधिनी) कृयोरुरच ॥ आभ्यां कुः स्यादुरङन्तादेशश्च॥ डुकृञ् करणे। गृ शब्दे । करोतीति कुरुः। “कुरुपान्तरे भक्ते पुमान्पुंभन्नि नीवृति।" इति मेदिनी॥ गृणाति तत्त्वमिति गुरुः। ( रपेरस्येच्च ) अनिष्टं रपतीति रिपुः ॥ Page #278 -------------------------------------------------------------------------- ________________ (२५८) सिद्धान्तचन्द्रिका। [पूर्वकृदन्ते उणादयः ] (सुबोधिनी) रपेरस्येच्च ॥ रपेः कुप्रत्ययः स्यादकारस्येच्च ॥ रप गतौ । अनिष्टं रपतीति रिपुः॥ __ (अर्जिशिकम्यमिपशिबाधामृजिपशितुक्धुकदीर्घहकाराश्च) अर्जयति गुणानिति ऋजुः। सर्वानविशेषेण पश्यतीति पशुः । कमु कान्तौ । कन्तुः । अन्धुः। पांशुः। बाधते इति बाहुः॥ (सुबोधिनी)-अर्जिशिकम्यमिपशिबाधामृजिपशितुक्धुकूदीर्घहकाराश्च ॥ अर्ज अर्जने। अस्य ऋजिरादेशः। षड्भ्यः कुप्रत्ययश्च । अर्जयति गुणानिति ऋजुः ॥ दृशिर प्रेक्षणे । अस्य पशिरादेशः । पशुः । चादिगणेऽपि पठितः । पशु दृश्यर्थमव्ययम् ।' इति धरणिः ॥ कमु कान्तौ । अस्य तुगागमः । कन्तुः । 'कन्तुर्मकराकरः।' इति त्रिकाण्डशेषः॥अम रोग। अम गत्यादौ वा। अस्य धुगागमः। अन्धुः कूपः॥पशि नाशने सौत्रः। अस्य दीर्घः। पांशुः। पडि पसिनाशने। चुरादिर्दन्त्यान्तो वा । 'पांसुर्ना न द्वयो रजः।' इत्यमरः॥ "तालव्या अपि दन्त्याश्च शम्बशूकरपांशवः।” इति ॥ बाधृ लोडने । अस्य हान्तादेशः । बाहुः । 'बाहुः स्त्रीपुंसयो(जे।' इत्यमरः ॥ अकारान्तोऽप्ययम् । 'बाहश्च भुजयोः पुमान् ।' इति दामोदरः॥ आवन्तोऽपि । " बाहा भुजे पुमान्मानभेदाभवृषवायुषु ।” इति मेदिनी ॥ . (प्रथिम्रदिभ्रस्जां संप्रसारणं सलोपश्च) पृथुः । मृदुः॥ (सुबोधिनी)-प्रथिम्रदिभ्रस्जां संप्रसारणं सलोपश्च ॥ त्रिभ्यः कुप्रत्ययः स्यात् त्रयाणां संप्रसारणं च भ्रस्जेः सलोपश्च ॥ प्रथ प्रख्याने। प्रथते इति पृथुः । 'पृथु स्यान्महति त्रिषु । त्वक्पव्यां कृष्णजीरेऽथ पुमाननौ नृपान्तरे॥' इति मेदिनी॥ म्रद मर्दने । म्रदितुं शक्यते अकठिनत्वादिति मृदुः कोमलः ॥ (न्यवादेः कः) न्यकुः । भृजति तपसा इतिभृगुः॥ (सुबोधिनी)-न्यवादेः कुः । न्यङ्कवादिगणे कुत्वं निपात्यते ॥ नितरामश्चतीति न्यङ्कुः । भ्रस्ज पाके ॥ न्यवादित्वात्कुत्वम् । भृगुः । 'भृगुः शुक्र प्रधाने च जमदग्नौ पिनाकिनि।' इति विश्वः॥ (लघिबंडोनलोपश्च ) लघः ॥ (सुबोधिनी)-लधिबह्योनलोपश्च ॥ लघि गतौ । लघुः। 'पृक्कायां स्त्री लघु क्लीवं शीघ्र कृष्णाऽगुरुण्याप।' इति त्रिकाण्डशेषः ॥ “लघुरगुरौ च मनोज्ञे निःसारे वाच्यवत् क्लीबम् । शीघ्र कृष्णागुरुणि च पृक्कायामोषधौ स्त्रियाम् ॥” इति मेदिनी।। (वालमूललध्वगुलीनां वा लस्य रः) वालः-वारः। मूलम्मूरम् । लघुः-रघुः । अङ्गुलिः-अङ्गुरिः । बाहि गतौ । बहुः॥ Page #279 -------------------------------------------------------------------------- ________________ [ पूर्वकृदन्ते उणादयः ] टीकाद्वयोपेता । ( २५९ ) (सुबोधिनी) - वालमूललध्वङगुलीनां वा लस्य रः । एषां लो रत्वमापद्यते वा ॥ रघुर्नृपभेदः 'अवेक्ष्य धातोर्गमनार्थमर्थविच्चकार नाम्नाः रघुमात्मसंभवम् ॥” इति रघुवंशे ॥ बहि वृद्धौ बहु:। 'बहुस्तु त्र्यादिसंख्यासु विपुले त्वभिधेयवत् ।' इति मेदिनी ॥ (ऊर्णोति लोपश्च ) ऊरुः ॥ (सुबोधिनी ) - ऊर्णीतेर्नुलोपश्च ॥ ऊर्णुञ् आच्छादने । ऊर्णूयते आच्छाद्यते इत्यूरुः । कर्मणि कुप्रत्ययः ॥ ( महति ह्रस्व ) उरु महत् ॥ (सुबोधिनी ) - महति ह्रस्वश्च ॥ ऊर्णोतीति कर्तरि कुप्रत्ययः ॥ उरु महत् ॥ ( आङ्गपरयोः खनिशुभ्यां डिच ) आखनतीत्याखुः । श हिंसा याम् । परान् शृणातीति परंशुः ॥ (सुबोधिनी) - आपरयोः खनिशृभ्यां ङिच्च ।। अनयोरुपपदयोराभ्यां कुः स्यात् स डिच्च ॥ ङित्त्वाट्टिलोपः । खनु अवदारणे । आखुः ॥ हिंसायाम् । परंशृणातीति परशुः । पृषोदरादित्वादकारस्य लोपः । पशुः । 'पशुः परशुना सह ।' इति विश्वः ॥ ( दोश्व ) द्रवति ऊर्ध्वमिति द्रुः । शतधा द्रवतीति शतद्रुः ॥ (सुबोधिनी) - द्रश्च ॥ दु गतौ अस्मात् कुः स्यात् स च डित् ॥ द्रवतीति दुः वृक्षः शाखा च । तद्वान् द्रुमः ॥ शतदुः । 'शतद्रुस्तु शुतुद्रिः स्यात्' इत्यमरः ॥ ( मृगय्वादयो निपात्याः ) मृगं यातीति मृगयुः । शङ्कुः । नीलङ्गुः कृभिविशेषः । ( मन्द्यादेरुरः ) मदि मन्दुरा । वाशुरा मथे हिंसायाम् । मथुरा । चते याचने । चतुरः । अङ्कुरः ॥ (सुबोधिनी) - मृगय्वादयो निपात्याः ॥ कुप्रत्ययान्ता निपात्यन्ते ॥ या प्रापणे ॥ आतोऽनपीत्यालोपः । मृगं यातीति मृगयुः । ' मृगयुः पुंसि गोमायौ व्याधे च परमेष्ठिनि ।' इति मेदिनी ॥ मृगयुर्ब्रह्मणि ख्यातो गोमायुव्याधयोरपि ।' इति विश्वः । शकि शङ्कायाम् । शङ्कतेऽस्मादिति शङ्कुः । " शकुः कीले गरे शस्त्रे संख्यापादपभदेयाः । पादभेदे च पापे च स्थाणावपि च दृश्यते ॥” इति विश्वः ॥ ' शङ्कुर्ना कीलशल्ययोः ॥' लगि गतौ अस्मात् कुप्रत्यये दीर्घे च निपातनात्कृते नीलङ्गुः । केचित्तु नीलशब्दे उपपदे गमेः कुप्रत्यये टिलोपः पूर्वपदस्य मुम् पाक्षिकदीर्घश्च निपात्यत इत्याहुः। ‘नीलङ्गुः कृमिजातौ स्याद्भ्रमरालीप्रसूतयोः ।' इति विश्वः ॥ 'नलिङगुः पुंसि भ्रमराल्यां तु योषिति।' इति मेदिनी ॥ नीलङ्गुरपि नीलगुः । ' इति । विश्वः । मन्द्यादेरुरः ॥ उरप्रत्ययः स्यात् ॥ उरप्रत्ययमाह-मदि स्तुत्यादौ । मन्दुरा | Page #280 -------------------------------------------------------------------------- ________________ ( २६०) सिद्धान्तचन्द्रिका | [ पूर्वकृदन्ते उणादयः ]] 'वाजिशाला तु भन्दुरा' इत्यमरः ॥ मन्थ विलोडने मथुरा ॥ चते याचने । चतुरः ॥ वाट शब्दे । वाश्यन्ते अस्यामिति वाशुरा रात्रिः । गर्दभोऽपि ॥ अकि लक्षणे । अङ्कुरः । 'अङ्कुरो रुधिरे लोम्नि पानीयेऽभिनवोद्भिदि ॥ खर्जूरादित्वादूरप्रत्यये अङ्करोऽपि । 'अङ्करोऽङ्कुर एव च ।' इति विश्वप्रकाशः ॥ (तत्त्वदी ० ) - मृगयुरिति ॥ मृगयुर्व्याधः ॥ शकुरिति । 'शङ्कुर्ना कीलशल्ययोः ।' नीलडुगुः कृमिविशेषः सृगालश्च ॥ मन्दुरेति ॥ ' मन्दुरा वाजिशाला स्यात् ।।' वाशुरेति ॥ वाश्यन्तेऽस्यामिति वाशुरा रात्रिर्गर्दभोऽपि च 'वाशुरा वासितारात्र्योः' इति मेदिनी ॥ अङ्कुर इति ॥ 'अङ्कुरो रुधिरे लोम्नि पानीयेऽभिनवोद्भिदि । अकूरोऽपि च ॥' ( मद्वरादयो निपात्याः ) माद्यतीति मद्गुरः । कर्बुरः । बन्धुरः । बन्धुरः । कुक वृक आदाने । कुक्कुरः । कुकुरः । असुरः । आसुरः । मसुरः । मसूरः ॥ (सुबोधिनी) - मद्गुरादयो निपात्याः ॥ उरप्रत्ययान्ता निपात्यन्ते - मदी हर्षे गुगागमो निपात्यते । माद्यतीति मद्गुरो मत्स्यभेदः ॥ कबृ वर्णे । रुगागमो धातोर्निपात्यते। “कर्बुरः।“कर्बुरं सलिले हेनि कर्बुरः पापरक्षसोः । कर्बुरा कृष्णवृन्तायां शबले पुनरन्यवत् ॥” इति मेदिनी ॥' कर्बुरश्चित्ररक्षसोः॥ बन्ध बन्धने ॥ बनातीति बन्धुरः । खर्जूरादित्वादूर प्रत्ययोऽपि । 'बन्धूरबन्धुरौ स्यातां नम्रसुन्दरयोस्त्रिषु । ' इति रन्तिदेवः॥ आदा | कर्वा कुगागमो निपात्यते । कुक्कुरः । 'कुकुरः कुक्कुरो मताः' इति हरचन्द्रः ॥ ‘कुक्कुरः सारमेये ना ग्रन्थिपर्णे नपुंसके ।' इति मेदिनी ॥ असु क्षेपणे । असुरः अणूप्रत्यये आसुरः। मसी परिणामे । मसुरः । ऊरप्रत्यये मसूरोपे । " मसूरा मसुरा वा ना वेश्याव्रीहिप्रभेदयोः । मसूरी पादरोगे स्यादुपधाने पुनः पुमान् ॥” इति मेदिनी ॥ 'मसूरमसुरौ च द्वौ ' इति विश्वः ॥ ( तत्त्वदी ० ) र इति ।। मत्स्यभेदः । कर्बुर इति ॥ कट वर्णे । 'कर्बुरं सलिले हेम्नि कर्बुरः पापरक्षसोः । शबले त्रिष्वपि ॥' बन्धुर इति । 'बन्धूरबन्धुरौ स्यातां नम्रसुन्दरयोस्त्रिषु ||' मसुर इति ॥ "मसूरा मसुरा वा ना वेश्याव्रीहिप्रभेदयोः । मसुरा पादरोगे स्यादुपधाने पुनः पुमान् ।” ( शावशेराप्तौ ) शु इति आश्वर्थे । शु शीघ्रमश्नुते प्राप्नोति कन्यां यस्मात्स श्वशुरः ॥ ( सुबोधिनी ) - शावशेराप्तौ ॥ आशुशब्दस्य निपातनादाकारलोपस्तस्मिन् शब्द उपपदे आप्तौ गम्यमानायाम् अशुङ् व्याप्तावित्यस्माद्धातोरुरप्रत्ययः स्यात्॥ श्वशुरः 'पतिपत्न्योः प्रसूः श्वश्रूः श्वशुरस्तु पिता तयोः । ' इत्यमरः ॥ ( अविमोरिषट् ) अविषः । महिषः । महिषी राजपत्नी ॥ Page #281 -------------------------------------------------------------------------- ________________ [ पूर्वकृदन्ते उणादयः ] टीकाद्वयोपेता। (२६१) : (सुबोधिनी)-अविमह्योरिषट् ॥ इषट् प्रत्ययः स्यात् ॥ इषट्प्रत्ययमाहटित्त्वात् वित इतीप् । अव रक्षणादौ। अविषः। अविषौ राजजलधी'इत्युक्तत्वादविष शब्देन राजा समुद्रश्चोच्यते॥मह पूजायाम्।महिषः। 'माहिषी राजयोषिति।'इति हैमः।। - (तत्त्वदी०)-अविष इति ॥ 'अविषौ राजजलधी महिषस्तु महान्मतः ।' 'महिषी राजपत्नी स्यात् ॥' (अमेर्दीर्घश्च ) अम गत्याम् । आमिषम् ॥ (सुबोधिनी)-अमेर्दीर्घश्च ॥ अस्य दीर्घः स्यादिषट् प्रत्ययश्च॥ अम गत्यादौ आमिषम् । आमिषं त्वस्त्रियां मांसे तथा स्याद्भोग्यवस्तुनि ॥' (तत्त्वदी० )-'आमिषं त्वस्त्रियां मांसे भोग्यवस्तुनि चेष्यते ॥' . (रुहेवृद्धिश्च ) रौहिषः॥ (सुबोधिनी )-रुहेर्वृद्धिश्च ॥ अस्य वृद्धिः स्यादिषट् प्रत्ययश्च ॥ रुह बीजजन्मनि । रौहिषः । रङ्कुशम्बररौहिषाः।' इत्यमरः ॥ रौहिषो मृगभेदे स्याद्रौहिर्ष च तृणं मतम् ।' इति संसारावर्तः ॥ __ (तत्त्वदी०)-रौहिषमिति ॥ 'तृणे च मृगभेदे च ॥' (किलेबुक् च ) किल शौक्ल्ये । केलतीति किल्बिषम् ॥ (सुबोधिनी)-किलेर्बुक् च ॥ किल श्वैत्यक्रीडनयोरस्मादिषट् प्रत्ययो धातोढुंगागमश्च स्यात् ॥ किल्बिषम् । 'किल्विषं पापरोगयोः। अपराधेऽपि' इति मेदिनी॥ (तत्त्वदी० )-किल्बिषमिति ॥ पापरोगयोः ॥ (मद्यादेः किरः) मदिरा । मुदिरः । मन्दिरम् । तिमिरम् । मिहिरः। छिदिरः। रुचिरम् । रुधिरम् । बन्ध बन्धने । बधिरः । शुषिरम् ॥ (सुबोधिनी)-मद्यादेः किरः॥ किरप्रत्ययः स्यात्॥ किरप्रत्ययमाह-कित्त्वान्न गुणः । मदी हर्षे । मदिरा सुरा ॥ मुद हर्षे । मुदिरः। 'मुदिरः कामुकाभ्रयोः। इति मेदिनी ॥ मदि स्तुत्यादौ । मन्दिरम् । 'मन्दिरं नगरेऽगारे क्लीबं ना मकरालये।' इति मेदिनी ।तिम आर्दीभावे। तिमिरम्। 'तिमिरं ध्वान्ते नेत्रामयेऽन्तके।' इति मेदिनी॥मिह सेचने । मिहिरः। 'मिहिरः सूर्यबुद्धयोः।' इति मेदिनी ॥ रुच दीप्तौ । रुचिरम् । सुन्दरं रुचिरं चारु' इत्यमरः ॥ रुधिर आवरणे । रुधिरम् । 'रुधिरोऽङ्गारके पुंसि क्लीवं तु कुकुमासृजोः।' इति मेदिनी ॥ बन्ध बन्धने । नो लेप इति नलोपः । बधिरः। श्रोत्रेन्द्रियरहितः ॥ शुष शोषणे। 'शुषिरं वंशादिवाये विवरे च नपुंसकम् ।' 'शुषिरं विवरं विलं छिद्रम्' इत्यमरः ॥ Page #282 -------------------------------------------------------------------------- ________________ (२६२) सिद्धान्तचन्द्रिका। [पूर्वकृदन्ते उणादयः । (तत्त्वदी०) मुदिर इति ॥ 'मुदिरः कामुकाभ्रयोः' ॥ मन्दिरमिति॥ 'नगरागारयोः क्लीबम् ।' 'मिहिरः सूर्यबुद्धयोः ।' रुधिरमिति ॥ 'रुधिरोऽङ्गारके पुंसि क्लीबं तु कुङ्कुमासृजोः।' 'शुषिरं वंशादिवाये विवरे च नपुंसकम् ॥' (अजिरादयो निपात्याः) अजिरम् । शश प्लुतगतौ । शशतीति शिशिरम् । श्रथ मोचने । शिथिलम् । स्थिरम् । स्फायीं स्फिरम् । स्थविरः । खदिरः । शी शिबिरम् । सल गतौ । सलिलम् । अनिलः । महिला । कोकिलः। कमु कपिलः ।मथ्यन्ते रिपवोऽस्यामिति मिथिला॥ __ (सुबोधिनी)-अजिरादयो निपात्याः ॥ किरप्रत्ययान्ता निपात्यन्ते । अज गतौ । अजेवीभावाभावः। अजिरम् । दशपादीवृत्तौ तु नपूर्वस्य जीयतेवर्णलोपो निपात्यते इत्युक्तम् । न जीर्यतीत्यजिरम् । 'अजिरं प्राङ्गणे काये विषये दर्दुरेऽनिले।' इति मेदिनी ॥ शश प्लुतगतौ । शशेरुपधाया इत्वं निपात्यते। शिशिरम् । 'शिशिरं स्याहतो.दे तुषारे शीतलेऽन्यवत्।' इति विश्वः ॥ 'शिशिरो ना हिमे न स्त्री ऋतुभेदे जडे त्रिषु ।' इति मेदिनी ॥ श्रथ मोचने । धातोरुपधाया इत्वं रलोपः प्रत्ययरेफस्य लत्वं च निपात्यते।शिथिलम्॥ष्ठा गतिनिवृत्तौ। आतोऽनपीत्यालोपः। स्थिरं निश्चलम्। तिष्ठतेर्वक ह्रस्वत्वं च निपात्यते । स्थविरःस्फायी वृद्धौ। यत इति यलोपः। आतोऽनपीत्यालोपः। स्फिरम् । 'भूर्यदभ्रं पुरु स्फिरम्।' इति हैमः॥खद स्थैर्ये । खदिरः। 'खदिरी शाकभेदे स्त्री ना चन्द्र दन्तधावने।' इति मेदिनी ॥शी स्वप्ने । शीडो बुक हस्वश्च निपात्यते। शेरतेऽस्मिन् राजबलानीति शिबिरं निवेशः। निवेशःशिविरं षण्ढे' इत्यमरः॥सल गतौ । सलिलादय इलप्रत्ययान्ता निपात्यन्ते । सलति गच्छति निम्नमिति सलिलम् ॥ अन प्राणने । अनिलः ॥ मह पूजायाम् । महिला। पृषोदरादित्वान्महेलाऽपि । महेला फलिनीस्त्रियोः।' इति मेदिनी। 'प्रियङ्गुः फलिनी फली।' इत्यमरः॥ दमयन्तीकाव्ये प्रयोगो यथा-'परमहेलारतोऽप्यपारदारिकः'अत्र परस्य महेला स्त्री अथ च परमा उत्कृष्टा हेला क्रीडा तत्र रत इत्यर्थः ॥ कुक आदाने। कोकिलः॥ कुट कौटिल्ये। बाहुल्याद् गुणाभावः। कुटिलः ॥ कमु कान्तौ । मस्य निपातनात्पः। कपिलः । “कपिला रेणुकायां च शिंशपागोविशेषयोः। पुण्डरीककरिण्यां स्त्री वर्णभेदे त्रिलिङ्गकः । नानले वासुदेवे च मुनिभेदे च कुक्कुरे ॥” इति मेदिनी ॥ मन्थ विलोडने । अकारस्येत्वं निपात्यते । मथ्यन्ते रिपवोत्रेति मिथिला नगरी ॥ - (तत्त्वदी०)-अजिरमिति ॥ “अजिरं प्राङ्गणे काये विषये दर्दुरेऽनिले । शिशिरं स्याहतोमेंदे तुषारे शीतलेऽन्यवत् ॥” स्थिरमिति ॥ निश्चलम् । 'खदिरी शाकभेदे स्त्री ना चन्द्रे दन्तधावने।' इति ॥ शिबिरमिति ॥ शेरतेऽस्मिन् राजबलानीति शिबिरं निवेशः ॥ महिलेति॥ 'महिला फलिनीस्त्रियोः ॥' Page #283 -------------------------------------------------------------------------- ________________ [ पूर्वकृदन्त उणादयः ] टीकाद्वयोपेता। (२६३) (कुबेरादयोऽपि ) कुबि आच्छादने । कुबेरः। कवृ वर्णे। कपोतः॥ (सुबोधिनी) कुबेरादयोऽपि ॥ कुवि आच्छादने अस्मादेरप्रत्ययो नलोपश्च निपात्यते । कुम्बत्यन्येषामैश्वर्यमिति कुबेरः। 'कुबेरस्यम्बकसखः' इत्यमरः ॥ कबू वणे अस्मादोतप्रत्ययो बकारस्य पत्वं च निपात्यते । कपोतः । 'कपोतः स्याच्चित्रकण्ठे पारावतविहङ्गयोः।' इति मेदिनी ॥ 'कपोतः पक्षिमात्रेऽपि' इति त्रिकाण्डशेषः ॥ (भातेर्डवतुः) भातीति भवान् ॥ ___ (सुबोधिनी)-भातेर्डवतुः॥ डवतुप्रत्ययमाह-डित्त्वाहिलोपः। उदित्त्वान्नुम् ईष् च । भा दीप्तौ । भातीति भवान् । सर्वादिशब्दोऽयम् ॥ (किशोरादयो निपात्यन्ते) किं शृणातीति किशोरः । कठ कृच्छजीवने । कठोरः। चक तृप्तौ । चकोरः। कपि कपोलः। पटोलः॥ (सुबोधिनी)-किशोरादयो निपात्यन्ते ॥ ओरप्रत्ययान्ता ओलप्रत्ययान्ताश्च ॥ किम्पूर्वस्य शृणातेष्टिलोपश्च किमोऽन्त्यलोपश्च निपातनात् । श हिंसायाम् । किशोरः । 'किशोरोऽश्वस्य शावके । तैलपर्योषधौ च स्यात्तरुणावस्थसूर्ययोः॥' इति मेदिनी ॥ कठ कृच्छ्रजीवने। कठोरः। कठिनः पूर्णश्च । 'कठोरताराधिपलाञ्छनच्छविः' इति माघः ॥ चक तृतौ। चकोरः पक्षिभेदः ॥ कपि चलने । नलोपो निपातनात् । कपोलः । ओलप्रत्ययोऽप्येभ्यो निपातनात् ॥ पट गतौ । पटोलः । 'पटोलं वस्त्रभेदे नौषध्यां ज्योत्स्न्यां तु योषिति ।' इति मेदिनी ॥ (तत्त्वदी०)-'किशोरोऽश्वस्य शावके । तैलपर्योषधौ च स्यात्तरुणावस्थसूर्ययोः ॥' (मीनातेरूरः) मयूरः॥ (सुबोधिनी)-मीनातेरूरः ॥ ऊरप्रत्ययमाह-मीञ् हिंसायाम् । मयूरः॥ (स्यन्देः संप्रसारणम् ) सिन्दूरम् ॥ (सुबोधिनी) स्यन्देः संप्रसारणम् ॥ स्यन्दू प्रस्रवणे अस्मादूरप्रत्ययः संप्रसारणं च स्यात् ॥ सिन्दूरम्॥ सिन्दूरस्तरुभेदे स्यासिन्दूरं रक्तचूर्णके ।' इति मेदिनी ॥ (स्यादेस्तुः) सेतुः । तन्तुः। ओतुः। मसी परिणामे । मस्तुः। धातुः । षच समवाये । सचति समावेशयति चात्मनि जलमिति सक्तुः । क्रोष्टा ॥ (सुबोधिनी)-स्यादेस्तुः ॥ तुप्रत्ययमाह-पित्रु बन्धने । सेतुः। 'सेतुरालौ स्त्रियां पुमान्।' इत्यमरः॥ 'सेतुर्नाऽऽलौ कुमारके।' इति मेदिनी॥तनु विस्तारे तन्तुः । हबक्त्योरितीन । 'सूत्राणि नरि तन्तवः।' इत्यमरः॥ मसी परिणामे ॥ मस्तुः 'मण्डं दधिभवं मस्तु' इत्यमरः ॥ षच सेचने। सच्यते इति सक्तुः। चोः कुरिति कः। अर्द्ध Page #284 -------------------------------------------------------------------------- ________________ (२६४) सिद्धान्तचन्द्रिका। पूर्वकृदन्त उणादयः ] र्चादिः॥ दुधा धारणपोषणयोः । “धातुर्ना नेन्द्रिये त्रिषु । शब्दयोनिमहाभूततद्गुणषु रसादिषु।मनःशिलादौ श्लेष्मादौ विशेषाद्वैरिकेऽस्ति च॥' इति मेदिनी॥"श्लेष्मादि रसरक्तादि महाभूतानि तद्गुणाः ॥ इन्द्रियाण्यश्मविकृतिः शब्दयोनिश्च धातवः॥" इत्यमरः ॥ कुश आक्रोशे । छशषेति षत्वं ष्टुत्वं तुवद्भावः क्रोष्टा । स्तुरारित्यार । कोष्टारौ ॥ (तत्त्वदी० )-स्यादेरिति॥सिनातीति सेतुः । जलमिति शेषः॥मस्तुरिति॥दधिमण्डम्।। धातुरिति ॥ 'मनःशिलादौ धातुः स्यादिन्द्रियेषु तथैव च ॥' ( अर्तेस्तुक) ऋतुः। मन्तुः। जनी प्रादुर्भावे । जन्तुः॥ (सुबोधिनी०)-अर्तेस्तुक् ॥ तुकप्रत्ययमाह-कित्त्वान्न गुणः ऋ गतौ। ऋतुः । 'ऋतुर्वर्षादिषट्सु च।''आर्तवे मासि च पुमान्' इति मेदिनी'ऋतुः स्त्रीकुसुमेऽपि च।। इत्यमरः॥ 'ऋतुः स्त्रीपुष्पकालयोः।' इति विश्वः॥पुनस्तुप्रत्यः यमाह-मन ज्ञाने मन्तुः । 'मन्तुः पुंस्यपराधेऽपि मनुष्येऽपि प्रजापतौ।'इति मेदिनी॥जन प्रादुर्भाव । जन्तुःप्राणी।। (तत्त्वदी०) ऋतुरिति ॥ 'स्त्रीपुष्पे च ऋतुः काले ।' मन् रपराधः ॥ (चायः किः) केतुः। वस्तु॥ (सुबोधिनी) चायः किः॥ चाय पूजानिशामनयोः । अस्मात्तुप्रत्ययो.धातोः किरादेशश्च स्यात्॥केतुः। 'केतुर्ग्रहपताकयोः ।' इति विश्वः। केतुर्ना रुत्पताकादिग्रहोस्पातेषु लक्ष्मणि ।' इति मेदिनी ॥ वस निवासे । तुः वस्तु ॥ (तत्त्वदी० )-केतुरिति ॥ पताकाग्रहोत्पातेषु लक्ष्मणि च । ( अगारे णित् ) वास्तुः॥ (सुबोधिनी)-अगारे णित् ॥ अगारेऽर्थे वस्तुण स्यात् ॥ तुणप्रत्ययमाहणित्वाद् वृद्धिः। वास्तुः । 'वेश्मभूर्वास्तुरस्त्रियाम् ।' इत्यमरः ॥ ( कृतः कतुः) क्रतुः॥ (सुबोधिनी )-कृत्रः कतुः ॥ कतुप्रत्ययमाह-कित्त्व न गुणः। डुकृञ करणे । ऋतुः। 'ऋतुर्यज्ञे मुनौ पुंसि' इति मेदिनी ॥ ( तत्त्वदी०) क्रतुरिति । 'ऋतुर्यज्ञे मुनौ पुंसि ॥' (जीवेरातको वृद्धिश्च ) जीवयति कुमुदाति जैवातृकः ॥ (सुबोधिनी)-जीवेरातको वृद्धिश्च ॥ जीव प्राण भरणे अस्मादातृकप्रत्ययः स्याद्धातोवृद्धिश्च॥आतृकप्रत्ययमाह-जैवातृकः। 'जैवातृकः पुमान्सोमे कर्षकायुष्मतोस्त्रिषु' । इति मेदिनी।। जैवातृकस्त्विन्दुभिषगायुष्मत्सु कृषीवले ।'इति॥अस्मादातुप्रत्ययोऽपि । 'जीवातुरस्त्रियां भक्तजीविते जीवनौषधे ॥' (तत्त्वदी०)-जीवेरिति ॥ 'जैवातृकः पुमान्सोमे कर्षकायु मतोत्रिषु' । Page #285 -------------------------------------------------------------------------- ________________ [पूर्वकृदन्ते उणादयः]. टीकाद्वयोपेता । (२६५) (कृपादेरूः ) कः । खर्ज व्यथने । खः ॥ - (सुबोधिनी)-कृषादेसः॥ ऊप्रत्ययमाह-कृष विलेखने । कः । 'कर्षुः पुंसि करीपानी कनियां स्त्रियां मता।' इति विश्वः॥'कर्पू: पुमान् करीषानौ स्त्रियां कुल्याल्पातयोः' इति मेदिनी ॥ खर्ज व्यथने । खजूंः । 'खजूं: खजूरीकोटकण्डुषुः । पामा च' इति हैमः॥ (तत्त्वदी०) कृषादेरिति ॥ 'कर्षः पुंसि करीषाग्नौ कनियां स्त्रियां मता । खर्जः कीटान्तरे वृत्तौ' इति मेदिनी ॥ . (वहो धश्च ) वहति प्राप्नोति धनमिति वधूः॥ . . (सुबोधिनी)-वही धश्च ॥ वह प्रापणे। अस्य धान्तादेश उप्रत्ययश्च स्यात् ॥ वधूः स्त्रीविशेषः । 'वधूः स्नुषा नवोढा स्त्री भार्यापृक्काङ्गनासु च ।। इति विश्वः ॥ 'वधूजार्यास्नुपास्त्रीषु पृक्का च महिला वधूः।' इति त्रिकाण्डशेषः ॥ ' (तत्त्वदी० )-वधूः स्नुषा नवोढा स्त्री भार्या च ॥ (कषेश्छश्च) कच्छूः ॥ __ (सुबोधिनी)-कषेश्छश्च ॥ कष हिंसायाम् । अस्मादूप्रत्ययः स्यादन्तस्य छश्च ।। कच्छूः । 'कच्छां तु पाम प मा वि चका।' इत्यमरः॥ (तत्त्वदी०)-कच्छूः पाम ॥ (कास्वादयः) कल्यते हन्यतेऽनया कासूः । पद्यते प्राप्यतेऽनया पादूः । लबि गती अलाबूः । कशेरूः। दर्दूः॥ (सुबोधिनी)-कास्वादयः ॥ ऊणप्रत्ययान्ता निपात्यन्ते । णित्त्वादृद्धिः ॥ ऊणप्रत्ययमाह-कस गतौ कासूः। 'कामूर्विकलवाचि स्यात्तथा शक्त्यायुधे स्त्रियाम्।' इति मेदिनी॥ 'कासूः शक्त्यायुधे रुजि । बुद्धौ विकलवाचि स्यात्' इति हैमः ॥ पद गतौ । पार्दूःचरणधारिणा । लबि अवस्रंसने । नञ्युपपदे लम्बेर्नलोपो निपात्यते । न लम्बते जले इत्यलाबूः। 'तुम्ब्यलाबूरुभे समे' इत्यमरः ॥श हिंसायाम् । कशब्दे उपपदे शृणातेरूप्रत्र यः ऋत एरादेशश्च निपात्यते । कशेरूः । बाहुलकादुप्रत्ययोऽपि । 'कशेरुस्तृणकन्दे स्त्री' इति ॥ दरिद्रा दुर्गतौ । ऊप्रत्यये इकारस्याकारस्य च लोपो निपात्यते दर्दूः कुष्ठभेदः । मृगय्वादित्वात्कुप्रत्यये दर्दुरपि । 'द णो दरोगी स्यात्' इत्यमरः॥ (तत्त्वदी०)-'कासूविकल् वाचि स्यात्तथा शक्त्यायुधे स्त्रियाम् ।' इति मेदिनी ॥ पाश्चरणधारिगी। 'तुम्न्यलाबूरभे समे ।' 'कशेरुस्तृणकन्दे स्त्री ॥' (अन्द्वादयः) अन्दूः ॥ Page #286 -------------------------------------------------------------------------- ________________ (२६६) सिद्धान्तचन्द्रिका। [पूर्वकृदन्ते उणादयः ] (सुबोधिनी)-अन्द्वादयः॥ कूप्रत्ययान्ता निपात्यन्ते । अदि बन्धने । अन्दूः। 'अन्दूः स्त्रियां स्यान्निगडे प्रभेदे भूषणस्य च।' इति मेदिनी ॥ 'अन्दुको हस्तिनिगडे' इत्यमरः । संज्ञायां कप्रत्यये पूर्वस्य ह्रस्वः। केचित्तु अम गलौ अस्य दुगागमे कूप्रत्यय च अन्दूर्बुद्धिरिति व्याचख्युः ॥ (तत्त्वदी० )-अन्द्वादयः ॥' अन्दूः स्त्रियः स्यान्निगडे प्रभेदे भूषणस्य च ॥' (जनेबुक ) जम्बूः। कर्क दधातीति कर्कन्ध । दिधिं धैर्य स्यतीति दिधिषूः॥ ( सुबोधिनी )-जनेबुक् ॥ जनी प्रादुर्भावे । अस्य युगागमः स्यात्कूप्रत्यय ।। जम्बूः। जमु अदने।अस्येत्येके । बाहुलकात्कुप्रत्ययोऽपि । जम्बुः । उक्तं च विक्रमादित्यकाव्ये 'तस्य जम्बोः फलरसो नदीभूय प्रवर्तते ।' इति। 'परिणतजम्बुफलोपभोगहृष्टाः।' इति भारविः॥डुधाञ् धारणादौ। आतोऽनपीत्यालोपः। निपातनात्पूर्वपदस्य नुम् । कर्क दधातीति कर्कधूः । 'कर्कर्वदरी कालिः' इल मरः ॥ षोऽन्तकर्मणि । दिधिं धैर्य स्यति त्यजतीति। संध्यक्षराणामित्यात्वे आतोऽ पीत्यालोपे च दिधिपूः । कैश्चित्तु दधातेरित्वं दित्वं षुक् च निपात्यते दधात्यसाविति दिधिपूरिति व्याख्यातम् । "पुनर्भूदिधिषूरूढा द्विः' इत्यमरः ॥ द्विरूढा द्विवारं विवाहितेत्यर्थः ॥ (तत्त्वदी०)-कर्कर्बदरी। दिधिषः पुनर्भूः ॥ ( मृग्रोरुतिः) मरुत् । गरुत् ॥ (सुबोधिनी) मृगोरुतिः ॥ उतिप्रत्ययमाह-इवार उच्चारणार्थः । मृङ् प्राणत्यागे । मरुत् । अण्प्रत्यये मारुतः । मरुतशब्दोऽप्य व्युत्पन्नोऽस्ति । 'मरुतः स्पर्शनः प्राणः समीरो मारुतो मरुत् ।' इति विक्रमादित्यकोशः ॥ 'कोऽयं वाति स दाक्षिणात्यमरुतः' इति कविराजश्लोकः । गृ निगरणे । गम्त् ॥ (तत्त्वदी०)-मृगोरिति ॥ गरुत्पक्षः ॥ (गिरतरुतिस्तस्य मुट्र ) गर्मुत् ॥ (सुबोधिनी)-गिरतेरुतिस्तस्य मुटु ॥ अस्मात रस्योत्प्रत्ययस्य मुडागमः स्यात् ।। गर्मुत् । 'गर्मुस्त्री स्वर्णलाभयोः' इति मेदिनी ॥ (तत्त्वदी०)-गर्मुत्तॄणं च ॥ (चटेरुलः) चट भेदने । चटुलम् ॥ (सुबोधिनी)-चटेरुलः॥ उलप्रत्ययमाह । चट भेट्ने । चटुलं शोभनम् ॥ - (ह्रादेरितिः) हरित्।सरित्ायुषः सौत्रो धातुःयुष भजने॥योषित् ॥ (सुबोधिनी) द्वादेरितिः॥ इतिप्रत्ययमाह-इकार उच्चारणार्थः । हज हरणे। हरित् । 'हरित्ककुभि वर्णेच तृणवाजिविशेषयोः।' इति विश्वः ॥ हरिद्दिशि स्त्रियां पुंसि Page #287 -------------------------------------------------------------------------- ________________ [ पूर्वकृदन्ते उणादयः ] टीकाद्वयोपेता। (२६७) हयवर्णविशेषयोः । अस्त्रियां स्यात्तृणेऽपि च' इति मेदिनी ॥ रुह बीजजन्मनि । रोहित् । 'रोहिन्मृग्यां लताभेदे स्त्री नार्के' इति मेदिनी ॥ युष इति धातुः सौत्रः। योषित् । 'स्त्री योषिदवला योषा' इत्यमरः॥ (तत्त्वदी०)-हादेरिति॥ हरित्ककुभि वर्णे च तृणवाजिविशेषयोः । रोहिन्मृगविशेषे स्त्री। (ताडेलिक च) तडित् ॥ (सुबोधिनी )-ताडेजिलुक् च ॥ इति प्रत्यये अस्य अलक स्यात् ॥ तड आघाते । ताडयतीति तडित् । 'तडित्सौदामनी विद्युत्' इत्यमरः ॥ (शमेढः ) शण्ढः॥ (सुबोधिनी)--शमेढः ॥ ढप्रत्ययमाह-बाहुलकात् ढस्येत्संज्ञा न । शमु उपशमे । हवक्त्योरितीण्न । शण्टः । 'शण्ढः स्यात्पुंसि गोपतौ । आकृष्टाण्डे वर्षधरे तृतीयप्रकृतावपि ।' इति मेदिनी ॥ . (तत्त्वदी०)-शमेरिति ॥ शण्डः क्लीबः ॥ ' (कमादेरठः) कमठः । जरठः । ( रमेवृद्धिश्च ) रामठम् । शमः खः। शङ्खः । कणेष्ठः । कण्ठः॥ __ (सुबोधिनी)-कमादेरठः ।। अठप्रत्ययमाह-कमु कान्तौ । कमठः । 'कमठः कच्छपे पुसि भाण्डभेदे नपुंसकम् ।' इति मेदिनी । जृ वयोहानौ । जरठः। 'जरठः काठने पाण्डौ कर्कशेऽप्यभिधेयवत् ।' इति विश्वः ॥ 'जरठः कठिने जीणे' इति वैजयन्ती ॥ रमेर्वृद्धिश्च ॥ रमु क्रीडायामस्य वृद्धिः स्यादठप्रत्यये च । रामटं हिगु ॥ शमेः खः ॥ खप्रत्ययमाह-शमु उपशमे । शङ्खः । 'शङ्खो निधौललाटास्नि कम्बौ न स्त्री' इत्यमरः॥ शङ्खः कम्बौ न योषिन्ना भालास्थ्नि निधिभिन्नखे।' इति मेदिनी॥ कणेष्ठः ॥ ठप्रत्ययमाह-कण शब्द । निपातनात् णस्यानुस्वारं कण्ठः । 'कण्ठो गले सन्निधाने ध्वनौ मदनपादपे' इति मेदिनी ॥ (तत्त्वदी०)--कमादेरिति ॥ रामठं हिङ्गु । वृषलादयः कलप्रत्ययान्ता निपात्याः) वृषलः । शप् शबलः। पल गता। पललम् । सरलम् । तरलम् । कम्बलम् । मुस खण्डने । मुसलम् ॥ (सुबोधिनी)-वृषलादयः कलप्रत्ययान्ता नि। गदपात्याः॥कित्त्वान्न गुणः।। वृष सचन। वृषलः। 'वृषलस्तुरगेशद्रे' इति हमः कोश । निपातनात्पस्य बः। शबलः॥ पल गतौ । पललम् । 'पललं तिलचूर्णे च पिके मांस न. रोपंसकम् । ना राक्षसे' इति मेदिनी॥सृ गतौ। बाहुलकाद्गुणः। सरलः। 'सरलः पूतिकाष्ठे, नाथोदारावक्रयोस्त्रिषु।' इति मेदिनी । “सरला विरलायन्ते घनायन्ते कलिद्रुमाः Page #288 -------------------------------------------------------------------------- ________________ ( २६८ ) सिद्धान्तचन्द्रिका | [ पूर्वकृदन्ते उण दयः ] पुन्नागो ह्यस्मिन्संसारकानने॥” इति ॥ तृ प्लवनतरणयोः । तरलः ॥ कमु कान्तौ । कमे गागमो निपात्यते । कम्बलः । “कम्बलो नागराजे स्यात्सास्नाप्रावारयोरपिं । कृमावप्युत्तरासङ्गे सलिले तु नपुंसकम् ॥” इति मेदिनी ॥ 'सास्ना तु गलकम्बलः।' इत्यमरः । मुस खण्डने । मुसलम् । “ मुसलं स्यादयोऽग्रे च पुन्नपुंसकयोः स्त्रियाम् । तालमूल्यामाखुपर्णीगृहगोधिकयोरपि ॥” इति मेदिनी ॥ मु खण्ने अस्मात्कलप्रत्यये मुशलोऽपि । 'मुसलो मुशलोऽपि च' इति विश्वः ॥ " ( लगेर्वृद्धिश्च ) लाङ्गलम् । कुट्मलम् | कुलम् । कश्मलम् । कोमलम् । मृज् मलम् | हुप् चपलम् । शकलम् । शमलम् । छगलः ॥ ( सुबोधिनी ) - लगेर्वृद्धिश्च ॥ लगि गतौ । अस्य वृद्धिर्निपात्यते ॥ लाङ्गलम् ॥ कुट कौटिल्ये । कलप्रत्ययस्य मुडागमो निपात्यते । कुट्मलः । कुड दाहे । अस्मात्कलप्रत्यये मुडागमे च कुड्मलोऽपि ॥ कश गतिशासनयोः । कल त्ययस्य मुटु निपातनात् । कश्मलम् ॥ कुशब्दे । अस्मात्कलप्रत्ययस्य मुटु धातोर्गुणच निपात्यते । कोमलम् "कोमलं मृदुलं मृदु ।' इत्यमरः ॥ मृजू शुद्धौ । मृजेष्टिलोपा निपात्यते कलप्रत्यये । मलम् । 'मलोऽस्त्री पापविट्टकिट्टे कृपणे त्वभिधेयवत् । ' इति मेदिनी ॥ चुप मन्दायां गतौ धातोरुपधाया अत्वं निपात्यते कलप्रत्यये । चपलम् । " पलः पारदे मीने चोरके प्रस्तरान्तरे । चपला कमलाविद्युत्पुंश्चलीपिप्पलीषु च । नपुंस के तु शीघ्रे स्याद्वाच्यवत्तरले चले॥” इति मेदिनी । शक्ल शक्तौ । शकलम् । 'शक ं त्वचि खण्डे स्याद्रागवस्तुनि वल्कले ।' इति मेदिनी ॥ रोहितादनिां त्वचि तद्येगात् शाकली मत्स्यः ॥ . शमु उपशमे । शमलम् ॥ छो छेदने अस्य गुगागमो ह्रस्वच निपात्यते । छगलः ॥ 'छगलं नीलवस्त्रे ना छागेऽस्त्री वृद्धदारके ।' इति मेदिनी ॥ ( मान्ताड्डुः ) दण्डः । रण्डा । खण्डः । मन्ातेः मण्डः। अण्डः । `चण्डः । पण्डः ॥ (सुबोधिनी) -- ञमान्ताडुः ॥ अमप्रत्याहारान्ताद्धातो: स्यात् ॥ डप्रत्ययमाह । उपशमे । बाहुलकात् डस्य नेत्संज्ञा । दण्ड: । ' दण्डं ऽस्त्री लगुडेऽपि स्यात् ' . इत्यमरः ॥ रमु क्रीडायाम् । रण्डा । 'रण्डा मूषकपय च विधवायां च योषिति ।' इति विश्वः ॥ खनु अवदारणे । खण्ड: । 'खण्डोऽस्त्री शकले चेक्षुविकारमणिभेदयोः ।' - इति मेदिनी ॥ ( कवर्गादिभ्यः किच्च ) गुङ गतौ । गुडः ॥ (सुबोधिनी) - कवर्गादिभ्यः किच्च ॥ डकू स्यात् । कि त्वाद् गुणो न । डक्प्रत्ययमाह-गुङ गतौ । गुङ् अव्यक्ते शब्दे च । 'गुडो गोलेक्षुप | कयोः ।' इत्यमरः । 'गुडः Page #289 -------------------------------------------------------------------------- ________________ [ पूर्वकृदन्ते उणादयः ] टीकाद्वयोपेना। (२६९) स्थागोलके हस्तिसन्नाहेक्षुविकारयोः । गुडा स्नुह्यां च कथिता गुडिकायां च . योषिति ॥” इति मेदिनी ॥ (स्थादेरालः ) स्थालम् । स्थाली ॥ (सुबोधिनी)-स्थादेरालः॥ आलप्रत्ययमाह-ष्ठा गतिनिवृत्तौ । स्थालम् । 'स्थालं भाजनभेदेऽपि स्थाली स्यात्पाटलौषधौ।' इति मेदिनी ॥ (पतिचण्डिभ्यामालञ् )पातालम् । चडि कोपे। चण्डालः॥ (सुबोधिनी)-पतिचण्डिभ्यामालन ॥ आलञ्प्रत्ययमाह-जित्त्वाद्वाद्धिः। पत्र पतने। पतन्त्यस्मिन्नधर्मिण इति पातालम् । 'अधोभुवनपातालबलिस रसातलम्।' इत्यमरः॥ 'पातालं नागलोके स्याद्विवरे वडवानले।' इति मेदिनी॥ चडि कोपे। नुमि कृते उपधाया अभावान वृद्धिः । चण्डालः । अणप्रत्यये चाण्डालः ॥ (तमादिभ्यः कालः ) तमालः। बिड भेदने । बिडालः। मृणहिंसायाम् । मर्णयति कमलानि मृणालम् । कुल संख्याने नाशने च । कोलति नष्टां करोति मृत्तिका कुलालः। कपालम् । पल्यते त्यज्यतेऽसौ पलालः॥ (सुबोधिनी)-तमादिभ्यः कालः॥ कालप्रत्ययमाह-कित्त्वान्न गुणः । तमु काङ्क्षायाम् । तमालः। 'तमालस्तिलके खड्ग ना पिच्छे वरुणद्रुमे।' इति मेदनी ॥ विश प्रवेशने।"विशाला विन्द्रवारुण्यामुज्जयिन्यां तु योषित । नृपवृक्षभिदोः पुसि पृथुलेऽप्यभिधेयवत्॥"इति मेदिनी॥ बिड आक्रोशे । बिडालः। "बिडालो नेत्रपिङ्गे स्याद्वषदंशकके पुमान्।' इति मेदिनी। 'ओतुर्बिडालो मार्जारो वृषदंशक आखुभुक्।'इत्यमरः।। मृण हिंसायाम् । मृणालम् । 'मृणालं नलदे क्लविं पुन्नपुंसकयोर्विसे ।' इति मेदिनी॥ कुल संख्याने। कुलालः। कुलालः ककुभे कुम्भकारे स्त्रीत्वं जनान्तरे।' इति मेदिनी॥ "कुलालो घूकपक्षिणि । ककुभे कुम्भकारे च' इति हैमः ॥ कपि चलने । नलोपो निपात्यते । कपालम् । 'कपालोऽस्त्री शिरोऽस्थ्नि स्याटादेः शकले बजे।' इति. मेदिनी ॥ पल गतौ । पलालः ॥ (पतादिभ्योऽङ:) पतङ्गः। तरङ्गः । लवङ्गम् ॥ __ (सुबोधिनी)-पतादिभ्योऽङ्गः ॥ अङ्गप्रत्ययमाह-पत्ल पतने। पतङ्गः। 'पतङ्गः शलभे शालिप्रभेद पक्षिसूर्ययोः । क्लीवं सूते' इति मेदिनी ॥ सूते पारदे इत्यर्थः ॥ तृ प्लवनतरणयोः। तरङ्गः । 'तरङ्गस्तुरगादीनामुत्फाले वस्त्रभङ्गयोः।' इति विश्वः॥ लूञ छेदने । 'लवङ्गं देवकुसुमम्' इत्यमरः॥ (बिडादेः कित् ) बिडङ्गः । मृद क्षोदे। मृदङ्गः ॥ Page #290 -------------------------------------------------------------------------- ________________ (२७० ) सिद्धान्तचन्द्रिका | [ पूर्वकृदन्ते उणादयः ] (सुबोधिनी) - बिडादेः कित् ॥ अङ्गकप्रत्ययमाह कित्वान्न गुणः । बिड आक्रोशे । बिडङ्गः।'बिडङ्गः कृमिसंघने बिडङ्गो नागरेऽन्यवत्। ' इति विश्वः॥ 'बिडङ्गस्त्रिष्वभिज्ञे स्यात्कृमिघ्ने पुंनपुंसकम् ।' इति मेदिनी ॥ मृद नोदे । मृदङ्गः । ‘मृदङ्गः 'पटहे घोषे ' इति मेदिनी ॥ ( गमादेर्गः ) गङ्गा । छो छागः । खड्गः ॥ ( सुबोधिनी ) - गमादेर्गः ॥ गप्रत्ययमाह - गम्ल गये । गङ्गा ॥ छो छेदने । छागः । खड भेदने । खड्गः । 'खड्गो गण्डकशृङ्गे स्थानि स्वशे गण्डकेऽपि च।' इति शब्दतरङ्गिणी । 'खड्गो गण्डकशृङ्गासिबुद्धिभेदेषु गण्डके । इति मेदिनी ॥ (भृङ्गादयः ) भृञ् भृङ्गः । शृङ्गम् । शार्ङ्गः । पूगः । मोदतेः मुद्गः॥ (सुबोधिनी) - भृङ्गादयः ॥ गक्प्रत्ययान्ता निपात्यन्ते - डुभृञ् धारणपोषणयोः । प्रत्ययस्य नुटु निपातनात् । भृङ्गः । 'भृङ्गाः षिद्रा धूम्याटा:' इति विश्वः ॥ 'भृङ्गो धूम्याटषिद्वयोः । मधुव्रते भृङ्गराजे पुंसि भृङ्गं गुड चि' इति मेदिनी ॥ शू हिंसायाम् । शृणातेर्हस्वः प्रत्ययस्य नुडागमश्च निपात्यते । शृङ्गम् । 'शृङ्गं प्रभुत्वे शिखरे चिह्ने क्रीडाम्बुयन्त्रके । विषाणोत्कर्षयोश्चाथ शृङ्गः स्यात्कूर्चशीर्षके । स्त्री विषायां स्वर्णमीनभेदयोर्ऋषभौषधौ ॥' इति मेदिनी ॥ " शृङ्गं विषाणमाख्यातं शैलाग्रे जलयन्त्रके । मीनौषधि सुवर्णानां भेदे शृङ्गी प्रयुज्यते ।।" इ युत्पलिनीकोशे ॥ शृणातेः शकुनौ वाच्ये गण्प्रत्ययः तस्य नुट् च निपात्यते । णिवाद्वृद्धिः । शार्ङ्गः पक्षी । शार्ङ्गं धनुरिति तु शृङ्गस्य विकार इत्यर्थेऽण्प्रत्यये बोध्यम् । पू पवने । पूयते मुखमनेनेति पूगः । 'पूगस्तु क्रमुके वृन्दे' इति मेदिनी ॥ मुद हर्षे । मुद्रः सस्यभेदः ॥ (शरदादयोऽदिप्रत्ययान्ता निपात्याः ) शू शरत् । दृणाते: दरत् । दृषत् । त्यजेः त्यत् । तनेः तत् । यजेः यत् । इण् एतत् ॥ (सुबोधिनी ) - शरदादयोऽदिप्रत्ययान्ता निपा त्याः॥शु हिंसायाम् | आदिप्रत्ययः। इकार उच्चारणार्थः । शरत् । 'शरत्स्त्री वत्सरेऽप्यृनौ' इति मेदिनी ॥ हृ विदारणे । दरत् । 'दरस्त्रियां प्रपाते च भयपर्वतयोरपि ।' इति मेदिनी ॥ दृणातेः षुक् ह्रस्वो गुणाभावश्च निपात्यते । दृषत् । 'दृषन्निष्पेषणाई लापट्टप्रस्तरयोः स्त्रियाम् ।' इति मेदनी ॥ त्यज हानौ । निपातनाट्टिलोपः । यद् ॥ तनु विस्तारे निपातनाट्टिलोपः । तद् ॥ यज देवपूजादौ । टिलोपो निपातनात् । यद् ॥ इण गतौ । अस्प गुणे कृते तुगागमो निपात्यते । एतद् || (तत्त्वदी० )- शरदादय इति ॥ शरद्धृदयकूलयोः ॥ (भियोsजिः षुक् ह्रस्वश्च ) भिषक् ॥ Page #291 -------------------------------------------------------------------------- ________________ [ पूर्वकृदन्ते उणादयः ] टीकाद्वयोपेता । (२७१) (सुबोधिनी)-भियोऽजिः षुक् ह्रस्वश्च ॥ जिभी भये अस्मादजिप्रत्ययः स्यात् ॥ अजिप्रत्ययमाह-इकार उच्चारणार्थः । अजिप्रत्यये भियो हस्वः षुगागमश्च स्यात् ॥ ह्रस्वविधानसामर्थ्यान्न गुणः । भिषक् । 'भिवग्वैद्यौ चिकित्सके।' इत्यमरः।। __ (युष्यसिभ्यां मदिक् )युषः सौत्रः । युष्मद् । अस्मद् ॥ (सुबोधिनी)-युष्यसिभ्यां मदिक् ॥ मदिप्रत्ययमाह-कित्त्वाद्गुणो न । इकार उच्चारणार्थः॥युषःसौत्रो धातुः।युष्मद् । असु क्षेपणे । अस्मद् । त्वम् । अहम् ॥ (स्त्वादेर्मः) स्तोमः। सोमः । होमः। धर्मः । क्षेमम् । भामः । वामः । यामः । पद्मम् । नयतीति नेमः॥ __ (सुबोधिनी)-स्त्वादेर्मःमप्रत्ययमाह-ष्टुञ् स्तुतौ। स्तोमः संघातः॥षुञ् अभिववे। सोमः । “सोमस्तुहिनदीधितौ ॥ वानरे च कुबेर च पितृदेवे समीरणे । वसुप्रभेदे करे नीरे सोमलतौषधौ ॥” इति मेदिनी॥हु दानादनयो। होमः। देवतोदेशेन हविःप्रक्षेपो होमः॥ धृञ् धारणे । धर्मः। “धर्मोऽस्त्री पुण्य आचारे स्वभावोपमयोः ऋतौ। अहिंसोपनिषन्याये ना धनुर्यमसोमपे ॥” इति मेदिनी ॥ 'धर्मः पुण्ये यमे न्याये स्वभावाचारयोः ऋतौ ।' इति विश्वः ॥ क्षि क्षये । क्षेमम् ॥ भा दीप्तौ । भामः । 'भामः क्रोधे रुचौ दीप्तौ' इति विश्व आदित्यश्च । या प्रापणे । यामः । 'यामस्तु पुंसि प्रहरे संयमेऽपि प्रकीर्तितः।' इति मेदिनी ॥ वा गतिगन्धनयोः । वामः । “वामं धने पुंसि हरे कामदेवे पयोधरे। वल्गुप्रतीपसव्येषु त्रिषु नार्या स्त्रियामथ । वामी शृगालीवडवारासभीकलभीषु च ॥” इति मेदिनी ॥ पद गतौ। पद्मम् । ‘पद्मोऽत्री पद्मक व्यूहनिधिसंध्यान्तरेऽम्बुजे । ना नागे' इति मेदिनी ॥णीञ् प्रापणे । नेमः । 'नेमः कीलेऽवधौ गर्ने प्राकारे कैतवेऽपिच।' इति मेदिनी॥ नेमस्त्वर्दै प्राकारगर्तयोरवधौ कैतवेऽपि च ।' इति हैमः॥ (जिह्मादयो निपात्यन्ते) जिह्मः॥ ग्रसु ग्लसु अदने । ग्रामः । सिमः । शुष्मम् । श्यैङ् श्यामः । धूमः । युग्मम् । रुक्मम् । तिग्मम् । हिमम् । भीमः । भीष्मः । घृक्षरणे दीप्तौ च । जिघर्त्यनेन धर्मः । ग्रसेः ग्रीष्मः॥ __ (सुबोधिनी)-जिह्मादयो निपात्यन्ते ॥ ओहाक त्यागे अस्मात् मप्रत्ययः सप्रत्ययवद्भवति आतो लोपश्च निपातनात्। तेन द्वित्वादिः। यः से इति पूर्वस्येत्वम् । जिह्मः । 'जिह्मः कुटिलमन्दयोः।' इत्यमरः। जिह्मस्तु कुटिले मन्दे क्लीवे तगरपादपे।' इति मंदिनी ॥ ग्रसु अदने । ग्रसेप्टेरात्वं निपात्यते । ग्रामः । 'ग्रामः स्वरेसंवसथेवृन्दे शब्दादिपूर्वके।'इति विश्वः॥ शब्दादिपूर्वको ग्रामशब्दोवृन्दे। शब्दग्रामो गुणग्राम इति यथा । 'शब्दादिपूर्वो वृन्देऽपि ग्रामः' इत्यमरः॥ 'संपूर्वः संयुगे स्मृतः।' इति विश्वः। Page #292 -------------------------------------------------------------------------- ________________ (२७२) सिद्धान्तचन्द्रिका। [पूर्वकृदन्त उणादयः ] पिञ् बन्धने । निपातनान्मकप्रत्ययान्तो वक्ष्यमाणो ज्ञेयःसिमः सर्वादिगणे पठितः। शुष शोषणे । शुष्मम्। शुष्ममग्निसमीरयोः। इति विश्वः ।। 'शुष्मं तेजसि वायौ ना' इति मेदिनी ॥ श्यैङ् गतौ । श्यामः। 'त्रिषु श्यामौ हरिकृष्णौ श्यामा स्याच्छारिका निशा।' इत्यमरः ॥ "श्यामो वटे प्रयागस्य वारिदेवृद्धदारके। पिक च कृष्णहरितोः पुंसि स्यात्तद्वति त्रिषु॥मारीचे सिन्धुलवणे क्लीबं की शारिकौषधौ । अप्रसूतांङ्गनायां च प्रियङ्गावपि गुग्गुलौ ॥ यमुनायां त्रियामायां कृष्णत्रिवृतिकौषधौ। नीलि. कायाम्" इति मेदिनी ॥ धूञ् कम्पने । धूमः ॥ युजिर यांगे । निपातनाज्जस्य गः। युग्मम् ॥ रुच दीप्तौ । निपातनाच्चस्य कः। रुक्मम् । 'रुक्मं तु काश्चने लोहे' इति विश्वः ॥ तिज निशाने । निपातनाजस्य गः। तिग्मम्। 'तिग्मं तीक्ष्णं खरं तद्वत्' इत्यमरः ॥ हन हिंसागत्योः। हन्तर्हिरादेशो निपातनात् । हिमम् । हिमं तुषारमलयोद्भवयोः स्थानपुंसकम् । शीतले वाच्यलिङ्गः' इति मंदिनी ॥ त्रिभी भये । भियः षुगागमो वा निपात्यते॥विभेत्यस्मादिति भीमः।भीष्मः। 'भीष्मोगाई यघोरयोः।' इति विश्वः ॥ भीमोऽम्लवेतसे घोरे शम्भौमध्यमपाण्डव।' इति मंदिनी ॥घृ क्षरणदीप्त्योः ॥निपातनाद् गुणः। धर्मः। 'धर्मः स्यादातपे ग्रीष्मेऽप्युष्णस्वेदाम्भसोरपि ।' इति मेदिनी ॥ ग्रसु अदने । अस्य निपातनात् ग्रीषादेशः। ग्रीष्मः। 'ग्रीष्म उष्णतुभेदयोः।' इति मेदिनी ॥ (प्रथेः षिवः संप्रसारणं च) पृथिवी ॥ (सुबोधिनी)-प्रथेः षिवः संप्रसारणं च ॥ विप्रत्ययमाह-षित्त्वादीप् ॥ षवप्रत्यय इत्येके । प्रथ प्रख्याने पृथिवी।"पृथवी पृथिवी पृथ्वी धरा सर्वसहा रसा॥" (तत्त्वदी०)-प्रथेः षिवः इति ॥ पव इत्येके । पृथवी पृथिवी पृथ्वी । (अशादे का) अश्वः । खट काङ्क्षायाम् खट्वा । विश्वम् । सर्वादिरयम् ॥ (सुबोधिनी )-अशादेः कः॥ कित्त्वान्न गुणः । क्वयत्ययमाह--अशूङ् व्याप्ता। अश्वः । 'अश्वः पुंजातिभेदे च तुरङ्गे च पुमानयम् ।' इति मेदिनी ॥ अश्वः पुंभेदवाजिनाः।' इति विश्वः॥ खट काङ्खायाम॥ खट्यते शयनार्थि भेः काक्ष्यते इति खट्वा॥ विश प्रवेशने । विश्वः । “ विश्वा प्रतिविषायां स्त्री जगत स्यान्नपुंसकम् । न ना शुण्ठ्यां पुंसि देवप्रभेदेष्वखिले त्रिषु ॥” इति मेदिनी ॥ (स्रादेवः ) सृतमनेन विश्वमिति सवः । गदः । शर्वः ।। ( सुबोधिनी ) स्रादेवः ॥ वप्रत्यययमाह-मृ गतौ । मृतमनेन विश्वमिति सर्वः। गृ निगरणे । गर्वः अहंकारः । शृ हिंसायाम् । शर्वो रुद्रः॥ Page #293 -------------------------------------------------------------------------- ________________ [ पूर्वकृदन्ते उणादयः ] टीकाद्वयोपेता । (२७३) (ग्रीवादयो वप्रत्ययान्ता निपात्यन्ते ) ग्रीवा। लिहन्त्यनयेति जिह्वा ॥ __ (सुबोधिनी)-ग्रीवादगो वप्रत्ययान्ता निपात्यन्ते ॥ गृ निगरणे। ईडागमो गुणाभावश्च निपातनात् । गिरन्त्यनयति ग्रीवा ॥ लिह आस्वादने । लस्य जो गुणाभावश्च निपातनात् । लिहन्त्यनयेति जिह्वा ॥ (तत्त्वदी०)-ग्रीवादय इति ॥ गिरन्त्यनयेति ग्रीवा ॥ (खादेः कन) युवा । वृषा । तक्ष्णोति काष्ठानि तक्षा । राजा । धवि गतौ । धन्वयति ारानिति धन्वा । प्रतिदिवा ॥ (सुबोधिनी)-य्वादेः कन् ॥ कन्प्रत्ययमाह-कित्त्वान्न गुणः । यु मिश्रणे । यौतीति । नुधातारित्युत् । नापधाया इति दीर्घः । नाम्नो नो लोपशिति नलोपः । युवा । 'युवा स्यात्तरुणे श्रेष्ठ नेसर्गबलशालिनि।' इति मेदिनी ॥ वृषु सेचने । वृषा । 'वृषा कर्णे महेन्द्रे ना' इति : दिनी॥त तनूकरणे । तक्षा । 'तक्षा तु वर्द्धकिस्त्वष्टा रथकारश्च काष्ठतट्।' इ यमरः ॥ राज दीप्तौ । राजा । 'राजा प्रभौ नृपे चन्द्रे पक्षे क्षत्रियशक्रयोः।' इत्यमरः । धवि गतौ। धन्वा । 'समानौ मरुधन्वानौ' इत्यमरः॥ 'अथास्त्रियाम् । धनुश्चापो धन्यशरासनकोदण्डकार्मुकम्।' इत्यमरः॥ “धन्वा तु मरुदंश ना क्लीवे चापे शरेऽपि ।' इति मेदिनी ॥ दिवु क्रीडादौ । प्रतिदीव्यत्यस्मिनिति प्रतिदिवा दिवसः॥ (सप्यशूभ्यां तुट ) षप समवाये । सप्त । अष्ट ॥ (सुबोधिनी)-सप्यशूभ्यां तुटु च ॥ आभ्यां कन् प्रत्ययः स्यात्तस्य तुडागमश्च ॥ पप समवाये । जश्व सोरिति जसो लुक् । नाम्नो नो लोपशिति नलोपः । सप्त ॥ असूङ व्याप्तौ । छशति षत्वम् । अष्ट ॥ (नधि जेहातेः) अहः॥ __ (सुबोधिनी)-नजि ज हातेः॥ ओहाक् त्यागे अस्मात्कन् प्रत्ययः स्यात् ॥ न जहाति प्रकाशमिति । आगाऽनपीत्यालोपः। अह्न इति नस्य सः। अहः ॥ __(श्वादयः) श्वा । उक्षा । पुष्यति कमलानीति पूषा । प्लेहते प्लीहा । मुह्यन्त्यस्मिन्नाइते मूर्दा । मज्जत्यस्थिषु मज्जा । अर्यपूर्वो माङ् अर्यमा । मातर्यन्तरिक्षे श्वयतीति मातरिश्वा । मह पूजायाम् । मह्यते इति मघवा ॥ इत्युणादौ प्रथमः पादः॥ (सुबोधिनी )-श्रवादयः ॥ कन्प्रत्ययान्ता निपात्यन्ते-टुओश्विइर गतिवृद्धयोः । श्वयतीति । इकारलोपो निपातनात् । श्वा ॥ उक्ष सेचने । उक्षा वृषभः ॥ १८ Page #294 -------------------------------------------------------------------------- ________________ (२७४) सिद्धान्तचन्द्रिका। [पूर्वकृदन्ते उणादयः ] पुष वृद्धौ । इनामिति दीर्घः। पूषा, पूषणौ, पूषणः । प्लिह गतौ । इकारस्य दीर्घत्वं निपात्यते । प्लीहा कुक्षिव्याधिः॥ मुह वैचित्त्य । मुहरुपधाया दीर्घः । धोऽन्तादेशी रमागमश्च निपातनात् । मूर्धा । 'मूर्धा ना मस्तकोऽस्त्रियाम्।' इत्यमरः॥मुर्वी बन्धने । अस्योकारस्य दीर्घत्वं वस्य धश्च निपात्यते इत्युज्ज्वलदतः । मूर्दा।टुमस्जो शुद्धौ । मस्जेश्चुत्वेन सस्य शः। झबे जबा इति सस्य जः। मज्जा। नकारान्तोऽयम् । आवन्तोऽप्यभ्युपगम्यते । “ऊष्मया सार्द्धमूष्माऽपि मज्जोक्ता मज्जयासह।" इति द्विरूपकोशः॥ माङ माने । इनामिति दीर्घः । 'अर्यमा तु पुमान्सूर्ये पितृदेवान्तरेऽपि च ।" इति मोदनी ॥ टुओश्विइर् गतिवृद्धयोः । धातोरिकारलोपः संप्रसारणाभावः सप्तम्या अलुक च निपात्यते । मातरीत्यव्ययमन्तरिक्षवाचि तस्मिन् स्वयतीति' मातरिश्वा । 'मातरिश्वा सदागतिः।' इत्यमरः॥अथ च वादरिति सूत्रण वस्योत्वं न भवति अभिव्यक्तेः पदार्थपरत्वेन कुक्कुरवाचकस्यैव श्वशब्दस्य नदन्तस्य च ग्रहणात् । तेन मातरिश्वनः मातरिश्वनेत्यादि । मह पूजायाम् । धातोः स्य धःअवुगागमश्च निपात्यते । मघवा इन्द्रः ॥ इत्युणादौ प्रथमः पादः ॥ - (कृहोरेणुः) करेणुः । हरेणुः॥ (सुबोधिनी)-कहोरेणुः॥ एणुप्रत्ययमाह-डुकृञ करणे। करेणुः । 'करणुरिभ्यां स्त्री नेभे' इत्यमरः।। 'करेणुर्गजयोषायां स्त्रियां पुति मतङ्गजे ।' इति मेदिनी । हृज हरणे । हरेणुः। 'हरेणुर्ना सतीने स्त्री रेणुकाव लयोपयोः।” इति मेदिनी ॥ हरेणुर्गन्धद्रव्यं कलायश्चेति बोध्यम् । 'कलायस्तु सतीनकः' इत्यमरः॥ (कुषादेः क्थः) कुष्ठम् । रथः । काश दीप्तौ काष्ठम् । अवभृथः॥ __ (सुबोधिनी)-कुषादेः क्थः॥ क्थप्रत्ययमाह-फित्त्वान्न गुणः। कुप निष्कर्षे। कुष्ठम् । 'कुष्ठं रोगे पुष्करेऽस्त्री' इति मेदिनी ॥ 'कुष्ठं रं गे सुगन्धे च' इति विश्वः॥ रमु क्रीडायाम् । लोपस्त्वनुदात्ततनामिति मलोपः । रथ । 'रथः पुमानवयवे स्यन्दन वेतसेऽपि च।' इति मेदिनी ॥ 'रथः स्यात्स्यन्दने काये चरण वेतसेऽपि च।' इति 'विश्वः ॥ काश दीप्तौ । छशषेति षत्वं ष्टुत्वम् । “कामा दारुहरिद्रायां कालमानप्रकषयोः। स्थानमात्रे दिशि च स्त्री दारुणि स्यान्नपुंसकम्॥” इति मेदिनी ॥ "काष्ठं दार्विन्धनं त्वेधः” इत्यमरः॥ डुभृञ् धारणादौ । अब थो यज्ञस्नानम् ॥ (उषादेस्थः) ओष्ठः । कोष्ठः। गाथा । अर्थः । शु गतौ॥ शोथः॥ (सुबोधिनी)-उषादेस्थः॥ थप्रत्ययमाह-उष दाहे । ओष्ठः । कुष निष्कर्षे । कोष्ठः। कोष्ठः कुक्षिकुसूलयोः॥'गै शब्दे । गाथा । “गाथा श्लोके. संस्कृतान्यभाषायां शेषवृत्तयोः।।' इति मेदिनी॥ ऋ गतौ । अर्थः। 'अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु।' इत्यमरः । शु गतौ । शोथः। 'शोफस्तु श्वयथुः शोथः' 'त्यमरः॥ Page #295 -------------------------------------------------------------------------- ________________ पूर्वकृदन्ते उणादयः] टीकाद्वयोपेता। (२७५) (सतेर्णित ) सार्थः॥ (सुबोधिनी)-सतेर्णित् ॥ थणप्रत्ययमाह-णित्त्वाइद्धिः। स गतौ । सार्थः। 'सार्थो वणिक्समूहे स्यादपि संघातमात्रके ।' इति मेदिनी ॥ (निशीथादयः) निशीथः। तीर्थः। रिचिर विरेचने। रिक्थम् । पिचिर क्षरणे। सिक्थम् । पृष सेचने । पृष्ठम् । गूथम् । यु मिश्रणे । यूथम् । प्रोथः॥ ( सुबोधिनी)-निशीथादयः॥थक्प्रत्ययान्ता निपात्यन्त शीङ स्वानिशीथः। 'निशीथस्तु पुमानर्धरात्रे स्याद्रात्रिमात्रके।' इति मेदिनी ॥ तु प्लवनतरणयोः । ऋत इरितीर । 'वार्वि हसे' इति दीर्घः । तीर्थम् । “तीर्थ शास्त्राध्वरक्षेत्रोपायोपाध्यायमन्त्रिषु । अवतारर्षिजुष्टाम्भःस्वीरजःसु च विश्रुतम् ॥” इति विश्वः॥रिचिर विरेचने। चोः कुरिति कः । रिक्थम् । 'रिक्थमृक्थं धनं वसु।' इत्यमरः ॥ पिचिर क्षरणे । सिक्थम् । 'सिक्थो भक्तपुलाक ना मधूच्छिष्ट नपुंसकम्।' इति मेदिनी॥ पृष सेचने। पृष्ठम् । 'पृष्ठं तु चरमं तनाः।' इत्यमरः।। 'पृष्ठं चरममात्रेऽपि देहस्यावयवान्तरे।' इति मेदिनी ॥ स्तोत्रविशेषेऽपि पृष्ठम् । पृष्ठैः स्तूयत इत्यादौ तथा निर्णयात्॥ गु पुरीषोत्सर्गे। निपातनादीर्घः। गूथं विष्ठा ॥ यु मिश्रणे । निपातनादीर्घः । यूथम् । 'यूथं तिर्यक्समूहेऽपि वृन्दमात्रेऽपि भाषितम्।'इति विश्वः॥ यूथं तदग्रसरगर्वितकृष्णसारम। इति रघुवंशे ॥ प्रुङ गतौ । निपातनाद् गुणः । प्रोथः। 'प्रोथोऽस्त्री हयघोणायां ना कट्यामध्वगे त्रिषु।' इति मेदिनी। 'प्रोथमस्त्री तुरङ्गास्ये प्रोथः प्रस्थित उच्यते ॥' (तत्त्वदी०)-निशीथादय इति॥रात्रावर्धरात्रे च निशीथः॥तीर्थमिति॥"तीर्थ शास्त्राध्वरक्षेत्रोपायोपाध्यायमन्त्रिषु । अवतारर्षिजुष्टाम्भःस्त्रीरजस्सु च विश्रुतम् ॥” इति विश्वः॥रिक्थमिति॥ रिक्थमृक्थं धनं वसु॥'गूथं विष्टा।यूथं समूहः॥ प्रोथमस्त्री तुरङ्गास्ये प्रोथः प्रस्थित उच्यते।।' (स्फायादे रक् ) स्फारम् । तञ्चु संकोचने।तक्रम् । वञ्चु वक्रः। शक्रः। क्षिप्रम् । क्षुद्रः। चक्रम् । चदि चन्द्रः। उन्दी उन्द्रः। श्विता श्वित्रम् । वृत्रः । वीरः। नीरम् । छिद्रम् । उस्रा । शुभ्रम् । . . (सुबोधिनी)- स्फायादे रक् ॥ रक्प्रत्ययमाह-कित्त्वाद्गुणो न । स्फायी वृद्धौ । हबक्त्यारितीन । 'यवयोर्वसे इति यलोपः। स्फारः । 'स्फारः स्यात्पुंसि विकटे करकादेश्च बुबुद।' इति मेदिनी॥तञ्चु संकोचने । न्यवादित्वात्कुत्वम्। नो लोप इति नलोपः । तक्रम् । 'तकं ह्युदश्विन्मथितं पादाम्बर्धाम्बु निर्जलम्।' इत्यमरः ॥ वञ्चु प्रलम्भने । वक्रः। 'वक्रः स्यात्कुटिले क्रूरे पुटभेदे शनैश्चरे।' इति विश्वः ॥ शक्ल शक्तौ । शक्रः। 'शक्रः पुमान्देवराजे कुटजार्जुनभूरुहोः।' इति मेदिनी ॥ क्षिप प्रेरणे । क्षिप्रम्॥क्षुदिर् संपेषणोक्षुद्रः। क्षुद्रः स्यादधमक्रूरकृपणाल्पेषु वाच्यवत्। इति मदिनी ।। चदि आह्लादने।इँदित इति नलोपाभावः। चन्द्रः । 'हिमांशुश्चन्द्रमाश्चन्द्रः' इत्यमरः।। Page #296 -------------------------------------------------------------------------- ________________ (२७६) सिद्धान्तचन्द्रिका। पूर्वकृदन्ते उणादयः ] पचाद्यप्रत्यये चन्दोपि। 'हिमांशुश्चन्द्रमाश्चन्द्रः शशी चन्दो हिमद्युतिः।' इति शब्दार्णवः ॥ उन्दी क्लेदने । उन्द्रः जलमार्जारः ॥ श्विता वर्णे । श्वित्रं कुष्ठम् । वृतु वर्तने । वृत्रः। 'वृत्रो रिपौध्वनौ ध्वान्ते शैले चक्रे च दानवे।'इति विश्वः॥अज गतिक्षेपणयोः। अजेरिति वीआदेशः। वीरः॥णी प्रापणे। नीरम्॥छिदिर द्वैधीकरणे । छिद्रम् ॥ वस निवासे।यजामिति संप्रसारणम् । घसादेः ष इति षत्वे प्राप्त निषेधमाहारपरसृपिमृजिस्पृशिस्पृहिसवनादीनां सस्य षत्वं नेति। उस्रः। 'उस्रो वृषे च किरणे उस्रा धेनुपवित्रयोः।' इति मेदिनी॥'माहेयी सौरभेयी गौरुस्रा माता च सृङ्गिणी।'इत्यमरः।। शुभ दीप्तौ । शुभ्रम् । 'शुभं स्यादभ्रके क्लीवमुद्दीप्तश्वेतयोस्त्रिषु।' इति मेदिनी ॥ (तत्त्वदी०)-स्फायादेरिति॥उन्द्रो जलचरः । श्वित्रं कुष्ठम् । उस्रो रश्मिः।उस्रा गौः।। ( अमितम्योर्दीर्घश्च ) आम्रः । ताम्रम् ॥ (सुबोधिनी)-अमितम्योर्दीर्घश्च ॥ आभ्यां रकू स्यादुपधाया दीर्घश्च॥अम गत्यादौ । आम्रः। 'आम्रचूतो रसालोऽसौ' इत्यमरः॥ तमु काङ्क्षायाम् । ताम्रम् ॥ (निद्रादयः) णिदि निद्रा । अर्द आर्द्रम् । शुच शूद्रः। दुःखेनेयते दूरम् । कृती कृच्छम् । क्रूरः॥ रोदयतीति रुद्रः। ज्या वयोहानौ। जीरः॥ (सुबोधिनी)-निद्रादयः॥रक्प्रत्ययान्ता निपात्यन्त-णिदि कुत्सायाम् । नलोपो निपातनात् । निद्रा । 'स्यान्निद्रा शयनं स्वापः' इत्यमरः ॥ अर्द गतौ । अर्दी? निपातनात् । आर्द्रा । 'आर्द्रा नक्षत्रभेदे स्यास्त्रियां क्लिन्नेऽभिधेयवत्।' इति मेदिनी॥ शुच शोके । चस्य दो धातोर्दीर्घश्च निपात्यते ॥ शूद्रः॥इण गतौ दुःपूर्वः धातोर्लोपी निपातनात् । रिलोपो दीर्घश्चेति रलोपपूर्वेदीघौं । दुःखेनेयते प्राप्यते इति दूरम्॥कृती छेदने । कृतेः कृच्छ्र क्रू इत्येतावादेशौ निपातनात् ।'कृच्छ्रमाख्यातमाभीले पापसंतपनादिनोः।' इति विश्वः ॥ 'स्यात्कष्टं कृच्छ्रमाभीलम्।' इत्यमरः ॥क्रूरः । 'क्रूरस्तु कठिन घोरे नृशंसे चाभिधेयवत्।' इंति विश्वः ॥ 'नृशंसो घातुकः क्रूरः पापो धूर्तस्तु वञ्चकः' इत्यमरः। रुदिर अश्रुविमोचने । ञ्यन्तःोरोदयतीति । रिति जिलोपः । रुद्रः॥ जु गतौ । ईकारो निपातनात् । जीरः । ज्या वयोहानौ । अस्माद्रप्रत्यये ग्रहामितिसंप्रसारणे च कृते जीर इत्येके । 'जीरः खड्ग वणिग्द्रव्ये' इति विश्वः ॥ 'जीरस्तु खड्ने' इति मेदिनी ॥ (स्वादेः क्रः) सुरः । षूङ प्राणिप्रसवे । सूरः । धीरः। गृध्रः॥ (सुबोधिनी)-स्वादेः क्रः॥ प्रत्ययमाह--कित्त्वान्न गुणः ।षुञ् अभिषये।सुरः 'सुरा चषकमद्ययोःपुंल्लिङ्गस्त्रिदिवेशे स्यात्' इति मेदिनी॥'सुरो देवे सुरा मद्ये चष; Page #297 -------------------------------------------------------------------------- ________________ [ पूर्वकृदन्ते उणादयः ] टीकाद्वयोपेता । (२७७) केऽपि सुरा क्वचित्।' इति विश्वः ॥ षूङ प्राणिगर्भविमोचने । सावयति प्रेरयति कर्मणि लोकभिति सूरः । “सूरसूर्यार्यमादित्यः -' इत्यमरः । डुधाञ् धारणादौ । अपिद्दाधेतीत्वम्। धीरैः । 'धीरो धैर्यान्विते स्वैरे बुधे क्लीबं तु कुङ्कुमे । स्त्रियां श्रवणतुल्यायाम्' इति मेदिनी । गृधु अभिकाङ्क्षायाम् । गृध्रः । ' गृध्रः खगान्तरे पुंसि वाच्यलिङ्गोऽथ लुब्धके।' इति मेदिनी ॥ ( शूरादयः ) शुः सौत्रः । शूरः । षिञ् सीरः । चिञ् चीरम् ॥ ( सुबोधिनी ) - शूरादयः ॥ क्रप्रत्ययान्ता निपात्यन्ते -शु गतौ । निपातनाद्दीर्घः सर्वत्र । शूरः । 'शूरः स्यात्पादपे भटे।' इति मेदिनी ॥ ' शूरश्चारुघटे सूर्ये' इति विश्व - हेमचन्द्रौ ॥ षिञ् बन्धने । सीरः । ' सीरोऽर्कहलयोः पुंसि' इति मेदिनी ॥ चित्र चयने । चीरम् | 'चीरो झिल्लयां नपुंसकम् । गोस्तने वस्त्रभेदे च रेखालेखनभेदयोः ।' इति मेदिनी ॥ 'चीरं तु गोस्तने वस्त्रे चूडायां सीसकेऽपि च । चीरः कृच्छ्राटिकाशिलयोः" इति विश्वः ॥ ( वा विन्धेः ) वीघ्रम् । वृधु वर्धम् । वप्रः । इन्द्रः । अगि गतौ । अग्रम् | वज्रम् | डुव विप्रः । उच समवाये । उग्रः ञिभी भये । भेरी । भेलः । शुच शोके शुक्रः । शुक्लः । गुङ गतौ। गौरः । इणू इरा । माला ॥ (सुबोधिनी ) - वाविधेः ॥ ञिइन्धी दीप्तौ विपूर्वादस्मात् कन् स्यात् ॥ नो लोप इति नलोपः । वीध्रम् । 'वीध्रं तु विमलार्थकम् |' इत्यमरः ॥ वृधु वृद्धौ । व चर्म ॥ डुव बीजसंताने । वप्रः प्राकारः । विप्रः पितरि केदारे वप्रः प्राकाररोधसोः । ' इति धरणिः ॥ इदि परमैश्वर्ये । इन्द्रः । ' इन्द्रः शचीपतावन्तरात्मन्यादित्ययोगयोः।' इति विश्वः ॥ अगि गतौ । नलोपो निपात्यते । अग्रम् | " अग्रं पुरस्तादुपरि परिमाणे पलस्य च । आलम्बने समूह च मान्तरे पुन्नपुंसकम् । अधिके च प्रधाने च प्रथमे चाभिधेयवत्॥” इति मेदिनी ॥ व्रज गतौ । वज्रः । 'वज्रोऽस्त्री हीके पवौ' ॥ डुवप् बीजसन्ताने । उपधाया इत्वं निपातनात् । विप्रः ॥ उच समवाये । चस्य गो निपातनात् । उग्रः 'उग्रः शूद्रासुते क्षत्राद्भुद्रे पुंसि त्रिषूत्कटे ।' इति मेदिनी ॥ ञिभी भये । नदादित्वादी । 'मेरी स्त्री दुन्दुभिः पुमान् ।' इत्यमरः ॥ पक्षे रस्य लत्वं निपात्यते । भेलः। ‘भेलः प्लवे मणौ पुंसि भीरावज्ञे च वाच्यवत् । ' इति मेदिनी ॥ शुच शोके । चस्य को निपातनात् । शुक्रः । 'शुक्रः स्याद्भार्गवे ज्येष्ठमासे वैश्वानरे पुमान् । रेतो - क्षिरुग्भिदो : क्लीबम्' इति ॥ पक्षे लत्वं निपात्यते । शुक्लः । 'शुक्लो योगान्तरे सिते । नपुंसकं तु रजते' इति च मेदिनी ॥ गुङ् अव्यक्ते शब्द | वृद्धिर्निपातनात् । गौरः ॥ “गौरः पीतेऽरुणे श्वेते विशुद्धेऽप्यभिधेयवत् । ना श्वेतसर्षपे चन्द्रे न द्वयोः पद्मकेशरे ॥ गौरी त्वसंजातरजःकन्याशंकर भार्ययोः ॥ रोचने रजनीपिङ्गाप्रियङ्गुवसुधासु च । Page #298 -------------------------------------------------------------------------- ________________ (२७८) सिद्धान्तचन्द्रिका। [ पूर्ववृ दन्ते उणादयः ] आपगाया विशेषेऽपि यादसांपतियोषिति ॥” इति मेदिनी ॥ गौरोऽरुणे सिते पीते' इति विश्वः ॥ इण् गतौ । इणो गुणाभावो निपातनात् । इरा । 'इरा मद्ये च वारिणि' इति विश्वः ॥ मा माने । प्रत्यये रस्य लत्वं निपातनात् । माला। 'मालं क्षेत्रे स्त्रियां पृक्कास्रजोर्जात्यन्तरे पुमान् ।' इदि मेदिनी ॥ 'मालं क्षेत्रे जने मालो माला पुष्पादिदामनि।' इति विश्वः ॥ 'मालमुन्नतभूतलम्।' इत्युपले । 'क्षेत्रमारुह्य मालम्' इति मेघदूतः॥ _ (क्वुः शिल्पिसंज्ञयोः) रजकः । चष् भक्षणे । चषकम् । कुह विस्मापने । कुहकम् ॥ (सुबोधिनी) क्षुः शिल्पिसंज्ञयोः॥ शिल्पिन्यभिधेये संज्ञायां गम्यमानायां च क्वुः स्यात् ॥ क्युप्रत्ययमाह-कित्त्वान्न गुणः । युवोरित्यकादेशः । रञ्ज रागे । नो लोप इति नलोपः। रजकः। 'रजको धावकशुकौ' इति हैमरजको धावके शुके।' इति विश्वः॥चप भक्षणे । संज्ञायां तु चषकः । 'चषकोऽस्त्री नपात्रम्' इत्यमरः ॥ कुह विस्मापने । कुहकः दाम्भिकः ॥ कृती छेदने । कृतकः॥ (मुषेः किको दीर्घश्च ) मूषिकः ॥ (सुबोधिनी)-मुषः किको दीर्घश्च ॥ मुष स्तेये अस्मारिककः। किकप्रत्यय माह-कित्त्वान्न गुणः । मूषिकः आखुः॥ (क्रिय इकः) क्रयिकः॥ (सुबोधिनी )-क्रिय इकः ॥ इकप्रत्ययमाह--डुक्री । द्रव्यविनिमये । ऋयिकः क्रेता॥ (श्यास्त्याहृञविभ्य इनः ) श्येनः । स्त्येनः। हरिणः। अविनः।। (सुबोधिनी) श्यास्त्याहाविभ्य इनः॥ इन्प्रत्ययमाह-श्यैङ् गतौ । सन्ध्यक्षराणामित्यात्वम् । श्येनः । श्येनः पत्रिणि पाण्डुरे।' इति मेदिनी ॥ स्त्यै ष्टयै शब्दसंघातयोः । स्त्येनश्चौरः ॥ हृञ् हरणे । हरिणः । “हरिणः पुंसि सारंगे विशदे त्वभिधेयवत् । हरिणी हरितायां च गणिकावृत्तभेदयोः । सुवर्णप्रतिमायां च” इति मंदिनी ॥ अव रक्षणादौ । अविनः अध्वर्युः॥ (वृजादेः किनः) वृजिनम् ॥ (सुबोधिनी)-वृजादेः किनः॥ किनप्रत्ययमाह-कित्त्वान्न गुणः। वृजी वर्जने। वृजिनम् । 'वृजिनं कल्मषे क्लीबं केशे ना कुटिलेऽन्यवत्।' इति मेदिनी॥ (अजेर्वी न) अजिनम् । कठ कृच्छ्रजीवने। कठिनम्। नल गन्धे। नलिनम् । कुडि दाहे । कुण्डिनम् । दो दिनम् ।। Page #299 -------------------------------------------------------------------------- ________________ [ पूर्वकृदन्ते उणादयः] टीकाद्वयोपेता। (२७९) ___ (सुबोधिनी)-अजेर्वी न ॥किनप्रत्यये वीभावो न स्यात् ॥ अज गत्यादौ । अजिनम् । 'अजिनं चर्म कृतिः स्त्री' इत्यमरः ॥ कठ कृच्छ्रजीवने । कठिनम् । "कठिनमपि निष्ठुर स्यात्स्तब्ध तु त्रिषु नपुंसकं स्थाल्याम् । कठिनी खटिकायामपि. कठिना गुडशर्करायां च ॥” इति मेदिनी॥नल गन्धने॥ नलिनं पद्मम् ॥ मल धारणे॥. मालिनम् । 'मलिनं दूषिते कृष्ण ऋतुमत्यां तु योषिति' इति मेदिनी ॥ कुडि दाहे । कुण्डिनं नगरम् । कुण्डिन ऋषिः ॥ दो अवखण्डने । सन्ध्यक्षराणामित्यात्वे आतोऽनपीत्यालोपः । दिनम् । (द्रुदक्षिभ्यामिनः ) द्रविणम् । दक्ष वृद्धौ । दक्षिणः। दक्षिणा ।' ___ (सुबोधिनी)-द्रदक्षिभ्यामिनः॥ द्रु गतौ । द्रविणम् । 'द्रविणं न द्वयोर्वित्ते काञ्चने च पराक्रमे।' इति मेदिनी ॥ दक्ष वृद्धौ । दक्षिणः । “दक्षिणस्तु परच्छन्दानुवर्तिनि । दक्षेऽपसव्ये सरले प्राचीनेऽप्यथ दक्षिणा । दिक् प्रतिष्ठा यज्ञदानम्" इति हेमचन्द्रः ॥ “दक्षिणः सरलोद रपरच्छन्दानुवर्तिषु । वाच्यवद्दक्षिणावाची यज्ञदान-- प्रतिष्ठयोः ॥” इति विश्वः ॥ ( अर्तेः किदिर च ) इरिणम् ॥ (सुबोधिनी)-अर्तेः किदिर च ॥ऋ गतौ अस्मादिनक् प्रत्ययः स्याद्धातारिरादेशश्च ॥ इरिणम् । 'इरिणं शून्यमूषरम् ।' इत्यमरः ॥ ( वेपितुह्योह्रस्वश्च विपिनम् । तुहिनम् ॥ (सुबोधिनी)-वेपितुह्य ईस्वश्च ॥ आभ्यामिनप्रत्ययः स्याद्धातोहस्वश्च ॥ टुवेपृ कम्पने । विपिनम् । 'अटव्यरण्यं विपिनम्' इत्यमरः ॥ तुहिर् अर्दने । उपधाया गुणे कृते हस्वः। तुहिनं हिमम् ॥ ( तलिपुलिभ्यां च तल प्रतिष्ठायाम् । तलिनम् । पुलिनम् ॥ (सुबोधिनी)-तलिपुलिभ्यां च ॥ इनप्रत्ययः स्यात् ॥ तल प्रतिष्ठायाम् । तलिनम् । 'तलिनं विरले स्तोक स्वच्छेऽपि तलिनं त्रिषु ॥' पुल महत्त्वे। पुलिनम् ॥ (रुहेश्व) रोहिणः॥ ( सुबोधिनी )-रुहेश्च ॥ इनप्रत्ययः स्यात् ॥ रुह बीजजन्मनि । रोहिणः चन्दनतरुः॥ (आप्नोतेः किप द्वस्वश्च ) आपः। अद्भिः॥ (सुबोधिनी)-आमोतेः विप् द्वस्वश्च ॥ आप्ल व्याप्ती अस्मारिकप् धातोर्हस्वश्च ॥ किप्पत्ययमाह-सम्महतो धौ दीर्घः। आपः। भिऽदपामिति दत्वम् । अद्भिः ॥ Page #300 -------------------------------------------------------------------------- ________________ (२८०) सिद्धान्तचन्द्रिका। [ पूर्वकृदन्ते उणादयः ] (ग्लानुदिभ्यां डौः ) ग्लौः । नौः॥ (सुबोधिनी)-ग्लानुदिभ्यो डौः ॥ डोप्रत्ययमाह-डित्त्वाहिलोपः । ग्लै हर्षक्षये। ग्लौः। 'ग्लौ{गाङ्कः कलानिधिः ।' इत्यमरः॥ णुद प्रेरणे । नौः। 'स्त्रियां नौस्तरणिस्तरिः।' इत्यमरः॥ (राते?ः) राः, राया ॥ (सुबोधिनी)-राते?ः॥डैप्रत्ययमाह-डित्त्वाटिलोपः । रा दाने । स्भि इत्यात्वम् । राः। 'रः स्मृतः पावके तीक्ष्णे राः पुंसि स्वर्णवित्तयोः ।' इति मेदिनी ॥ 'रस्तीक्ष्णे दहने रास्तु सुवणे जलदे धने।' इति हैमः॥ - (गमेझैः) गौः॥ (सुबोधिनी)-गमेझैः॥ डोप्रत्ययमाह-डित्त्वाहिलोपः। गम्ल गता । ओरौरित्यौः । गौः।"गौर्नाऽऽदित्ये बलीवर्दे किरणक्रतुभेदयोः। श्री तु स्यादिशि भारत्यां भूमौ च सुरभावपि । नृस्त्रियोः स्वर्गवज्राम्बुरश्मिदृग्बाणलोसु ॥” इति केशवः ॥ "गौः स्वर्गे वृषभे रश्मौ बजे चन्द्रे पुमान् भवेत् । अर्जने नेत्रदिग्बाणभूवाग्वारिषु गौर्मता॥” इत्यमरः॥ (तत्त्वदी०)-गमेरिति ॥ गौरिति ॥ "गौर्नाऽऽदित्ये बलीव किरणक्रतुदयोः ॥ स्त्री तु स्यादिशि भारत्यां भूमौ च सुरभावपि । नृस्त्रियोः स्वर्गवज्राम्बुरश्मिद बाणलोमसु ॥" (भ्रमर्दू) भूः॥ ( सुबोधिनी )-भ्रमेडूः ॥डूप्रत्ययमाह-डिवाहिलोपः । भ्रम अनवस्थाने । भ्रूः। . (दमेझैस) दोः, दोषौ ॥ (सुबोधिनी)-दमेझैस् ॥ डोस्प्रत्ययमाह-डित्त्व लोपः । दमु उपशमे । 'दोषाम्' इति रः । दोः । 'दोष तस्य' इति श्रीहर्षप्रयोगात् स्त्वम्॥'ककुद्दोषणी' इति भाष्यप्रयोगान्नपुंसकत्वम्। दोर्दोषाच भुजो बाहुः इति धनंजयकोशास्त्रीलिङ्गोऽप्ययम्। (पणेरिज् आदेर्वः) वणिक्। . (सुबोधिनी)-पणेरिज् आदेवः॥ इजप्रत्ययमाह-पण् व्यवहारे स्तुतौ च । वाणक् । 'नगमो वाणिजो वणिक्' इत्यमरः ॥ (अशे रशादेशो युप्रत्ययः) रशना । (सुबोधिनी ) अशे रशादेशो युप्रत्ययः॥युप्रत्ययमाह-युवोरित्यनादेशः। अशूङ व्याप्तौ अश भोजने वा । रशना । 'तालव्या अपि दन्त्याश्च शम्बशूकरपांशवः। रशनाऽपि च जिह्वायाम्' इति विश्वः॥ रस आस्वादने रस शब्दे इति धातुभ्यांयुमत्यये Page #301 -------------------------------------------------------------------------- ________________ [ पूर्वकृदन्ते उणादयः ] टीकाद्वयोपेता । ( २८१ ) दन्त्यसकारवानपि । 'रसनं स्वेदनं ध्वनौ । जिह्वायां तु न पुंसि स्याद्रास्नायां रसना स्त्रियाम्॥' इति मेदिनी ॥ 'रसनं निःस्वने स्वादे रसना काश्चिजिह्वयोः । ' इति धरणिः ॥ (तत्त्वदी० ) - रशनेति ॥ काञ्ची । जिह्वायां दन्त्यसकारवान् ॥ ( उन्देर्मलोपश्च ) ओदनः ॥ (सुबोधिनी ) - उन्देर्नलोपश्च ॥ युः स्यात् ॥ उन्दी क्लेदने । ओदनः 'ओदनं न स्त्रियां भक्ते बलायामोदिनी स्त्रियाम् ।' इति मेदिनी ॥ ( गमेर्गान्तादेशश्च ) गगनम् । (अन्येभ्योऽपि युः) स्यन्दनम् । रोचनः । ( सुबोधिनी ) - गमेर्गान्तादेशश्च ॥ युः स्यान्मस्य गश्च ॥ गम्ल गतौ । गगनम् । 'नभोऽन्तरिक्षं गगनम्' इत्यमरः ॥ अन्येभ्योऽपि युः ॥ स्यन्दू प्रस्रवणे । स्यन्दनः । ‘स्यन्दनं तु स्रुतौ नीरे तिनिशे ना रथेऽखियाम् ।' इत्यमरः ॥ रुच दीप्तौ । रोचनः ।“रोचना रक्तकह्लारे गोपित्तवरयोषिताः । रोचनः कूटशाल्मल्यां ुसि स्याद्रोचके त्रिषु ॥” इति मेदिनी ॥ ( रञ्जिकृभ्यां क्युः ) रजनम् । किरणः ॥ (सुबोधिनी) - रञ्जिकृभ्यां क्युः ॥ क्युप्रत्ययमाह - कित्त्वान्न गुणः । रञ्ज रागे । नो लोप इति नलोपः । रजनम् । 'रजनो रागजनने रजनं रक्तचन्दने ।' इति मेदिनी ॥ कृ विक्षेपे । ऋत इरितीर् । किरणः ॥ ( धृषेधिपश्च) धिषणा । ( धाञश्च ) निधनम् ॥ (सुबोधिनी ) - धृषेर्धिषश्च ॥धृषेर्धिष् आदेशश्च । ञिधृषा प्रागल्भ्ये । धिषणः । 'धिषणस्त्रिदशाचार्ये धिषणाधिपयोषिति।' इति मेदिनी ॥ " गीष्पतिर्धिषणो गुरुः। ' इत्यमरः॥ डुधाञ् धारणादौ । आतोऽनपीत्या लोपः । निधनम् । 'निधनं स्यात्कुले नाशे' इति मेदिनी ॥ ' निधनं कुलनाशयोः । ' इति हैमः ॥ (तत्त्वदी०) - धिषणेति ॥ बुद्धौ । गुरौ तु पुंवत् ॥ ( पृषदादयः ) पृषु सेचने ॥ पृषत् । पृषन्ति । बृह उद्यमे । बृहत् । महान् । जगत् ॥ (विपूर्वाद्धनः ) वेहत् ॥ (सुबोधिनी) - पृषदादयः ॥ अतृप्रत्ययान्ता निपात्यन्ते वर्तमानेऽर्थे ॥ अतृप्रत्ययमाह - ऋदित्वात् पुंसि व्रितो नुमिति नुम् । स्त्रियां तु व्रित इतीपू । पृषु सेचने । निपातनाद् गुणाभावः । पृषत् । पृषन्ति । बिन्दुवाची पृषच्छब्दो नपुंसकमिति ध्वननाय बहुवचनान्तमुदाहृतम् । “पृषन्मृगे पुमान्बिन्दौ न द्वयोः पृषतोऽपि ना।” इति मेदिनी ॥ बृह वृद्धौ । बृहत् विपुलम् | 'बृहती क्षुद्रवार्ताक्यां कण्टकार्यां च वाचेि च' इति विश्वः ॥ Page #302 -------------------------------------------------------------------------- ________________ (२८२) सिद्धान्तचन्द्रिका। [ पूर्वकृदन्ते उणादयः] मह पूजायाम् । महान् । 'महती वल्लकीभेदे राज्ये तु स्यान्नपुंसकम् । तत्त्वभेदे पुमा श्रेष्ठे वाच्यवत्' इति विश्वः॥ "विश्वावसोस्तु बृहती तुम्बुरोश्च कलावती।महती नारदस्य स्यात्सरस्वत्यास्तु कच्छपी॥” इति वैजयन्ती ॥ 'अवेक्षमाणं महती मुहुर्मुहुः।'इति माघः॥ हन हिंसागत्योः। विपूर्वाद्धन्तेरतृप्रत्ययो धातोष्टिलोपश्च निपातनादुपसर्गेकारस्यैत्वं च । विहन्ति गर्भमिति वेहत् । 'वेहद्गीपघातिनी' इत्यमरः ॥ (नप्तृनेष्टुत्वष्टक्षत्तृहोतृपोतृप्रशास्तृभ्रातृजामातृमातृपितृदुहित एते निपात्यन्ते तृप्रत्ययान्ताः) न पतन्त्यनेनेति नप्ता। नेष्टा। त्वेषयतीति त्वष्टा । क्षद भक्षणे। क्षत्ता। होता। पोता । प्रशास्ता। भ्राता । जायां मातीति जामाता । मान पजायाम् । माता । पातीति पिता । दुहिता ॥ (सुबोधिनी)-नप्तृनेष्ट्रत्वष्टक्षतृहोतृपोतृप्रशास्तृभ्रातृजामातृपितृदुहित एते निपात्यन्ते तृप्रत्ययान्ताः ॥ तृप्रत्ययमाह-पल पतने । नत्रः प्रकृतिभावो धातोष्टलॊपश्च निपातनात् । सेरा इत्यात्वम् । नप्ता पौत्रा दौहित्रश्च ॥ णीज्ञ प्रापणे । नयतेः षुक गुणश्च निपातनात् । ष्टुत्वम् । नेष्टात्विष दीप्तौ । धातोरितोऽत् निपातनात् । त्वष्टा । 'त्वष्टा पुमान्देवशिल्पितक्ष्णोरादित्यवाच्यपि' इति मेदिनी ॥ क्षद शकलीकरणे भक्षणे च । अनुदात्तेत् । क्षत्ता। 'क्षत्ता स्यात्सारथौ द्वाःस्थे वेश्यायामपि शूद्रजे।' इति विश्वः ॥ हु दानादनयोः । होता ॥ पूञ् पवने । पोता॥ भ्राज दीप्तौ । भ्राजते लोपो निपातनात् । भ्राता । मा माने । जायां माताति । जायाया जादेशो निपातनात् । जामाता॥ मान पूजायाम्। नस्य लोपो निपातनात् ।माता॥ पा रक्षणे। . पातेराकारस्यत्वं च निपात्यते। पिता ॥ दुह प्रपूरणे । दुहेस्तृप्रयत्यस्येड् गुणाभावश्च निपातनात् । दुहिता ॥ (सावसेः ) स्वसा ॥ (सुबोधिनी)-सावसेक्रः ॥ सु उपपदे असु क्षेपणे इत्यस्मादृप्रत्ययः स्यात् ॥ ऋप्रत्ययमाह स्वसा भगिनी ॥ ( यतेवृद्धिश्च ) याता॥ (सुबोधिनी)-यतेवृद्धिश्च ॥ यती प्रयत्नेऽस्माहः स्य द् वृद्धिश्च ॥ याता । 'भार्यास्तु भ्रातृवर्गस्य यातरः स्युः परस्परम् ।' इत्यमरः॥ (नजि नन्देश्व) न नन्दतीति ननान्दा । ननन्देत्येके । (सुबोधिनी)-नजि नन्देश्च॥ ऋः स्याद् वृद्धिश्च । दु नदि समृद्धौ।न नन्दतीति।। कृतायामाप सेवायां रुष्यतीत्यर्थः । ननान्दा । वृद्धिर्नानुवर्तत इत्येके । ननन्दा । Page #303 -------------------------------------------------------------------------- ________________ [ पूर्वकृदन्ते उणादयः ] टीकाद्वयोपेता। (२८३) 'ननान्दा तु स्वसा पत्युननन्दा नन्दनी च सा' इति शब्दार्णवः॥ 'उषा पूषा ननान्दा च ननन्दा च प्रकीर्तिता' इति विश्वः॥ . (दिवेक्रः) देवा: देवरौ॥ (सुबोधिनी)-दिवेक्रः॥दिवुक्रीडादौ । देवा ॥ 'स्वामिनो देवृदेवरौ' इत्यमरः ॥ (नयतेर्डिच्च ) ना, नरो, नरः॥ ( सुबोधिनी)-नयतेर्डिच्च ॥ प्रत्ययमाह-डित्त्वाहिलोपः । णी प्राप्रणे । ना । 'स्युः पुमांसः पञ्चजनाः पुरुषाः पूरुषा नरः' इत्यमरः ॥ (अादेरनिः) अरणिः । सरणिः । तरणिःोधमनिः। अशनिः। अवनिः। रजनिः। ___(मुबोधिनी)-अादरनिः॥ अनिप्रत्ययमाह-ऋ गतौ। अरणिः। 'अरणिर्वहिमन्थे ना द्वयोर्निर्मन्थ्यदारणि' इति मेदिनी ॥ सृ गतौ । सरणिः । 'सरणिः श्रेणिवर्त्मनोः' इति दन्त्यादौ रभ ः ॥ श हिंसायाम् । ततोऽनिः । शरणिरित्येके ॥ धृञ् धारणे । धरणिः भूमिः ॥धामः सौत्रः। धमनिः शिरा ॥ अश भोजने । अश्यते भुज्यते राज्यमिन्द्रेणानयेति अशनिः । 'अशनिः स्त्रीपुंसयोः स्याच्चञ्चलायां पवावपि' इति मेदिनी ॥ अव रक्षणादी । अवनिः पृथिवी ॥ तृ प्लवनतरणयोः 'तरणिर्युमणौ पुंसि कुमारीनौकयोः स्त्रियाम्' इति मेदिनी ॥ कुमारी लताविशेषः । तरणी रामतरणी कणिका चारुकेसरा सहा कुमारी गन्धाढया' इति धन्वन्तरिनिघण्टुः ॥ रञ्ज रागे । नलोपो निपातन त् । रजनिः । कृदिकारादितीपि 'रजनी हस्तिनी रात्रिहरिद्राजतुकासु च' इति मेदिनी ॥ (अादेरिस् ) अर्चिः, अर्चिषी । रोचिः । शोचिः। छदिः । हविः। सर्पिः॥ (सुबोधिनी)-अारिम्॥इस्प्रत्ययमाह-अर्च पूजायाम् । अचिः 'ज्वालाभासोन पुस्याचिः' इति सान्तेष्वमरः ॥ ञ्यन्तादचेंरिप्रत्यये अधिरिदन्तोऽपि । 'आँचहेंतिः शिखा स्त्रियाम्' इत्यमरः । शुच शोके । शोचिः । 'रोचिः शोचिरुभे क्लीवे' इत्यमरः ॥ हु दानादनयोः। हविः घृतम् ॥ सृप्ल गतौ । सर्पिः आज्यम् ॥ (तत्त्वदी० )--अर्यादारिति ॥ अर्चिाला ॥ इदन्तोऽपि । शोचिर्दीप्तिः ॥ (द्युतेरादेजः) ज्यातिः॥ (सुबोधिनी)-द्युतरादेर्जः ॥ इस स्यात् दस्य जश्च॥ द्युत दीप्तौ । ज्योतिः। 'ज्योतिरनौ दिवाकरे । पुमान् नपुंसकं दृष्टौ स्यानक्षत्रप्रकाशयोः' इति मेदिनी ॥ (बृहेर्नलोपश्च) बर्हिः॥ Page #304 -------------------------------------------------------------------------- ________________ (२८४) सिद्धान्तचन्द्रिका। [पूर्वकृदन्ते उणादयः ] (सुबोधिनी)-हेर्नलोपश्च ॥ बृह वृद्धौ अस्मादिस प्रत्ययः स्यान्नकारस्य लोपश्च बर्हिः । 'बर्हिः स्यात्कुशशुष्मणोः' इत्यमरः ॥ __ (जनादेरुस्) जनुः । ऋ अरुः । परुः। (चक्षेशित ) चक्षुः । वप् वपुः । यज् यजुः ॥ (सुबोधिनी)-जनादेरुस् ॥ उस्प्रत्ययमाह-जनी प्रादुर्भाव । जनुः । 'जनुजननजन्मानि' इत्यमरः ॥ऋ गतौ । अरुः । 'व्रणोऽस्त्रियामीसमरु क्लीबे' इत्यमरः।। पृ पालनपूरणयोः। परुः। 'ग्रन्थिर्ना पर्वपरुषी' इत्यमरः ॥ डुवप् बीजसंताने । वपुः। “वपुः क्लीवं तनौ शस्ताकृतावपि' इति मेदिनी ॥ शस्ताकृतिः । प्रशस्ताकृतिरित्यर्थः। यज देवपूजादौ । यजुर्वेदः ॥ (तत्त्वदी०)-जनादेरिति ॥ जनुर्जननम् । परुर्ग्रन्थिः । (एतेर्णित ) आयुः॥ इति द्वितीयः पादः॥ (सुबोधिनी)-एतेर्णित् ॥ इण् गतावित्यस्मात् णुर : प्रत्ययः स्यात् ॥ णित्त्वाद् वृद्धिः।वृद्धौ कृतायामायादेशः। आयुः, आयुषी ॥ इति सुबो० उणादौ द्वितीयः पादः। (धीवरादयः ष्वरप्रत्ययान्ता निपात्यन्त ) धीवरः। शर्वरी। निषद्वरः। पीवरः॥ : (सुबोधिनी)-धीवरादयः प्वरप्रत्ययान्ता निपात्यन्ते॥ष्वरप्रत्ययमाहषित्त्वात ट्रवित इतीप् । डुधाञ् धारणादौ। ईत्वं निपातनात् । धीवरः। “कैवर्ते दाशधीवरौ' इत्यमरः॥ शू हिंसायाम् शर्वरी । 'शर्वरी यामिनीस्त्रियोः' इति मेदिनी ॥ षद्ल विशरणादौ । निषद्वरः । 'निषद्वरः स्मरे पङ्के निशायांतु निषद्वरी' इति मेदिनी॥ पा पाने । ईत्वं निपात्यते । पीवरः । अन्ये तु पीव स्थौल्ये अमात्ष्वरप्रत्यये यवयोवैसे हकारे चेति वलोपे पीवर इत्याहुः। पीवरः कच्छपे स्थूले.' इति मेदिनी ॥ (तत्त्वदी०)-धीवरादयः। इति॥शर्वरी रात्रिः निषद्वरस्तु जर बालः । निषद्वरी रात्रिः ॥ - (इणादेर्नक) इनः। जिनः। दीनः। कृष्णः ॥ (सुबोधिनी)-इनादेनक् ॥ नक्प्रत्ययमाह--कित्त्वान्न गुणः । इण् गतौ । इनः । 'इनः पत्यौ नृपार्कयोः' इति मेदिनी ॥ जिं जये । जिनः । 'जिनोऽर्हति च बुद्धे च पुसि स्यात्रिषु जित्वरे' इति मेदिनी ॥ दीङ क्षये । दीना मूषिकयोषायां दुर्गते कातरेऽन्यवत्' इति विश्वः ॥ कृष विलेखने । कृष्णः। “कृष्णः सत्यवतीपुत्रे केशवे वायसर्जुने।कृष्णा स्याद्रौपदीनीलीकणाद्राक्षासु योषिति । वर्णके वाच्यलिङ्ग: स्याक्लीवे मरिचलोहयोः' इति मेदिनी ॥ (तत्त्वदी०)-इणादेरिति ॥ 'इनः सूर्ये नृपे पत्यौ ॥' Page #305 -------------------------------------------------------------------------- ________________ [ पूर्वकृदन्ते उणादयः] टीकाद्वयोपेता । (२८५) (बन्धेर्बधबुधौ च) ब्रनः । बुध्नः ॥ (सुबोधिनी)-बन्धेर्बधबुधौ च ॥ बन्ध बन्धने अस्मान्नक स्याद्धातोः स्थाने एतावादेशौ च स्याताम् ॥ ब्रनः । बुध्नः । 'भास्कराहस्करबध्नप्रभाकरविभाकराः'' इत्यमरः ॥ 'बुध्नो ना मूलरुद्रयोः' इात मेदिनी ॥ (धादेनः ) धानाः। पर्णम् । वस्नः। श्रोणः॥ (सुबोधिनी)--धादेर्नः ॥ नप्रत्ययमाह--डुधाज्ञ धारणादौ । धाना भृष्टयवे स्त्रियाम्' इत्यमरः ॥ 'धाना भृष्टयवे प्रोक्ता धान्याकेभिनवोद्भिदि' इति विश्वः ॥ पृ पालनादौ । पर्णम् । 'पर्ण पत्रे किंशुके ना' इति मेदिनी ॥ वस निवासे । वस्नः । 'वस्नी मूल्ये वेतने च' इति विश्वः ॥ 'वनस्त्वविक्रये पुंसि वेतने स्यान्नपुंसकम्' इति मेदिनी ॥ अविक्रये मूल्ये इत्यर्थः ॥ श्रु श्रवणे । श्रोणः पगुः ॥ (तत्त्वदी०)-धादेरिति ॥ 'धाना भृष्टयवे स्त्रियाम् ।' मूल्यवेतनयोर्वस्नः। श्रोणः पङ्गुः।। . (लक्षेनस्यामटौ) लक्षणम् । लक्ष्मणः ॥ __ (सुबोधिनी)-लक्षेनस्याग्मटौ॥ लक्ष दर्शनाङ्कनयोः । अस्माच्चुरादिश्यन्तात् नः स्यात्प्रत्ययस्याण्मटावागमौ च स्याताम् ॥ लक्षणम् । लक्ष्मणः । 'लक्षणा हंसयोषायां सारसस्य च लक्ष्मणा' इति॥ "लक्षणं नाम्नि चिह्न च सौमित्रिरपि लक्षणः। लक्ष्मणं लाञ्छने नाम्नि रामभ्रातरि लक्ष्मणः" इति विश्वः ॥ "लक्ष्मणं नाम्नि चिह्न स्यात्सारस्यां लक्षणा क्वचित् । लक्ष्मणा त्वौषधीभेदे सारस्यामपि योषिति । रामभ्रातरि पुंसि स्यात्मश्रीके चाभिधेयवत्" इति मेदिनी ॥ (तत्त्वदी०)-लक्षेरिति ॥ 'लक्षणं नाम्नि चिह्ने च रामभ्रातार च द्वयम् ।' . 'लक्षणा हंसयोपायां सारसस्य च लक्ष्मणा ॥' (रास्नादयः) रास शब्द। राना। साना । स्थूणा। वीणा । कृती कृत्स्नम् । तिज तीक्ष्णम् । श्लिषेः श्लक्ष्णम् ॥ (सुबोधिनी)--रास्नादयः॥ नक्प्रत्ययान्ता निपात्यन्त ॥ रस आस्वादने। उपधाया दीक़ निपातनात् । राना । 'रास्ना तु स्याद्भुजङ्गाक्ष्यामेलापामपि स्त्रियाम्' इति मंदिनी॥षस स्वप्ने।उपधाया दीर्घो निपातनात्।सास्ना । 'सास्ना तु गलकम्बलः' इति मंदिनी॥ष्ठा गतिनिवृत्ती ऊत्वं णत्वं च निपात्यते । स्थूणा। 'स्थूणा स्यात्सूर्ध्या स्तम्भ गृहस्प च' इति मेदिनी ॥ सूर्मी लोहप्रतिमा ॥वी गत्यादिषु । णत्वं निपातनात्।वीणा। 'वीणा विद्युति वल्लक्याम्' इति मेदिनी॥कृती छेदने।वक्ष्यमाणेभ्यः कनप्रत्ययो निपातनात् । कृत्स्नम् ॥ तिज निशाने । धातोदीं? निपातनात् । चोः कुरिति गःखसे चपा झसानामिति कः । षत्वणत्वे । तीक्ष्णम् । “तीक्ष्णं सामुद्रलवणे विषलोहाजिमुष्कके । क्लीबं यवाग्रके पुंसि तिग्मात्मत्यागिनोस्त्रिषु' इति मेदिनी॥ श्लिष आलिङ्गने । श्लिषरिकारस्यात्वं निपातनात् । षढोरिति कत्वम् । श्लक्ष्णम् ॥ Page #306 -------------------------------------------------------------------------- ________________ (२८६) सिद्धान्तचन्द्रिका। [पूर्वकृदन्ते उणादयः ] __ (तत्त्वदी०)-रास्नादयः॥ रास्ना गन्धद्रव्यम् । साना गलकम्बलः । स्थूणा गृहस्तम्भः ॥ (मनादेयुः) मन्युः। दस्युः । जन्युः॥ (सुबोधिनी)-मनादेर्युः॥युप्रत्ययमाह-मन ज्ञानेनिपातनान्न युवोरित्यनादेशः । मन्युः । मन्युर्दैन्ये क्रतौ क्रुधि ॥' दसु उपक्षये । दस्युः।। 'दस्युश्चौरे रिपौ पुंसि' इति मेदिनी ॥ जनी प्रादुर्भावे । जन्युः। 'अथ जन्युः स्यात्प्राण्यग्निधातृषु' इति मेदिनी ॥ ( तत्त्वदी०)-मनादेरिति ॥ 'मन्युर्दैन्ये ऋतौ क्रुधि ।' दस्यश्चौरः । जन्युर्देही । ( मृङस्त्युक्) मृत्युः॥ (सुबोधिनी)-मृङस्त्युक् ॥ त्युक्प्रत्ययमाह-कित्त्वान्न गुणः । मृङ् प्राणत्यागे । मृत्युः। 'मृत्युनर्ना मरणे यमे' इति मेदिनी ॥ (सर्तेरय्वयू) सरयुः । सरयूः॥ (सुबोधिनी)-सर्तेरय्वयू॥ अयु-अयूप्रत्ययावाह-सृ गतौ।सरयुः। सरयूः नदी॥ (पादेः पः) पापम् ॥ (सुबोधिनी)-पादेः पः॥ पप्रत्ययमाह- रक्षणे । ति रक्षति धर्मादात्मानमिति पापम् ॥ (न्यादेः कित) नीपः । सूपः। कुङ् शब्दे । कूपः॥ (सुबोधिनी)-न्यादेः कित् ॥ पक्प्रत्ययमाह--णीञ् प्रापणे । नीपः। 'नीपः । कदम्बबन्धूकनीलाशोकद्रुमेऽपि च' इति मेदिनी॥ षुञ् अभिषवे । बाहुलकादीर्घः । सूपः । 'सूपो व्यञ्जनमूदयोः' इति मेदिनी ॥ कुङ् शब्द। पाहुलकाद्दीर्घः । कुवन्ति मण्डूका अस्मिन्निति कूपः॥ (शिल्पादयः ) शील शिल्पम् । शसु शष्पम् । बाधृ बाष्पम् । रु रूपम् । शु शूर्पम् ॥ . (सुबोधिनी ) शिल्पादयः ॥ पक्प्रत्ययान्ता निपात्यन्ते ॥ शील समाधौ । ह्रस्वो निपातनात् । शिल्पम् कौशलम् ॥ शसु हिंसायाम् । निपातनात्वत्वम् । शष्पम्। 'शष्पं बालतृणेऽपि च । पुंसि स्यात्प्रतिभाहीने' इति मेदिनी ॥ 'शष्पं बालतृणं घासः' इत्यमरः ॥ बाधृ विलोडने । धस्य षत्वं निपातनात् । बाष्पः। 'बाष्पो नेत्रजलोष्मणोः' इति विश्वः ॥ 'बाष्पमूष्मणि चाश्रुणि' इति च ॥रु शब्दे । दीर्घत्वं निपातनात् । रूपम् । 'रूपं स्वभाव सौन्दर्ये' इति विश्वः॥श हिंसायाम्।निपातनादुर । 'वो वि' हसे इति दीर्घः । शूर्पम् । 'प्रस्फोटनं शूर्पमस्त्री' इत्यमरः॥ Page #307 -------------------------------------------------------------------------- ________________ [ पूर्वकृदन्ते उणा दयः ] . टीकाद्वयोपेता । (२८७) (तत्त्वदी०)-शिल्पादय इति ॥ शिल्पं कौशलम् । शष्पं बालतृणं प्रतिभाक्षयश्च ॥ बाष्पमिति ॥ 'अस्रो नेत्रजलोष्मणोः ।' 'रूपं स्वभावे सौदर्ये ॥' । (स्तनादेय॑न्तादिनुः) स्तनयित्नुः । गदयित्नुः ॥ _ (सुबोधिनी)-स्तनादेय॑न्तादित्तुः॥इनुप्रत्ययमाह-स्तन गदी देवशब्दे। चुरादीञ्यन्तौ।गुणे कृते अयादेशः। स्तनयित्नुः । स्तनयित्नुः पुमान्वारिधरेऽपि स्तनिते ऽपि च।' इति मेदिनी॥ स्तनयित्नुः पयोवाहे तवृत्तौ मृगरोगयोः ॥ इति विश्वः ॥ गदयित्नुः । 'गदयित्नुः पुमान्कामे जल्पाके कामुकेपि च ॥' इति विश्वः॥ (तत्त्वदी०)-स्तनादरिति ॥ स्तनयित्नुरिति ॥ ओरलोपः ॥ (दाभाभ्यां नुः) दानुः । भानुः॥ (सुबोधिनी)-दाभाभ्यां नुः ॥ नुप्रत्ययमाह-डुदाञ् दाने । दानुः । 'दानुतरि विक्रान्ते' इति मेदिनी ॥ भा दीप्तौ । भानुः। 'भानू रश्मिदिवाकरौ।' इत्यमरः। (घट इच्च ) धेनुः । (सुबोधिनी)-धेट इञ्च ॥ नुः स्याद्धातोरित्वं च ॥ धेट पाने । संध्यक्षराणामित्यात्वे कृते इत्वम् । ततो गुणः। धेनुः । 'धेनुः स्यान्नवसूतिका ।' इत्यमरः । (सुवः किच्च) मृतुः ॥ (सुबोधिनी)-सुवः किच्च ॥ नुक् स्यात् ॥ कित्त्वान्न गुणः । षूङ प्राणिप्रसवे । सूनुः । सूनुः पुत्रेऽनुजे रवौ।' इति विश्वः ॥ ( तत्त्वदी० )-मूनुरिति ॥ 'सूनुः पुत्रेऽनुजे खौ ॥' (अजिवृभ्यां णुः) वेणुः। वर्णः॥ (सुबोधिनी )-अजिवृभ्यां गुः॥ णुप्रत्ययमाह-अज गतौ । अजेर्वीति वीः। वेणुः । वेणुर्नुपान्तरे वंशे।' इति विश्वः॥ वृङ संभक्तौ । वर्णः । नददेशभेदयोः ॥ (स्थारीभ्यां णः ) स्थाणुः। रेणुः॥ (सुबोधिनी) स्थारीभ्यां णुः॥ ष्ठा गतिनिवृत्तौ । स्थाणुः । 'स्थाणुः कीले हरे पुमान् । अस्त्री ध्रुवे' इति मेदिनी ॥ ‘स्थाणुः कीले स्थिरे हरे' इति विश्वः ॥री गतिरषणयोः । रेणुः । रेणुः स्त्रीपुंसयाधूलो पुँल्लिङ्गः पर्पटे पुनः।' इति मेदिनी ॥ रेणुयोः स्त्रियां धूलिः' इत्यमरः॥ (तत्त्वदी०)-स्थाणुरिति ॥ 'स्थाणुः कीले स्थिरे हरे ।' 'रेणुर्द्रयोः स्त्रियां धूलिः ॥' (विषः कित्) विष्णुः॥ (सुबोधिनी)-विषेः कित् ॥ णुक्प्रत्ययमाह-कित्त्वान्न गुणः । विष्ल व्याप्तौ।' विष्णुः । 'विष्णुर्नारायणः कृष्णः' इत्यमरः ॥ Page #308 -------------------------------------------------------------------------- ________________ (२८८) सिद्धान्तचन्द्रिका। [पूर्वकृदन्ते उणादयः ] (कादेः कः) कर्कः। राका । अर्कः । कल्कः । इण एकः। भेका काकः । पाकः। निहाका ॥ (सुबोधिनी)-क्रादेः कः ॥ कप्रत्ययमाह--बाहुलकान्न कस्येत्संज्ञा । डुकृञ् करणे । कर्कः। 'कर्कः कर्के तले वह्नौ शुक्लाश्वे दर्पणे घटे। इति विश्वः ॥रा दाने । राका । 'राका नद्यन्तरे कच्छां नवजातरजःस्त्रियाम् । संपूर्णन्दतिथौ' इति मेदिनी ॥ 'राका तु सरिदन्तरे । राका नवरजःकन्या पूर्णेन्दुः पूर्णिमाऽपि च॥' इति विश्वः।।अर्च पूजायाम्। चोः कुरिति कः। अर्कः। 'अर्कोऽर्कपणे स्फटिक रखौ ताने बृहस्पतौ।' इति विश्वः॥ कल गतौ । कल्कः । "कल्कोऽस्त्री घनतैलादिगषे दंभे विभीतके। विटुकि योश्च पापे च त्रिषु पापाशये पुनः॥” इति मेदिनी॥ कल्कः पापाशये पापे दंभे विट्किट्टयोरपि।' इति विश्वः ॥ इण गतौ । एकः । 'एकः संख्यान्तरे श्रेष्ठे केवलेतरयोस्त्रिषु।' इति मेदिनी॥ एके मुख्यान्यकेवलाः।' इति विश्वः॥जिभी भये ।भेकः। भेको मण्डूकमेषयोः' इति विश्वः ॥ कै शब्दे । काकः । “काकः स्याद्वायसे वृक्षप्रभंदे पीठसर्पिणि । शिरोऽवक्षालने मानप्रभेदंद्वीपभेदयोः । काका स्यात्काकनासायां काकोलीकाकजङ्गयोः । रक्तिकायां मलय्वां च काकमाच्यां च योषिति ।काकं सुरतबन्धे। स्यात्काकानामपि संहतौ ॥” इति मेदिनी॥मलयूः काकोदुम्बरिका॥पा पाने । पाकः। "पाकः परिणती शिशौ । केशस्य जरसा शौक्ल्ये स्थाल्यादौ पचनेऽपि च ॥” इति मेदिनी ॥ ओहाक त्यागे। निहाका । 'निहाका गोधिका समे ।' इत्यमरः॥ (तत्त्वदी० )-क्रादेरिति ॥ कर्को धवलघोटकः ॥ राका र्णिमा तिथिः ॥'कल्कः पापाशये पापे दम्भे विकिट्टयोरपि ॥' एके मुख्यान्यकेवलाः । भेको म डकमेषयोः ॥' पाकः शिशुः।।. 'निहाका गोधिका समे ॥' ( नौ सदेर्डित् ) निष्कः॥ (सुबोधिनी)-नौ सदेर्डित् ॥ कडप्रत्ययमाह-डित्पाडिलोपः। षद्ल विशरणादौ । निष्कः। 'निष्कोऽस्त्री हेम्नि तत्पले ।' इति विश्वः॥ (तत्त्वदी० )-'निष्कोऽस्त्री हेम्नि तत्पले ॥ (शकेरुनउन्तरन्तिउनिप्रत्ययाः ) शकुनः। शकुन्तः । शकुन्तिः। शकुनिः॥ __(सुबोधिनी)-शकेरुनउन्तउन्तिउनिप्रत्ययाः ॥ उनउन्तउन्तिउनिप्रत्ययानाह-शक्ल शक्तौ। शकुनः । शकुन्तः। शकुन्तिः शकुनिः। "शकुन्तिपक्षिशकुनिशकुन्तशकुनद्विजाः।' इत्यमरः ॥"शकुनस्तु पुमान्पक्षिमात्रपक्षिविशेषयोः । शुभाशंसिनिमित्त च शकुनं स्यानपुंसकम् ॥” इति मेदिनी ॥ 'शकन्तः कीटभेदे स्याद्भासपक्षिविहङ्गयोः।' इति मेदिनी ॥ Page #309 -------------------------------------------------------------------------- ________________ [ पूर्वकृदन्ते उणादयः ] टीकाद्वयोपेता । (२८९) (हृश्याभ्यामितः) हरितः । श्येतः। ___(सुबोधिनी)-हश्याभ्य मितः ॥ इतप्रत्ययमाह-हज हरणे । हरितः। 'हरिता स्त्री च दूर्वायां हरिद्वर्णयुतेऽभवत् ।' इति मेदिनी ॥ श्यैङ्ग गतौ। श्येतः । 'शुक्लशुभ्रशुचिश्वेतविशदश्येतपाण्डराः।' इत्यमरः॥ (रुहे रस्य लो वा) रोहितः-लोहितः॥ __ (सुबोधिनी)-रुहे रस्य लो वा॥ अस्मादितः स्याद्रस्य वा लकारःरुह बीजजन्मनि प्रादुर्भावे च । रोहितः-लोहितः । “रोहितं कुकुमे रक्ते ऋजुशक्रशरासने। पुंसि स्यान्मीनमृगयोर्भेदे रोहितकदमे॥” इति मेदिनी॥"लोहितं रक्तगोशीर्षकुङ्कुमाजिकुचन्दने । पुमान्नदान्तरे भौमे वर्णे च त्रिषु तद्वति ॥” इति मेदिनी ॥ (श्वादेराय्य:) श्रवाय्यः। स्पृहयाय्यः॥ (सुबोधिनी)-वादेर य्यः॥ आय्यप्रत्ययमाह-श्रु श्रवणे । श्रवाय्यः। श्रवाग्यो यज्ञपशुः। स्पृह ईप्साय म् । चुरादिरदन्तः । स्पृहयाय्यः॥ ( तत्त्वदी०)-वादेरिति ॥ श्रवाय्यो यज्ञपशुः ॥ (वृञ एण्यः ) वरेण्यः ॥ (सुबोधिनी)-वृञ एण्यः॥ एण्यप्रत्ययमाह-वृञ् वरणे । वरेण्यः श्रेष्ठः ॥ (अर्तेरन्यः) अरण्यम् । (पृषश्च षस्य जः) पृषु सेचने पर्जन्यः। (सुबोधिनी )-अर्तेरन्यः ॥अन्यप्रत्ययमाह- गतौ । अरण्यम् । अटव्यरण्यं विपिनम् ' इत्यमरः॥ पृषु सेचने । षस्य जः अन्यश्च स्यात् । पर्जन्यः। 'पर्जन्यो मेघशब्दोऽपि ध्वनदम्बुदशक्रयो।' इति मेदिनी ॥ (तत्त्वदी०)-पर्जन्य इति ॥ 'पर्जन्यः शक्रमेघयोः ॥' .. (वदेरान्यः) वदान्यः॥ ( सुबोधिनी)-वदेरान्यः ॥ आन्यप्रत्ययमाह-वद व्यक्तायांवाचि । वदान्यः । 'वदान्यस्त्यागिवाग्मिनोः।' इत्यजयकोशः॥ ( तत्त्वदी०)-वदेरिति ॥ वदान्यस्त्यागिवाग्मिनोः ॥' (अमादेरत्रः) अमाम् । नक्षत्रम् । पतत्रम् । कलत्रम् । वरत्रा ॥ (सुबोधिनी)--अमादेरत्रः ॥ अत्रप्रत्ययमाह-अम गत्यादौ । अमत्रं भाजनम्।। नक्ष गतौ । नक्षत्रम् । नञः प्रकृ तेभावे नक्षत्रमिति साधितं तत्तु व्युत्पत्त्यन्तरम् ॥ पत्ल पतने । पतत्रं तनूरुहम् ॥ गड मचने । गडेरादेश्च कः । कडत्रम् । डलयोरेकत्वस्मरणात् कलत्रम् । 'कलत्रं श्रोणिभार्ययोः।' वृञ वरणे । वरत्रा। 'नधी वध्री वरत्रा स्यात' इत्यमरः ॥ चर्ममयी रज्जुरित्यर्थः ॥ १२ Page #310 -------------------------------------------------------------------------- ________________ (२९०) सिद्धान्तचन्द्रिका। [पूर्वकृदन्ते उणादयः ] ( तत्त्वदी० ) अमादेरिति ॥ अमत्रं भाजनम् ॥ पतत्रं तनू न्हम् ॥ वरत्रा चर्ममयी रज्जुः।। (भ्रादेरतः) भरतः। पर्व पूरणे । पर्वतः॥ (सुबोधिनी)-भ्रादेरतः ॥ अतप्रत्ययमाह-भृञ् भरणे । भरतः। 'भरतः शबरे नटे । क्षेत्रे रामानुजे शास्त्रे दौष्यन्तावृषभात्मजे । तन्तुवाय' इति हेमचन्द्रः॥ भरतो ना नाट्यशास्त्रे शबरे च मुनौ नटे । रामानुजे च दौष्यन्तौ' इति मेदिनी ॥ पर्व पूरणे । पर्वतः । 'पर्वतः पादपे पुंसि शाकमत्स्यप्रभेदयोः । देवमुन्यन्तरे शैले' इति मेदिनी॥ (पृषिरञ्जिभ्यां कित् ) पृषतः । रजतम् ॥ (सुबोधिनी)-पृषिरञ्जिभ्यां कित् ॥ कतप्रत्ययमाह-कित्त्वान्न गुणः । पृषु सेचने । पृषतः । “पृषन्मृगे पुमान् बिन्दौ न द्वयोः पृषताऽपि ना । अनयोश्च त्रिषु श्वेतबिन्दुयुक्तेऽप्युभाविमौ" इति मेदिनी ॥ रञ्ज रागे । नो लोप इति नलोपः । रजतम् । 'रजतं त्रिषु शुक्ले स्यात्क्लीबे हारे सुवर्णके' ति मेदिनी ॥ ( तत्त्वदी०)-पृषि ॥ पृषतो बिन्दुमृगयोः ॥' (शपादेरथः) शपथः । शमथः। दमथः। वस आवसथः। संवसथः॥ (सुबोधिनी)-शपादेरथः । अथप्रत्ययमाह-शप आक्रोशे । शपथः ॥ इ.स दमु उपशमे । शमथः । दमथः। 'शमथः शान्तिमन्त्रिणः' इति मेदिनी ॥ 'दमथस्तु पमान्दण्डे दमे च परिकीर्तितः' इति मेदिनी । 'शम स्तु शमः शान्तिन्तिस्तु दाथो दमः' इत्यमरः॥ वस निवासे । आवसथो गृहम् संवसथो ग्रामः ॥ (तत्त्वदी०)--शपादेरिति ॥ 'शमथस्तु शमः शान्तिर्दान्तिस्तु दमथो दमः ।। . (रभादेरसः) रभसः ॥ ( सुबोधिनी )-रभादेरसः॥ असप्रत्ययमाह-रभ राभस्ये । रभसः । 'रभसो वेगहर्षयोः ॥' (वेञ आत्वाभावस्तुटू च) वेतसः ॥ (सुबोधिनी)-वेञ आत्वाभावस्तुट् च ॥ वेज तन्तुसन्ताने अस्मादसप्रत्यय परे आत्वाभावः प्रत्ययस्य तुडागमश्च स्यात् ॥ वेतसः। . (दिवः कित् ) दिवु दिवसः ॥ (सुबोधिनी)-दिवेः कित् ॥ कसप्रत्ययमाह-कि वान्न गुणः । दिवु क्रीडादौ । दिवसः। 'वा तु क्लीवे दिवसवासरौ' इत्यमरः॥ ... (क्रादेरभः) कृ करभः। शृशरभः। शलगतौ। शलभः। कल गतौ। कलभः । गर्द शब्दे । गर्दभः॥ Page #311 -------------------------------------------------------------------------- ________________ [ पूर्वकृदन्ते उणादयः ] टीकाद्वयोपेता । (२९१) (सुबोधिनी)-क्रादेरभः॥ अभप्रत्ययमाह-क विक्षेपे । करभः । 'करभो मणिबन्धादिकनिष्ठान्तोष्ट्रतत्सुते इति मेदिनी॥ 'मणिबन्धादाकनिष्ठं करस्य करभो बहिः' इत्यमरः ॥ गृ हिंसायाम् । शरभः। 'शरभस्तु पशोभिदि“करभो वानरभिदि' इति च मदिनी ॥ शल गतौ। शलभः। 'समौ पतङ्गशलभौ' इत्यमरः ॥ कल गतौ। कलभः । 'कलभः करिपोतके॥' गर्द शब्दे । गर्दभः।"गर्दभः श्वेतकुमुदे गर्दभो गन्धभिद्यपि । रासभे गर्दभी क्षुद्रजन्तुरोगप्रभेदयोः।” इति मेदिनी ॥ (ऋषिवृषिभ्यां कित) ऋषभः। वृषभः॥ (सुबोधिनी) ऋषिवृषिभ्यां कित् ॥ कभप्रत्ययमाह-कित्त्वान्न गुणः । ऋषी गतौ।ऋषभः"ऋषभःस्यादादिजिने वृषभे भेषजे स्वरेकर्णरन्ध्रे कोलपुच्छे श्रेष्ठेचाप्युत्तरे स्थितः॥ऋषभी शूकशिम्ब्यां स्यात्पुरुषाकारयोषिति । विधवायां शिरालायाम्" इति हेमचन्द्रः॥ "ऋषभस्त्वौषधान्तरे । स्वरभिद्वषयोः कर्णरन्ध्रे गर्दभपुच्छयोः । उत्तरस्थः स्मृतः श्रेष्ठ स्त्रीनराकारयोषिति । शूकशिम्ब्यां शिरालायां विधवायां वधिन्मता।” इति मेदिनी ॥ वृषु सेचने । वृषभः । 'वृषभः श्रेष्ठवृषयोः ॥' (रासवल्लिभ्यां च ) रास शब्दे।रासभः। वल्ल संवरणे वल्लभः॥ (सुबोधिनी)-रासवल्लिभ्यां च ॥ अभः स्यात् ॥ राम शब्दे । रासभः ॥वल्ल संवरणे । वल्लभः। 'वल्लभो दयितेऽध्यक्षे सलक्षणतुरङ्गमे' इति मेदिनी ॥ (विशादेरन्तः) वेशन्तः । वसन्तः । जयन्तः ॥ (सुबोधिनी)-विशादेरन्तः॥ अन्तप्रत्ययमाह-विश प्रवेशने । वेशन्तः।'वेशन्तः पल्वलं चाल्पसरः' इत्यमरः॥ वस निवासे । वसन्तः ऋतुः॥ जि जये । जयन्तः । 'जयन्तः पाकशासनिः' इत्यमरः ॥ (तत्त्वदी० )-विशादेरिति ॥ वेशन्तः पल्वलम् ॥ जयन्तः शक्रपुत्रः ॥ (हन्तेहिर्मुट च) हेमन्तः॥ (सुबोधिनी) हन्तेहिर्मुट च ॥ हन हिंसागत्योः। अस्य हिरादेशोऽन्तप्रत्ययः प्रत्ययस्य मुडागमश्च स्यात् ॥ हेमन्तः॥ बाहुलकादन्येभ्योऽप्यन्तः । अर्ह पूजायाम्। अर्हन्तः । 'अर्हन्तः क्षपणको जिनः' इति विक्रमादित्यकोशः॥ (अयोदेररः) अररम् । भ्रमरः। चमरः । देवरः । वस निवासे। वासरः॥ (सुबोधिनी )-अादररः ॥ अरप्रत्ययमाह-ऋ गतौ। अररम् । 'अररं छदकपाटयोः' इति मेदिनी ॥ 'कपाटमररं तुल्ये' इत्यमरः ॥ भ्रम अनवस्थाने । भ्रमरः। Page #312 -------------------------------------------------------------------------- ________________ (२९२) सिद्धान्तचन्द्रिका। [पूर्वकृदन्ते उणादयः ] 'भ्रमरः कार्मुके भृङ्गे' इति मेदिनी ॥ चमु अदने । चमः। 'चमरं चामर स्त्री तु मञ्जरीमृगभेदयोः' इति मेदिनी ॥ दिवु क्रीडादौ । ज्यन्तः । देवयतीति देवरः । पत्युः कनिष्ठभ्राता ॥ वस निवासे । ज्यन्तः । वासयतीति वासरो दिवसः॥ (तत्त्वदी०)-अादेरिति ॥ अररं कपाटम् ॥ (कुवः किद्रुट् च ) कुररः॥ (सुबोधिनी) कुवः किद्भुट् च ॥ करप्रत्ययमाह-कित्त्वान्न गुणः। कु शब्द । कुररः। उत्क्रोशकुररौ समो' इत्यमरः ॥ (अङ्गयादेरारः) अङ्गारः । मन्दारः॥ (सुबोधिनी)-अङ्गयादेरारः॥आरप्रत्ययमाह-अगि गतौ अङ्गारः। 'अङ्गारमुल्मुके न स्त्री पुंल्लिङ्गस्तु महीसुते' इति मेदिनी ॥ मदि स्तुत्यादौ । मन्दारः। बाहु लकादारुप्रत्ययोऽपि । मन्दारुः। 'पारिभद्रे तु मन्दारुर्मन परः पारिजातके'इति शब्दार्णवः ॥ 'मन्दारुः स्यात्सुरद्रुमे । पारिभद्रेर्कपणे च' हा विश्वः ॥ (गडेःकड च) गड आसेचने । कडारः।। । (सुबोधिनी)-गडेः कड च॥गडि वदनैकदेशे । गड सेचने वा । अस्य कडादेश आरप्रत्ययश्च स्यात् ॥ 'कडारः कपिलः पिङ्गः' इत्यमरः ॥ 'कडारः कपिले दास' इति मेदिनी ॥ (शृङ्गारादयः) शृङ्गारः । भृङ्गारः । मृजूष मार्जारः । कमु कुमारः। तुषारः। कासारः॥ (सुबोधिनी)-शृङ्गारादयः॥ आरप्रत्ययान्ता निपात्यन्ते ॥ श हिंसायाम। नुस् गुक् ह्रस्वश्च निपात्यते । शृङ्गारः । 'शृङ्गारः सुरंग नाटये रसे च गजमण्डने । नपुंसकं लवङ्गेऽपि नागसंभवचूर्णयोः ॥"इति मेदिनी । भृञ् भरणे । नुम् गुक च निपात्यते।भृङ्गारः। 'भृङ्गारः कनकालुका।' 'भृङ्गारी झिल्लिकायां स्यात्कनकालौ पुनः घुमान्' इति च ॥ मृजूष शुद्धौ । मृजेर्वृद्धिरिति वृद्धिः । मार्जारः । 'ओतुबिडालो मार्जारः' इत्यमरः ॥ 'मार्जार ओतो खट्वाङ्गे' इति मेदिनी ॥ कमु कान्तौ । उपधाया उत्वं गुणाभावश्च निपातनात् । कुमारः। कुमारः स्याच् के स्कन्दे युवराजेश्ववारके। बालके वरुणाद्रौ ना न द्वयोर्जात्यकाश्चने । कुमारी शैल तनयावनकाल्योर्नदीभिदि । सहाऽपराजिताकन्याजम्बूद्वीपेषु च स्त्रियाम॥' इति मेदिनी ॥ तुष तुष्टौ । तुषारः। 'तुषारस्तुहिनं हिमम्' इत्यमरः॥ कास शब्दकुत्सायाम् । कासारः । 'कासारः सरसी सरः' इत्यमरः॥ (तत्त्वदी० )-भृङ्गार इति । 'भृङ्गारः कनकालुका ॥ Page #313 -------------------------------------------------------------------------- ________________ [ पूर्वकृदन्ते उणादयः ] टीकाद्वयोपेता। सोला। (२९३ ) .. (सर्तेरपः षुक् च सर्षपः॥ (सुबोधिनी)-सर्तेरपः षुक् च ॥ सृ गतौ अस्मादपप्रत्ययः स्याद्धातोः घुगागमश्च ॥ अपप्रत्ययमाह- सर्षपः ॥ (विटपादयः) वि शब्दे । विटपः। विष्टपम् । कुणपम् । वल सं. वरणे । उलपम् ॥ (सुबोधिनी)-विटपादयः॥ कपप्रत्ययान्ता निपात्यन्ते-कित्त्वान्न गुणः । विट शब्दे । विटपः । 'विटपो न स्त्रियां स्तम्बे शाखाविस्तारपल्लवे । विटाधिपे ना' इति मेदिनी । विश प्रवेशने । विशतेः प्रत्ययस्य तुडागमो निपात्यते । छशषेति पत्वम् । ष्टुत्वम् । विष्टपम् । 'विष्टपं भुवनं जगत्' इत्यमरः ॥ कण शब्दे । वस्योत्वं निपातनात् । कुणपम् । 'कुणपः पूतिगन्धे शवेऽपि च' इति मेदिनी ॥ 'कुणपः शवमस्त्रियाम्' इत्यमरः ॥ वल संवरणे । वस्योत्वं निपातनात् । उलपम् । 'उलपो न स्त्री गुल्मिन्यां ना तृणान्तरे' इ ते मेदिनी ॥ (तत्त्वदी०)-उलप इति ॥ कोमलं तृणम् ॥ (वृतादेस्तिकः ) वर्तिका ॥ (सुबोधिनी)-वृतादेस्तिकः॥ तिकप्रत्ययमाह-वृतु वर्तने । वर्तिका ॥ (कृतः कित् ) कृत्तिका ॥ (सुबोधिनी)-कृतः किम् ॥ कृती छेदने इत्यादिभ्यस्तिककू स्यात् ॥ कित्त्वान्न गुणः । कृत्तिका ॥दिर विदारणे। भित्तिका भित्तिः। लतु सौत्रोधातुः। लत्तिका गोधा॥ ( इष्यशिम्यां तकः) इष्टका । अष्टका ॥ (सुबोधिनी )-इष्यशिभ्यां तकः ॥ तकप्रत्ययमाह-इषु इच्छायाम् । ष्टुत्वम् । इष्टका ॥ अशूङ् व्याप्तौ। छशपति षत्वम् । अष्टका ॥ (वीपतिभ्यां तन:) वेतनम् । पत्तनम् ॥ (सुबोधिनी)-वीपतिभ्यां तनः ॥ तनप्रत्ययमाह-वी गत्यादौ । वेतनम् ।। पल पतने । पत्तनम् । 'पत्तनं पुटभेदनम' इत्यमरः॥ (अादेर्भः) अर्भः दृ दर्भः। गर्भः ॥ (सुबोधिनी)-अादेर्भः ॥ भप्रत्ययमाह-ऋ गतौ । इयर्तीति अर्भः शिशुः। कप्रत्यये अर्भकः ॥ दृ विदारणे । दर्भः ॥ग निगरणे । गर्भः । 'गर्भो भ्रूणेऽर्भक कुक्षौ संधौ पनसकण्टके' इति मंदिनी ॥ ( इणः कित्) इभः॥ Page #314 -------------------------------------------------------------------------- ________________ ( २९४ ) सिद्धान्तचन्द्रिका | [ पूर्वकृदन्ते उणादयः } ( सुबोधिनी ) - इणः कित् ॥भकू स्यात् ॥ कित्त्वान्न गुणः । इण् गतौ । इभः । 'इभः स्तम्बेरमः पद्मी' इत्यमरः ॥ ( असिसञ्जिभ्यां क्थिः ) अस्थि । सवि ॥ ( सुबोधिनी ) - असिसञ्जिभ्यां क्थिः ॥ क्थिप्रत्ययमाह -- कित्त्वान्नस्य लोपः । अक्षेपणे । अस्थि । 'कीकसं कुल्यमस्थि च' इत्यमरः ॥ षञ्ज सङ्गे । चोः कुरिति गः । खसे चपा इति कः । नो लोप इति नलोपः । सक्थि । 'सक्थि क्लीबे पुमानूरुः' इत्यमरः ॥ (शुषादेः क्सिः ) शुक्षिः । कुष निष्कर्षे । कुक्षिः । अशू अक्षि ॥ (सुबोधिनी ) - शुषादेः क्सिः ॥ क्सिप्रत्ययमाह - कित्त्वान्न गुणः । शुष शोषणे । षढोरिति कः । षत्वम् । शुक्षिः वातः ॥ कुष दाहे । कुक्षिः ॥ अशूङ व्याप्तौ । छशषेति षत्वं कत्वं च । अक्षि नयनम् ॥ (तत्त्वदी ० ) - शुक्षिरिति ॥ शुक्षितः ॥ ( इषः सुः ) इक्षुः ॥ ( सुबोधिनी ) - इष: क्सुः ॥ क्सुप्रत्ययमाह- कित्त्वान्न गुणः । इषु इच्छायाम् । कत्वे षत्वे इक्षुः । ' रसाल इक्षुः ' इत्यमरः ॥ ( अविस्तृत त्रिभ्य ई: ) अवीः । तरीः । स्तरीर्धूमः । तन्त्रीः । (सुबोधिनी) - अवितृस्तृतन्त्रिभ्य ईः ॥ इत्ययमाह - - अव रक्षणादौ । अवीः । 'अवीर्नारी रजस्वला ॥' प्लवनतरणयोः । तरी । 'स्त्रियां नौस्तरणिस्तरिः " इत्यमरः ॥ स्तृञ् आच्छादने । स्तरीधूमः ॥ तत्रि कुटुम्बधारणे चुरादिः। तन्त्रयतीति । जेरिति ञिलोपः । तन्त्रीवणा ॥ ( तत्त्वदी ० ) - अवि ॥ अवीरिति ॥ अवति गर्भमवीः 'अवीं स्त्रीं गर्भिणीं विदुः ॥' तरीनः ॥ स्तरीः शयनं धूम इति च ॥ (लक्षेर्मुट् च ) लक्ष्मीः ॥ इात तृतीयः पादः ॥ (सुबोधिनी) - लक्षेर्मुट् च ॥ लक्ष दर्शनाङ्कनयोः चुरादिः अस्मादीप्रत्ययः स्या त्प्रत्ययस्य_मुडागमश्च ॥ जेोति ञिलोपः । लक्ष्मीः । 'लक्ष्मी: संपत्तिशोभयोः । ऋद्धयोषधौ च पद्मायाम्' इति मेदिनी ॥ दीर्घादपि वृदिकारादिति पाक्षिक ईपू कैश्विदिष्यते । अत एव वातप्रमीश्रीलक्ष्मीत्यादिशब्दा क्षे ईबन्ता अपि । 'आशीराश्यहिदंष्ट्रायां लक्ष्मीर्लक्ष्मी हरिप्रिया' इति द्विरूपकोशः ॥ इति सुबोधिन्यामुणादौ तृतीयः पादः ॥ ( वातप्रम्यादयः) वातप्रमीः । यान्त्यनेनेति ययीः । पारक्षणे । पपीः।। Page #315 -------------------------------------------------------------------------- ________________ [ पूर्वकृदन्ते उणादयः] टीकाद्वयोपेता। (२९५) (सुबोधिनी)-वातप्रम्यादयः ॥ कीप्रत्ययान्ता निपात्यन्ते। कस्येत्संज्ञा । माङ् माने । आतोऽनपीत्यालंपिः । वातं प्रमिमीते इति वातप्रमीः । 'वातप्रमीर्वातमृगः' इत्यमरः ॥ अयं स्त्रीपुंभयोः ॥ या प्रापणे । ययीरश्वः । पा रक्षणे । पपीः । निपातनादुभयत्र द्वित्वम् । 'पपीः स्यात्सोमसूर्ययोः' इति विश्वः ॥ (तत्त्वदी०)-वात०॥ ययीरश्वः ॥ 'पपीः स्यात्सोमसूर्ययोः ॥' (रत्न्यादयः) रत्निः।अजू अञ्जलिः।मदीमत्स्यः। अत अतिथिः। अगि अङ्गुलिः । कौतेः कवचः । यु यवासः । कृश कृशानुः॥ (सुबोधिनी)-रत्न्यादयः॥ रत्न्यादयो निपात्यन्ते-ऋअजूमदीअतअगिकुयुकृशिभ्योऽष्टभ्यः कत्नि आठ स्य इथि उलि अच आस आनुक् प्रत्यया यथासंख्यमष्टौ भवन्ति । ऋ गतौ कलिः । कित्त्वान्न गुणः । रत्वम् । रनिः । 'बद्धमुष्टिः करो रत्निः सोऽरत्निः प्रसृताः ।' अरनिरत्र नसमासः । प्रसृतागुलियों हस्तः, सोऽरनिरित्यर्थः ॥ अजूठ क्त्यादौ कलिः । अञ्जलिः । 'अञ्जलिस्तुं पुमान्हस्तः संपुट कुडवेऽपि च' इति मंदिनी ॥ मदी हर्षे । स्यः मत्स्यः । 'मत्स्यो मीनेऽथ पुम्भूम्नि देशे' इति मेदिनी ॥ अत सातत्यगमने । इथिः । अतिथिः । 'अतिथिः कुशपत्रे स्यात्पुमानागन्तुके त्रिषु' इति मेदिनी ॥ अगि गतौ । उलिः अङ्गुलिः। 'अङ्गुलिः करशाखायां कर्णिकायां गजस्य च' इति हैमः ॥कु शब्दे । अचः । कवचः । 'कवचो गर्दभाण्डे । सन्नाहे पर्पटेऽपि च' इति मेदिनी ॥ यु मिश्रणे । आसः। यवासः ‘यासो यवार । दुःस्पर्शः' इत्यमरः ॥ कृश तनूकरणे । आनुकू । कृशानुः। 'कृशानुः पावकोऽनलः' इत्यमरः॥ (तत्त्वदी०)-रत्न्यादयः इति ॥ ऋ इत्यस्य रनिरिति । 'बद्धमुष्टिः करो रनिः सोऽरनिः प्रसृताङ्गुलिः ॥' (श्रः करः) शर्करा ॥ (सुबोधिनी)-श्रःकरः। करप्रत्ययमाह-ककारस्य नेत्वं बाहुलकात् ॥शु हिंसायाम् । शर्करा । 'शर्करा खण्डविकृतावुपलाशर्करांशयोः ॥ शर्करान्वितदेशे च रुग्भंदे सकलेजप च' इति मेदिनी ॥ (पुषः कित्) पुष्करः ॥ (सुबोधिनी) पुषः कित ॥ करक्प्रत्ययमाह--पुष पुष्टौ । पुष्करम् । “पुष्कर खेऽम्बुपद्मयोः। तूर्यवक्त्रे खड्गफले हस्तिहस्ताग्रकाण्डयोः । कुष्ठौषधौ द्वीपतीर्थभेदयोश्च नपुंसकम् ! ना रागनागविहगनृपभेदेषु चाम्बुदे” इति मेदिनी ॥ (गमेरिनिर्भविष्यति) गमिष्यतीति गमी ॥ Page #316 -------------------------------------------------------------------------- ________________ (२९६) सिद्धान्तचन्द्रिका। [पूर्वकृदन्ते उणादयः ] । (सुबोधिनी)-गमेरिनिर्भविष्यति॥ इकार उच्चारणार्थः । इनिप्रत्ययमाह-गम्ल गतौ । इनामिति दीर्घः । गमी । आपूर्वाद्गमरिनिप्रत्ययस्तु णित् । णित्त्वादू वृद्धिः। आगमिष्यतीति आगामी ॥भू सत्तायामस्मादपि इनिः स च णित्स्यात् । भविष्यतीति भावी ॥ (परमे स्थः कित्) परमेष्ठी ॥ (सुबोधिनी)-परमे स्थः कित् ॥ परमशब्दे उपपदे तिष्ठतेरिनिः कित्स्यात् ॥ कित्त्वादातोऽनपीत्यालोपः। परमेष्ठी । 'परमेष्ठी पितामहः' इत्यमरः। सप्तम्या अलुक् ॥ (मन्थ इनिः कित) मन्थाः, मन्थानौ ॥ (सुबोधिनी)-मन्थ इनिः कित् ॥ मन्य विलोडने अस्मादिनिः कित् । नो लोप इति नलोपः। इतोऽत्पञ्चसु इत्यत्वम् । आ सौ इति टेगत्वे थो नुट् । मन्थाः । 'मन्था मन्थनदण्डे चं वजे चापेऽपि च स्मृतः ॥' (पतेस्थश्च ) पन्थाः, पन्थानौ ॥ :: (सुबोधिनी)-पतेस्थश्च ॥पत्ल गतौ अस्मादिनिःस्यात्तकारस्य थश्च । पन्थाः॥ पथे मतावित्यस्मात्पचाद्यप्रत्ययेऽकारान्तोऽप्यस्ति। 'वाटः पयश्च मार्गश्च' इति सुभूतिचन्द्रः॥ ऋभवोदेवाः क्षयन्त्यस्मिन्निति विग्रहे बाहुलकात् इप्रत्यये ऋभुक्षः। 'ऋभुक्षः स्वर्गवज्रयोः' इति विश्वः ॥ ततो मत्वर्थीय इन्, ऋभुक्षिनिति नान्तं प्रातिपदिकम् । अत्वे आत्वे च ऋभुक्षा इन्द्रः॥ (बलाकादयः) बलाका। पताका। खज मन्थे ।खजाकः। पिनाकः। पिण्याकः। तड आघाते । तडाकः ॥ (सुबोधिनी)-बलाकादयः ॥ आकप्रत्ययान्ता पात्यन्ते-बल प्राणने । बलाका । "बलाका बकपंक्तिः स्याद्वलाका बिसकण्ठिका बलाका कामुकी प्रोक्ता बलाकश्च बको मतः” इति विश्वः ॥ पल पतने । पताका । 'पताका वैजयन्त्यां च सौभाग्येऽङ्के ध्वजेऽपिच' इति विश्वः ॥ “पताका वैजयन्त्यां च सौभाग्ये नाटकाङ्कयोः' इति मेदिनी ॥ खज मन्थे । खजाकः पक्षी ॥ पा रक्षणे । पातेरित्वं नुम् च निपात्यते । पिनाकः। 'क्लीवपुंसोः पिनाकः स्याच्छूलशङ्करधन्वनोः' इत्यमरः ॥ 'पिनाकोऽस्त्री रुद्रचापे पांशुवर्षत्रिशूलयोः' इति मेदिनी ॥ पिष्ल संचूर्णने । षस्य णत्वं धातोर्यगागमश्च निपात्यते । पिण्याकः । "पिण्याकोऽस्त्री तिलकल्के हिगुवाला सिहके' इति मेदिनी ॥ तड आघाते । तडाकः ॥ (तत्त्वदी०)-पिनाक इति ॥ "क्लीबपुंसोः पिनाकः स्याच्छू लशङ्करधन्वनोः ॥" (दूषेरीकः) दूषिका। Page #317 -------------------------------------------------------------------------- ________________ [पूर्वकृदन्ते उण.दयः ] टीकाद्वयोपेता । (२९७) (सुबोधिनी)-दूषेरीकाईकप्रत्ययमाह-दुष वकृत्ये ज्यन्तः। दुषे विति दीघः। जेरिति त्रिलोपः। दूषीका। 'दूषीका नेत्रयोर्मलम्' इत्यमरः॥ किं च अकृतेऽपि ईकप्रत्यये दूषयतेर्धातोरिरिति।इप्रत्यये दूषिः । कृदिकारादिति वेपि दूषी । उभाभ्यामपि स्वार्थे कप्रत्यये ह्रस्वो वेति पाक्षिके ह्रस्वे च कृते दूषिका दूषीका च सिद्धयति । "पिचण्डी दूषिका दूषी पिचाटश्च दृशोर्मलम्' इति विक्रमादित्यकोशः ॥ 'दूषिका तूलिकायां च मले स्याल्लोचनस्य च' इति मेदिनी ॥ ( तत्त्वदी०)-दूषेरिति ॥ 'दूषीका नेत्रयोर्मलम् ॥' .. (अनिदृषिभ्यां किच्च ) अनीकम् । हृषीकम् ॥ __ (सुबोधिनी)-अनिहषिभ्यां किञ्च ॥ कीकप्रत्ययः स्यात्॥कित्त्वान्न गुणः । अन प्राणने । अनीकम् । 'अनीकोऽस्त्री रणे सैन्ये' इति मेदिनी ॥ हृष तुष्टौ । हृषीकम् । 'हृषीकं विषयीन्द्रियम्' इत्यमरः ॥ · ( अलीकादयः) अल भूषणादौ । अलीकम् । वलीकम् । पुण कर्मणि शुभे । पुण्डरीकम् । ईष-इषीका॥ . (सुबोधिनी)-अलीकादयः॥कीकप्रत्ययान्ता निपात्यन्ते॥अल भूषणादौ । अलीकम् । 'अलीकं त्वप्रियेऽपि स्यादिव्येऽसत्ये नपुंसकम्' इति मेदिनी॥'अलीकमप्रिये लाभे वितये' इति हेमचन्द्रः ॥ विपूर्वात् व्यलीकम् । 'व्यलीकमप्रियाकार्यवैलक्ष्येष्वपि पाडने । ना नागरे' इति मेदिनी ॥ वल संवरणे । वलीकम् । 'वलीकनीधे पटलप्रान्त' इत्यमरः ॥ वलतनिपातनान्मुमागमे कृत वल्मीकम् । 'वामलूरश्च नाकुश्च वल्मीकं पुन्नपुंसकम्' इत्यमरः ॥ पुण कर्मणि शुभेोधातोर्नुमागमो णस्य डश्च प्रत्ययस्यारुडागमश्च निपातनात।पुण्डरीकम् । “पुण्डरीकं सिताम्भोजे सितच्छत्रे च भेषजे । पुंसि व्याग्निदिङ्नागे कोशकारान्तरेऽपि च ॥” इति मेदिनी॥ ईष गतौ । निपातनादस्वः । इषीका शलाका ॥ (तत्त्वदी० )-अलीकादय इति ॥ अलीकं मिथ्या । 'वलीकं पटलप्रान्ते ॥' (कादेरीषः) करीषम् । तृ तरीषः॥ . (सुबोधिनी) क्रादेरीषः॥ईषप्रत्ययमाह-कृ विक्षेपे । करीषम् । करीष गोमय शुष्कम्' इत्यमरः ॥ तृ प्लवनतरणयोः। तरीषः। तरीषा ॥ (तत्त्वदी० )-क्रादेरिति ॥ 'करीषोऽस्त्री पशुशुष्कगोमययोः ।।' . (श्रादेः कीपः) श शिरीषः । पृ पुरीषम् ॥ (सुबोधिनी )-श्रादेः कीषः॥शु हिंसायाम् । ऋत इरितीर् । शिरीषो वृक्षः॥प पालनपूरणयोः । पोरुरित्युर् । पुरीषम् । 'गूथं पुरीषं वर्चस्कमस्त्री विष्ठाविशौ स्त्रिया' इत्यमरः॥ Page #318 -------------------------------------------------------------------------- ________________ (२९८) सिद्धान्तचन्द्रिका। [पूर्वकृदन्ते उणादयः ] (अर्जेजः) ऋजीषम् । अबि शब्दे। अम्बरीषो निपात्याअम्बरीषम् ॥ (सुबोधिनी)-अर्जेजः ॥ अज अर्जने अस्मात्कीपः स्याद्धातोर्ऋजादेशश्च ॥ ऋजीषम्।'ऋजीषं पिष्टपचनम्' इत्यमरः।अवि शब्दोनिपातनादीषप्रत्ययः प्रत्ययस्यारुडागमश्च । अम्बरीषः। “अम्बरीषं रणे भ्राष्टे क्लीवं पुंसि नृपान्तरे।नरकस्य प्रभेदे च किशोरे भास्करपि च । आम्रातकऽनुपाते च"इति मेदिनी॥ 'अम्बरीषः पुमान्भ्राष्ट्र' क्लीवे पुंसि नृपान्तरे ।'इति बोपालितः ॥ 'क्लीवेऽम्बरीषं भ्रष्ट्रो ना' इत्यमरः॥ ( तत्त्वदी० )-अम्बरीष इति ॥ 'अम्बरीषः पुमान्भ्राष्ट्र कीबेऽपि ॥' (क्रादेरीरः) करीरः । शु शरीरम् ॥ (सुबोधिनी)-क्रादेरीरः॥ ईरप्रत्ययमाह-कृ विक्षेप। करीरः। “वंशारे करीरोऽस्त्री वृक्षभिद्धटयोः पुमान्। करीरा चीरिकायां च टन्तमूले च दन्तिनाम्" इति मेदिनी ॥ शू हिंसायाम् । शीर्यते इति शरीरम् । अर्द्धचा देः। 'शरीरं वर्म विग्रहः' इत्यमरः॥ (तत्त्वदी० )क्रादेरिति ॥ करीरो वंशाङ्कुरः ।। (गभीरादयः)गम्ल गभीरः-गम्भीरःवश उशीरम्। घस्ल क्षीरम्।। ( सुबोधिनी)-गभीरादयः॥ ईरप्रत्ययान्ता निपा यन्ते॥गम्ल गता । मस्य भः पाक्षिको नुम् च निपातनात् । गभीरम्-गम्भीरम् । 'निं गभीरं गम्भीरम्'इत्य. मरः ॥ वश कान्तौ । निपातनात्करिप्रत्ययः।ग्रहामिति संप्रसारणम् । उशीरम्। मूलेऽस्योशीरमस्त्रियाम् । अभयं नलदं सेव्यम्' इत्यमरः ॥ घस्ल अदने। कीरप्रत्ययो निपातनात् । गमामित्युपधालोपे कत्वं षत्वम् । क्षीरम् । 'क्षीरं च दुग्धे नीरे च' इति विश्वः॥ (शीको धुकूलवलवलवालपालाः) शीधुः। शीलम् । शेवलः। शैवलः। शेवालम् । शेपालम् ॥ ___ (सुबोधिनी)-शीङोधुक्लक्वलवलञ्वालपालाः॥ शीङ स्वप्ने अस्माषट् प्रत्यया भवन्ति ॥ शेरतेऽनेनेति शीधुः । अर्द्धर्चादिः। 'मैरेयमासवः शीधुः' इत्यमरः ॥ लक् । शीलम् । शीलं स्वभावे सद्वत्ते' इति मे देनी ॥ वलः । शेवलम् । वलञ् । शैवलम् । 'जलनीली तु शेवालं शैवलः' इत्यमरः । शैवलं पद्मकाष्ठे स्याच्छैवाले तु पुमानयम्' इति मेदिनीवाल । शेवालम् ॥ पाल । शेपालम् । 'शैवालं शैवलो न स्वी शेपालो जलनीलिका' इति शब्दार्णवः॥ ( तत्त्वदी० )-शीधुरिति ॥ मद्यम् ॥ 'शेवालं शैवलो नत्री शेपालो जलनीलिका ॥ Page #319 -------------------------------------------------------------------------- ________________ [ पूर्वकृदन्ते उणादयः ] टीकाद्वयोपेता । ( २९९ ) (उलूकादयः ) उलूकः । शमु शम्बूकः । शल शालूकः । मङि भूषायाम् । मण्डूकः ॥ (सुबोधिनी) - उलूका दयः ॥ ऊकप्रत्ययान्ता निपात्यन्ते - वल संवरणे । संप्रसारणं निपातनात् । उलूकः । उलूकः पुंसि काकाराविन्द्रे भारतयोधिनि' इति मेदिनी ॥ शमु उपशमे । धातोर्बुगागमो निपातनात् । शम्बूकः । 'शम्बूको गजकुम्भान्ते घोषे स्याच्छूद्रतापसे' इति मेदिनी ॥ बाहुलकादुकप्रत्ययोऽपि । शम्बुकम् | 'जम्बूकं जम्बुकं प्रोक्तं शम्बूकमपि शम्बकम्' इति द्विरूपकोशः ॥ ' शम्बूका जलशुक्तयः', इत्यमरः ॥ शल गतौ । निपातनाद् वृद्धिः । शालकम् । 'सौगन्धिकं तु कहारम् ' इत्याद्युपक्रम्य 'शालूकमेषां कन्दः स्यात्' इत्यमरः ॥ एषां सौगन्धिकादीनां कुमुदकैरवान्तानां कन्दो मूलं शालूकमित्यर्थः ॥ मडि भूषायाम् ॥ मण्डते वर्षासमयमिति मण्डूकः भेकः ॥ (तत्त्वदी०) -- उलूकादर इति ॥ 'उलूका विन्द्रमेचकौ ।' शम्बूको जलशुक्तिः । शालूकं कन्दविशेषः ॥ ( नियो मिः ) नेमिः ॥ (सुबोधिनी) - नियो मिः ॥ मिप्रत्ययमाह - णीञ प्रापणे । नयति चक्रमिति नेमिः । 'नेमिर्ना तिनिशे कूपत्रिकाचक्रान्तयोः स्त्रियाम्' इति मेदिनी ॥ ( अर्तेरुर्च ) ऊर्मिः ॥ (सुबोधिनी) - अर्ते रुच || मिप्रत्ययः स्याद्धातोरुरादेशश्च ॥ ऋ गतौ । ऊर्मिः । ऊर्मिः स्त्रीपुंसयोवच्यां प्रकाशे वेगभङ्गयोः । वस्त्रसंकोचरेखायां वेदना पीडयोरपि ।।” इति मेदिनी ॥ "" भुवः किच्च ) भूमिः ॥ (सुबोधिनी) - भुवः किच्च ॥ मिक् स्यात् ॥ कित्त्वान्न गुणः । भू सत्तायाम् । भवन्ति भूतान्यस्यामिति भूमिः । 'भूमिर्वसुन्धरायां स्यात्स्थानमात्रेऽपि च स्त्रियाम् । इति मेदिनी ॥ ( ( अश्नोते रश् च ) रश्मिः ॥ (सुबोधिनी) - अश्नो ने रश् च ॥ अशूङ् व्याप्तावस्मान्मिः स्याद्धातो रशादेशश्व । रामः ॥ 'रश्मिः पुमान्दीधितौ स्यात्पक्षप्रग्रहयोरपि ।' इति मेदिनी ॥ (तत्त्वदी ० ) - रश्मिरिति ॥ रज्जुकिरणयो रश्मिः ॥ ( खादेर्निः कित्) सृणिः । वृष्णिः ॥ Page #320 -------------------------------------------------------------------------- ________________ ( ३०० ) सिद्धान्तचन्द्रिका | [ पूर्वकृदन्ते उणादयः ] (सुबोधिनी) - स्वादेनिः कित् ॥ सृ गतौ । सृणिः । ' अङ्कुशोऽस्त्री सृणिः स्त्रियाम्' इत्यमरः ॥ 'सृणिः स्यादङ्कुशः पुमान्' इति ॥ वृषु सेचने । वृष्णिः । ' वृष्णिस्तु यादवे मेषे वृष्णिः पाषण्डचण्डयोः' इति विश्वः ॥ ' वृष्णिः क्षत्रियमेषयोः ॥' ( तत्त्वदी ० ) - सृणिरिति ॥ अङ्कुशः । वृष्णिरिति ॥ क्ष त्रेयमेषयोः ॥ ( अङ्गेर्नलोपश्च ) अग्निः ॥ (सुबोधिनी ) - अङ्गेर्नलोपश्च ॥ अगि गतौ । निः । मनः । 'अग्निर्वैश्वानरो वह्निः' इत्यमरः ॥ ‘अग्निर्वैश्वानरेऽपि स्याच्चित्रकाव्यौषधौ पुमान्' इति मेदिनी ॥ (वहादेर्निः) वह्निः । श्रेणिः । श्रोणिः । योनिः । द्रोणिः । ग्लानिः ॥ (सुबोधिनी ) - वहादेर्निः ॥ निप्रत्ययमाह - वह प्रापणे वह्निः । 'वह्निर्वैश्वानरेऽपि स्याच्चित्रकाव्यौषधौ पुमान्' इति मेदिनी । श्रिञ् सेवायाम् । श्रेणिः । 'श्रेणिः स्त्रीपुंसयोः पङ्कौ समाने शिल्पिसंहतौ' इति मेदिनी ॥ निःश्रगस्त्वाधिरोहिणी ॥ ' श्रु श्रवणे । श्रोणिः । 'कटिः श्रोणिः ककुद्मती' इत्यमरः ॥ युश्रणे । योनिः । 'योनिः खीपुंसयोश्च स्यादाकारे स्मरमन्दिरे' इति मेदिनी ॥ द्रु गतौ । द्रोणिः सेचनी ॥ ग्लै हर्षक्षये । ग्लानिः दौर्बल्यम् ॥ (घृण्यादयः ) घृणिः । स्पृश् पृष्णिः । पृषु पाणिः ॥ (सुबोधिनी) - घृण्यादयः । । निकुप्रत्ययान्ता निपात्यन्ते ॥ सेचने । घृणिः । 'घृणिः पुनः।अंशुज्वालातरङ्गेषु' इति हेमचन्द्रः॥ स्पृश संस्पर्शने । स्पृतेः सलोपो निपातनात् । छशषेति षत्वं टुत्वम् । पृष्णिः । 'पृष्णिरल्पतनौ' इत्यमरः ॥ दृषु सेचने । पृषेर्वृद्धिनिपात्यते । पाणिः । 'पाणिः स्यादुन्मदस्त्रियाम् । स्त्रियां द्वयोः सैन्यपृष्ठे पादग्रन्थ्यधरेऽपि च' इति मेदिनी ॥ ( तत्त्वदी ० ) - घृणेरिति ॥ किरणः॥ पृष्णिरिति ॥ स्पृशेः ग् लोपे ॥ पृषेस्तु वृद्धौ पाष्णिः । (पातेर्डतिः ) पतिः । (सुबोधिनी) - पातेडतिः ॥ इतिप्रत्ययमाह - डित्त्वाट्टिलोपः । पा रक्षणे । पतिः । 'पतिर्धवे ना त्रिष्वीशे' इति मेदिनी ॥ (शकेऋत्) शकृत् ॥ ( सुबोधिनी ) - शकेऋत् ।। ऋत्प्रत्ययमाह - शक्ल शक्ती । शकृत् । 'उच्चारावस्करौ शमलं शकृत् । गूथं पुरीषं वर्चस्कमस्त्री विष्ठाविशौ स्त्रियौ' इत्यमरः ॥ ( हन्तेरतिरंह च ) हन्ति दुरितमनया अंहतिः ॥ (सुबोधिनी ) - हन्तेरतिरंह च ॥ हन हिंसागत्योः । अस्मादतिः स्याद्धातोरंहादेशश्च ॥ अंहतिः । 'प्रादेशनं निर्वपणमपवर्जनमंहतिः' इत्यमरः ॥ Page #321 -------------------------------------------------------------------------- ________________ (३०१ ) [ पूर्वकृदन्ते उणादयः ] टीकाद्वयोपेता । ( सूङादेः क्रिः ) सूरिः । भूरिः । अद्रिः ॥ (सुबोधिनी) - मूङादेः क्रिः ॥ क्रिप्रत्ययमाह - कित्त्वान्न गुणः ॥ षूङ् प्राणिप्रसवे । सूरिः ‘धीमान् सूरिः कृती कृष्टिर्लब्धवर्णो विचक्षणः' इत्यमरः ॥ अभिवानमालायां सूरीति नान्तमुदाहृतम् ॥ भू सत्तायाम् । भूरिः । " भूरिर्ना वासुदेवे च हरे च परमेष्ठिनि । नपुंसकं सुवर्णे च प्राज्ये स्याद्वाच्यलिङ्गकः” इति मेदिनी ॥ अद भक्षणे ॥ अद्रेः । 'अद्रयो द्रुमशैलार्काः' इत्यमरः ॥ ( रात्रिः ) रात्रिः । शत्रिः । अत्रिः ।। (सुबोधिनी) - रादेखिः ॥ त्रिप्रत्ययमाह--रा दाने। रात्रिः । शल शातने । शत्रिः । 'शत्रिर्नाम्भोधरे विष्णौ' इति मेदिनी ॥ अद भक्षणे अत्रिर्मुनिभेदः ॥ ( पतेरत्रिः ) पतत्रिः ॥ (सुबोधिनी) - पतेः ॥ अत्रिप्रत्ययमाह-- पत्लृ गतौ । पतत्रिः पक्षी । पतत्रशब्दात्पक्षवाचकान्मत्वर्थे इनि तु नान्तः । पतत्री, पतत्रिणौ । (तत्त्वदी० ) -- पतेरत्रिरेिति । पक्षिणि ॥ (मृङ ईचिः ) मरीचिः ॥ ( सुबोधिनी) - मृङ ईचिः ॥ ईचिप्रत्ययमाह - मृङ् प्राणत्यागे । मराीचैः । 'मरीचिः कृपणे दीप्तौ ऋ भेदे च दृश्यते' इति विश्वः ॥ ' मरीचिर्मुनिभेदे ना गंभस्तावनपुंसकम्' इति मेदिना ॥ ( वेञो डिच ) वाचिः ॥ (सुबोधिनी ) - वे डिच्च ॥ वेञ् तन्तुसंताने अस्मादीचिर्डित्स्यात् ॥ वीचिः । 'वीचिः स्वल्पे तरङ्गे स्यादवकाशे सुखे द्वयोः" इति विश्वः ॥ ( पुरः कुषः ) पुर अग्रगमने । पुरुषः ॥ (सुबोधिनी) - पुरः कुषः ॥ कुषप्रत्ययमाह - कित्त्वान्न गुणः । पुर अग्रगमने । पुरुषः । बाहुलकाद्दीर्घे पूरुषः । ' पुरुषस्त्वात्मनि नरे पुन्नागे च' इति हैमः ॥ 'पुरुषाः पूरुषा नरः' इत्यमरः ॥ 1 1 ( नहिक लिभ्य उषः ) परुषम् । नहुषः । कलुषम् ॥ (सुबोधिनी) - पुनहि कलिभ्य उषः ॥ उषप्रत्ययमाह - पृ पालनपूरणयोः । परुषम् । 'परुषं कर्बुरे रूक्षे निष्ठुरोक्तौ च वाच्यवत्' इति मेदिनी ॥ णह बन्धने । नहुषः । 'नहुषो राजविशेषे नागभिद्यपि ' इति हैमः ॥ कल शब्दसंख्यानयोः । कलुषम् । 'कलुषं त्वाविलैनसोः' इति विश्वः ॥ ( पीयेरूषः ) पीय पाने सौत्रः । पीयूषम् । पेयूषः ॥ Page #322 -------------------------------------------------------------------------- ________________ (३०२) सिद्धान्तचन्द्रिका। [पूर्वकृदन्ते उणादयः ] (सुबोधिनी)-पीयेरूषः॥ ऊषप्रत्ययमाह-पाय पाने ॥ सौत्रो धातुः । पीयूषम् । बाहुलकाद् गुणे तु पेयूषः। 'पेयूषोऽभिनवं पयः' इत्यमरः ॥ पीयूषममृतं सुधा' इत्यमरः ॥ 'पीयूषं सप्तदिवसावधिक्षीरे तथाऽमृते' इति मेदिनी ॥ 'पीयूषममृते नव्यसूतधेनोः पयस्यपि' इति हैमः॥ (मस्जेर्नुम्च ) मञ्जूषा ॥ (सुबोधिनी)-मस्जेर्नुम् च ॥ टुमस्जो शुद्धौ अस्मादू स्याद्धातोर्नुमागमश्च॥ मित्त्वादन्त्यात्स्वरात्परः। सस्य श्चुत्वेन शः। झबे जबा इति शस्य जः। हसात्परस्य झसस्यति वा जलोपः। मञ्जूषा । लोपाभावपक्षे जकारद्वयम् । मञ्जूषा। 'पिटकः पेटकः पेटा मञ्जूषा' इत्यमरः॥ (गण्डेश्च) गडि वदनैकदेशे । गण्डूषः॥ (सुबोधिनी)-गण्डेश्च ॥ गडि वदनैकदेशे अस्मादूषः स्य त् ॥ गण्डषः। 'गण्डपो मुखपूर्तीभपुष्करप्रसृतोन्मिते' इति मेदिनी ॥ (शकादेरटः )शकटम् । ककि गतौ । कङ्कटः । कृञ् करटः॥ (सुबोधिनी)-शकादेरटः ॥ अटप्रत्ययमाह-शकि गतौ शक्ल शक्तौ शकटः। 'क्लीवेज्नःशकटोऽस्त्री स्यात्' इत्यमरः । ककि गतौ । कङ्कटः सन्नाहः॥ डुकृञ् करणे कृ विक्षेपे वा । करटः। 'काकेभगण्डौ करटौ' इत्यमरः॥ "करटो गजगण्डे स्यात्कुसुम्भे निन्द्यजीविनि । एकादशाहादिश्राद्धे दुर्दुरूढेऽपि वाय” इति मेदिनी ।। (तत्त्वदी०)-कङ्कट इति ॥ सन्नाहे ॥ .. (कलिकोरमः) कलमः । कर्द कुत्सिते शब्दे । कर्दमः॥ (सुबोधिनी) कलिकोरमः॥ अमप्रत्ययमाह-कठ संख्याने । कलमः । 'कलमः शालिचौरयोः' इति हैमः॥ 'कलमः पुंसि लेखिन्यां शालौ पाटच्चरेऽपि च' इति मेदिनी ॥ कर्द कुत्सिते शब्दे । कर्दमः पङ्कः ॥ (पुल्यादेः किन्दः) पुलिन्दः ॥ (सुबोधिनी )-पुल्यादेः किन्दः॥ किन्दप्रत्ययमाह-कित्त्वान्न गुणः । पुल महत्त्वे । पुलिन्दो जातिविशेषः ॥ . . ( तत्त्वदी० )-पुलिन्द इति ॥ जातिविशेषे ॥ (कुपेर्वा वः) कुपिन्दः कुविन्दः॥ - (सुबोधिनी)-कुपेर्वा वः ॥ किन्दः स्यात्पस्य वा दकारश्च ॥ कुप क्रोधे । कुपिन्दः-कुविन्दः-'तन्तुवायः कुविन्दः स्यात्' इत्यमरः ॥ ( तत्त्वदी० )-कुपिन्दकुविन्दौ तन्तुवाये ॥ Page #323 -------------------------------------------------------------------------- ________________ टीकाद्वयोपेता । [ पूर्वकृदन्ते उणादयः ] ( नौ पथिः ) निषङ्गथिः ॥ (सुबोधिनी) - नौ षञ्जेर्घथिः ॥ षञ्ज सङ्गे निपूर्वादस्माद् घथिप्रत्ययः स्यात् ॥ 'घथिप्रत्ययमाह--धित्त्वाच्च जोरिति कुत्वम् । प्रादेश्चेति षत्वम् । निषङ्गयिः आलिङ्गकः ॥ (तत्त्वदी ० ) - निषङ्गथिरिति आलिङ्गके || ( सर्तेर्णिच्च ) सारथिः ॥ (३०३ ) (सुबोधिनी ) - सर्तेर्णिच्च ॥ सृ गतौ अस्माद् घथिः स्यात्स च णित् ॥ सारथिः । 'नियन्ता प्राजिता यन्ता सतः क्षत्ता च सारथिः' इत्यमरः ॥ ( खर्जादेरूरः ) खर्जूरः । कर्पूरम् । वल्लूरम् (सुबोधिनी ) - खर्जादेरूरः ॥ ऊरप्रत्ययमाह - खर्ज आर्जवे । खर्जूरः । 'खर्जूर रूपफलयोः खर्जूरः कीटवृक्षयोः' इति मेदिनी ॥ कृपू सामर्थ्ये । बहुलकात् कृपो रो ल इति लत्वाभावः । कपूरम् । 'अथ कर्पूरमस्त्रियाम् । घनसारश्चन्द्रसंज्ञः सिताभ्रो हिमवालुका' इत्यमरः ॥ वल्ल संवरणे । वल्लूरम् । 'वल्लूरं शुष्कमांसं स्यात् ॥' ( तत्त्वदी ० ) - वल्लूरमिति ॥ शुष्कमांसम् ॥ (लङ्गेर्वृद्धिश्व ) लाङ्गलम् । (कुसेश्च) कुसूलम् ॥ (सुबोधिनी)-लङ्गेर्वृद्धिश्च ॥ लगि गतावस्मादूलप्रत्ययः स्याद्धातोर्वृद्धिश्च ॥लागूलम् । 'लांगूलं पुच्छशेफसोः' इति मेदिनी ॥ कुस संश्लेषणे । ऊलः । निपातनाद् गुणाभावः । कुसूलम् । 'कुसूलं च कुसीदं च मध्यदन्त्यमुदाहृतम्' इति विश्वः ॥ ( कुवश्चट् दीर्घश्च) कूचा ॥ (सुबोधिनी ) - कुवश्चट् दीर्घश्च ॥ कु शब्दे । अस्माच्चट प्रत्ययः स्याद्धातोः पाक्षिको दीर्घश्च ॥ चप्रत्ययमाह - टित्त्वादीप् । कूची चित्रलेखनिका । 'कुचकूचौ स्तनौ मतौ' इति विश्वः ॥ ( तत्त्वदी ० ) - कूचीति ॥ चित्रलेखनिका ॥ (सिवरू च ) सूची ॥ (सुबोधिनी) - सिवेरू च ॥ षिवु तन्तुसताने अस्माच्चट् स्याद्धातोष्टरूश्च ॥ सूचो दर्भाङ्कुरः । ' सूची तु सीवनद्रव्येऽप्याङ्गिकाभिनयान्तरे' इति मेदिनी ॥ ( तत्त्वदी ० ) - सूचीति ॥ सूचो दर्भाङ्कुरः ॥ ( शमे: ) शमु शम्बः ॥ ( सुबोधिनी ) - शमेर्बः ॥ शमु उपशमे अस्माद्वः स्यात् ॥ बप्रत्ययमाह - शम्बः । 'शम्बः स्यान्मुसलाग्रस्थ लोहमण्डल के पवौ । शुभान्विते त्रिषु' इति विश्वमेदिन्यौ ॥ ( तत्त्वदी ० ) - शम्ब इति मुसले || Page #324 -------------------------------------------------------------------------- ________________ (३०४) सिद्धान्तचन्द्रिका। [पूर्वकृदन्ते उणादयः ] (उल्बादयः ) उच समवाये। उल्बः। शुल्बम् । स्था स्तम्बः। स्तबकः॥ (सुबोधिनी) उल्बादयः॥ वप्रत्ययान्ता निपात्यन्ते ॥ उच समवाय चस्य लत्वं गुणाभावश्च। उल्बम्। 'गर्भाशये जरायुः स्यादुल्वंच कललऽस्त्रियाम्' इति मेदिनी ॥ शुच शोके । चस्य लत्वं गुणाभावश्च निपातनात्। शुल्बम्। 'शुल्वं ताम्र यज्ञकर्मण्याचारे जलसन्निधौ' इति मेदिनी ॥ ष्ठा गतिनिवृत्तौ अस्मादम्बअबक एतौ प्रत्ययौ निपातनाद्धातोस्थस्य तश्च । स्तम्बः । स्तबकः। 'स्तम्बो गुल्मे तृणादीनामप्रकाण्डद्रुमेऽपिच' इति विश्वः॥ स्तम्बोऽप्रकाण्डद्रुमगुच्छयोः' इति मेदिनी॥'स्याद् गुच्छकस्तु स्तबकः' इत्यमरः ॥ (तत्त्वदी०)-उल्बमिति गर्भाशयः । शुल्वं ताम्रम् । स्तम्बो गुच्छस्तृणादीनाम् । स्तबकः पुष्पगुच्छः॥ (शाशपिभ्यां दः) शादः। शब्दः॥ ___ (सुबोधिनी)-शाशपिभ्यां दः॥ दप्रत्ययमाह-शो त करणे। शादः । 'शादो जम्बालशष्पयोः' इत्यमरः॥ 'शादः स्यात्कर्दमे शष्पे' इति मेदिनी ॥ 'शष्पं बालतृणं घासः' इत्यमरः ॥ शप आक्रोशे । शब्दो निनादः॥ ( तत्त्वदी०)--शाद इति जम्बालशष्पयोः ॥ (अब्दादयः) अवतीत्यब्दः । कुन्दः॥ (सुबोधिनी)-अब्दादयः॥ दप्रत्ययान्ता निपात्यन्ते-अव रक्षणे। वस्य बः। अब्दः। 'अब्दः संवत्सरे वारिवाहमुस्तकयोः पुमान्' इति मेदिनी ॥ कु शब्दे । निपातनान्नुम् । कुन्दः। 'कुन्दो माध्येऽस्त्री मुकुन्दभ्रमिनिध्यन्तरेषु ना' इति मेदिनी ॥ (वलिमलितनिभ्यः कयः) वलयम् । मल यः । तनयः॥ (सुबोधिनी)-वलिमलितनिभ्यःकयः॥ कयप्रत्ययमाह-कित्त्वाद् गुणनिषेधादि । वल संवरणविलयम् । 'वलयःकण्ठरोगे ना कङ्कणे पुन्नपुंसकम्'इति मेदिनी ॥ मल धारणे । मलयः। मलयः पर्वतान्तरे । शैलांशे देश आरामे त्रिवृतायां तु योषिति' इति मेदिनी ॥ तनु विस्तारे । तनयः । आत्मजस्तनयः सूनुः' इत्यमरः॥ (हरो दुक च) हरतीति हृदयम् ॥ (सुबोधिनी)-हजो दुकू च ॥ हृञ् हरणे अस्मात्करः स्याद्धातोर्दुगागमश्च । हियते विषयैरिति हृदयं मनः ॥ .. (मिनोते रुः) मेरुः। . ( सुबोधिनी)-मिनोतेरुः॥प्रत्ययमाह-डुमिञ्प्रक्षेपणे। "मेरुः सुमेरुहेमाद्रि इत्यमरः॥ Page #325 -------------------------------------------------------------------------- ________________ पूर्वकृदन्ते उणादयः ] टीकाद्वयोपेता। . (३०५) (जवादयः) जत्रु । अश्रु । रुरुः। शातयतीति शत्रुः ॥ (सुबोधिनी )-जवादयः॥ रुप्रत्ययान्ता निपात्यन्ते-जनी प्रादुर्भाव। नस्य तो निपातनात् । जत्रु । 'संधी तस्यैव जत्रुणी' इत्यमरः ॥ तस्य स्कन्धस्येत्यर्थः ॥ अशूङ व्याप्तौ । अश्रु नयनजलम्॥ रु शब्दे । निपातनाद् गुणाभावः । रुरुः। 'कृष्णसाररुरुन्यङ्कुरङ्कुशम्बररोहिषाः' इत्यमरः ॥'रुरुदैत्ये मृगेऽपि च' इति मेदिनी॥ शद्ल शातने ज्यन्तः । शातयतीति। जेरिति जिलोपः। निपातनादस्वत्वम् । शत्रुः॥ (तत्त्वदी०)-रुरुरिति मृगभेदे ॥ (कुसेरुम्भोमेदेताः) कुसुम्भम् । कुसुमम् । कुसीदम् । कुसितः॥ (सुबोधिनी)-कुसेरुम्भोमेदेताः ॥ कुस संश्लेषणे अस्मात् उम्भ उम ईद इत एते प्रत्ययाः स्युः॥ उम्भादिप्रत्ययानाह-कुसुम्भम्। 'कुसुम्भं हेमनि महारजने ना कमण्डलौ' इति मेदिनी ॥ कुसुमम् । 'कुसुमं स्त्रीरजोनेत्ररोगयोः फलपुष्पयोः' इति मेदिनी॥कुसीदम्। 'कुसीई जीवने वृष्टयां क्लीबं त्रिषु कुसीदके' इति मेदिनी॥ कुसिता जनपदः ॥ (तत्त्वदी० )-कुसित इति जनपदे ॥ (तण्डुलादयः) तड आघाते। तण्डुलः। अकि लक्षणे। अकुशः। चष चषालः। पल्वलम् । निधृषा धिष्ण्यम् । शल्यम् । (सुबोधिनी)-तण्डुलादयो निपात्याः॥ तड आघाते । उलप्रत्ययो नुमागमश्च निपात्यत । तण्डुलः। 'तण्डुलः स्याद्विहङ्गे च धान्यादिनिकरे पुमान्' इति मंदिनी ॥ अकि लक्षणे । उशप्रत्ययो निपातनात् । अकुशः। 'अकुशोऽस्त्री सृणिः स्त्रियाम्' इत्यमरः॥ चष भक्षण । आलप्रत्ययो निपातनात् । चषालः । 'चषालो यूपकण्टकः' इत्यमरः ॥ पा पाने । वलप्रत्ययो निपात्यते लुगागमश्च धातोर्हस्वत्वं च । पल्वलमल्पसरः। जिधृषा प्रागल्भ्ये । ण्यप्रत्ययः । ऋत इत्वं च निपात्यते । धिष्ण्यम् । 'धिष्ण्यं स्थाने गृहे भेऽग्नौ' इत्यमरः ॥ 'धिष्ण्यं स्थानानिसद्मसु । ऋक्षे शक्तौ च' इति मेदिनी ॥ शल गतौ । यप्रत्ययः। शल्यम् । 'शल्यं तु न स्त्रियां शकौ क्लीवं वडेषुतोमर । मदनद्रुश्वाविधी ना' इति मेदिनी॥ ( तत्त्वदी० )-शल्यम् ।। 'शल्यं वा पुंसि शकुर्ना ॥' (मूशक्यम्यबिभ्यः क्लः) मूलम् । शक्तः । अम्लः । अबिशब्दे । अम्ब्लः ॥ . (सुबोधिनी)-मूशक्यम्यबिभ्यः क्लः ॥ क्लप्रत्ययमाह-कित्त्वान गुणः । मृङ् बन्धने । मूलम् । 'मूलं बुध्नो विनामकः' इत्यमरः ॥ शक्ल शक्तौ । शक्ल: । Page #326 -------------------------------------------------------------------------- ________________ (३०६) ___ सिद्धान्तचन्द्रिका। [पूवकृदन्ते उणादयः ] 'शक्ल प्रियंवदे' इत्यमरः॥ अमरोगे। चुरादिश्यन्तः । बाहुलकादुपधाह्रस्वः । रिति जिलोपः। अम्लः । 'अम्लो रसविशेष स्यादम्ली चाङ्गेरिकौषधौ' इति मेदिनी ॥ अवि शब्द । अम्ब्लो रसः ॥ . ( तत्त्वदी०) शक्ल इति ॥ 'शक्ल: प्रियंवदे ॥' (मादेयः) माया। छाया सस्यम् । षुञ् सव्यम् । (सुबोधिनी)-मादेर्यः॥ यप्रत्ययमाह-मा माने। माया । 'माया स्याच्छाम्बरी'बुद्धयोर्मायः पीताम्बरेऽसुरे' इति मेदिनी ॥ छो छेदने छाया। "छाया स्यादातपाभाव प्रतिबिम्बार्कयोषितोः। पालनोत्कोचयोः कान्तिसच्छोभापङ्केिषु स्त्रियाम्" इति विश्वः॥ षस स्वप्ने । सस्यम् । 'वृक्षादीनां फलं सस्यम्' इत्यमरः ।। षुज्ञ अभिषके । सव्यम् । "सव्यं वामे प्रतीपे च' इति मेदिनी ॥ 'सव्यं दक्षिणवामयाः' इति विश्वः॥ : (तत्त्वदी० )-सव्यमिति ॥ 'दक्षिणवामयोः ॥' । -- (जनेयक ) जाया-जन्यम् ॥ (सुबोधिनी)-जनेर्यक् ॥ जन जनने अस्माद्यक् प्रत्ययः स्यात् ॥ जनसनति वाऽऽत्वम् । जाया। जन्यम् । “जन्यं हट्टपरीवादे संग्रामे च नपुंसकम् । जन्या मातृवयस्यायां जन्यः स्याजनके पुमान् । त्रिपुत्पोद्यजनित्रोध नवोढाज्ञातिभृत्ययोः । स्निग्धे” इति मेदिनी ॥ (तत्त्वदी०)-जन्यमिति युद्धे ॥ (अध्यादयः) हन् अघ्न्या। कनी दीप्तौ। न्या। वन्ध्या। संध्या। (सुबोधिनी)-अघ्न्यादयः॥ यक्प्रत्ययान्ता निपात्यन्ते-हन हिंसागत्योः । धातोरडागम उपधालोपश्च निपातनात् । 'हनो ने' इति यः । अघ्न्या। नझपूर्वाद्धन्तेर्यक् उपधालोपश्चेत्यन्ये । अघ्न्यः प्रजापतिः “माहेयी औरभेयी गौरुस्रा माता च शृङ्गिणी । अर्जुन्यन्या रोहिणी स्यात्" इत्यमरः ॥ कनी दीप्तौ । कन्या । 'कन्या कुमारिकागौयोरौषधीराशिभेदयोः'इति विश्वः॥बन्ध बन्धने । निपातनान्नलोपाभावः। बवयोरैक्यात् । वन्ध्या 'वन्ध्यस्त्वफलवृक्षादौ स्त्रियां स्यादपजः स्त्रियाम्' इति मेदिनी॥ संपूर्वाद्धाजो यक् । आतो लोपश्च निपातनात्।संध्या। 'सायंसंध्या पितृप्रसः' इत्यमरः।। (अादेवन् ) अर्वा । पृ पर्वा ॥ (सुबोधिनी)-अादेवन् ॥ वन्प्रत्ययमाह--अर्वा : 'अर्वा तुरङ्गगयोः' इति विश्वः ॥ 'अर्वा तुरङ्गमे पुसि कुत्सिते वाच्यलिङ्गकः' इति मेदिनी ॥ पृ पालनादौ । पर्वा । "पर्व क्लीवं सहे ग्रन्थौ प्रस्तावे लक्षणान्तरे। दर्शपतिपदोः संधौ विषुवत्प्रभृतिध्वपि” इति मेदिनी ॥ Page #327 -------------------------------------------------------------------------- ________________ [ पूर्वकृदन्ते उणादयः ] टीकाद्वयोपेता। (३०७) (ध्याप्योः संप्रसारणम)ध्यै चिन्तायाम्।प्यैङ् वृद्धौधीवा।पीवा॥ __(मुबोधिनी)--ध्याप्योः संप्रसारणम्॥ध्यै चिन्तायाम् प्यै वृद्धौ आभ्यां वन् प्रत्ययः स्याद्धातोः संप्रसारणं च । धीवा कर्मकरः । पीवा स्थूलः । ( तत्त्वदी०)-धीवेति ॥ कर्मकरे । पीवा स्थूलः ॥ ( अदेर्धश्च ) अध्वा ॥ . ( मुबोधिनी) अदेर्धश्च॥अद भक्षणे अस्माईन् स्यादस्य धश्च॥अध्वा मार्गः ॥ (धातोरिः) यजिः । वट वेष्टने । वटिः। जनिः । बोधिः । हरिः। वर्तिः ॥ (सुबोधिनी)-धातोरिः॥ इप्रत्ययमाह-यज देवपूजादौ । यजिवट वेष्टन। वटिः ॥ बुध अवगमने । बोधिः । 'बोधिः पुंसि समाधेश्च भेदे पिप्पलपादपे' इति मेदिनी ॥ हज हरिः "हरिविष्णावहाविन्द्रे भेके सिंहे हये रवौ । चन्द्रे कीले प्लवङ्गे च यम वात प्रकीर्तितः ॥" वृतु वर्तनं । वर्तिर्दीपोपकरणम् ।। (तत्त्वदी० )-हरिरिति ॥ "हरिर्विष्णावहाविन्द्रे भेके सिंहे हये रवौ । चन्द्र कीले प्लवङ्ग च यमे वाते प्रकीर्तितः ॥" (नाम्युपधाकिः) कृषिः । ऋषिः । शुचिः। लिपिः। तूल निष्कर्षे नूलिः ॥ (सुबोधिनी)-नाम्युपधात्किः॥ नाम्युपधाद्धातोः किः स्यात्॥किप्रत्ययमाहकित्त्वान्न गुणः । कृष विलेखने । कृषिः । ऋषी गतौ । ऋषिः । "ऋषिर्वेदे वसिछादौ दीधितौ च पुमानयम्" इति मेदिनी॥ शुच शोके । शुचिः। शुचिः शुद्ध सितेऽनले । ग्रीष्माषाढानुपहतेषूपधायु (शु) धमन्त्रिणि । शृङ्गारे' इति हैमः ॥ लिप उपदेहे । लिपिः। बाहुलकाद्वत्वमपि । लिविः॥ तूल निष्कर्षे । तूलिः कूचिका ॥ - (क्रमितमिशतिस्तम्भामत इच्च) क्रिमिः । तिमिः। शितिः । स्तिम्भिः॥ (सुबोधिनी )-क्रमितमिशतिस्तम्भामत इच्च.॥ एभ्यः किः स्यादेषामत इकारादेशश्च॥क्रमु पादविक्षेपे । क्रिमिः । निपातनाद्रस्य संप्रसारणमपि भवति।कृमिः।। 'कृमि क्रिमिवत्कीटे' इति मेदिनी ॥ तमु काङ्खायाम् । तिमिः । तिमिर्मत्स्यभेदः ॥ शतिः सौत्री धातुः । शितिः। 'शितिः कृष्णे सिते भूजे' इति विश्वः ॥ 'शितिर्जे ना सितासितयोस्त्रिषु' इति मेदिनी ॥ स्तम्भः सौत्रः । स्तिम्भिः समुद्रः ॥ (मनेरत उच्च) मुनिः ॥ (सुबोधिनी)-मनेरत उच्च॥ मन ज्ञाने अस्मात्किः स्यादकारस्योकारादेशश्च॥. मन्यते जानातीति मुनिः । 'मुनिः पुमान्वसिष्ठादौ वङ्गसेनतरौ जिने' इति मेदिनी । Page #328 -------------------------------------------------------------------------- ________________ [ पूर्वकृदन्ते उणादयः ] ( ३०८ ) सिद्धान्तचन्द्रिका। (वर्णेर्बलिश्च ) वर्ण वर्णने सौत्रः । बलिः ॥ ( सुबोधिनी) - वर्णैर्बलिश्च ॥ वर्णिः सौत्रोऽस्मात्किः स्याद्धातोर्बलिरादेशश्च ॥ बलिः । 'करोपहारयोः पुंसि बलिः प्राण्यङ्गजे स्त्रियाम् ।' ववयोरैक्याद्वलिः ॥ ( तवदी ० ) - बलिरिति ॥ पूजोपहारयोः ॥ (वपादेरिञ् ) वापिः । राजिः । वारिः । ॥ (सुबोधिनी) -- वपादेरिञ् । इञ्प्रत्ययमाह - ञित्त्वाद् वृद्धिः । डुव वापिः ॥ राजू दीप्तौ । राजिः । 'राजिः स्त्री पङ्क्तिरेखयोः' इति मेदिनी ञ्यन्तः । त्रेरिति ञिलोपः । वारिः । 'वारिः स्मृता सरस्वत्यां वारि इति विश्वः ॥ कृदिकारादितीप्तु पाक्षिकः सर्वत्र भवति । 'वारी तु इत्यमरः ॥ 'वारिः पथिकसंहतौ' इति च ॥ ( तत्त्वदी ० ) - वपा० ॥ वारिर्गजबन्धनी । जले क्लीबम् ॥ (नहो भः ) नाभिः । जनिः । आजिः । अतिः ॥ ( सुबोधिनी ) - नहो भः ॥ णह बन्धने अस्मादिञ् स्यात् हस्य भश्च ॥ नाभिः । “नाभिर्मुख्यनृपे चक्रमध्यक्षत्रिययोः पुमान् । द्वयोः प्राणिप्रती के स्यात्स्त्रियां कस्तूरिकामदे” इति मेदिनी ॥ जनी प्रादुर्भावे । इञ् । जनिवध्योरिति न वृद्धिः । जनिः । कृदिकारादिति पक्षे ईपू । जनी । 'जनी सीमन्तिनीवध्वं रुत्पत्तावौषधीभिदि' इति मेदिनी ॥ अज गतौ क्षेपणे च । बाहुलकादजेर्वीभावो न आजिः संग्रामः ॥ अत सातत्यगमने । आतिः पक्षी ॥ बीज संताने । वृञ् वरणे । हीबेरनीरयोः " गजबन्धनी' ( तत्त्वदी ० ) - नहो भः ॥ "नाभिः स्यात्क्षत्रिये पुंसि प्राण्यङ्गे तु स्त्रियाम् ॥” ( अशे रुट् ) राशिः ॥ ( सुबोधिनी) - अशे रुद्र ॥ अशू व्याप्तावस्मादिञ् प्रत्ययो धातो रुडागमश्च स्यात् ॥ राशिः ॥ 'राशिमेषादिपुञ्जयोः' इति मेदिनी ॥ ( वातेर्डित् ) विः ॥ ( सुबोधिनी) - वातेर्डित् ॥ वा गतिगन्धनयोर स्माड्डिः स्यात् । ङित्त्वाट्टिलोपः । दिः पक्षी । स्त्रियां वीत्यपि ॥ (नीव्यादयः ) निपूर्वी व्येञ् । नीविः । प्रहिः । समानं ख्यायते जनैरिति सखा ॥ (सुबोधिनी ) - नीव्यादयः । डिप्रत्ययान्ता निपात्यन्त - निपूर्वो व्येञ संवरणे । विलोपः । नेदींघों निपात्यते । यत इति यलोपः । नीविः । कृदिकारादि • तीपि नीवी । 'स्त्रीकटीवस्त्रबन्धेऽपि नीवी परिपणेऽपि च इत्यमरः ॥ परिपणो Page #329 -------------------------------------------------------------------------- ________________ [ पूर्वकृदन्ते उणादयः ] टीकाद्वयोपेता। (३०९) मूलधनम् ॥ हृञ् हरणे। हिलोपे प्रहिः। 'पुंस्येवान्धुः पहिः कृपः' इत्यमरः ॥ ख्या प्रकथने । टिलोपे सति अलोपः। सहादेरिति समानस्य सादेशः । सेर्डाऽधरिति डा। सखा ॥ (तत्त्वदी० )-नी०॥ प्रहिः कूपः ॥ (आपूर्ती श्रिहनी) अश्रिः। अहिः ॥ (सुबोधिनी)-आङ्वौं श्रिहनी ॥ श्रिञ् सेवायाम् । टिलोपे सत्याङी हस्वो निपातनात् । अधिः। 'स्त्रियः पाल्यश्रिकोटयः' इत्यमरः ॥ दन्त्यसकारवांस्त्वदन्तः। 'अस्रः कोणे कचे सि क्लीबमश्रुणि शोणिते' इति मेदिनी ॥ आङपूर्वो हन हिंसागत्योः । टिलोपे सत्याङो ह्रस्वो निपातनात् । अहिः । 'अहिर्वृत्रासुरे स' इति मेदिनी ॥ ( तत्त्वदी०)-आङ् ॥ 'स्त्रियः पाल्यश्रिकोटयः ॥' . (कादेः किः) कृ किरिः। गृ गिरिः । पृ पुरिः॥ (सुबोधिनी)-क्रादेः किः ॥ किप्रत्ययमाह--कित्त्वान्न गुणः । कृविक्षेपे । ऋत इरितीर् । किरिः। ' वराहः सूकरो घृष्टिः कोलः पोत्री किरिः किटिः' इत्यमरः। पृकृज्ञाभ्यश्चेति कप्रत्ययेऽदन्तोऽप्यस्ति । 'खचि त्वचः किरोऽपि स्यात्किरौ प्रोक्तः पथः पथि' इति द्विरूपकोश ।। गृ निगरणे । गिरिः । 'गिरिना नेत्ररुग्भिादि । अद्रौ गिरिजके योषिद्गीर्णौ पूज्ये पुनस्त्रिषु' इति मेदिनी ॥ पृ पालनादौ । पोरुरित्युर् । पुरिनगरं राजा नी च ॥ (मन्धातोः ) कर्म । चर्म । भस भर्त्सनदात्योः । भस्म । जन्म । छद्म । सुत्रामा ॥ (सुबोधिनी)-मन्धाताः॥ मन्प्रत्ययमाह-डुकृञ् करणे । क्रियते इति कर्म । 'कर्म व्याप्ये क्रियायां च पुनपुंसकयोर्मतम्' इति रुद्रः ॥ चर गत्यादौ । चर्म । 'चर्म कृत्तौ च फलके' इति मेदिनी ॥ भस भर्त्सनदीयोः । भस्म ॥ जन जनने । जन्म ॥ छद अपवारणे चुरादिः । इस्मन्निति ह्रस्वः । जोरीत जिलोपः । छद्म ॥ त्रैङ् पालने । सुष्टु त्रायते इति सुत्रामा इन्द्रः॥ (बृहेर्नस्य अः) ब्रह्म ॥ (सुबोधिनी)-बुंहेर्नस्य अः॥ वृहि वृद्धावस्मान्मन्स्यात् ।। नुमो नस्य अकारे कृते रत्वम् । ब्रह्म । 'ब्रह्म तन्वतपोवेदे न द्वयोः पुंसि वेधारी । ऋत्विग्योगभिदोविप्रे' इति मेदिनी ॥ 'वेदस्तत्त्वं तपो ब्रह्म ब्रह्मा विप्रः प्रजापतिः' इत्यमरः। (तत्त्वदी०)-बुंहेः ॥ वेदस्तत्त्वं तपो ब्रह्म ब्रह्मा विप्रः प्रजापतिः ।। Page #330 -------------------------------------------------------------------------- ________________ (३१०) सिद्धान्तचन्द्रिका। पूर्वकृदन्ते उणादयः ] (नामादयः) म्रा नाम । षो साम । षिञ् सीमा । व्ये व्योम । रु रोम । पै शोषणे पाप्मा । वेमा । अतेर्मनिण् आत्मा ॥ ( सुबोधिनी ) नामादयः ॥ मन्प्रत्ययान्ता निपात्यन्ते ॥ ना अभ्यास । नायतेऽननेति । मलोपो निपातनात।नाम। 'आख्याह्ने अभिधानं च नामधेयं च नाम .' इत्यमरः ॥ षोऽन्तकर्मणि । साम । 'साम क्लीबमुपायम्य भेदे वेदान्तरेऽपि च' इति मेदिनी ॥ पिञ् बन्धने । सिनोतेदों निपात्यते । सीमा । 'सीमसीमे स्त्रियामुभे' इत्यमरः ॥ व्ये संवरणे । अन्त्यस्योत्वं निपातनात । गुणः । व्योम ॥ रु शब्दे । रोम गात्रकेशः॥ पा पाने । पुगागमो निपात्यते । पाप्मा पापम् ॥ वेञ् तन्तुसंताने । वेमा तन्तुवायदण्डः । अर्द्धर्चादिः। अतेर्मनिण। णित्त्वाद्वाद्धिःइकार. उच्चारणार्थः। अत सातत्यगमने । आत्मा। "आत्मा पुांस स्वभावे स्यात्प्रयत्नमनसोरपि। धृतावपि मनीषायां शरीरब्रह्मणोरपि" इति मेदिनी ॥ (तत्त्वदी०)नामा० ॥ वेमा तन्तुवायदण्डः ॥ (हनिमशिभ्यां सिकः) हंसिका । मश शब्दे । मक्षिका ॥ (सुबोधिनी)-हनिमशिभ्यां सिकः ॥ आभ्यां मिकप्रत्ययः स्यात् ॥ सिकप्रत्ययमाह-हन हिंसागत्योः। हंसिका । 'हंसिका हंसयोपिति' । मश शब्दे रोषकृते च । छशषेति षत्वम् । षढोरिति कत्वं षत्वं च । मक्षिका । 'मक्षिका भस्मराली स्यात्' इति हारावली ॥ (कोररः) कवरः ।। (सुबोधिनी)-कोररः॥ कु शब्दे अस्मादरः स्यात् ॥ कवरः पाठकः । बवयोरैक्यादीपि प्रत्यये कबरी केशविन्यासः । अन्यत्र कवरा ॥ - (गिर उडः ) गरुडः॥ _ (सुबोधिनी)-गिर उडः ॥ गृ निगरणे अस्मादुडप्रत्ययः ॥ गरुडः ॥ (इन्देः कमिनलोपश्च ) इदम् ॥ (सुबोधिनी)-इन्दः कमिनलोपश्च ।। इदि परमैश्वर्ये अस्मात्कमिः स्यान्नलोपश्च ॥ कित्त्वाद् गुणों न । इकार उच्चारणार्थः । इदमित सर्वादिगणस्थशब्दोऽयं सन्निहितपरामर्शकः ॥ . (कायतेर्डिम् ) किम् ॥ (सुबोधिनी)-कायतेर्डिम् ॥ कै शब्दे अस्मात् डिम प्रस्ययः स्यात् ॥ डित्त्वाडिलोपः। किम् ॥ (धातोस्त्रः) वस्त्रम् । अस्त्रम् । छत्रम् ॥ Page #331 -------------------------------------------------------------------------- ________________ [ पूर्वकृदन्ते उणादयः ] टीकाद्वयोपेता। (३११) (सुबोधिनी)-धातोस्वः॥त्रप्रत्ययमाह-वस आच्छादने । वस्त्रम् ॥असु क्षेपणे। अस्त्रम् । 'अस्त्रं प्रहरणे चापे करवाले नपुंसकम्' इति मेदिनी ॥ छद अपवारणे चुगदिश्यन्तः । इस्मन्निति इस्वत्वम् । बेरिति जिलोपः । छत्रम् ॥ (सिविमुच्योष्टरू:) षितु सूत्रम् । मुच्ल मूत्रम् ॥ (सुबोधिनी)-सिविमुच्योष्टेरूः॥आभ्यां त्रप्रत्ययः स्यादनयोष्टरूकारादेशश्च॥ कित्त्वान्न गुणः। षिवु तन्तुसन्ताने। सूत्रम् । 'मूत्रं तु सूचनाग्रन्थे सूत्रं तन्तुव्यवस्थयो' इति विश्वः ॥ मुल्ल मोक्षणं । मूत्रम् ॥ (अमादेः क्रः) आन्त्रम् । चित्रम् । मित्रम् । उष उष्ट्रः॥... (सुबोधिनी)-अमादेः क्रः॥अम गतिशब्दसंभक्तिषु । जमान्तस्येति दीर्घः।। आन्त्रम् ॥ चिञ् चयने । चित्रम् । 'आलेख्याश्चर्ययोश्चित्रम्' इत्यमरः ॥ जिमिदा स्नेहने । मित्रम् । 'मित्रं स्हृदि न द्वयोः। सूर्ये पुंसि' इति मेदिनी ॥ उष दाहे । ग्रुत्वम् । उष्ट्रः 'उष्ट्रे क्रमेल मयमहाङ्गाः इत्यमरः॥ (पूजो द्वस्वश्च ) पुत्रः ॥ (सुबोधिनी)-पूओ द्वस्वश्व ॥ पूञ् पवने अस्मात् ऋः स्याद्धातोर्हस्वत्वं च।। पुनाति स्ववंश्यानिति पुत्रः । पुन्नामा नरकस्तस्मात् त्रायते इति आतो ड इति डप्रत्यये पुत्र इति व्युत्पत्त्यन्तरम् ॥ (स्त्यायतेईट ) श्री ॥ (सुबोधिनी)-स्त्याय तेईट् ॥स्त्यै ष्टयै शब्दसंघातयोः अस्मात् डट् स्यात् ॥ टित्त्वादीप् । डित्त्वाहिलोपः। 'यवयोर्वसे' इति यलोपः । स्त्री। 'स्त्री योषिदवला योषा नारी सीमन्तिनी वधूः ।' इ यमरः॥ (गमेरा) गात्रम् ।। (सुबोधिनी )-गमेरा।। गम्ल गतौ अस्य मस्यात्वं स्यात् प्रत्ययश्च॥गात्रम् । गात्रमने कलेवरे। 'स्तम्बरमाग्रजङ्घादिविभागेऽपि समीरितम् । इति विश्वः॥ (चरादेरित्रा ) चारित्रम् । वादित्रम् । __ (सुबोधिनी) चरादेरित्रम्॥इत्रञ्प्रत्ययमाह-त्रित्त्वाद्धिः। चर गतौ। चारित्रम् ॥ वद व्यक्तायां वाचि व्यन्तः । वादिनं तूर्यादि ॥ ( अशित्रादिभ्य इत्रोत्रौ) अशित्रम् । वहित्रम् । धरित्री । अमित्रः । त्रैङ्त्रोत्रम् । वरुत्रम् ॥ __ (सुबोधिनी)-अशिबादिभ्य इत्रोत्रीअशिश्च त्रा च आशित्रौ अशित्रावादी येषां ते अशित्रादयस्तेभ्यः। द्वन्द्वान्ते श्रूयमाणः शब्दः प्रत्येकं संबध्यत इत्यादिशब्दः Page #332 -------------------------------------------------------------------------- ________________ (३१२) सिद्धान्तचन्द्रिका। [ पूर्व कृदन्ते उणादयः ] प्रत्येक योज्यः अशू व्याप्तावित्यादिभ्यः इत्रप्रत्ययः स्यात् । बैङ् पालने इत्यादिभ्यः उत्रप्रत्ययः स्यात् ॥ अशूङ् आशत्रम् ॥ वह प्रापणे । वहित्रम् ॥ धृञ् धारणे । 'धरित्रम् । इपि धरित्री ॥ अम गतौ । आमित्र: शत्रुः । मित्रं नेति विग्रहे त्वमित्रमिति नपुंसकम् ॥ त्रैङ् । आत्वे उत्रे च त्रोत्रं प्रहरणम् ॥ वृञ् वरणे । वरुत्रं प्रावरणम् ॥ (तत्त्वदी० )-त्रोत्रमिति ॥ प्रहरणे ॥ (चितेः कणः कश्च ) चिक्कणम् ॥ (सुबोधिनी)-चितेःकणः कश्च॥चिती संज्ञाने अस्मात्कणप्रत्ययः स्यात् तस्य । कश्च ॥ बाहुलकाद्गुणाभावः । चिक्कणम् । 'चिक्कणं ममृणं स्निग्धम्' इत्यमरः ॥ (तत्त्वदी०)-चिक्कणमिति ॥ स्निग्धे ।। (सूचेः स्मः) मूक्ष्मम् ॥ (सुबोधिनी)-मूचेः स्मः ॥ सूच पैशुन्य चुरादिर मात्स्मप्रत्ययः स्यात् ॥ जेरिति जिलोपः । कुत्वषत्वे । सूक्ष्मम् । 'मूक्ष्मं स्यात्कण्टकेऽध्यात्मे पुंस्यणौ त्रिषु चाल्पके' इति मेदिनी ॥ (पातेईम्सुः) पुमान् ॥ (सुबोधिनी )पातेईम्सुः ॥ पा रक्षणेऽस्मात् डुम्सुप्रत्ययः स्यात् ॥ डित्त्वाटिलोपः । उदित्त्वात् स्त्रियामीप् । सुपुंसी । पुंसोऽसुङ् इत्यङ् । पुमान् ॥ (भुजादेः किष्यः) भुजिष्यो दासः॥ (सुबोधिनी)-भुजादेः किष्यः॥भुज पालनादावस्मात् किष्यप्रत्ययः स्यात्॥ 'कित्त्वान्न गुणः । भुजिष्यः। भुजिष्यस्तु स्वतन्त्रे च हस्तसूत्र कदासयोः।' इति मेदिनी। “भुजिष्यः परिचारकः' इत्यमरः ॥ (वसादेस्तिः) वस्तिः। शास्तिः । अगमम्यतीति अगस्तिः॥ (सुबोधिनी)-वसादेस्तिः ॥ तिप्रत्ययमाह-वस निवासे । वस आच्छादने च । -वस्तिः। 'वस्तिईयोनिरूहे नाभ्यधोभूमिदशासु च ।' इति मेदिनी ॥ वस्ति भरधी द्वयोः' इत्यमरः॥शासु अनुशिष्टौ । शास्तिः राजदण्डः ॥ असु क्षेपणे। विन्ध्याख्यमगमस्यतीति । हलादेरिति टिलोपः । अगस्तिः । 'अगस्तिः कुम्भयोनौ च वङ्गसेनतरौ पुमान् ।' इति मेदिनी ॥ (तत्त्वदी०)-वस्तिरिति ॥ 'वस्ति भेरधो द्वयोः । दशासत्रेऽपि वस्तयः ।' शास्तिमैति । राजदण्डे । अगमिति विन्ध्याख्यमित्यर्थः ।। (वौ तसेः) तसु उपक्षये । वितस्तिः । पनिः ॥ Page #333 -------------------------------------------------------------------------- ________________ [पूर्वकृदन्ते उणादयः] टीकाद्वयोपेता । (३१३) (सुबोधिनी)-वौ तसेः ॥ तसु उपक्षये अस्माद्विपूर्वात्तिः स्यात् ॥ वितस्तिः । 'अङ्गुष्ठे सकनिष्ठे स्याद्वितरितादशाङ्गुलः'इत्यमरः ॥ 'स्त्रीपुंसयोक्तिस्तिः स्यात्' इत्यमरमाला ॥ पद गतौ । पत्तिः ॥ (दृणातेह्रस्वः) इतिः॥ (सुबोधिनी)-दृणातेईस्पः ॥ दृ विदारणे अस्मात्तिः स्याद्धातोर्हस्वत्वं च ॥ दृतिः । 'दृतिश्चर्मपुटे मत्स्ये ना' इति मेदिनी ॥ (कतृकृपिभ्यः कीटः) किरीटम् । तिरीटम् । कृपीटम् ॥ (सुबोधिनी)-कृतृकृषिभ्यः कीटः ॥ कीटप्रत्ययमाह-कित्त्वान्न गुणः। क विक्षेपे । ऋत इरितीर किरीटम । 'किरीटं मुकुटे न स्त्री' इति चन्द्रगोमी॥त प्लवनतरणयोः । ऋत इरितीर । तिरीटं सुवर्ण शिरोवेष्टनं च ॥ कृपू सामर्थ्य । कृपीटम् । 'कृपीटमुदरे नीरे' इति विश्व ॥ (तत्त्वदी०)-किरिटमि' । शिरोवेष्टने ॥ तिरीटमिति सुवर्णे । कृपीटमिति वारिकुक्ष्योश्च ॥ (धातोरसुः) चेतः । सरः । पयः॥ (सुबोधिनी)-धातोरसुः॥असुप्रत्ययमाह-उदित्त्वादीप् । चिती संज्ञाने।चित संचतने चुरादिश्च । चेतः । चत्तं तु चेतो हृदयं स्वान्तं हृन्मानसं मनः' इत्यमरः ॥ सृ गतौ । सरः । ईपि सरसी । 'सरसी तु महासरः' इति शब्दार्णवः ॥ 'महान्ति सरांसि सरस्यः' इति भाष्यम् ॥ पय गतौ पीङ् पाने च । पयः। ‘पयः स्यात्क्षीरनीरयोः' इति मेदिनी ॥ (अशेयुट् स्तुतौ) अश्नुते इति यशः॥ (सुबोधिनी)-अशर्युट स्तुतौ ॥ अशूङ व्याप्तावस्मादसुःस्याद्धातोर्युडागमश्च ॥ यशः, कीर्तिः ॥ (उब्जेर्बले बलोपः) ओजः॥ (सुबोधिनी)-उब्जेबले बलोपः॥उब्ज आर्जवे अस्मादसुःस्यादले वाच्ये बस्य लोपश्च ॥ ओजः । 'ओजो दीप्ताववष्टम्भे प्रकाशबलयोरपि' इति मेदिनी ॥ (श्रिञः शिरः किच) शिरः॥ ( सुबोधिनी)-श्रिञः शरः किच्च॥श्रिञ् सेवायामस्मादसुः स्यात्स च कित् धातोः शिरादेशश्च ॥ शिरः ! 'उत्तमाङ्गं शिरः शीर्षम्' इत्यमरः ॥ कप्रत्यये तु शिर इत्यदन्तोऽपिा शिरोवाची शिरोऽदन्तो रजोवाची रजस्तथा' इति कोशान्तरम्॥ 'पिण्डं दद्याद्याशिरे' इति वायुपुराण ॥ “कुण्डलोघृष्टगण्डानां कुमाराणां तरस्विनाम् ॥ निचकर्त्त शिरान्द्रौणिर्नालेभ्य इव पङ्कजान्” इति महाभारते ॥ Page #334 -------------------------------------------------------------------------- ________________ सिद्धान्तचन्द्रिका। [पूर्वकृदन्ते उणादयः । ( अतॆरुरः) उरः॥ (सुबोधिनी)-अर्तेरुरः॥ऋगतावस्मादसुः स्यात्स च किद्धातोरुरादेशश्च ।। उरः। 'उरो वत्सं च वक्षश्च' इत्यमरः ॥ (व्याधौ शुट ) अर्शः॥ (सुबोधिनी) व्याधा शुट ॥ ऋगतावस्मादसुः स्यात्प्रत्ययस्य शुडागमश्च स्याद्व्याधी वाच्ये ॥ अर्को गुदव्याधिः ॥ (तत्त्वदी०)-अर्श इति गुदव्याधौ ॥ (उदके नुट) अर्णः ॥ (सुबोधिनी)-उदक नुट् ॥ अर्तेरसुः स्यात्तस्य नु च ॥ अर्णः जलम् ॥ (इण आगसि) एनः । (सुबोधिनी) इण आगसि ॥ इण गतावस्मात्पा' वाच्येऽसुः स्यात्प्रत्ययस्य नुडागमश्च ॥ एनः पापम् ॥ (सुरीभ्यां तुट् च ) स्रोतः । रेतः। (सुबोधिनी)-सुरीभ्यां तुट् च ॥ आभ्यामसुः स्यात्प्रत्ययस्य तुडागमश्च॥सु गतौ । स्रोतः। 'स्रोतोऽम्बुवेगेन्द्रिययोः' इति विश्वः॥रीड़ श्रवणे । रेतः। रेतः शुक्र पारदे च' इति मेदिनी ॥ (पातेरुदके थुट ) पाथः॥ ( सुबोधिनी)-पातेरुदके थुट् ॥ पा रक्षणे अस्मादसुः प्रत्ययः स्यात्प्रत्ययस्य धुडागमश्च ॥ पाथः । 'कबन्धमुदकं पाथः' इत्यमरः॥ (अदेर्भक्ते धो नुम् च) अन्धः ॥ ___ (सुबोधिनी) अदेर्भक्ते धो नुम् च ॥ अद भक्षण अस्मादमुः स्याद्धातोर्दस्य धो नुम् च । अन्धः । 'भिस्सा स्त्री भक्तमन्धोऽन्नम्' इत्यमरः ॥ (आप उदके ह्रस्वो नुम्भौ) अम्भः ॥ (सुबोधिनी)-आप उदके द्वस्वो नुम्भौआमोतेरसुः स्याद्धातोर्हस्वत्वं नुमागमो भश्चान्तादेश उदके वाच्ये ॥ अम्भः उदकम् ॥ ... ( नहोर्दिवि भः) नमः॥ . (सुबोधिनी)-नहेर्दिवि भः॥णह बन्धने अस्माद्गगने वाच्ये असुः स्याद्भश्चान्तादेशः॥ नभः । “नभो व्योम्नि नभा मेघे श्रावणे च पतद्ग्रहे । घ्राणे मृणालसूत्रे च वर्षासु च नभाः स्मृतः” इति विश्वः॥ 'नभः ख श्रावणो नभा' इत्यमरः ॥ 'नभं तु नभसा साद्धम' हति द्विरूपकोशः॥ Page #335 -------------------------------------------------------------------------- ________________ [ पूर्वकृदन्ते उणादयः ] टीकाद्वयोपेता। (३१५) (इण आग अपराधे ) आगः॥ (सुबोधिनी)-इण आग अपराधे ॥ इण् गतावस्मादसुः स्यादपराधे वाच्ये धातोरागादेशश्च ॥ आगः । 'आगः पापापराधयोः' इति विश्वः ॥ 'आगोऽपराधो मन्तुश्च' इत्यमरः॥ (तत्त्वदी०)-इण० ॥ 'आगः पापापराधयोः ।।' (अमेहक् ) अंहः। (सुबोधिनी) अमेढुक्।अम गत्यादावस्मादसुः स्याद्धातोर्तुगागमश्च।अमान्त गच्छन्त्यधस्तादनेनेत्यंहो दुरितम् ॥ . - (रमेश्च ) रंहः॥ ( देशे ह च.) रमन्तेऽस्मिन् रहः॥ (सुबोधिनी)-रमेश्च ॥ रमु क्रीडायामस्मादसुः स्याद्धातोर्तुगागमश्च । रंहो वेगः॥ देशे ह च ॥ देशे वा ये रमेरसुः स्याद्धातोर्मस्य हश्च॥ रहः । 'रहस्तत्त्वे रते गुह्ये' इति मेदिनी ॥ (रञ्ज्यादेः कित् ) रजः । भुवः॥ .. ( सुबोधिनी)-रञ्ज्यादेः कित्। असुः स्यात्स च कित्॥ रञ्ज रागे। कित्त्वान्नो लोप इति नलोपः । रजः । जः क्लीवं गुणान्तरे । आर्तवे च परागे च रेणुमात्रे ऽपि दृश्यते' इति मेदिनी ॥ प्रत्यये अकारान्तोऽपि । 'रजोऽयं रजसा सार्द्ध स्त्रीपुष्पगुणधूलिषु' इत्यजयकोशः॥ भू सत्तायाम् । नुधातोरित्युव । भुवः अन्तरिक्षम् । षष्ठयन्तप्रतिरूपकमव्ययमिदम् ॥ (वसेर्णित्) वासः ॥ (सुबोधिनी)-वणित् ॥ वस निवासे अस्मादसुः स्यात्स च णित्॥णित्त्वाद् वृद्धिः । वासः वस्त्रम् ॥ (चन्देरादेश्वच्छः) छन्दः॥ (सुबोधिनी)-चन्देरादश्च च्छः॥चदि आह्लादने अस्मादसुः स्याद्धातोश्वस्य च्छश्च ॥ छन्दः । 'छन्दः पद्यप्रभेदेऽपि स्वैराचाराभिलाषयोः' इति मेदिनी॥ अदन्तोऽप्ययम् । 'छन्दावभिप्रायवौ' इति द्विरूपकोशः॥ (वचादेः सुट्) वक्षः। पक्षः॥ (सुबोधिनी)-वचादेः सुट ॥वच परिभाषणे इत्यादिभ्यः असुः स्यात्प्रत्ययस्य मुडागमश्च ॥ चस्य करवे सस्य पत्वम् । वक्षो हृदयम् ॥ डुपचषु पाके । पक्षः । 'पक्षसी तु स्मृतौ पक्षौ' इति ॥ ( तत्त्वदी०)-पक्ष इति ॥ 'पक्षसी तु स्मृतौ पक्षी ॥' . . Page #336 -------------------------------------------------------------------------- ________________ (३१६) सिद्धान्तचन्द्रिका। [पूर्वकृदन्ते उणादयः ] - ( नञि हन एह चासिः) अनेहाः, अनहसौ ॥ __ (सुबोधिनी)-नञि हन एह चासिः ॥ असिप्रत्ययमाह-नञ्युपपदे हन्तरसिप्रत्ययः स्याद्धातोरेहादेशश्च ॥ इकार उच्चारणार्थः। हन हिंसागत्योः । उशनसामिति सेर्डा ॥ अनेहाः कालः॥ (विधाञो वध च) वेधाः ॥ ( सुबोधिनी )-विधाञो वेध च॥ डुधाजू धारणादौ। विपूर्वादस्मादसिः स्यासोपसर्गस्य धातोर्वेधादेशश्च ॥ विदधातीति वेधाः। अत्वसोः साविति दर्षिः। 'वेधाः पुंसि हृषीकेशे बुधे च परमेष्ठिनि' इति मेदिनी ॥ (चन्द्रे माङो डित ) चन्द्रमाः ॥ (सुबोधिनी) चन्द्रे माङो डित् ॥ चन्द्रोपपदान्माडोऽसिः स्यात्स च डित्॥ डित्त्वाडिलोपः । माङ् माने । चन्द्रं रजतममृतं च मिमीतेऽसौ चन्द्रमाः । अत्वसोः साविति दीर्घः ॥ (पुरसि धाञः) पुरोधाः॥ (सुबोधिनी)-पुरसि धाञः॥ पुरस्शब्दे उपपद धाञोऽसिप्रत्ययः स्यात् ॥ डुधाञ् धारणादौ । पुरोधाः। 'पुरोधास्तु पुरोहितः' इत्यमरः॥ (उषः कित्) उषः॥ (सुबोधिनी )-उषः कित् ॥ उष दाहे अस्मादसिः स्यात्स च कित् ॥ कित्त्वान्न गुणः । उषः प्रभातम् ॥ (दमेरुनसिः) दमुनाः॥ (सुबोधिनी)-दमेरुनासिः॥ दमु उपशमे अस्मा दुनसिः स्यात् ॥ दमुनाः । 'सप्ताचिर्दमुनाः शुक्रः' इत्यमरः॥ (तत्त्वदी०)-दमेरु०॥ दमुनाः अग्निः ।। (वशेः कनसिः) उशना ॥ . (सुबोधिनी)-वशेः कनासिः ॥ वश कान्तावस्माकनासः स्यात् ॥ कित्त्वाद् अहामिति संप्रसारणम् । उशना । 'उशना भार्गवः कविः इत्यमरः ॥ (अगिरादयः ) अगि अङ्गिराः॥ ( बोधिनी)-अङ्गिरादयः ॥ असिप्रत्ययान्ता निपात्यन्ते ॥ अगि गतौ । असिप्रत्ययस्य इरुडागमो निपातनात् । अङ्गिराः ऋषिभेदः ॥ __ (अप्पूर्वः सतिः) अप्सराः॥ Page #337 -------------------------------------------------------------------------- ________________ [ पूर्वकृदन्ते उणादयः ] टीकाद्वयोपेता । (३१५) (सुबोधिनी)-अप्पूर्वः सतिः॥ मृ गतावप्पूर्वः । अप्सराः । स्त्रियां बहुष्वप्सरसः स्यादेकत्वेऽप्सराः इति शब्दार्णवः । 'अप्सरस्स्वप्सराः प्रोक्ताः सुमनाः सुमनःसु च' इति द्विरूपकोशः॥ (तत्त्वदी० )-अप्सरा इ ते ॥ प्रायेण भूम्नि अप्सरसः ॥ (पुरुपूर्वो रौतिः) पुरूरवाः॥ इत्युणादौ चतुर्थः पादः॥ (सुबोधिनी)-पुरुपूर्वो गतिः॥रु शब्दे पुरुपूर्वः । पुरुशब्दान्तस्य दी? निपातनात्। पुरूरवाः । 'पुरूरवां बुधसुतो राजर्षिश्च पुरूरवाः' इत्यमरः ॥ इति सुबोधिन्यामुणादौ चतुर्थः पादः ॥ ४॥ ( अदि भुवो डुतः) अद्भुतम् ॥ (सुबोधिनी)-अदि भुवो दुतः ॥ अदित्यव्ययमाकस्मिकार्थे । तस्मिन्नुपपदे भूधातोडुतः प्रत्ययः स्यात् ॥ डित्त्वाहिलोपः । अद्भुतम् आश्चर्यम् ॥ (गुधेरूमः) गोधूमः ॥ (सुबोधिनी)-गुधेरूमः॥ गुध परिवेष्टने अस्मादूमः स्यात् ॥ गुध्यते परिवेष्टयत प्राणिभिरिति गोधूमः । 'गोधूमा नागरङ्गे स्यादोषधीव्रीहिभेदयोः' इति मेदिनी ॥ (मसेरूरः) मसूरः। ( सुबोधिनी)-मसेरूरः। मसी परिणामे अस्मादूरः स्यात् ॥ मसूरः ॥ (तृहेक्नो हलोपः तृणम् ॥ - (सुबोधिनी) तृहेः क्नो हलोपः॥ तृह हिंसायामस्मात् क्नः स्याद्धातोर्हस्य लोपश्च ॥ कित्त्वाद् गुणाभावः तृणम् ॥ (दंसेष्टो न आ च ) दासः। (सुबोधिनी)-दसेष्टो नआ च॥दसि दंशनदर्शनयोरस्मादृप्रत्ययःनस्यात्वंच॥ दासः । 'दासः शूदे दानपात्रे भृत्यधीवरयोरपि' इति विश्वः ॥ टित्त्वादीप् । दासी। ( तत्त्वदी० )-दास इति । सेवकशूद्रयोर्दासः ॥ (दशेश्च) दाशः ॥ (सुबोधिनी)-दशेश्च ॥ अस्मादपि टः स्यान्नस्यात्वं च ॥ दाशः । कैवर्ते दाश. धीवरौं' इत्यमरः॥ (तत्त्वदी० ) दंशेश्च ॥ दाशो धीवरः ॥ (सौ रमेक्तः सोर्दीर्घः) सूरतः ॥ Page #338 -------------------------------------------------------------------------- ________________ ( ३१८ ) सिद्धान्तचन्द्रिका | [ पूर्वकृदन्ते उणादयः ] (सुबोधिनी) --सौ रमेः क्तः सो दीर्घः ॥ रमु क्रीडायाम् । सुपूर्वादस्मात् क्तः स्यात् पूर्वपदस्य दीर्घश्च ॥ कित्त्वा लोपस्त्वनुदात्ततनामिति मलोपः । सूरत: उपशान्तो दयालुश्च ॥ (तत्त्वदी ० ) - सूरत इति ॥ उपशान्तदयावतोः ॥ ( पूञो यो णुकू ह्रस्वश्च ) पुण्यम् ॥ (सुबोधिनी) --पूञ यो णुक् ह्रस्वश्च ।। पूञ् पवने । अस्माद्यः प्रत्ययः स्याद्धातोर्णुक् हस्वश्च | 'पुण्यं मनोज्ञेऽभिहितं तथा सुकृतधर्मयाः' इति विश्वः ॥ (स्रंसतेः शिर्यस्य कित्त्वं कुट् च ) शिक्यम् ॥ (सुबोधिनी ) - स्रंसतेः शिर्यस्य कित्त्वं कुटु च ॥ स्रंसु अधःपतने अस्माद् यः स्यात्स च कित् प्रत्ययस्य कुडागमश्च धातोः शिरादेशश्च ॥ शिक्यम् ॥ (अर्तेः क्युरुर् च) उरणः ॥ (सुबोधिनी )--अः क्युरुर् च । ऋ गतावस्मात् वयुः प्रत्ययः स्याद्धातोरुरादेशश्च ॥ कित्त्वान्न गुणः । युवोरित्यनादेशः । उरणः । द्रोरोरोर्णायुमेष वृष्णय एडके' इत्यमरः ॥ ( तत्त्वदी ० ) - उरण इति ॥ मेत्रे ॥ (उदि दृणातेर उदो दलोपश्च ) उदरम् ॥ (सुबोधिनी) उदि दृणातेर उदो दलीपश्च ॥ विदारणे अस्मादुत्पूर्वादः स्यादुदो दस्य लोपश्च ॥ उदरम् ॥ ( खनेर्मुटू डप्रत्ययः ) मुखम् ॥ (सुबोधिनी)--खनेर्मुट् डप्रत्ययः ॥ खनु अवदारणे अस्मात् डः प्रत्ययः स्याद्धातोर्मुडागमश्च ॥ ङित्त्वाट्टिलोपः । मुखम् । “मुखं निःसरणे वक्त्रे प्रारम्भोपाययोरपि । संध्यन्तरे नाटकादेः शब्देऽपि च नपुंसकम्" इति मेदिनी ॥ मुखं ह्युपाये प्रारम्भे श्रेष्ठे निःसरणास्ययोः' इति हैमः ॥ ( अमेः सः ) असः ॥ ( सुबोधिनी ) - अमेः सः ॥ अम गतावस्मात्सप्रत्ययः स्यात् ॥ अंसः | 'स्कन्धो शिरोऽसोऽस्त्री' इत्यमरः ॥ 'अंसः स्कन्धे विभागे च' इति विश्वः ॥ ( मुहे: खो मूर्च) मूर्खः ॥ (सुबोधिनी )--मुहेः खो मूर्च ॥ मुह वैचित्त्ये अस्मात्वप्रत्ययः स्याद्धातोर्मूरादेशश्च ॥ मुह्यतीति मूर्खः । 'अज्ञे मूढयथाजातमूर्ख वैधेयबालिशाः' इत्यमरः ॥ ( नईलोपश्च ) नखः ॥ Page #339 -------------------------------------------------------------------------- ________________ [ पूर्वकृदन्ते उणादयः ] टीकादयोपेता। ....( सुबोधिनी)-नहेर्हलोपश्च ॥ णह बन्धने अस्मात्खप्रत्ययः स्याद्धकारस्य लोपश्च ॥ नखः । 'नखः करमहे षण्ढे गन्धद्रव्ये नखं नखी' इति विश्वः ॥'नखी स्त्रीक्लीबयोः शुक्तौ नखरे पुनपुंसकम्' इति मेदिनी ॥ (शीको इस्वश्च) शिखा॥ (सुबोधिनी)-शीङो द्वम्वश्च॥ शीङ् स्वप्ने अस्मात्खः स्याद्धातोर्हस्वश्च ह्रस्वविधानसामर्थ्याद् गुणाभावश्च । शिखा॥"शिखा शाखाबहिचूडालाङ्गलिष्वग्रमात्रको चूडामात्रे शिफायां च ज्वालायां प्रपदेऽपि च” इति मेदिनी ॥ (माङ् उखो मय च ) मयूखः॥.. . (सुबोधिनी)-माङ ऊखो मय च॥ माङ् माने अस्मादूखप्रत्ययः स्याद्धातोर्मयादेशश्च ॥ मयूखः । 'मय खस्त्विदकरज्वालासु' इत्यमरः ॥ . (गलेः फोगस्योच) गुल्फः॥ ( मुबोधिनी)-गले फो गस्योच्च ॥ गल अदने अस्मात्फप्रत्ययः स्याद्धातोरकारस्योत्वं च ॥ गुल्फः । तदन्थी घुटिके गुल्फौ' इत्यमरः । तयोः पादयोर्ग्रन्थी इत्यर्थः ॥ (तत्त्वदी०)-गुल्फ इति शरीरावयवरोगयोः ॥ (स्पृशः शश्वणौ पृच ) पशुः। पार्श्वः॥ ... ( सुबोधिनी)-स्पृशः हाश्वो पृ च ॥ स्पृश स्पर्शने अस्मात् शुश्वणौ प्रत्ययौ स्तः धातोः पृ इत्यादेशश्च ॥ पशुः । णित्त्वाढाद्धः । पार्श्वः। 'पार्थोऽस्त्री कक्षयोरधः' इति ॥ 'पार्श्वमन्तिके । कक्षाधोऽवयवे चक्रोपान्ते पशुगणेशपच' इति हैमः॥ (तत्त्वदी०)-स्पृशेरिति । 'पार्थोऽस्त्री कक्षयोरधः ॥' (श्मनि श्रिञो डुन्न) श्मनशब्दो मुखवाची । इमानं मुखमाश्रयते श्मश्रु॥ __ (सुबोधिनी)-श्मनि श्रिो हुन्॥श्रिञ् सेवायामस्मात् श्मन्युपपदे डुन् स्यात्।। डित्त्वाहिलोपः।इमन्शब्दो मुग्ववाची इमानं मुखमाश्रयते इति श्मश्रु । नो लोप इति नलोपः । तदृद्धौ श्मश्रु पुम्मुखे' इत्यमरः । पुरुषमुखे तेषां रोम्णां वृद्धौ श्मशुशब्दो वर्तते इत्यर्थः॥ (जनेरो जङ्घ च ) जङ्घा ॥ (सुबोधिनी)-जनेरो जङ्घ च ॥ जनी प्रादुर्भावे अस्मादप्रत्ययः स्याद्धातोर्जवादेशश्च ॥ आप जङ्घा ।। . (हन्तेः शरीरावयव द्वे च ) जघनम् ॥ Page #340 -------------------------------------------------------------------------- ________________ ( ३२० ) सिद्धान्तचन्द्रिका | [ पूर्वकृदन्ते उणादयः ] ( सुबोधिनी ) - हन्तेः शरीरावयवे द्वे च ॥ हन हिंसागत्योरस्मादः स्याद्धातोद्वित्वं च ॥ पूर्वाद्धन्तेरिति हस्य घः । जघनम् । 'पश्चान्नितम्बः स्त्रीकटयाः क्लीबे तु जवनं पुरः । ' इत्यमरः ॥ ( तत्त्वदी ० ) - जघन मेति ॥ ' पश्चान्नितम्बः स्त्रीकट्याः श्रीवे तु जघनं पुरः || (क्लिशेर्लस्य लोपश्च ) कशः ॥ ( सुबोधिनी) - क्लिशेर्लस्य लोपश्च ।। क्लिशु विबाधने अस्मादः स्याद्धातोर्लकारस्य लोपश्च ॥केशः | "केशः स्यात्पुंसि वरुणे हीबरे कुन्तलेऽपि च' इति मेदिनी ॥ ( फलेरितः फस्य पः ) पलितम् ॥ (सुबोधिनी ) - फलेरितः फस्य पः ॥ फल निष्पत्तावस्मादितप्रत्ययः स्याने द्धातोरादेर्वर्णस्य पवं च ॥ पलितम् । 'पलितं जरसा शौक्ल्यम्' इत्यमरः ॥ 'पलितं शैलजे तापे केशपाशे च कर्दमे' इति मेदिनी ॥ (कृञादेर्वु : ) करकः । कटकः । कुर गतौ । कोरकः । नरकः । (सुबोधिनी)--कृञादेर्बुः। वुप्रत्ययमाह-- पुवोरित्यकादेशः । डुकृञ् करणे । करकः कमण्डलुः । करको वृष्टिपाषाणः ॥ कटे वर्षावरणयोः । कटको वलयः ॥ नृ नये । नरकः । ' स्यान्नारकस्तु नरको निरयो दुर्गातिः स्त्रियाम् इत्यमरः ॥ ' नरकः पुंसि निरये देवारातिप्रभेदयोः' इति मेदिनी ॥ ( तत्त्वदी ० ) -- कृ० ॥ कोरक इति ॥ कोरकोऽस्त्री कुमले स्यात्कक्कोलकमृणालयोः' इति मेदिनी ॥ 'कोरकः पुमान्' इत्यमरस्य प्रायेण पुमानिति व्याखानान्न दोषः ॥ नरक इति ॥ नारकोऽपि च ॥ (चीकयतेराद्यन्तविपर्ययः ) चीक आमर्षणे । कीचकः ॥ ( सुबोधिनी) - ची कयतेराद्यन्तविपर्ययः ॥ चीक आमर्षणे चुरादिरस्याद्यन्तविपर्ययः वुश्च जेरिति ॥ ञिलोपः । कीचकः । ' कीचको ध्वनिमद्वंशे दैत्यभेदे दुमान्तरे' इति हैमः ॥ ( तत्त्वदी १ ) कीचक इति ॥ वायुना शब्दकारी सच्छिद्रो वंशः ॥ O ( पचिमच्योरिरतः ) पेचकः । मच कल्कने । मेचकः । ( सुबोधिनी ) - पचिमच्योरिरतः । एतयोरुपधाया अत इः स्याद्दुप्रत्ययश्च ॥ गुणः । डुपचषू पाके । पेचकः । 'उलूके करिणः पुच्छमूलोपान्ते च पेचकः' इत्यमरः॥ 'पेचको गजलाङ्गूले मूलोपान्ते च कौशिके' इति मेदिनी ॥ मच कल्कने । मेचकः । "मेचकस्तु मयूरस्य चन्द्रके श्यामले पुमान् । तद्युक्ते वाच्यवत्क्लीवं स्रोतोऽञ्जनान्धकारयोः' इति मेदिनी ॥ Page #341 -------------------------------------------------------------------------- ________________ [पूर्वकृदन्ते उणादयः ] टीकाद्वयोपेता। (३२१) (जनेररष्ठ च ) जठरम् ॥ (सुबोधिनी)-जनेररष्ठ च ॥ जन जनने जनी प्रादुर्भाव च आभ्यामरप्रत्ययः स्याद्धातोर्नस्य ठश्च ॥ जठरः । 'जठरः कठिनेअप स्यात्' इत्यमरः ॥ ( हर्यतेः कन्यो हिर च) हिरण्यम् ॥ ( सुबोधिनी)-हर्यतेः कन्यो हिर् च ॥ हर्य गतिकान्त्योरस्मात् कन्यप्रत्ययःस्याद्धातोर्हिरादेशश्च ॥ कित्त्यान्न गुणः । हिरण्यं सुवर्णम् ॥ ( कृत्रः पासः) कर्पासः॥ ( सुबोधिनी)-कृतः पासः॥ डुकृञ् करणे अस्मात्पासप्रत्ययः स्यात् ॥ कर्पासः। अणि प्रत्यये कार्पासं वस्त्रम् ।। ( ऊर्णोतेर्डः ) ऊर्णा ॥ ( मुबाधिनी)-ऊर्णोतेर्ड ॥ऊर्णज्ञ आच्छादने अस्माड्डप्रत्ययः स्यात् ॥ डित्त्वाट्टिलोपः । ऊर्णा । 'ऊर्णा मेषादेलोम्नि स्यादावर्ते चान्तरा ध्रुवौ' इत्यमरः॥ध्रुवोर्मध्ये य आवर्तस्तत्रेत्यर्थः । अन्तरायोगे भुवाविति द्वितीया ॥ (दधातयों नुट् च ) धान्यम् ॥ ___ (सुबोधिनी)-दधातेय तुट च॥डुधाधारणपोषणयोरस्माद्यप्रत्ययःस्यात्प्रत्ययस्य नुडागमश्च ॥ धान्यम् । 'धान्यं व्रीहिषु धान्याके' इति मेदिनी। - ( तनोतेर्डउः सवच ) तितउः॥ (सुबोधिनी)-तनोतेर्ड:सवच्च॥ तनु विस्तारे अस्मात् डउःप्रत्ययःस्यात्स डउप्रत्ययः सप्रत्ययतुल्यो भव ते॥ तेन द्वित्वादि । डित्त्वाट्टिलोपः। यः से इति पूर्वस्ये. त्वम् । पृथगुच्चारणसामर्थ्याद गुणो न । तितउः। 'तितउः पुंसि क्लीचे च। 'चालनी तितउः पुमान' इत्यमरः॥ ( तत्त्वदी० )-तितउरिति। चालन्याम् । भाष्ये क्लीबनिर्देशात् क्लीबता चालनी तितउः. पुमान्' इत्यमरोक्तेः पुंस्त्वमपि ॥ (अर्भकादयः) ऋधु अर्भकः॥ (सुबाधिनी)-अर्भकादयः ॥ अर्भकादयो निपात्यन्ते ॥ ऋधु वृद्धावस्मादकन्प्रत्ययो धातोर्धकारस्य भश्च निपान्यते ॥ अर्भकः । 'अर्भकः कथितो बाले मूर्वेऽपि च कृशेऽपि च' इति मेदिनी ॥ (प्रथेरुकः संप्रसारणं च ) प्रथ पृथुकः ॥ Page #342 -------------------------------------------------------------------------- ________________ ( ३२२ ) सिद्धान्तचन्द्रिका | [ पूर्वकृदन्ते उणादयः ] (सुबोधिनी) - प्रथेरुकः संप्रसारणं च ॥ प्रथ प्रख्याने अस्मादुकप्रत्ययः स्यात्संप्रसारणं च निपात्यते ॥ पृथुकः । 'पृथुकः पुंसि चिपिटे शिशौ स्यादभिधेयवत्' इति मेदिनी ॥ ( पिबतेः कः ) पाकः ॥ (सुबोधिनी ) - पिबतेः कः ॥ पा पाने अस्मात्कमन्ययो निपातनात् ॥ पाकः । 'पाकः परिणतौ शिशौ । केशस्य जरसा शौक्ल्ये स्थाल्यादौ पचनेऽपि च' इति मेदिनी ॥ ( वदेर्नञि यः ) अवद्यम् । ( अवतेरमो धो वा ) अव । अवम: अधमः ॥ (सुबोधिनी ) - वदेर्नञि यः ॥ वद व्यक्तायां वात्रिं ननुपपदादस्माद्यप्रत्ययो निपात्यते ॥ अवद्यं पापम् । 'कुपूयकुत्सितावद्यखेटगर्ह्यागकाः समाः' इत्यमरः ॥ अवतेरमो धो वा ॥ अव रक्षणादावस्मादमप्रत्ययो निपात्यते धातोर्वकारस्य वा धकारश्च ॥ अवमः - अधमः । 'निकृष्टप्रतिकृष्टार्वरेफयाप्यावम धमाः' इत्यमरः ॥ (क्लिशेर ईच्चोपधाया लोपश्च लो नाम् च ) कीनाशः । ( सुबोधिनी ) क्लिशेरः । क्लिशू विबाधने अस्माद्प्रत्ययो निपात्यते । उपधाया ईत्वं लस्य लोपो नामागमश्च ॥ कीनाशः । ' कीनाशकर्ष कक्षुद्र पांसुघातिषु वाच्यवत् । यमे ना' इति विश्वः ॥ ( चतेरुरः ) चत्वारः ॥ ( सुबोधिनी )–चतेरुरः ॥ चते याचने अस्मादुरप्रत्ययः स्यात् ॥ चतुराम् शौचे- त्याम् । चत्वारः ॥ ( हन्तेर्घुर् च ) घोरम् ॥ (सुबोधिनी) - हन्तेर्ध्रुर् च ॥ हन हिंसागत्योरस्मादप्र ययः स्याद्धातोर्घुरादेशश्च ॥ गुणः । घोरम् । 'घोरं भीमे हरे' इति विश्वः ॥ ( क्षमेरलोपश्च ) क्ष्मा ॥ (सुबोधिनी ) - क्षमेरलोपश्च ।। क्षमूषू सहने अस्मादप्रत्ययः स्याद्धातोरुपधाया लोपश्च ॥ क्ष्मा | 'क्ष्माऽवनिर्मेदिनी मही' इत्यमरः ॥ ( तरतेईिः ) त्रयः । त्रीन् ॥ (सुबोधिनी ) - तरतेड्रैिः ।। त प्लवनतरणयोः अस्मात् ड्रिप्रत्ययः स्यात् ॥ डित्त्वाट्टिलोपः । ए ओ जसीत्येत्वम् | त्रयः ॥ ( ग्रहेर निः ) ग्रहणिः ॥ Page #343 -------------------------------------------------------------------------- ________________ [ उत्तरकृदन्तप्रक्रिया ] . टीकाद्वयोपेता। (३२३) ( सुबोधिनी)-ग्रहेरनिः॥ ग्रह उपादाने अस्मादनिप्रत्ययः स्यात् ॥ ग्रहणिः । कृदिकारादितीप् । ग्रहणी । ग्रहणी रुक् प्रवाहिका' इत्यमरः ॥ (प्रथेरमः) प्रथमः॥ __ (सुबोधिनी)-प्रथेरमः ॥ प्रथ प्रख्यानेऽस्मादमप्रत्ययः स्यात् ॥ प्रथमः । 'प्रथमस्तु भवेदादौ प्रधानेऽपि च वाच्यवत्' इत्यमरः॥ प्रथमचरमेति वैकल्पिकं सर्वादिकार्यमस्य ॥ ( चरेश्च ) चरमः । (सुबोधिनी )--चरेश्च ।। चर गतिभक्षणयोरस्मादमप्रत्ययः स्यात् ॥ चरमः॥ (मङ्करलः) मङ्गलम् ॥ (सदोणादयः) सर्वस्मिन्काले उणादयः॥ उणादयोऽपरिमिताः प्रयोगमनुसृत्य प्रयोक्तव्याः ॥ इत्युणादौ पञ्चमः पादः॥ (सुबोधिनी)-मनेरलः ॥ मगि गतावस्मादलप्रत्ययः स्यात् ॥ मङ्गलम् । "मङ्गला सितदूर्वायामुमायां मुसि भूमिजे । नपुंसकं तु कल्याणे सर्वार्थरक्षणेऽपि च" इति मेदिनी ॥ इति सुबोधिन्यामुणादौ पञ्चमः पादः ॥ ( तत्त्वदी० )-उणादय इति।तथा चोणादिषु प्रयोग दृष्ट्वैव प्रकृतिप्रत्ययानुबन्धकल्पनं कार्यमित्यर्थः ॥ कृतायामिह टीकायां लो शकरशर्मणा । उणादिप्रक्रिया चेयं सम्पूर्तिमगमत्परा ॥ इति पूर्वकृदन्तप्रक्रिया समाप्ता । अथोत्तरकृदन्तप्रक्रिया। (तुम् तदर्थायां भविष्यति ) धातोर्भविष्यति काले तुम् प्रत्ययस्तदर्थायां क्रियायां गम्यमानायाम् ॥ गुडं भोक्तुं व्रजति । व्याकरणं पठितुमीष्टे ॥ (सुबोधिनी )--तुम् तदर्थायां भविष्यति ॥ क्रियार्थायां क्रियायामुपपदे भविष्यत्यर्थे धातोर्भावे तुम् प्रत्ययः स्यात् । तच्छब्देन क्रिया, सा अर्थः प्रयोजनं यस्याः सा क्रियार्था तस्याम् क्त्वाद्यन्तं चेत्यव्ययसंज्ञा । भुज पालनादौ । भोक्तुं व्रजति देवदत्तः । भविष्यद्रूपं यद्भोजनं तत्प्रयोजनकं देवदत्तकर्तृकं व्रजनमित्यर्थः॥पठ व्यक्तायां वाचि । कृत इतीट् । पठितुमीष्टे देवदत्तः । भविष्यद्रपं यत्पठनं तत्प्रयोजनकं देवदत्तकर्तृकं कामनमित्यर्थः॥ Page #344 -------------------------------------------------------------------------- ________________ ( ३२४ ) सिद्धान्तचन्द्रिका | [ उत्तरकृदन्तप्रक्रिया ] ( तत्त्वदी ० ) - तुम् तदर्थायामिति । क्रियायामितिविष्यपदमत्रानुवृत्तम् । तस्यै क्रियायै इयं तदर्था तस्याम् । यद्वा सा क्रिया अर्थः प्रयोजनं यस्याः सा तसाम् । तुम् भावे इति पण्डिताः ॥ (तुमर्थे वुण ) कृष्णं दर्शको व्रजति ॥ (सुबोधिनी ) - तुमर्थे ण् ॥ क्रियार्थायां क्रियायामुपपदे भविष्यत्यर्थे धातोः कर्तरि ण् प्रत्ययः स्यात् ॥ युवोरित्यकादेशः । दृशिर प्रेक्षणे । कृष्णं दर्शकों याति । कृष्णकर्मकं भविष्यद्यद्दर्शनं तत्प्रयोजनकं देव दत्तकर्तृकं यानमित्यर्थः ॥ ( कालसमयवेलासु ) अध्येतुं कालः। स्तोतुं समयः । भोक्तुं वेला। ( सुबोधिनी) - कालसमयवेलासु ॥ कालादिषूपपदेषु तुम् स्यात् ॥ पर्यायोपादानमर्थोपलक्षणार्थम् । इङ् अध्ययने । अध्येतुं कालः ॥ टुञ् स्तुतौ । स्तोतुं समयः ॥ भुज पालनादौ । भोक्तुं वेला । एवमनेहसादियोगेऽपि । अनुवादेऽथ तुम् न भवति । सिद्धस्वरूपोच्चारणमनुवादः । 'भूतानि कालः पचतीति ॥ इति ॥ (तत्त्वदी०) - कालेति ॥ प्रेरणग्रहणमत्रानुवर्तते । तेन भूतानि कालः पचतीति वार्ता' इत्यत्र न ( इच्छार्थेष्वेककर्तृके पपपदेषु धातोस्तुम) भोक्तुमिच्छति वष्टि वाञ्छति वा ॥ ( सुबोधिनी) - इच्छार्थेष्वेककर्तृकेषूपपदेषु धातं स्तुम् ॥ अक्रियार्थोपपदार्थमेतत्। भोक्तुमिच्छति वाञ्छति वाविश कान्तावयमपीच्छार्थकः कान्तिरिच्छेत्युक्तत्वात् । भोक्तुमिच्छतीत्यत्र भोजनविषयिणीच्छा प्रतीयते न तु भं जनार्थेच्छेति । एककर्तृकेष्विति किम्। पुत्रस्य पठनमिच्छति । पुत्रस्येति कर्तरि षष्ठी । पुत्र कर्तृकं पठनमिच्छतीत्यर्थः॥ ( तत्त्वदी ० ) इच्छार्थेष्विति ॥ इच्छति भोक्तुमित्यादावि छायां भुजिं प्रति तादर्थ्याभावात् । प्रवृत्तिसामान्ये हेतुत्वस्यावधारितत्वेनाप्रतिपाद्यत्वात्। यद्वाऽस्तु तादः म्|एककर्तृकत्वादिलाभार्थमेतत् ॥ शकधृषज्ञाग्लाघटरभलभक्रमसहार्हा त्यथषु ) शक्नोति भोक्तुम् । धृष्णोति जानातीत्यादि ॥ ( ( सुबोधिनी ) - शकधृषज्ञाग्लाघटरभलभक्रमस हार्हाऽस्त्यर्थेषु ॥ एषूपपदेषु धातोस्तुम् स्यात् ॥ अक्रियार्थोपपदार्थमेतत् । शक्ल शक्ती । ञिधृषा प्रागल्भ्ये । ज्ञा अवबोधने । ग्लै हर्षक्षये । घट चेष्टायाम् । रभ रामस्ये । डुलभष् प्राप्तौ । क्रमु पादविक्षेपे । षह मर्षणे । अर्ह पूजायाम् । अस भुवि । अर्थग्रहणमस्तिनैव सम्बध्यतेऽनन्तरत्वात् । भोक्तुं शक्नोति धृष्णोति जानाति इत्यत्र भुज्यथं विषयतया संबध्यते। ग्लायति भोक्तुमित्यत्र भोजन विषयिण्यशक्तिर्गृह्यते । भोक्तुं घटते इत्यत्र भोक्तुमर्हतीति योग्यता गम्यते । आरभते भोक्तुमित्यत्र प्रक्रमते उत्सहते इति भुजेराद्याऽवस्था गम्यते । १ यातीत्यपि पाठः सुबोधिनीकारसंमतः ॥ Page #345 -------------------------------------------------------------------------- ________________ { उत्तरकृदन्तप्रक्रिया ] टीकाद्वयांपेता । (३२५ ) लभते भोक्तुमित्यत्र प्राप्तिर्गम्यत । उत्सहते भोक्तुमित्यत्र भुजेराद्याऽवस्था गम्यते । अर्हति भोक्तुमित्यत्रापि योग्यता।अस्तिभवति विद्यते वा भोक्तुमित्यादौ संभवमात्रम्॥ ( पूर्णतावाचिषु सामर्थ्यार्थेषु ) पर्याप्तो भोक्तुम्। प्रवीणः कुशलः समर्थः । पूर्णतेति किम् । अलं भुक्त्वा ॥ सामर्थ्यार्थेषु किम् । पूर्याप्तं भुते॥ • (सुबोधिनी)-पूर्णतावाचिषु सामर्थ्यार्थेषु॥ पर्याप्तिवाचिषु सामर्थ्यवचने - पपदेषु धातोस्तुम् स्यात् ॥ पर्याप्तो भोक्तुं समर्थः कुशलः पटुः प्रवीण इत्यर्थः। पूर्णतावाचिष्विति किम् । पर्याप्तं भुते । प्रभूततेह गम्यते न तु भोक्तुः सामर्थ्यम् ॥ (घञ् भावे) पाकः । त्यागः । भावः । दायः॥ (सुबोधिनी)-घन् भावे॥ सिद्धावस्थापन्ने धात्वर्थ वाच्ये धातोर्घजू स्यात् ।। क्रियान्तराकाङ्क्षोत्थापकताव छेदकाक्रान्तत्वं सिद्धत्वम् । पिवतीत्यादौ तु साध्यावस्थापन्नो धात्वर्थः । भाव इति ॥ भावे इत्यधिकृत्य वक्ष्यमाणा घञादयः क्रियार्थायां क्रियायामुपपदे भवन्तीत्यर्थः ॥ जित्त्वादृद्धिः । घित्वाच्चजोः कगौ घितीति कः । पच्यते पचनं वा पाकः ॥ त्यज हानौ । त्यज्यते त्यजनं वा त्यागः ॥ भू सत्तायाम् । भूयते भवनं वा भावः ॥ डुदाजु दाने । दीयते दानं वा आतो युगिति युक् । दायः॥ . (तत्त्वदी० )-घञ् इति । भाव इति । भवनं भावः । क्रियासामान्ये न तु भवत्यर्थमात्रम् । सिद्धतारूप एव भावे घन् । उक्तं च-"क्रियायाः सिद्धतावस्था साध्यावस्था च कीर्तिता । सिद्धतां द्रव्य मिच्छन्ति तत्रैवेच्छन्ति घवियिम्" इति ॥ पाक इति ॥ नित्त्वादुपधावृद्धिः । घित्त्वात्कुत्वम् ।। (संज्ञायामकर्तरि ) कर्तृवर्जिते कारके भावे च घञ् संज्ञायामसंज्ञायां च ॥ कार्य प्रत्याद्वियते यः स प्रत्याहारः । दीयतेऽस्मै दायः । विक्रियतेऽनेनेति विकारः। उपाध्यायः । उपाध्याया। उपाध्यायी । (घञर्थे का) घञोऽपवादः ॥ विशेषेण हन्यते कार्यमनेनेति विघ्नः। सुन्तः ॥ (सुबोधिनी)-संज्ञायानकर्तरि च ॥ कर्तृभिन्ने कारकेऽर्थे धातोर्घजू स्यात्संज्ञायामसंज्ञायां च वाच्यमाना पाम् ॥ हृञ् हरणे । प्रत्याहियते इति प्रत्याहारः ॥ डुदाञ् दाने । दीयत अस्मै इति। आता युगिति युक् । दायः। डुकृञ् करण। विक्रियतेऽनेनेति विकारः ॥ इङ अध्ययने । उपत्याधीयतेऽस्मादित्युपाध्यायः । स्वराद इत्यस्यापवादोऽयं घञ् ॥ Page #346 -------------------------------------------------------------------------- ________________ (३२६) सिद्धान्तचन्द्रिका। [उत्तरवृदन्तप्रक्रिया ] ( तत्त्वदी० )-भाव इति ॥ बाहुलकादनुपसर्गाद्भुवोऽपि ध्ञ् ॥ उपाध्यायेति ॥ ननु घान्तस्य पुंस्त्वनियमात्कथं स्त्रीत्वमिति चेत्सत्यम् । अपादाने स्त्रियामप्यभिधानात् । उपाध्यायी ॥ (स्वरादः) भावादौ । घञोऽपवादः॥ चयनं चयः। नयनं नयः॥ षिञ् बन्धने। विशेषेण सीयन्ते बध्यन्ते जना अनेनेति विषयः। स्तूयतेऽनेनेति स्तवः। सवनं सवः । लवनं लवः । कृञ् क्रियते कार्यमनेनेति करः। गिरत्यनेनेति गरः-गलः। द्वयाद्युपसर्गहीनस्य छादेईस्वोऽप्रत्यये । परिच्छदः छत्रम् । दन्ताश्छाद्यन्तेऽनेनेति दन्तच्छदः ओष्ठः। द्वयादीति किम् । अन्ववप्रच्छादः। समवपरिच्छादः ॥ (सुबोधिनी)-स्वरादः ॥ स्वरान्ताद्धातोरप्रत्ययः स्याद्भावादौ॥ घजोऽपवादः। चिञ् चयने । चयः॥णी प्रापणे । नयः। पिञ् बन्धने विपूर्वः। विषयः॥ ष्टुञ् स्तुतौ । स्तवः । 'स्तवः स्तोत्रं स्तुतिर्नुतिः' इत्यमरः॥ ञ् छेदने । लवः । 'लवलशकणाणवः' इत्यमरः ॥ कृ विक्षेपे । करः । गृ निगर । गरः-गलः ॥ (मदामः) मदादीनामप्रत्ययो भावादौ॥ मदः। पणः । प्रमदः। संमदः । शमः । श्रमः॥ (सुबोधिनी)-मदामः ॥ मदादिभ्योऽप्रत्ययः स्याद्भ वादौ ॥ मदी हर्षे । मदः। प्रमदः । संमदः ॥ पण व्यवहारे स्तुतौ च । पणः॥ शम् उपशमे । शमः॥श्रमु तपसि खेदे च । श्रमः ॥ (तत्त्वदी०)-मदामिति॥ मद इति॥मद्यतेऽनेनेति करणाद वपि। कथं 'प्रमादोऽनवधानता', इति । बाहुलकाद्धञपि । यद्वा मद एव माद इति स्वार्थिकणान्तस्य प्रशब्दने पश्चात्समासः ॥ श्रम इति ॥ अथ कथं विश्राम इति । अपाणिनीयमिति तु दी अतः । 'विश्राम लभतामिदं च शिथिलज्याबन्धमस्मद्धनुः' इत्यादौ तु विश्रान्तिपदप्रक्षेपेणाप्युपपत्तिः । विश्रामभूरिति त्वन्याय्यमेवेति वामनादयः । वस्तुतस्त्वत्रापि प्रमादशब्दवत्समाधानम् ॥ (मूर्ती घनः) काठिन्ये परिच्छेदे च हन्तेरप्रत्ययो घनादेशश्च ।। दधिधनः । सैन्धवघनः॥ __ (सुबोधिनी)-मूर्ती घनः॥ मूर्तिः काठिन्यं परिच्छेदश्च तस्मिन्नभिधेये हन्तरः स्थाद्धातोर्घनादेशश्च ॥ कठिनं दधि इति दधिधनः । परि छेदे सैन्धवधनः ॥ (तत्त्वदी०)-मूर्ती घन इति ।। मूर्तिः काठिन्यम् ॥ (हनो वधोऽप्रत्ययश्च) हननमिति वधः॥ (सुबोधिनी)-हनो वधोऽप्रत्ययश्च ॥ अनुपसर्गाद्धन्तेर्भाव अप्रत्ययः स्याद्धातोर्वधादेशश्च ॥ वधः । चकाराद्धपि । हनो घदिति धदादेशः। घातः ॥ Page #347 -------------------------------------------------------------------------- ________________ [ उत्तरकृदन्तप्रक्रिया ] टीकाद्वयोपेता । ( ३२७ ) ( द्वितोsथुः ) द्वितो धातोरथुर्भवति भावादौ ॥ टुवेट कम्पने ॥ वेपनं वेपथुः । नन्दथुः । श्वयथुः ॥ (सुबोधिनी) - द्वितोऽथु ॥ अयमपि स्वभावाद्भावे एव ॥ टुवेट कम्पने वेपथुः ॥ टुना समृद्धौ । नन्दथुः ॥ टुओश्विर् गतिवृद्धयोः । श्वयथुः ॥ (तत्त्वदी० ) - द्वितोऽथ रेति ॥ टुरिद्यस्य स द्वित् तस्मात् ॥ ( तिमि तत्कृते ) द्वितो धातोत्रिमक् प्रत्ययो धात्वर्थेन कृतेऽर्थे ॥ करणेन निर्वृत्तः कृत्रिमः घटः । पवित्रमः ॥ (सुबोधिनी) - तिस्त्रिमक् तत्कृते ॥ धात्वर्थनिर्वृत्तेऽर्थे । (अयं स्वभावाद्भावे) कित्त्वात्संप्रसारणादि । डुकृञ् करणे । करणेन निर्वृत्तः कृत्रिमः ॥ डुपचष् पाके पाकेन निर्वृत्तः पवित्रमः । डुवय् बीजसंताने । वापेन निर्वृत्तम् । यजामिति संप्रसारणम्। उत्रिमम् ॥ 3 - (तत्त्वदी ० ) - ति इति । डु इद्यस्य स डित् तस्मात् ॥ तत्कृते इति ॥ थेंन कृतस्तत्कृतस्तस्मिन्नित्यर्थः । (यद्यपि भावादावित्यनुवर्तते तथापि स्वभावाद्भाव एवैतद्वयम् ॥ न हि कृतेन निवृत्तमित्येवं कापि विग्रहः ॥ ) (नङ्की) धातोर्नको प्रत्ययौ भावादौ ॥ यज इज्यन्ते देवा अनेनेति यज्ञः । याच्ञा । पती यत्नः । प्रच्छविच्छोः शो नेऽसंप्रसारणं च । प्रश्नः । विश्नः । रक्ष गलने । रक्षणः । स्वप्नः । अन्तः धीयते यः सः अन्तर्द्धिः । आधिः । विशेषेण जनेषु पीडा आधीयतेऽनेनेतिः व्याधिः । प्रकर्षेण दधाति रथमार्गमनेनेति प्रधिः । वारि धीयते - ऽस्मिन्निति वारिधिः । पाथः धीयतेऽस्मिन्निति पाथोधिः ॥ (सुबोधिनी) - नङ्की ॥ ङकारककारावितौ । एतौ भावेऽकर्तरि कारके च भवतः॥ नङ्प्रत्ययमाह-क्ङिति चेति गुणो न । यज देवपूजादौ । श्चुत्वम् । यज्ञः । 'यज्ञः सवोऽध्वरो यागः' इत्यमरः ॥ टुयाच याच्ञायाम् । याच्ञा ॥ यती प्रयत्ने । यत्नः ॥ क्ङितिं झसे जमे चेत्यनेन प्रच्छविच्छाः शो ने । ग्रहामिति संप्रसारणं न भाष्यानुक्तत्वात् । प्रच्छ ज्ञीप्सायाम् प्रश्नः ॥ विश प्रवेशने । विश्वः ॥ रक्ष पालने । रक्ष्णः ॥ ञिष्वप् शये । स्वमः । किमत्ययमाह - डुधाञ् धारणादौ । आतोऽनपीत्यालोपः।अन्तर्द्धिः ॥ प्रधिः ॥ पयांसि धीयन्तेऽस्मिन्निति पयोधिः । वारिधिः ॥ ( तत्त्वदी ० ) - नङ्की ि॥ न च किश्व नङ्की । यज्ञ इति ॥ यजनं यज्ञः । "यज्ञार्थात्र्मणोsन्यत्र लोकोऽयं कर्मबन्धन:' इत्यत्र तु इज्यत इति यज्ञो विष्णुरिति कर्मणि ॥ याच्ञेति ॥ Page #348 -------------------------------------------------------------------------- ________________ (३२८) सिद्धान्तचन्द्रिका। [उत्तरकृदन्तप्रक्रिया ] यद्यपि नङन्ताः पुस्येव तथाप्ययं स्त्रीलिङ्गः स्वभावात् ॥ प्रश्न इति ॥ संज्ञापूर्वकत्वेनानित्यत्वान्न संप्रसारणम् ॥ अन्तद्धिरिति ॥ कित्त्वादातो लोप इत्यालोपः ॥ आधिरिति ॥ आधानमाधीयत इति वा ॥ वारिधिरिति ॥ वारीणि धीयन्तेऽस्मिन्नि ते वारिधिः ॥ (युट भावे च) ज्ञानम् । करणम् । कारणम् ॥ (सुबोधिनी)-युट भावे च॥ धातोर्भावे युट् स्याञ्चकारात् युण च ॥ युवारित्यनादेशः । डित्त्वादीप् । णित्त्वाइद्धिः। ज्ञा अवबोधने । ज्ञानम् । डुकृञ् करणे । करणम् । युण् प्रत्ययः । कारणम् ॥ । (साधनाधारयोश्च) पच्यतेऽनेनेति पचनोऽग्निः । पच्यतेऽस्यां पचनी स्थाली ॥ (सुबोधिनी)-साधनाधारयोश्च ॥ साधनेऽधिकरणे चार्थे धातोर्युट् प्रत्ययः स्यात् ॥ डुपचष् पाके ॥ 'पच्यतेऽननेति पचनः । अत्र रणे युट । व्रित इतीप् । पच्यतेऽस्यामित्यधिकरण युट् । पचनी ॥ (ईषदःसुष खल्यू) ईषदादिषु प्रयुज्यमानेषु खल्यू एतौ स्तो भावादौ ॥ ईषद्भवः। दुर्भवः। सुकरः। दुःखेन यु यते इति दुर्योधनः । दुःखेन शिष्यते इति दुःशासनः । कर्तृकर्मणोश्व्यर्थयोरीषदादिषु चोपपदेषु भूकृञोः खल् । अदुराढयेन दुराढ न भूयते दुरायम्भवं भवता । अस्वाढयः स्वादयः क्रियते स्वाढयङ्करः॥ (सुबोधिनी)--ईषदुःसुषु खल्यू ॥ एषूपपदेषु धातोः खल्यू प्रत्ययौ स्तः भावे कर्मणि च॥ खल्यूप्रत्ययाभाह-खित्त्वात् खिति पदर येति नुम् । भू सत्तायाम् । ईषद्भवः॥ दुर्भवः। डुकृञ् करणे । सुकरः॥युप्रत्ययमाह-रध संप्रहारे । दुःखेन युध्यत इति दुर्योधनः॥ दुःखेन शिष्यते इति । शासु अनुशिष्टौ । दुःशासनः। दुरिति कृच्छ्रार्थ वर्तते । इतरौ त्वकृच्छार्थे वर्तेते । कर्तृकर्मणोश्व्य र्थयोपिदादिषु चोपपदेषु भूकृञोः खल् । कर्तृकर्मवाचकौ शब्दौ धातारेव्यवधानन प्राक् प्रयुज्यते । ईषदादयस्तु ताभ्यां प्राक् प्रयोज्याः । दुःखेनाढयेन भूयते इति दुराव्यम्भवं भवता । अक्तादाविति निषेधात्कर्तरि तृतीया ॥ सुखेनाढयः क्रियते स्वाव्यङ्करः गः॥ __(तत्त्वदी०) ईषदुःसुषु॥ खल् च युश्च खल्यू । लकार इखखीत्यत्रोक्तात्खपत्ययाद्भेदज्ञापनार्थः । खकारो मुमागमार्थः ॥ ईषद्भव इति ईषद्भवनम् ॥ Page #349 -------------------------------------------------------------------------- ________________ उत्तरकृदन्तप्रक्रिया ] टीकाद्वयोपेता। (३२९) ...... अथ कृत्यप्रत्ययाः। (तव्यानीयौ) भाव कार्ययोः ॥ एधितव्यम् । एधनीयम् । आसितव्यम् । आसनीयम् । पातव्यम् । पानीयम् ॥ __(सुबोधिनी)-तव्यानीयौ ॥ कृत्यसंज्ञकान्प्रत्ययानाह-तव्यानीयौ धातोरतो प्रत्ययौ स्तः भावकर्मणोः ॥ नव्यप्रत्ययमनीयप्रत्ययं चाह -एध वृद्धौ । कृत इतीट् । एधितव्यम् एधनीयं त्वया । आस उपवेशने । आसितव्यम् । आसनीयम् ॥ भावे औत्सर्गिकमेकवचनं क्लीवत्वं च ॥ (तत्त्वदी०)-तव्यानीयाविति ॥ एधनीयमिति । भावे एकवचनमेव औत्सर्गिकत्वात् । क्लीबत्वं च लिङ्गाविशेषात् । “कृत्याः पञ्च समाख्याताः क्यब्ध्यणौ भावकर्मणोः । तव्यानीयौ स्वराद्यश्च केलिमः कर्मकर्तरि ॥" - (वसेस्तव्यः कर्तरि णिच) वसतीति वास्तव्यः ॥ (सुबोधिनी)-वसेस्तव्यः कर्तरि णिच्च ॥ वस निवासे इत्यस्यैव ग्रहणं न तु वस आच्छादने इत्यस्य लुम्विकरणत्वात् । वस निवासे अस्मात्कर्तरि तव्यः स्यात्स च णित् ॥ णित्त्वादृद्धिः । वास्तव्यः॥ (तत्त्वदी०) वसेरिति॥वस निवास इत्यस्यैव ग्रहणं न तुवस आच्छादन इत्यस्य॥ वास्तव्य इति॥णित्वाद्वृद्धिः।वस्तुनि भवो वा तव्य इति ण्यप्रत्ययेणैव रूपसिद्धिमिच्छन्तः केचिदेतन्न मन्यन्ते। (केलिमः) सौकये धातोः केलिमः प्रत्ययो भवति ॥ पचेलिमा माषाः। भिदलिमाः सरलाः ॥ . (सुबोधिनी) केलिमः॥ धातोः कर्मणि केलिमः प्रत्ययः स्यात ॥ कित्त्वान्न गुणः॥ डुपचष् पाके । पचेलिमा माषाः। पक्तव्या इत्यर्थः॥ भिदिर विदारणे । भिदेलिमाः सरलाः ॥ - (स्वरायः) स्वरान्ताद्धातोर्यः॥ चेयम् । जेयम् । तव्यादयोऽपि। चेतव्यः । चयनीयः । दित्स्यम् ॥ . (सुबोधिनी)-स्वराद्यः॥ स्वरग्रहणं धातोर्विशेषणम् । विशेषणेन तदन्तविधिः। चिञ चयने । चेयम् ॥ जि जये । जेयम् ॥ तव्यादयोऽपि भवन्ति । चेतव्यः॥ चयनीयः॥डुदाञ् दाने अस्मादिच्छायामात्मनः सः इति सः 'इस्से' इति इसादेशः। द्वित्वलोपश्च । सस्तोऽनपीति सस्य तः। दित्सति । सान्ताद्यप्रत्यये यत इत्यलोपः। दित्स्यते इति दित्स्यम् ॥ . (तत्त्वदी०)-स्वराद्य इति॥ यद्भाव्यं तद्भविष्यति' इत्यत्र तु ओरावश्यक इति ध्यण । अत्र स्वरग्रहणं चिन्त्यं धातोर्द्विविधत्वेनैव हसान्ताद्वयणो विधानेन परिशेषात्स्वरान्तलाभात् । यदि तु यत Page #350 -------------------------------------------------------------------------- ________________ ( ३३० ) सिद्धान्तचन्द्रिका | [ उत्तरकृदन्तप्रक्रिया ] इत्यत्रानपीति विषयसप्तमी तदा भूतपूर्वस्वरान्तादपि यइत्येतदर्थं स्वरग्रहणम् । तेन दिन्स्यमित्यादौ यः । वस्तुतस्तत्र स्वरग्रहणे प्रयोजनाभावाद्वयण्यपि न क्षतिरिति येयम् ॥ (ई चातः) आदन्ताद्धातोर्य आकारस्य च ईकारः ॥ देयम् । ग्लेयम् । गेयम् ॥ ( सुबोधिनी ) - ई चातः ॥ डुदाञ् दाने । देयम् ॥ गे शब्दे । गेयम् ॥ ग्लै हर्ष - क्षये । ग्लेयम् ॥ 2 ( तत्त्वदी ० ) -- ई चात इति ॥ इ इति ह्रस्व एव सुपठः । तु वासुदेवेनोक्तं दीर्घेकार विधान चकारात्खनेर्ये नस्येत्वे खेयमिति रूपसिद्धये अन्यथा पक्षे आत्वं सादिति तद्भाष्यविरोधादुपेक्ष्यम् ॥ ( पुशकात) पवर्गान्ताच्छकादेश्व यप्रत्ययः ॥ शप्यम् । यम्यम् । जप्यम् । शक्यम् । सह्यम् ॥ (सुबोधिनी) - पुशकात् । अत्र ध्यण्न भवति तव्यादयस्तु स्युरेव ॥ शप उपालम्भे । शप्यम् ॥ यमु उमरमे । यम्यम् ॥ जप व्यक्तायां वाचि | जप्यम् ॥ शकादेस्तु शक्ल शक्तौ । शक्यम् ॥ षह मर्षणे । सह्यम् ॥ (तत्त्वदी ० ) - पुशकादिति ॥ पुश्च शकश्च पुशकं तस्मात् ॥ ( ऋहसान्ताद् घ्यण् ) ऋवर्णान्ताद्धसान्ताद्धातोर्घ्यण् भावकार्ययोः ॥ कार्यम् । हार्यम् । वाह्यम् । घात्यम् । पाक्यम् । वाक्यम् । रोग्यम् ॥ ( सुबोधिनी ) - ऋहसान्ताद् ध्यण् ॥ ऋ इति धातोर्न ग्रहणं किंतु ऋवर्णस्य हससाहचर्यात् । घित्त्वाञ्चजोः कगाविति कगौ । णित्त्वाद् वृद्धिः। डुकृञ् करणे। कार्यम् ॥ हृञ् हरणे | हार्यम् ॥ वह प्रापणे । वाह्यम् । हन हिंसागत्योः । हनो घदिति घत् । घात्यम् ॥ डुपचष् पाके । पाक्यम् ॥ रुज रोगे । रोग्यम् । वच परिभाषणे । वाक्यम् ॥ (तत्त्वदी ० ) - ऋहसान्तादिति ॥ आ च हसश्च ऋहसं तस्मात् । घो घित्कार्यार्थः । णो वृद्धयर्थः । ( यणि कचित्कुत्वाभावः ) याज्यम् । याच्यम् । प्रवाच्यम् । रोच्यम् । अर्च्यम् । O 1 (सुबोधिनी) -- ध्यणि क्वचित्कुत्वाभावः ॥ यजू याच् प्रवच् रुच् ऋच् एषां कुत्वं न ध्यणि ॥ यज देवपूजादौ । याज्यम् ॥ टुयाचु याच्ञायाम् । याच्यम् । वच परिभाषणे प्रपूर्वः । प्रवाच्यं ग्रन्थविशेषः ॥ रुच दीप्तौ रोच्यम् ॥ ऋच स्तुतौ । अर्च्यम् । अत एव ऋदुपधादिति क्यप्तु न भवति ॥ (ओरावश्यके ) उवर्णान्तादावश्यकेऽर्थे घ्यण् ॥ (सुबोधिनी) - ओरावश्यके ॥ अवश्यमेवेत्यावश्यकं तस्मिन् ॥ Page #351 -------------------------------------------------------------------------- ________________ [ उत्तरकृदन्तप्रक्रिया ] टीकाद्वयोपेता। ( तत्त्वदी० )-ओरावश्यक इति ॥ अवश्यंभाव आवश्यकम् । अवश्यमष्टिलोपस्तद्धिते अव्ययत्वात् ॥ __ (ओदौतोर्यः स्वरवत् ) ओकारौकारयोर्निमित्तं यः प्रत्ययः स्वरवत् ॥ "लुम्पेदवश्यमः कृत्ये तुं काममनसोरपि । समो वा हितततयोर्मासस्य पचि गुड्योः ॥" अवश्यं लाव्योऽवश्यलाव्यः। भोक्तुकामः । श्रोतुमना । सहितम्-संहितम् । सततम्-संततम् । मांसस्य पचनम् मांस्पचनम्-मांसपचनम् । मांसस्य पाकः मांस्पाकःमांसपाकः॥ . (सुबोधिनी)-ओदौतार्यः स्वरवत् ॥ यं प्रत्ययं निमित्तत्वेनाश्रित्य गुणेन यत्र ओकारो भवति वृद्धया च यत्र औकारो भवति स च प्रत्ययः स्वरवद्भवतीत्यर्थः॥ "लुम्पेदवश्यमः कृत्ये तुं काम मनसोरपि।समो वा हितततयोर्मासस्य पचि युड्घजोः" अवश्यमो निपातस्यान्त्यं लुत् लोपं कुर्यात् कृत्ये कृत्यसंज्ञके प्रत्यये परे । यथा अवश्यलाव्यः।।तुम्प्रत्ययस्यान्न्यं लुम्पेत् काममनसोः शब्दयोः परयोः । यथा भोक्तुकामः । श्रोतुमनाः॥समुपसर्गस्यान्त्यं वा लुम्पेत् हितततयोः शब्दयोः परयोः । यथा सहितं-संहितम्।सततं-संततम्॥ मांसशब्दस्यान्त्यं वा लुम्पेत् पचिप्रकृतिकयुड्घञ्प्रत्यययोः परयोः । यथा मांस्पचनं मांसपचनम् । मांस्पाकः । मांसपाकः॥ (तत्त्वदी०)-ओदौतो रिति ॥ द्योतितार्थस्यापि कचित्प्रयोगो दृश्यते लाघवं प्रत्पनादरादित्यत आह-अवश्यलाव्यम् । (हनो वधादेशो ये) वध्यः॥ ( सुबोधिनी )-हनो वधादेशो ये॥हन हिंसागत्योरस्मात् यप्रत्ययः स्यादातोर्वधादेशश्च । वध्यः । पक्षे यणपि । हनो घदिति घत् । घात्यः ॥ (ऋदपधात्क्यप् ) ऋकारोपधाद्धातोः क्यप् ॥ कृती कृत्यम् । वृत्यम् ॥ (सुबोधिनी)-ऋदुपधा क्यप् ॥ कित्त्वाद् गुणो न । पित्त्वं स्वरार्थम् । कृती छेदने । कृत्यम्॥ वृतु वर्तने । वृत्यम् ॥ वृधु वृद्धौ । वृध्यम्॥ तपरकरणं किम् । कृत संशब्दने । ध्यण कीय॑म् ।। (तत्त्वदी०) ऋदुपधािित ॥ तपरत्वाद्दी|पधान्न । तेन कृत इत्यस्य कीर्त्यम् ।। (कृपिनृत्योर्न) कल्प्यम् । घृत दीप्तौ । चय॑म् ॥ ( सुबोधिनी)-कृपिनृत्योर्न ॥आभ्यां क्यप् न स्यात्॥ध्यण् । कृपू सामर्थ्ये । कल्प्यम् ॥ नृती हिंसायाम् । चयम् ॥ Page #352 -------------------------------------------------------------------------- ________________ सिद्धान्तचन्द्रिका । [ उत्तरकृदन्तप्रक्रिया ] . (मृजो वा) मृज्यम्-मार्यम् ॥ __(मुबोधिनी)-मृजो वा ॥ ऋदुपधादिति नित्यं प्राप्ते विकल्पार्थमारम्भः ॥ मृजूष शुद्धौ । मृज्यम् । क्यवभावे घ्यण् । मृजेर्वृद्धिरिति वृद्धिः । चजोरिति गः । मार्यम् ॥ : (भुवो भावे ) नाम्न्युपपदे भुवो भावे क्यः ॥ ब्रह्मणो भावः ब्रह्मभूयम् । नानि किम् । भव्यम् ॥ (सुबोधिनी)-भुवो भावे ॥ भू सत्तायाम् । ब्रह्मभूयम् ॥ नाम्न्युपपद इति किम् । भव्यम् । स्वराय इति यः॥ (इण्स्तुभृवृशासुजुषखनः क्यप् च) इत्यः । स्तुत्यः । दृङ आदरे । दृत्यः। वृत्यः । शासेरिः। शिष्यः । जुषी प्रीतिसेवनयोः। जुष्यः ॥ (सुबोधिनी) इणस्तुभृशासुजुषखनः क्यप् च ॥ एभ्यो धातुभ्यः क्यप् स्यात् ॥ इण् गतौ । इत्यः॥ ष्टुञ् स्तुतौ । स्तुत्यः॥ वृ इति वृञ् वरणे इत्यस्य ग्रहणम् । वृत्यः। वृङ् संभक्तावस्मा तुध्यणेव । वार्यः। दृङ् आदरे । दृत्यः॥ भृञ् भरणे । भृत्यः कर्मकरः । भर्तव्य इत्यर्थः । क्रियाशब्दोऽयं न तु संज्ञा ॥ शासु अनुशिष्टौ । शारिरितीत्वम् । घसादेरिति षः। शिष्यः ॥ जुषी प्रीतिसेवनयोः । जुष्यः ॥ . (तत्त्वदी० )-इणस्तु ॥ वृ इति वृञ् न तु वृङ् । ताप वार्या ऋत्विज इति ध्यणेव ॥ शासु अनुशिष्टौ । शासु इच्छायामपीति कश्चित् । स्वरभेदार्थमेव ॥ (खन इत्वं क्यपि ) खेयम् ॥ : (सुबोधिनी)-खन इत्वं क्यपि॥खनु अवदारणे इत्यस्य नस्येत्वं स्यात्क्यपि।। खेयम् ॥ (भिद्यौद्धयौ नदे) भिनत्ति कूलमिति भिद्यः । उज्झति जलमित्युद्धयः॥ ' (सुबोधिनी)-भिद्योद्धयौ नदे ॥ भिदिर विदारणे उज्झ त्यागे आभ्यां क्यप् स्यात्कर्तरि उज्झेर्धत्वं च निपात्यते नदे वाच्ये॥भिनत्ति कूलमिति भिद्यः॥ उज्झत्युदकमिति उद्धयः ॥ नदे किम् । भेत्ता उज्झिता, तृप्रत्ययः॥ (तत्त्वदी० )-भिद्योद्धयौ ॥ धत्वं निपात्यम् । नदे इति किम् । भेत्ता । उज्झिता ।। (कृवृषोर्वा क्यप् ) कृत्यम्-कार्यम् । वृष्यम्-वर्ण्यम् ॥ "१ इच्छार्थक यस्मान्डो विधीयते तस्यैवेत्वमत एवाऽऽशास्त इादी नेति व्याख्यानादित्वाभावेन शास्यमित्यत्र क्यबण्यतो (ध्यणो ) विशेषाऽभावात्तित्स्वरितमिति स्वर दार्थमवत्येवकारस्वारस्यम् । Page #353 -------------------------------------------------------------------------- ________________ [ उत्तरकृदन्तप्रक्रिया ] टीकाद्वयोपेता। (३३३) ( सुबोधिनी)-कृवृषोर्वा क्यप्॥कर्तरि॥ डुकृञ् करणे वृषु सेचन आभ्यां वा क्यप् स्यात्॥करोतः क्यपोऽप्रतौ वृषस्तु ऋदुपधादिति नित्ये प्राप्ते विकल्पः । ह्रस्वस्य पितीति तुक् । कृत्यम् । वृष्य । क्यवभावपक्षे ध्यण । कार्यम् । वर्ण्यम् ॥ (पुष्यसिध्यौ नक्षत्रे ) पुष्णन्ति कार्याण्यस्मिन्निति पुष्यः । सिध्यन्ति कार्याग्यस्मित्रिति सिध्यः ॥ - (मुबोधिनी)-पुष्यसिध्यौ नक्षत्रे ॥ पुष पुष्टौ पिधु गत्याम् आभ्यामधिकरणेऽर्थे क्या निपात्यते॥ पुष्य । सिध्यः । नक्षत्रे किम् । पोषणम् । सेधनम् । साधनाधारयोरिति युट ॥ (राजम्यादयः) गज्ञा सोतव्योऽभिषवद्वारा निष्पादयितव्यः राजसूयः । सरत्याकाशे मूर्यः॥ (सुबोधिनी)-राजसूयाद यः॥ क्यबन्ताः शब्दा निपात्यन्त ॥ षुज अभिषवं । राज्ञा मोतव्य इति राजसूयः। अभियवद्वारा निष्पादयितव्य इत्यर्थः ॥ यद्वा राजा सूयते कण्डयतेऽत्रेति राजसूय । राजाऽत्र सोमः। अधिकरणे क्यप् । निपातनादीर्घः। अर्द्धर्चादित्वात् पुन्नपुंसकः॥ मृ गतौ । सरत्याकाशे इति सूर्यः । कर्तरि क्यप् । निपातनादुरादेशः । 'य्वोर्वि इसे' इति दीर्घः । यद्वा षू प्रेरणे तुदादिः । सुवति कर्मणि लोकं प्रेरयतीति सूर्यः । क्यपो रुट निपातनात् ॥ ( तत्त्वदी०)-राजसूया य इति ॥ लतात्मकः सोमो राजा स सूयते कण्ड्यतेऽत्रेति अधिकरणे क्यम् । निपातनादीर्घः । अर्द्धर्चादिरयम् ॥ मूर्य इति ॥ सरत्याकाशे सुवति कर्मणि लोक प्रेरयतीति वा ॥ (तव्यादयोऽहेऽर्थे विधौ शक्तौ च वक्तव्याः)दर्शना) द्रष्टव्यः। दर्शनीयः दृश्यः ॥ स्वाध्यायोऽध्येतव्यः । अध्ययनीयः अध्येयः॥ श्रोतव्यः॥ मन्तव्यः। वोटव्यः॥ तव्यादीनां कृत्यसंज्ञा ॥ (सुबोधिनी)-तव्यादयोऽहऽथै विधौ शक्तौ च वक्तव्याः ॥हशिर प्रेक्षणे अस्मात्तव्यप्रत्यये गुणे कृते राम झसे दृशामिति रछशषेति षत्वं ष्टुत्वम्। द्रष्टव्यः ॥ अनीयप्रत्यये तु दर्शनीयः। क्र. पि तु दृश्यः ॥ इङ अध्ययने अस्मात्तव्यप्रत्यये गुणे कृत अध्येतव्यः। अनीये तु अध्धयनीयः।यप्रत्यये अध्येयः॥ श्रु श्रवणे । श्रोतव्यः।। श्रवणीयः । क्यपि तु श्रुत्यः ॥ नन ज्ञाने । मन्तव्यः । मननीयः॥वह प्रापणे अस्मात्तव्यप्रत्यये हो ढ इति ढत्वे तथोर्ध इति धत्वं ष्टुत्वं ढि ढो लोप इति ढलोपपूर्वदीपों सह वहीरित्योत्वम् । वोढव्यः । वहनीयः ॥ कृत्यक्तखलर्थाः प्रत्ययाः भावकर्मणोर्भवन्ति। इति कृत्यप्रत्ययाः॥ Page #354 -------------------------------------------------------------------------- ________________ (३३४) सिद्धान्तचन्द्रिका। [उत्तरकृदन्तप्रक्रिया ] (स्त्रियां यजां भावे) यजादेर्धातोः स्त्रियां भावे क्यम् ॥इज्या । व्रज्या । समज्या । निषद्या । निपत्या । मन्या । विद्या। सुत्या । शय्या। भृत्या । इत्या । कृत्या॥ .. (सुबोधिनी )-स्त्रियां यजा भावे॥क्यप्प्रत्ययम ह--पित्त्वात्तु।कित्त्वाद् गुणनिषेधः संप्रसारणं च । यज देवपूजादौ । यजामिति संप्रसारणम् । यजनमिज्या ॥ व्रज गतौ । व्रजनं व्रज्या ॥ अज गतौ क्षेपणे च । समजन्त्यस्यामिति समज्या सभा। अजेः क्यपि वीभावोन निपातनात्॥षद्ल विशरणादौ । निषीदन्त्यस्यामिति निषद्या आपणः। प्रादेश्चेति षत्वम् । पल पतने । निपतन्त्यम्यामिति निपत्या पिच्छिला भूमिः ।। मन ज्ञाने । मन्यतेऽनयति मन्या गलपार्श्वनाली ॥ विद ज्ञाने । विदन्त्यनयेति विद्या ॥ षुञ् अभिषवे । ह्रस्वस्येति तुक् । सुत्या अभिषवः । शी स्वप्न । शरतेऽस्यामिति । शीङोऽयङ् । ये क्ङितीत्ययङ् । शय ॥डुभृञ् धारणादौ । भृत्या जीविका ॥ इण गतौ । ईयतेऽनयेति इत्या शिविका । डुकृञ् करणे कृत्या। _ ( तत्त्वदी०)-स्त्रियां यजामिति ॥ वहुवचनमाद्यर्थम् । तेन यज शी व्रज विद पुञ् . मन विद भृञ् अटाट्य इण् समज निषद निपत कृञ् हन् एषां ग्रहणम्॥इज्येति।कित्त्वात्संप्रसारणम् । समज्या सभा ॥ निषद्या आपणः ॥ निपत्या पिच्छिला भूमिः॥ मन्यतेऽनया क्रुद्धादिरिति मन्या गलपार्वशिरा॥विद्यते ज्ञायतेऽर्थतत्त्वमनया विद्या॥सूयते से मोऽत्रेति सुत्याऽभिषघदिवसः ।। शय्यतेऽस्यां शय्या खटादि ॥ भरणं भृत्या वेतनम् । ईयते गम्यते नयेति इत्या शिबिका दिः॥ भृतिमतिरासूतिरिति तु सूत्रेषु निपातनात् ।। (कृयो यग्वा) अयकि। क्रिया ॥ इरिच्छति निपातः। इषेः शः। छत्वादेशः । इच्छा । सर्तेर्गुणः परिसर्या । अटाट्या । आस्या । जागतेर्गुणः जागा ॥ (सुबोधिनी)-कृञो यग्वा ॥ करांतेर्यक् प्रत्ययं वा स्यात् यक्प्रत्ययाभावे शप्रत्ययो निपातनाद्भवति भावकर्मणोरर्थयोः ॥ यक्प्रत्यय अयकीति रिङ आप च । क्रिया ॥ इषु इच्छायामस्मात् शप्रत्ययो निपात्यते । शित्त्वाच्चतुर्वकार्यम् । तेन गमामिति छः । आवत इत्याप् । इच्छा॥सृ गतौ अस्मात् शप्रत्यययक्प्रत्ययौ निपात्येते धातोर्गुणश्च । शप्रत्यये यक्चतुविति यक् । यत इत्यलोपः आपू । परिसरणं परिसर्या । यकि तु निपातनाद्गुणः। परिसर्या॥अटगतौ । अस्मादपि शयको निपात्यते। शप्रत्यये तु यक् चतुविति यक्। यत इत्यलोपः। निपातनात् ट्यशब्दस्य द्वित्वम्।पूर्वभागे यकारनिवृत्तिदीर्घावपि निपातनात्। आवत इत्याप । अटाट्या ।यकि तु ट्यश ब्दस्य द्वित्वम् ।यकारनिवृत्तिदर्षोिं पूर्ववदेव । अटाट्या । अन्ये तु अट गतावस्मात् सूचिसूत्रिमूव्यटीति यङ् । स्वरादोरिति ट्यशब्दस्य द्वित्वम्।आत इति पूर्वस्यात्वम् । Page #355 -------------------------------------------------------------------------- ________________ [ उत्तरकृदन्तप्रक्रिया ] टीकाद्वयोपेता। (३३५) अटाटयेत्यस्मात् प्रत्ययान्तापक् प्रत्ययः। अनपि चेति यलोपः । यत इत्यलोपः । आप च । अटाट्या ॥ आर उपवेशने । निपातनाद्यक् । आस्या॥जागृ निद्राक्षये । अस्मात् शयगकारप्रत्यया निपातनाद्भवन्ति । शप्रत्यये शित्त्वाच्चतुर्वत्कार्यम् । तेन यकू चतुर्विति यकू। जागतीण्णङिद्भिन्नोत गुणः आप च । जागर्या । यकि तु जागर्तेरिति गुणः । जागर्या ! अकारप्रत्यये गुणः । जागरा ॥ (तत्त्वदी०)-इच्छेति । इच्छादयो निपात्याः ॥ परिसर्येति ॥ परिसरणम् ॥ (हनस्तः) हत्या ॥ (सुबोधिनी)-हनस्तः।। अनुपसर्गे नाम्न्युपपदे हन्ते वे क्यप् स्याद्धातानस्य तश्च ॥ ब्रह्मणो हननं ब्रह्महत्या ॥ (क्तिः ) धातोः क्तिः स्त्रियां भावे ॥ कृतिः। बुद्धिः । स्मृतिः ॥ अमान्तस्येति दीर्घः । शान्तिः । दान्तिः । कान्तिः। शान्तिः ॥ हे हूतिः । ऊढिः। स्पातिः॥ (सुबोधिनी)-क्तिः ॥ बातोः स्त्रीलिङ्गे भावादी क्तिप्रत्ययः स्यात् ॥ घञोऽपवादः। डुकृञ् करणे। कृतिः।बुध अवगमने।तथोर्ध इति तस्य धः। झबे जबा इति पूर्वधस्य दः॥ बुद्धिःस्मृ चिन्तायाम् । स्मृतिः ॥ शमु दमु उपशमे । कमु कान्तौ । क्षमृष् सहने । अमान्तस्य विङतीति दीर्घः । शान्तिः । दान्तिः। कान्तिः। शान्तिः ॥ .... ( तत्त्वदी० )-क्तिः ॥ त्रयां यजामित्यतः स्त्रियामित्यनुवर्तते ॥ -- ( हबक्त्योर्नेट) स् शीतिः ॥ (सुबोधिनी)-हबक्त्योर्नेट् ॥ हवप्रत्याहारक्तिप्रत्यययोरिण्न स्यात् ॥ शीङ् स्वप्ने । संशीतिः ॥ ( तत्त्वदीय)-हबक्त्यं रिति ॥ हबप्रत्याहारः हबश्च क्तिश्च हबक्ती तयोरित्यर्थः ॥ ... (ग्रहादीनामिट) निगृहीतिः ॥ - (सुबोधिनी)-ग्रहादीनामिट ।। ग्रहादीनां क्तिप्रत्ययस्येट् स्यात् ॥ ग्रह उपादाने । ग्रहामिति संप्रसारण- । ईटो ग्रहामिति दीर्घः। निगृहीतिः ॥ पठ व्यक्तायां वाचि । निपठितिः ॥ . ( तत्त्वदी०)-ग्रहादीनामिति ॥ पूर्वेण निषेधे प्राप्ते वचनम् । स्फातिः । यवयोरिति यलोपः । न च स्फायः सभी ति कितीत्युक्तेरत्रापि स्फीविष्यतीति वाच्यम् । क्तक्तवत्वोरेव तत्राधिकृतत्वेन लाभात् नान्यस्य : स्फीतिकाम इत्यत्र क्तान्तात् जौ तत इप्रत्यये समाधेयम् ॥ (ग्लादेनिः )ग्लानिः । म्लानिः। त्वरतेर्वस्योत्वम् तृणिः॥ Page #356 -------------------------------------------------------------------------- ________________ सिद्धान्तचन्द्रिका। [उत्तरकृदन्तप्रक्रिया ] (सुबोधिनी)-ग्लादेनिः॥ ग्लादेर्धातानिः प्रत्ययः स्यात् ॥ ग्लै म्लै हर्षक्षये । ग्लानिः । म्लानिः ॥ जित्वरा संभ्रमे । ज्वरत्वरेत्यू: तूणिः ॥ (ऋल्वादिभ्यः क्तर्निः) कीणिः । गीणिः । लुनिः। धूनिः । ( सुबोधिनी)-ऋल्वादिभ्यःक्तनिवर्णान्तात् ल्वादिभ्यश्च परस्य तंनिः स्यात् ॥ कृ विक्षेपे । ऋत इरितीर । 'खो िहसे' इति दीर्घः । कीर्णिः ॥ गृ निगरणे । गीर्णिः॥ लूज्ञ छेदने । लुनिः॥धूज कम्पने । धृनिः ॥ (संपदादेः किब्वा) संपदनं संपत् । संपत्तिः । कर्तरि क्तिः ॥ (सुबोधिनी)-संपदादेः क्विन्वा ॥ पक्षे क्तिः । पद गतौ । संपत् । विपत् । संपत्तिः । विपत्तिः । कर्तरि क्तिः॥ (संज्ञायाम ) प्रकुरुते इति प्रकृतिः॥ ( सुबोधिनी)-संज्ञायाम् ॥ धातोः कर्तरि क्तिः यात्संज्ञायां वाच्यायाम् ॥ प्रकुरुते इति प्रकृतिः ॥ (पिद्भिदामङ) पितो धातोर्भिदादेश्च स्त्रियामङ्॥पचा। मृजा।। ( सुबोधिनी)-षिद्भिदामङ्॥ पिता धातोभिदादिभ्यश्च स्त्रियामङ्. स्यात् ॥ डुपचव् पाके। आबत इत्याए । पचा ॥ मृजूषु शुद्धौ । मजा । कथं तर्हि 'मधुसुरभिमुखाब्जगन्धलब्धेः' इति माघः ॥ 'प्रेक्षोपलब्धिश्चित्संवत्' इत्यमरश्च ॥ पित्वादिहाङप्रत्यय उचितः सत्यम् । 'अनर्थकास्तु प्रतिवर्ष मनुपलब्धः' इति भाष्यप्रयोगाद्धाहुलकात् क्तिप्रत्ययोऽपि बोध्यः॥ (तत्त्वदी०) षिद्भिदामिति ॥ ष इयेषां ते षितः ते ६ भिदश्च तेषम् ॥ (ऋतोऽङि गुणः ) जरा । भिदा । छिदा । कृपा । क्षिपा। गुहा।। (सुबोधिनी) ऋतोऽङि गुणः॥ ऋतो धातोगुणः स्यादङि परे ॥ जृषिष् वयोहानौ । जरा॥भिदिर विदारेणऽर्थे भिदा । अन्या भिद्यते इति भित्तिः कुड्यम्॥ छिदिर द्वैधीकरणे । छिदा । द्वैधीकरणे एवायम् । अन्यत्र तु छिद्यते इति छित्तिः छिद्रम् । क्रपः संप्रसारणं च । क्रप कृपायामस्य संप्रसारणं स्यादङि परे । कृपा ॥ क्षिप प्रेरणे । क्षिपा ॥ गुहू संवरणे । गुहा ॥ __ (तत्त्वदी०) भिदेति विदारणे एव । अन्यत्र भित्तिः । छेत्तिः ॥गुहेति कन्दरौषध्योः । अन्यत्र गूढिः॥ (गुरोईसात् ) गुरुमतो हसान्तात्त्रियामङ् । न क्तिः ॥ईहा । ऊहा । कुण्डा ॥ Page #357 -------------------------------------------------------------------------- ________________ [ उत्तरकृदन्तप्रक्रिया ] काइयोपेता । ( ३३७ ) (सुबोधिनी) - गुरोर्हसात् ॥ ईह चेष्टायाम् । ईहा ॥ ऊह वितर्के । ऊहा ॥ कुडि दाहे । कुण्डा ॥ गुरुमत इति किम् । भक्तिः ॥ हसान्तादिति किम् । नीतिः ॥ (तत्त्वदी ० ) - गुरोरिति ॥ सेन धातोर्विशेषणात्तदन्तलाभ इत्याह-- हसान्ता दिति । तथा च तादृश समुदायो न गुरुर्भवितुमर्हतीति गुरुपदं तद्वलक्षकमित्याशयेनाह - - गुरुमत इति ॥ प्रशंसायां रूप इत्यादिनिर्देशाद्विपर्ययोऽपि नाः शङ्कयः ॥ ( प्रत्ययान्तात् ) स्त्रियामङ् ॥ चिकीर्षा । लोलूया । कण्डूया । पुत्रकाम्या | (सुबोधिनी ) - प्रत्ययान्तात् ॥ प्रत्ययान्ताद्धातोरङ् प्रत्ययः स्यात्स्त्रियाम् ॥ डुकृञ् करणे । अस्मात् इच्छायामात्मन इति सप्रत्यये कृते 'वुः से' इतीन्न । 'नानिटि से' इति न गुणः । ' से दीर्घः' इति दीर्घे कृते ऋत इरितीर् । 'खोविं हसे' इति दीर्घः ॥ द्वित्वादि पूर्ववत् । स धातुरिनि धातुत्वादङ् । कर्तुमिच्छति चिकीर्षतीति चिकीर्षा ॥ लूं छेदने । अस्मादतिशयेह देरिति यङ् द्वित्वं च । यङीति पूर्वस्य गुणः । लोलूयते इत्यस्मादङ्प्रत्यये यत इत्यलोपः । अतिशयेन लुनाति लोलूयते इति लोलूया ॥ कण्डूञ् गात्रविघर्षणे । अस्मात कण्ड्वादिभ्य इति यक् । यगन्तादङि परे यत इत्यलोपः । कण्डयते इति कडया || पुत्रशब्दात्काम्यश्चेति काम्यप्रत्ययस्ततोऽङ् । यत इत्यलोपः । पुत्रमिच्छति पुत्रकाम्यतीति पुत्रकाम्या ॥ ( तत्त्वदी० ) - प्रत्ययान्तात् ॥ कण्डूयेति कण्ड्डादियगान्तात्केवलात् क्तिरपि ॥ कण्डूतिः ॥ ( धात्वर्थनिर्देशे वुण वक्तव्यः ) आशिका | शायिका ॥ (सुबोधिनी ) - धात्वर्थनिर्देशे गुण् वक्तव्यः ॥ आशिका | शायिका | काप्यत इतीत्वम् ॥ (इश्तिपौ धातुनिर्देशे ) पचिः। पचतिः ॥ ( सुबोधिनी ) - इश्तियाँ धातुनिर्देशे ॥ इश्तिपौ प्रत्ययावाह - कित्त्वाद्गुणो न । शित्त्वाच्चतुर्वत् । डुपचवू पाके । पचिः ॥ अप कर्तरीत्यप् । पचतिः ॥ बहुलमित्यनुवृत्तेः क्वचिन्नैतौ भुवो वुमित्यादौ ॥ ( तत्त्वदी०) - इतिपात्रिति ॥ निदेशो ऽनुकरणम् । बाहुलकत्वात्कचिन गुग्भ्य इत्यादौ ॥ ( यन्तार्थासश्रन्थघट्टिवन्दिविदिइषिभ्यः स्त्रियां युः ) कारणा । हारणा । अर्थना । आसनां । श्रन्थना । घट्टना । वन्दना । वेदना । एषणा ॥ Page #358 -------------------------------------------------------------------------- ________________ "(३३८) सिद्धान्तचन्द्रिका । [उत्तरकृदन्तप्रक्रिया ] (सुबोधिनी)-यन्तार्थासश्रन्थघट्टिवन्दिविदिइषिभ्यः स्त्रियां युः॥ “एभ्यो युः स्यात् ॥ अङोऽपवादः । युप्रत्ययमाह--युवोरेत्यनादेशः । डुकृञ् करण । ओरिति बिलोपः । कारणा ॥ हृञ् हरणे । हारयतीति दारणा ॥ अर्थ याच्ञायाम् । अर्थयतीति अर्थना ॥त्रीण्यपि ञ्यन्तोदाहरणानि ॥ अस उपवेशने । आसतेऽस्यामिति आसना । ध्यण्प्रत्यय तु आस्या ॥ श्रन्थ संदर्भ । श्रन्थना ॥ घट्ट चलने ॥ घट्टना । वदि अभिवादनस्तुत्योः । वन्दना॥अत्र विद्ल लाभे अयमेव गृह्यते । वंदना। ज्ञानार्थस्य विदेस्तु संवित्तिः ॥ अनिच्छार्थस्येषेरत्र ग्रहणम् । इष गतौ । अन्वेषणा।। (तत्त्वदी०)-यन्ता० ॥ घट्ट चलने भ्वादिः । चुरादे तु ञ्यन्तत्वादेव सिद्धः ॥ विद्ल लाभार्थः । दाने तु विद चेतनादिष्विति चुरादिञ्यन्तस्यैव ॥ इस्तु गत्यर्थम्याभीक्ष्ण्यार्थस्य च • न विच्छार्थस्य ॥ (इञजादिभ्यः) आजिः । आटिः। आतिः॥ (सुबोधिनी)-इनजादिभ्यः॥ अजप्रभृतिभ्यो धातुभ्य इञ् स्यात् ॥ इञ्प्रत्ययमाह-त्रित्त्वाइद्धिः॥अज गत्यादौ। बाहुलकादजेवं भावो न । आजिः संग्रामः । अट गतौ । आटिः ॥ अत सातत्यगमने । आतिः ॥ (तत्त्वदी०)-इञजा०॥ नित्त्वाद्वद्धिः ॥आजिरिति ॥ वीभावस्तु न बाहुलकात् ।। (विभाषाऽऽख्यानपरिप्रश्नयोरिञ्च)(आक्रोशे नज्यनिः) अकराणिः। अजननिः॥ ___(सुबोधिनी)-विभाषाऽऽख्यानपरिप्रश्नयोरिर च ॥ परिप्रश्ने आख्याने च गम्ये धातोरिञ् वा स्याझुण् च ॥ यथाप्राप्तमन्येऽपि प्रत्यया भवन्ति । कां त्वं कार कारिकां क्रियां कृत्यां कृति वाकार्टीः॥ एवं गणि गणिकां गणनाम् ॥ पाचिं • पाचिकां पचां पक्तिम् ॥ आख्यानेऽप्येवम् ॥ (इक् कृष्यादिभ्यः) कृषिः। गिरिः॥ ( सुबोधिनी) इक कृष्यादिभ्यः ॥ इक्प्रत्ययमाह-कित्त्वान्न गुणः। कृष विलेखने । कृषिः ॥ गृ निगरणे । ऋत इरितीर् । गिरिः ॥ कृ विक्षेपे । किरिः॥ आवश्यकाधमर्ययोणिनिः। अवश्यं कारी ॥ शतं द यी ॥ भविष्यदर्थे णिनिश्च । ग्रामं गामी ॥ ( तत्त्वदी०)-इक् ॥ कित्त्वान्न गुणः ॥ कृषिरिति । ऋत इर् । गिरिः ॥ (पूर्वकाले क्त्वा ) धातोः समानकर्तृके ध तो प्रयुज्यमाने पूर्वकालेऽर्थे क्त्वाप्रत्ययः॥ (सुबोधिनी)-पूर्वकाले क्त्वा॥समानकर्तृकयोधात्वर्थयोः पूर्वकाले विद्यमानाद्धातोः क्त्वा स्यात् ॥ पूर्वकाले इति बहुव्रीहिःक्त्वा अव्ययकृतो भाव इति भावे । Page #359 -------------------------------------------------------------------------- ________________ [ उत्तरकृदन्तप्रक्रिया ] टीकाद्वयोपेता। (३३९) भावोऽपि घनादाविव नेह सिद्धावस्थापन्नः किंतु साध्यावस्थापन्नः । स च धातुनैव लब्धः। क्त्वाप्रत्ययार्थभूता क्रिया च क्रियान्तरं प्रति विशेषणं भवति। क्त्वाप्रत्ययमाहकित्त्वान्न गुणः । क्त्वाद्यन्तमित्यव्ययत्वाद्विभक्तेलक॥ (तत्त्वदी०)-पूर्वकाले॥धातोरिति ॥ पूर्वकालक्रियावचनादित्यर्थः । समानकर्तृके धातौ प्रयुज्यमाने यस्माद्धातोः क्त्या विधीयते तत्क्रियाकर्ता यस्य धातोः कर्ता तस्मिन्प्रयुज्यमाने क्त्वाप्रत्ययो भवतीत्यर्थः ॥ स्नात्वा भुङ्क्त इत्यत्र स्नानभोजनक्रिययोरेक एव कर्ता । स्नानक्रियायाः पूर्वभावित्वेन साधातोः क्वा । यद्यपि शक्तिः कारक सा च प्रतिकियं भिद्यते तथापि शक्तिशक्तिमतोरभेदादेककर्तृकत्वमुक्तम् । एवमेककर्तृकाणामपि नत्वा स्तुत्वा ब्रजति । नतु चात्र सर्वपूर्वाया एव भविष्यति । यथाऽमीषां विप्राणां पूर्व आनीयतामित्युक्ते सर्वपूर्व एवानीयते । अत्र वदन्ति । आख्यातवाच्यायाः क्रियायाः प्राधान्यम् । तेन तामेव प्रति सर्वासां विशेषणत्वात्परस्परेण सम्बन्धः । नहि भिक्षुको भिक्षुकान्तरं याचते किंतु सर्व एव प्रभुमिति यथा तथा स्तुतेरिह व्रज्यपेक्ष पौर्वकाल्यमिति । पूर्व भुङ्क्ते ततो व्रजतीत्यत्र तु पूर्वशब्देनैव कालस्योक्तत्वान्न क्त्वाप्रत्ययः । आस्यते भोक्तुमित्यपि भवति।आसित्वा भोक्तुमिति न भवति अनभिधानात् । किं त्वासित्वा भुक्त इत्येव । (क्तवा सेट् किन्न) धातोः सेट् क्त्वा किन्न ॥ वर्तित्वा ।शयित्वा।। (सुबोधिनी)-क्तवा सेट किन्न ॥ धातोः परः सेट् क्त्वा किन्न स्यात् ॥ ऋतु वर्तन । कृत इतीट । वर्तित्वा ॥ शीङ् स्वमे । शयित्वा ।। सेट किम् । कृत्वा । कित इतीन ॥ ( मृडमृदगुधकुषक्लिशवदवसरुदविदमुषग्रहिभ्यः कित् ) मृडित्वा । मृदित्वा । गुधित्वा । कुषित्वा । क्लिशित्वा । उदित्वा । उषित्वा । रुदित्वा । विदित्वा । मुषित्वा । गृहीत्वा ॥ (सुबोधिनी)-मृडमृदगुधकुषक्तिशवदवसरुदविदमुषग्रहिभ्यः कित् ॥ एभ्यो धातुभ्यः सटुक्त्वा कित्॥मृड सुखे ।मृद क्षोदे। गुध परिवेष्टने गुध रोषे च ।कुष निष्कर्षे । क्लिश उपतापे दिवादिः। क्लिशू विवाधने त्यादिः । वद व्यक्तायां वाचि।क्स निवासे । रुदिर अश्रुविमोचन । विद ज्ञाने।मुष स्तेये । ग्रह उपादाने। मृड मृडित्वा ।मृद मृदित्वा ॥ गुध गुधित्वा ॥ कुष कुषित्वा ॥ क्लिश क्लिशित्वा । क्लियू ऊदित्त्वाइट् । क्लिशित्वा क्लिष्ट्व। ॥ वद। यजामिति संप्रसारणम्। उदित्वा ॥ वस । वसतिक्षुधारितीट् । यजामिति संप्रसारणम् । घसादरितिषः । उषित्वा रुदिर रुदित्वा ॥ विद् विदित्वा ।। मुष मुषित्वा ॥ ग्रह । ग्रहामिति संप्रसारणम् । ईटो ग्रहामिति दीर्घः । गृहीत्वा ॥.. (नोपधात्यफान्ताद्वा) प्रन्थित्वा-प्रथित्वा।गुम्फित्वा-गुफित्वा॥ Page #360 -------------------------------------------------------------------------- ________________ (३४०) सिद्धान्तचन्द्रिका। [ उत्तरकृदन्तप्रक्रिया ] (सुबोधिनी)-नोपधात्थफान्ताद्वा॥ नोपधाद्धातोः थफान्ताच्च परः सेट क्त्वा वा कित्स्यात् ॥ ग्रन्थ संदर्भे । कित्त्वान्नो लोप इति नलोपः। ग्रथित्वा-ग्रन्थित्वा ॥ गुम्फ गुम्फने । कित्त्वपक्षे नलोपः गुफित्वा-गुम्फित्वा । नोपधात्किम् । कोथित्वा। रेफित्वा । कुथ पूतीभावे । रिफ कत्थनयुद्धनिन्दाहिंसादानेषु । इह इवर्णोपधादिति विकल्पोऽपि न भवति नोपधग्रहणसामर्थ्यात् ॥ - (अलखल्वोः प्रतिषेधे ) अलंभुक्त्वा । खलुकृत्वा ॥ (सुबोधिनी )-अलंखल्वोः प्रतिषेधे । प्रतिषेधे धात्वर्थे अलंखल्वोरुपपदयो. र्धातोः क्त्वा स्यात् ॥ भुज पालनादौ । अलंभुक्त्वा ॥ हुकृत करणे । कित इतीन । खलुकृत्वा ॥ अलंखल्वोः किम् । मा कार्षीत् । प्रतिषेधे किम् । अलङ्कारः ॥ ( उदितः क्त्वो वेट ) एषित्वा-इष्ट्वा । भ्रामेत्वा-भ्रान्त्वा ॥ __ (सुबोधिनी)-उदितः क्त्वो वेट् ॥ उदितो धात: परस्य क्त्वाप्रत्ययस्यड्डा स्यात् ॥ इषु इच्छायाम् । उदित्त्वाइट् । इट्पक्षे क्त्वा सडित्यकित्त्वाद् गुणः।एषित्वा। इडभावे ष्टुत्वम् । इष्ट्वा ॥ भ्रमु चलने । उदित्त्वादि । भ्रभित्वा । इडभावे अमान्तस्येति दीर्घः । भ्रान्त्वा ॥ (तत्त्वदी०)-उदित इति ॥ उदिद्यस्य स तथा तस्मात् ॥ (अदो जघुः) जग्ध्वा ॥ (सुबोधिनी)-अदो जघुः ॥ अद भक्षणे अस्य जयादेशः क्त्वाप्रत्यय । तथार्ध इति धः । खसे चपा इति घस्य कः । झवे जबा इति कस्य गः । जग्ध्वा ॥ (समासे क्यप) समासे सति पूर्वकाले क्र ॥समानकर्तृके धातो प्रयुज्यमाने ॥ संभृत्य करोति । प्रणम्य यच्छति । अनञ्पूर्व इत्येके । अकृत्वा॥ __ (सुबोधिनी)-समासे क्यप् ॥ अव्ययपूर्वपदेऽनसमासे समानकर्तृकयोर्धात्वर्थयोः पूर्वकाले विद्यमानाद्धातोः क्यप स्यात् । क्यप्प्रत्ययमाह-कित्त्वाद् गुणो न । पित्त्वात् ह्रस्वस्य पितीति तुक् । डुभृञ् धारणादौ । णम प्रहत्वे शब्दे च। सम्प्रशब्दौ नाम्नश्च कृतेति क्त्वान्तेन नित्यं समस्येते । संभृत्य । प्रणम्याअनज़ किम्। अकृत्वा॥ अव्ययपूर्वपदे इति किम् । परमकृत्वा ।मान्तानिटां धातूनां तु मस्य लोपो वा भवति क्यापिावनति तनोत्यादीनां तु लोपस्त्वनुदात्ततनामिति नित्यं जमस्य लोपः। आगत्यआगम्य । प्रणत्य-प्रणम्य । अन्यत्र तु नित्यम् । प्रहत्य । प्रमत्य । वितत्य ॥ Page #361 -------------------------------------------------------------------------- ________________ [ उत्तरकृदन्तप्रक्रिया ] टीकाद्वयोपेता। (३४१) ( तत्त्वदी० )-समासे क्यप् ॥ समानकर्तृकत्व एव । यत्तु मत्प्रसूतिमनाराध्य' इत्यादिमहाकविप्रयोगाद्भिन्नकर्तृकेऽपि क्यबिति वासुदेवेनोक्तं तन्महान्तो न क्षमन्ते । स्थितस्येत्यध्याहारेणैव तत्र निर्वाहः । ओदनः पक्त्वा भुज्यत इत्यत्र प्रधानशक्त्यभिधाने गुणशक्तिरभिहितवत्प्रकाशते इति न्यायात्प्रधानक्रियया कर्मोक्तमतो गुणक्रियायाः कर्मविभक्तिप्राप्तिन भवति ॥ ( क्यपि लघुपूर्वात्परस्य ओरय् ) परिणमय्य । लघुपूर्वात्किम् ।' संप्रधार्य ॥ __ (सुबोधिनी)-क्यपि लघुपूर्वात्परस्य ओरय्॥लघुःपूर्वो यस्मादोत्तस्माल्लघुपूर्ववर्णात्परस्य रयादेशः स्यादित्यर्थः ॥ णम प्रबत्वे शब्दे च। अस्मात्प्रयोजकजिप्रत्यये जनीजृषित्यमन्तत्वान्मित्त्वम्। मितां हस्व इति हस्वस्ततो जेरयादेशाप्रणमय्य॥ गणसंख्याने चुरादिरदन्तः। अस्मात्स्वार्थे जिप्रत्यये यत इत्यलोपः। नन्विह कृतस्याल्लोपस्य स्थानिवद्भावेन लघुपूर्वकवर्णात्परत्वं नास्ति कथमयादेशः स्यात् । उच्यते अत्रायादेशे कर्तव्ये अल्लोपस्य स्थानिवत्त्वं भाष्यादौ न स्वीकृतमस्ति । विगणय्य ॥ लघुपूर्वादिति किम् । संप्रधार्य । संपूर्वात् धृ धारणे अस्मात्प्रयोजकजिप्रत्ययान्तात् क्यपि कृते रिति जिलोपः॥ (आप्नोतेर्वा ) प्रापय्य-प्राप्य ॥ (सुबोधिनी)-आप्नोते॥आप्ल व्याप्तावस्मात्परस्य रयादेशो वा स्यात्।। अप्राप्तविभाषेयम् । तथा च श्रीहर्षः--'अयमयोगिवधूवधपातकैर्धमिमवाप्य दिवः खलु पात्यते' इत्यत्रावाप्येत्यस्यावापय्येत्यर्थों बोध्यः ॥ (क्यपीत्वाभावः ) प्रदाय । प्रधाय । प्रस्थाय । प्रसाय । मीनातिमिनोतीत्यात्वम् । प्रमाय । निमाय । एवं लिलीडोरात्वं वेत्यादि । विलीय-विलाय ॥ (सुबोधिनी)-क्यपीत्वाभावः॥ दादेरितीत्वं स्थामीतीत्वं च प्राप्तमनेन निषिध्यते ॥डुदाञ् दाने । प्रदाय ॥ डुधाञ् धारणादौ । प्रधाय ॥ ष्ठा गतिनिवृत्तौ । प्रस्थाय ॥ षोऽन्तकर्मणि । प्रसाय ॥ कथं तर्हि 'निपीय यस्य' इति श्रीहर्षप्रयोग इति चदत्राहुः । दिवादिगणस्थस्य पीङ् पाने इत्यस्य रूपमिति ॥ (अपूर्वकालेऽपि क्वचित) मुख व्यादाय स्वपिति। नेत्रे निमील्य हसति ॥ (सुबोधिनी)-अपूर्वकालेऽपि क्वचित् ॥ क्यप् स्यात् ॥ डुदा दान। व्यादाय । यदैव स्वपिति तदैव मुखं व्यादत्ते ॥ मील निमीलने । निमील्य यदैव हसति तदैव नत्रे संमीलयतीत्यर्थः ॥ Page #362 -------------------------------------------------------------------------- ________________ (३४२) सिद्धान्तचन्द्रिका। [उत्तरकृदन्तप्रक्रिया ] (पौनःपुन्ये णम्पदं द्विश्च ) समानकर्तृतषु धातुषु प्रयुज्यमानेषु पूर्वकाले धातोर्णम् क्त्वा च णमन्तस्य ॥ द्विवचनम् ॥ पायंपायं गच्छति । भोजभोजम् । स्मारंस्मारम् ॥ मितां यन्तानामिणि णमि च वा दीर्घः। गामंगामम्-गमंगमम् । लाभलाभम्-लम्भंलम्भम्।। (सुबोधिनी )-पौनःपुन्ये णम्पदं द्विश्च ॥ पौन पुन्ये द्योत्ये समानकर्तृकयाः पूर्वकाले धातोर्णम् स्याञ्चकारात् क्त्वा णमन्तस्य द्वित्वं च ॥णम्प्रत्ययमाह-णित्त्वाद्वद्धिः । क्त्वाद्यन्तं चेत्यव्ययत्वाद्विभक्तेलृक् । पा पाने । अस्मात् णमि कृते आतो युगिीत युक् । पायंपायम् । पक्षे पीत्वापीत्वा । स्थामीती त्वम् ॥ भुज पालनादौ । भोजभोजम् । भुक्त्वामुक्त्वा॥ स्मृ चिन्तायाम् । स्मारस्गरम् । पक्षे स्मृत्वास्मृत्वा ॥ गम्ल गतौ । ञ्यन्तादस्मात् णमि कृते जनीज़ाषित्यमन्तवान्मित्संज्ञायां मितां ह्रस्व इति ह्रस्वे कृते मितां ज्यन्तानामिणि णमि चेति वा दीर्चः। गामंगामम्।गमंगमम् । पक्षे गत्वागत्वा ॥ डुलभ प्राप्तौ अस्मात् णमि कृते र भेरिण्णमोरित वा नुम् । लम्भलम्भम् । नुमभाव वृद्धिः । लाभलाभम् । पक्षे लब्धालब्ध्वा ॥ (तत्त्वदी०)-पौनःपुन्ये णम्पदं द्विश्च ॥ णमन्तस्य नामत्वात्स्यादौ पदत्वम् । पायंपायमिति ॥ आतो युगिति युक् ॥ गामंगाममिति ।। मितां ञ्यन्तानामिति दीवः ॥ लम्भलम्भमिति ॥ णमि वा नुम् । व्यवस्थितत्वादुपसृष्टे प्रल भमित्यादौ नित्यमेव ।। (कथमादिषु स्वार्थे कृत्रो णम् ) कथंकारम् । अन्यथाकारम् । एवंकारम् । इत्थंकारं पठति । इत्थं पठतीत्यर्थः । . . ( सुबोधिनी)-कथमादिषु स्वार्थे कृतो णम् ॥ कथमित्थमन्यथैवमित्यादिखूपपदेषु कृलो णम् स्याद्यदि कृञ् प्रयोगाऽनहः स्यात्॥ थिंकारं पठति। कथं पठतीत्यर्थः । अन्यथाकारं भुङ्क्ते । अन्यथा भुते इत्यर्थः ॥ एवं कारं करोति । एवं करोतीत्यर्थः ॥ इत्थंकारं वदति । इत्थं वदतीत्यर्थः ॥ प्रयोगाऽनर्ह इति किम् । शिरोऽन्यथा कृत्वा भुते ॥ (अग्रेप्रथमपूर्वेषूपपदेषु क्त्वाणमौवा) अग्रेभोज ब्रजति अग्रेभुक्त्वा । प्रथमंभोजम्-प्रथमंभुक्त्वा । पूर्वभोजम्-पूर्व भुक्त्वा । पक्षे प्रत्ययाभावः। अग्रे भुङ्क्ते ततो व्रजति । आमीक्ष्ण्ये तु पूर्वेण नित्यमेव णम् । अग्रेभोजभोजं व्रजति ॥ (सुबोधिनी )-अग्रेप्रथमपूर्वेषूपपदेषु क्त्वाणमौ वा ॥पौनःपुन्ये इति नानुवर्तते एखूपपदेषु समानकर्तृकयोः पूर्वकाले क्त्वाणमौ वा स्तः ॥ अग्रे इति सप्तम्यन्त Page #363 -------------------------------------------------------------------------- ________________ [ उत्तरकृदन्तप्रक्रिया ] टीकाद्वयोपेता। (३४३) स्यानुकरणम् । प्रकृतिवदनुक रणमित्यस्य वैकल्पिकत्वाद्विभक्तेलुक्न कृतः । अग्रेभो-. जम् अग्रेभुक्त्वा वा व्रजति । अन्येभ्यो भोक्तृभ्यः पूर्व भुक्त्वा व्रजतीत्यर्थः । पक्षे लडादयः। अग्रे भुते । पौनःपुन्ये तु नित्यमेव णम् क्त्वा च । अग्रेभोजभोजम् अग्रेभुक्त्वाभुक्त्वा वा व्रजति ॥ (कर्मण्याक्रोशे कृतः खमत्र ) चौरंकारमाक्रोशति । चौरशब्दमुच्चार्येत्यर्थः॥ __(मुबोधिनी)-कर्मण्य क्रोशे कृञःखमुञ् ॥ कर्मण्युपपदे आक्रोशे गम्ये करोतेः खमुञ् ॥ खमुञ्प्रत्य यमाह-खित्त्वात्विति पदस्यति मुम् । जित्त्वाइद्धिः । उकार उच्चारणार्यः। अब करोतिरुच्चारणेऽयें वर्तते । चौरंकारमाक्रोशति । चौरशब्दमुच्चार्येत्यर्थः॥ . ( तत्त्वदी०)-चौरंका मिति॥ खित्त्वान्मुम् । करोतिरत्रोचारणार्थः । चौरादयश्च शब्दप्रधानाः । चौर इति शब्दमुच्चार्य कोशतीत्यर्थः । नात्र चौरत्वं कारण किं त्वाक्रोशसंपादनार्थमचौरोऽपि चौर इत्युच्यते ॥ (व्यर्थेषु स्वादर्थे कृत्रोणम्) एककर्तृकयोः पूर्वकाले। पूर्वपदस्य मान्तत्वं निपात्यते । अस्वादुं स्वादुं कृत्वा भुङक्ते स्वादुंकारं भुङ्क्ते । संपन्नंकारम् । लवणंकारम् । संपन्नलवणशब्दो स्वादुपर्यायौ । क्त्वाऽपि । स्वाइंकृत्वा भुते॥ __ (सुबोधिनी)-व्यर्थेष स्वाद्वर्थे कृत्रो णम् ॥ स्वादुपर्यायेषूपपदेष्वेककर्तृकयोः पूर्वकाले करोतेर्णम् ग् यात्पूर्वपदस्य मान्तत्वं निपात्यते ॥ (तत्त्वदी०) व्यर्थेषु र वाद्वर्थे इति ॥ प्रकृतेन खमुत्रा सिद्धेऽप्यव्ययत्वान्नुम्न स्यादापश्च निवृत्तिः स्यादित्याद्यर्थ निपातनम् । अस्वाद्वीं स्वाद्वी कृत्वा यवागू भुङ्क्ते स्वादुङ्कारं यवागू भुङ्क्ते ।। ( यथातथयोरसूयाप्रतिवचने कृत्रः सिद्धाप्रयोगे णम् ) यथाकारमहं भोक्ष्ये तथाकारं भोक्ष्ये किं तवानेन । सिद्धाप्रयोगे किम् । सिद्धं कृत्वा भुड़क्ते ॥ ___ (सुबोधिनी)-यथातथयारसूयाप्रतिवचने कृञः सिद्धाप्रयोगे णम् ॥ यथातथयोरुपपदयोः करोते सिद्धाप्रयोगे णम् स्यात् । सिद्धः अप्रयोगोऽस्य एवंभत. श्वेत् कृञ् व्यर्थत्वात् प्रयोगानह इत्यर्थः। गुणेषु दोषारोपणमसूया असूयया प्रतिवर्चनं असूयाप्रतिवचनं तस्मिन् वाच्ये सति ॥ यथाकारमहं भोक्ष्ये तथाकारं भोक्ष्ये । यथा भोक्ष्येऽहं तथा भोक्ष्ये इत्यर्थः ॥ Page #364 -------------------------------------------------------------------------- ________________ (३४४) ___ सिद्धान्तचन्द्रिका। [ उत्तरकृदन्तप्रक्रिया ] (तत्त्वदी० )-सिद्धाप्रयोगे इति ॥ सिद्धः अप्रयोगोऽपि कृत्रो निष्प्रयोजनत्वात्प्रयोगानर्ह इत्यर्थः ॥ (कर्मणि दृशिविदोः साकल्ये) कन्यादर्श वरयति । सर्वाः कन्या इत्यर्थः । ब्राह्मणवेदं भोजयति । यं यं ब्राह्मणं जानाति लभते विचारयति वा तं तं सर्व भोजयतीत्यर्थः॥ (सुबोधिनी)-कर्मणि दृशिविदोः साकल्ये ॥ कर्मण्युपपदे दृशिविदोर्णम् स्यात् साकल्ये ॥ सकलस्य भावः साकल्यं तस्मिन् ॥ दशिर प्रेक्षणे । विद ज्ञान विद्ल लाभे विद विचारणे इति त्रयाणां ग्रहणम् ॥ । (यावति विन्दजीवोः) यावद्वेदं भुङ्क्ते । यावल्लभते तावदित्यर्थः ॥ यावज्जीवमधीते विप्रः॥ ( सुबोधिनी)-यावंति विन्दजीवोः ॥ यावच्छ दे उपपदे विद्ल लाभ जीव प्राणधारणे आभ्यां णम् स्यात् ॥ ___ (तत्त्वदी० )-यावदिति ॥ पूर्वकाल इतीह नास्ति । असाकल्यार्थमिदम् । साकल्ये दृशिविदोरित्येव सिद्धेः ॥ (कर्मणोश्चर्मोदरयोः पूरैः) चर्मपूरं स्तृणा ते । उदरपूरं भुङ्क्ते ॥ (सुबोधिनी )-कर्मणोश्चर्मोदरयोः पूरेः ॥ चम् दिरयोः कर्मणोरुपपदयोः पूरी आप्यायनेऽस्मात् णम् स्यात् ॥ चर्मपूरं स्तृणाति । उच्छादयतीत्यर्थः॥ _(कर्मण्युपपदे पूरेरूलोपश्च वा वर्षप्रमाणे गम्ये ) गोप्पदप्रं वृष्टो देवः।गोष्पदपूरं वा।मूषिकाबिलप्रं वृष्टोदेवः मूषिकाबिलपूरं वा॥ (सुबोधिनी)-कर्मण्युपपदे पूरेरूलोपश्च वा वर्षप्रमाणे गम्ये ॥णम् स्यात् समुदायन वर्षप्रमाणे वर्षस्य वृष्टेः प्रमाणं तस्मिन् गम्ये । 'वृष्टिर्वपम्' इत्यमरः ॥ (चैलार्थेषु कर्मसूपपदेषु क्नोपेवर्षप्रमाणे ) चैल कोपं वृष्टो देवः। वस्त्रकोपम् । वसनक्नोपम् ॥ (सुबोधिनी) चैलार्थेषु कर्ममूपपदेषु कनोपर्वर्षप्रमाणे ॥ चैलमों येषां तानि चैलार्थानि तेषु कर्मसपपदेषु क्रूयी शब्दे उन्दे च र न्तादस्मात् णम् स्यात् ।। क्रूय् धातोः प्रयोजके जिप्रत्यये कृते हीन्लीरीयीक्ष्मायीनामिति पुक् । यवयोर्वसे हकारे चेति यलोपः । पुकीति गुणः॥ क्नोपीति भ्यन्ताण्णम । रिति जिलोपः । चैलं क्नोपयत्यार्दीकरोतीति चैलक्नोपम् ॥ Page #365 -------------------------------------------------------------------------- ________________ [ उत्तरकृदन्तप्रक्रिया ] टीकाद्वयोपेता । (३४५) (निमूलसमूलयोः कषः) अत्र प्रकरणे पूर्वकाल इति न संबध्यते असंभवादप्रतीतेश्च ॥ निमूलकाषं कषति । समूलकाषं कषति । निमूलं समूलं वा कषतीत्यर्थः॥ (सुबोधिनी)-निमूलसमूलयोः कषः ॥ निमूलसमूलयोः कर्मणोरुपपदयोः कष हिंसायामस्माद्धातोर्णम् स्यात् ॥ __(तत्त्वदी०)-निमूल०॥निमूलादिप्रकृतिकधातोरेव कषादेन त्वन्यधातुयोगेऽपीति बोध्यम्।। निमूलकाषमिति ॥ निर्गतं मूलमस्येति निमूलम् । एकस्यापि धात्वथस्य निमूलादिविशेषणसंबन्धाद्भेदे सति सामान्यविशेषभावेन विशेषणविशेष्यभावः । एवमग्रेऽपि ॥ (शुष्कचूर्णरूक्षेषु कर्मसूपपदेषु पिषः) शुष्कपेष पिनष्टि । शुष्कं पिनष्टीत्यर्थः । चूर्णपेषम् । रूक्षपेषम् ॥ . (मुबोधिनी) शुष्कचूर्णरूक्षेषु कर्ममूपपदेषु पिषः॥एषु कर्मसूपपदेषु पिष्ल संचूर्णनेऽस्माद्धातोर्णम् स्यात् ॥ (समूलाकृतजीवेषु कर्मसु हन्कृयहां णम्) समूलघातं हन्ति॥ समूलं हन्तीत्यर्थः । अकृतकारं करोति । जीवग्राहं गृह्णाति । जीवन्तं गृहातीत्यर्थः ॥ (सुबोधिनी)-समृलाकृतजीवेषु कर्मसु हन्कृयहां णम्॥समूलादिषु कर्ममूपपदेषु हनादिभ्यो णम् स्यात्।हनादीनामेव यथाविध्यनुप्रयोगश्च कर्तव्यः॥समूलोपपदाद्धन्तेर्णमि कृत हनो घदिति घत् । ततोऽत उपधाया इति वृद्धिः। समूलघातम् ॥ जीवोपपदाद् गृहातेर्णमि कृते वृद्धिः । जीवग्राहम्।जीवतीति जीवः। नाम्युपधादिति कः। जीवन्तं गृहातीत्यर्थः॥ (करणे हनः ) पादघातं हन्ति । पादेन हन्तीत्यर्थः॥ (सुबोधिनी)-करणे हनः॥ करणकारकोपपदाद्धन्तेणम् स्याद्धन्तेरनुप्रयोगश्च ॥ नित्यानुप्रयोगार्थमिदं सूत्रम् । भिन्नधातुसंबन्धे तु हिंसानामिति वक्ष्यते ॥ ( स्नेहने पिषः ) उदपेषं पिनष्टि । उदकेन पिनष्टीत्यर्थः ॥ (सुबोधिनी )-स्नेहने पिषः ॥ स्नेहनकरणोपपदात् पिष्ल संचूर्णनेऽस्माण्णम् स्यात् ॥ स्निह्यते येन तत् स्नेहनं तस्मिन् । पेषवासवाहनादिषु परेषु उदकस्योदादेशो वक्तव्य इत्युदादेशः । उदपेषम् ॥ (हस्तार्थे करणे वर्तिग्रहोः) हस्तवर्त वर्तयति । करवतम् । हस्तेन गुटिकां करोतीत्यर्थः । हस्तग्राहं गृह्णाति । करग्राहम् । पाणिग्राहम् ॥ Page #366 -------------------------------------------------------------------------- ________________ सिद्धान्तचन्द्रिका । [ उत्तरकृदन्तप्रक्रिया ] (सुबोधिनी)-हस्तार्थे करणे वर्तिग्रहोः॥ हस्ताकरणकारकोपपदाभ्यां वर्तिग्रहिभ्यां णम् स्यादनयोर्यथाविध्यनुप्रयोगश्च ॥ वृतु वर्तने । ञ्यन्तादस्माण्णमि कृते अरिति जिलोपः । हस्तवते वर्तयति। हस्तग्राहं गृह्णाति हस्तन गृहातीत्यर्थः॥ (धनार्थे करणे पुषः) धनपोषं पुष्णाति । स्वपोषम् । गोपोषम् ।। (सुबोधिनी)-धनार्थ करणे पुषः॥ धनस्य पर्यायेषु विशेषेषु चोपपदेषु पुष पुष्टावस्माण्णम् स्यादस्यानुप्रयोगश्च पूर्ववत् ॥ ( आधारे बन्धः ) चक्रबन्धं बध्नाति । चक्रे बनातीत्यर्थः॥ (सुबोधिनी)-आधारे बन्धः॥अधिकरणोपपदादध बन्धनेऽस्माण्णम् स्यादनुप्रयोगश्च ॥ (संज्ञायां बनातेः) क्रौञ्चबन्धं बद्धः । म यूरिकाबन्धं बद्धः॥अट्टालिकाबन्धं बद्धः । बन्धविशेषाणां संज्ञा एताः॥ (सुबोधिनी)-संज्ञायां बनातेः॥ संज्ञायां वाच्यायामस्माण्णम् स्यात् ॥ (क!ीवपुरुषयोर्नशिवहोः) जीवनाशं नश्यति । जीवो नश्यतीत्यर्थः । पुरुषवाहं वहति । पुरुषो वहतीत्यर्थः॥ ( सुबोधिनी)-कोर्जीवपुरुषयोर्नशिवहोः॥ कर्बर्थकजीवपुरुषापपदाभ्यां णश अदर्शने वह प्रापणे आभ्यां णम् स्याद्यथाविध्यनुयोगश्च ॥ (तत्त्वदी०) कोरिति ॥ जीवनाशमिति ॥ जीव ति जीवः । नाम्युपधादिति कः।। (ऊर्वे कर्तरि शुषिपूरोः) ऊर्ध्वशोषं शुष्यति। ऊर्ध्व एव तिष्ठन् शुष्यतीत्यर्थः। ऊर्ध्वपूरं पूर्यते । ऊर्ध्वमुख एव र्यत इत्यर्थः॥ ( मुबोधिनी)-ऊर्वे कर्तरि शुषिपूरोः ॥ ऊर्ध्व त्रुपपदाभ्यां शुष शाषणे पूरी आप्यायने आभ्यां णम् स्याद्यथाविध्यनयोरनुप्रयो पश्च ॥ ऊर्ध्वशोषं शुष्यति । वृक्षादिरूर्व एव तिष्ठञ्छुष्यतीत्यर्थः॥ऊर्ध्वपूरं पूर्यते । ऊर्ध्वमुख एव घटादिवर्षोदकादिना पूर्णो भवतीत्यर्थः ॥ (उपमाने कर्मणि कर्तरि च ) घृतनिधायं निहितं जलम् । घृतमिव सुरक्षितमित्यर्थः । अजकनाशं नष्टः । अजक इव नष्ट इत्यर्थः । (कषादिषु यथाविध्यनुप्रयोगः प्रयोक्तव्यः) कषादिषु यस्माण्णम् विहितः स एवानुप्रयोक्तव्यः। तथैवोदाहृतम् ॥ - (सुबोधिनी)-उपमाने कर्मणि कर्तरि च ॥पमानवाचके कर्तरि कर्मणि चोपपदे धातोर्णम् स्यात्तस्यैव धातोरनुप्रयोगश्च ॥ Page #367 -------------------------------------------------------------------------- ________________ [ उत्तरकृदन्तप्रक्रिया ] टीकाद्वयोपेता। (३४७) (उपदंशस्तृतीयायाम् )इतः प्रभृति पूर्वकाल इति संबध्यते ॥ मूलकोपदंशं भुङ्क्ते । मलकेनोपदंशम् । दश्यमानस्य मूलकस्य भुजिं प्रति करणत्वात्तृतीया । यद्यप्युपदंशिना सह न शाब्दः संबन्धस्तथा प्यार्थोऽस्त्येव ॥ ( सुबोधिनी) उपदंश तृतीयायाम्॥तृतीयान्तोपपदादुपदंशतर्णम् स्यात् ॥ मूलकोपदंशम् । वाक्यमपि । मूलकेनापदंशम् ॥ ___ (तत्त्वदी० )-उपदंशस्तृतीयायामिति ॥ मूलकोपदंशं भुङ्क्त । मूलकेनोपदश्य भुङ्क्ते इत्यर्थः । अत्र न मूलकस्य भुज्यपेक्षया करणत्वं शाब्दम् । मूलकेन भुङ्क्ते । किं कृत्वा । उपदश्य । किम् । अर्थान्मूलकमित्येतदेव का गम्यते ॥ (हिंसार्थानां चानुप्रयोगधातुना समानकर्मकाणां तृतीयान्ते उपपदे) दण्डोपघातं ाः कालयति दण्डेनोपघातम् । दण्डताडं दण्डेन ताडं वा । नमानकर्मकाणां किम् । दण्डेन चौरमाहत्य गाः कालयति ॥ (सुबोधिनी)-हिंसार्थानां चानुप्रयोगधातुना समानकर्मकाणां तृतीयान्ते उपपदे ॥ तृतीयान्नोपपदादनुप्रयोगधातुना सह समानकर्मकाद्धिंसाण्णम स्यात् ॥ हन्तेर्णमि कृते हनो पदिति घत् । वृद्धिः। दण्डोपघातं गाः कालयति । कल विक्षेप चुरादिः । प्रेरयतीत्यः ॥ दण्डताडम् । तड आघाते चुरादिः । (सप्तम्यां तृतीयायां चोपपदे उपपीडधकर्षः) पाश्र्थोपपीडं शेत । पाश्चाभ्यामुपपीई पार्श्वयोरुपपीडं वा । व्रजोपरोधं गाःस्थापयति बजे व्रजेनोपरोम् । पाण्युपकर्ष धानाः संगृह्णाति पाणावुपकर्षम् पाणिनोपकर्षम् ॥ (सुवाधिनी)-सप्तम्यां तृतीयायां चोपपदे उपपीडरुधकर्षः।सप्तमीतृतीयान्तापपदेभ्य उपपूर्वेभ्यः पीडादिभ्यो णम् स्यात् ॥ इह सूत्रे पीडादीनां समाहारद्वन्द्व कृत्वा उपपूर्वः पीडरुधकर्ष इत्युत्तरपदलोपी समासः कर्तव्यः । सत्रे पुंस्त्वं सौत्रं ज्ञयम् । पञ्चम्यर्थे प्रथमा च ज्ञया। पीड पीडायाम् । रुधिर आवरणे । कृष विलेखने । अयं भौवादिक एव गृह्यते । गुणसहितस्य कृषेरपा निर्देशात् । तत्फलं तुदादे[दासः । यद्यपि विलेखन एव तौदादिकोशप पठ्यते तथापि क्षेत्रविषयकविलेखने एव तौदादिकः प्रयुज्यते । एवं च तौदादिकात्कर्षेः क्यप् प्रत्यय एव भवति । क्षेत्रे उपकृष्य हलेनोपकृष्यति । Page #368 -------------------------------------------------------------------------- ________________ सिद्धान्तचन्द्रिका | [ उत्तरकृदन्तप्रक्रिया ] (तृतीयासप्तम्योरुपपदयोः संनिकर्षे धातोः) केशग्राहं युध्यन्ते केशेषु गृहीत्वा युध्यन्त इत्यर्थः । हस्तग्राहम् । हस्तेन गृहीत्वा ॥ (सुबोधिनी ) - तृतीयासप्तम्योरुपपदयोः संनिकर्षे धातोः ॥ तृतीयासप्तम्युपपदाद्धातोर्णम् स्यात् ॥ सन्निकर्षः संबन्धः ॥ (तृतीया सप्तम्योः प्रमाणे गम्ये धातोः ) बगुलोत्कर्ष खण्डिकां छिनत्ति । द्वयगुलेन द्रयङ्गुले वोत्कर्षम् ॥ ( ३४८ ) (सुबोधिनी ) - तृतीयासप्तम्योः प्रमाणे गम्ये धातोः ॥ तृतीयासप्तम्युपपदाद्धातोर्णम् स्यात्प्रमाणे गम्ये ॥ द्वयोरगुल्योः समाहारो गुलम् । द्व्यङ्गुलोत्कर्ष खण्डिकांछिनत्ति। द्व्यङ्गुलेनोत्कृष्य परिच्छिद्येत्यर्थः । हर वः खण्डः खण्डिका ताम् ॥ ( अपादाने द्वितीयायां च त्वरायां गम्यमानायां धातोः ) शय्योत्थायं धावति । यष्टिग्राहं युध्यन्ते । लोष्टग्राहम् ॥ (सुबोधिनी) - अपादाने द्वितीयायां च त्वरायां गम्यमानायां धातोः ॥ पञ्चमीद्वितीयान्तोपपदाद्धातोर्णम् त्वरायां गम्यमानायाम् ॥ शय्यात्थायं धावति । शय्याया उत्थाय धावतीत्यर्थः । आतो युगिति युक् । उदः स्थास्तम्भोरिति सलोपः । यष्टा युध्यन्ते । एवं खलु युद्धाय त्वरन्ते यष्ट्यादिकमपि गृहीत्वा धावन्ति नायुधं प्रतीक्षन्त इत्थः ॥ ( अपगुरोर्वा णम्योतः ) गुरी उद्यमे । अरु पगारं युध्यन्ते अस्यपगोरं वा ॥ (सुबोधिनी ) - अपगुरोर्वा णम्योतः ॥ गुरी उद्यम इत्यस्योकारस्यात्वं वा स्याण्णमि प्रत्यये ॥ अस्यपगारं युध्यन्ते अस्यपगोरं वा । असिमुद्यम्येत्यर्थः ॥ ( अध्रुवे स्वाङ्गे द्वितीयान्ते धातोः ) विक्षेपं कथयति ध्रुवं विक्षेपम् । अध्रुवे किम् । शिर उत्क्षिप्य कथयति । येन विना न जीवनं तद् ध्रुवम् ॥ (सुबोधिनी) - अध्रुवे स्वाङ्गे द्वितीयान्ते धातोः ॥ द्वितीयान्ताध्रुवस्वाङ्गोपपदाद्धातोर्णम् स्यात् ॥ (परिविश्यमाने द्वितीयान्ते स्वाड़े धातोः उरःप्रतिपेषं युध्यन्ते । कृत्स्नमुरः पीडयित्वेत्यर्थः । 'उरोविदारं प्रतिचस्करे नखैः' ध्रुवार्थमिदम् ॥ (सुबोधिनी) - परिक्लिश्यमाने द्वितीयान्ते स्वाङ्गे धातोः ॥ सर्वतो बाध्य - माने स्वाङ्गे द्वितीयान्ते उपपदे सति धातोर्णम् स्यात् ॥ पिष्ल तंचूर्णने । उरः प्रतिषेषम् ॥ Page #369 -------------------------------------------------------------------------- ________________ [ उत्तरकृदन्तप्रक्रिया ] टीकाद्वयता । ( ३४९ ) ( द्वितीयान्ते विशिपतिपदिस्कन्दां व्याप्यमानासेव्यमानयोः) गेहादिद्रव्याणां विश्यादिक्रियाभिः साकल्येन संबन्धो व्याप्तिः । क्रियायाः पौनःपुन्यमासेवा । गेहानुप्रवेशमास्ते । गेहंगेहमनुप्रवेशम् । एवं गेहानुप्रपातम् । गेहानुप्रपादम् । गेहानुस्कन्दम् । असमासे गेहस्य णमन्तस्य च पर्यायेण द्वित्वम् । गेहंगेहमनुप्रवेशम् । गेहमनुप्रवेशमनुप्रवेशम् ॥ (सुबोधिनी) - द्वितीयान्ते विशिपतिपदि स्कन्दां व्याप्यमानासेव्यमानयोः ॥ द्वितीयान्तोपपदेभ्यो विश्यादिभ्यो णम् स्याद्वयाप्तौ पौनःपुन्ये चार्थे || वीप्सायां पदं द्विरिति द्विः । क्रियासमभिहारे इति द्वित्वं तु न भवति समासनैव वीप्सासमभिहारयोरुक्तत्वात् । यद्यपि पौनःपुन्ये णमुक्त एव तथापि द्वितीया - तस्योपपदसंज्ञार्थमासेवायामिह पुनर्विधिः । समासे गेहानुप्रवेशम् । असमासे गेहं गेहमनुप्रवशमिति च ॥ ( क्रियान्तरेषु कालेषु द्वितीयान्तेषपपदेषु क्रियाव्यवधाने वर्तमानयोरस्यतितृषोः ) द्वयहात्यासं गाः पाययति । द्वहमत्यासम् । द्वयहतर्षम् । अत्यसनेन तर्षणेन च गवां पानक्रिया व्यव धीयते । अद्य पाययित्वा द्वयहमतिक्रम्य पुनः पाययतीत्यर्थः ॥ • (सुबोधिनी ) - क्रियान्तरेषु कालेषु द्वितीयान्तेषूपपदेषु क्रियाव्यवधाने वर्तमानयोरस्यतितृषोः ॥ क्रियामन्तरयन्ति व्यवधानेनेति क्रियान्तरास्तेषु क्रियान्तरकालवाचिषु शब्देषु द्वितीयान्तेषूपपदेषु सत्सु क्रियाव्यवधाने वर्तमानाभ्यामसु क्षेषणे ञितृष पिपासायामाभ्यां णम् स्यात् ॥ (नानि द्वितीयान्ते आदिशिग्रहोः) नामादेशमाचष्टे । नामग्राहं कथयति ॥ (सुबोधिनी) - नानि द्वितीयान्ते आदिशिग्रहोः ॥ द्वितीयान्तनामशब्दोपपदाभ्यामाङ्पूर्वकः दिश अतिसर्जने ग्रह उपादाने आभ्यां णम् स्यात् ॥ ( अव्ययेऽयथाभिप्रेताख्याने कृञः क्त्वाणमौ वा ) अयथाभिप्रेताख्यानं नाम अप्रियस्योच्चैः प्रियस्य नीचैः कथनम् । उच्चैःकृत्य उच्चैः कृत्वा उच्चैःकारं वाऽप्रियमाचष्टे । नीचैःकृत्य नीचैः कृत्वा नीचैःकारं वा प्रियं ब्रूते ॥ Page #370 -------------------------------------------------------------------------- ________________ ( ३५० ) सिद्धान्तचन्द्रिका | [ उत्तरकृदन्तप्रक्रिया J (सुबोधिनी) - अव्ययेऽयथाभिप्रेताख्याने कृञः क्त्वाणमौ वा ॥ अव्ययपूर्वपदात्करोतेः क्त्वाणमौ वा स्तोऽयथाभिप्रेताख्यानेऽर्थे ॥ ययाऽभिप्रेतं तथानाख्यानमित्यर्थः । अप्रियस्य नीचैः कथनं यथाभिप्रेताख्यानं तद्विपरीतमयथाभिप्रेताख्यानमिति । ( तिर्यगुपपदे समाप्तौ कृञः क्त्वाणमौ वा ) तिर्यक्कृत्य गत इति । तिर्यक्कृत्वा तिर्यक्कारम् । समाप्य गत इत्यर्थः । समाप्तौ किम् । तिर्यक् कृत्वा काष्ठं गतः ॥ (सुबोधिनी) - तिर्यगुपपदे समाप्तौ कृञः क्त्वाणमौ वा ॥ तिर्यक्छब्दोपपदात्करोतेः क्त्वामौ वा स्तः समाप्तौ गम्यमानायाम् ॥ समाप्तौ किम् । तिर्यक कृत्वा काष्ठं गतः । अग्रतः स्थितं काष्ठं पार्श्वतः कृत्वा गत इत्यर्थः ॥ ( स्वाङ्गे तस्प्रत्यये कृभ्वोः ) मुखतःकृत्य गतः । मुखतः कृत्वा । मुखतःकारम् । मुखतोभूय गतः । मुखतोभूत्वा रखतोभावम् ॥ (सुबोधिनी ) - खाङ्गे तस्प्रत्यये कृभ्वोः ॥ तस्प्रत्ययान्ते स्वाने उपपदे डुकृञ् करणे भू सत्तायामाभ्यां णम् स्यात् ॥ तस् प्रत्ययो यस्मात्तत् तस्प्रत्ययं तस्मिन् । तस्प्रत्यये किम् । मुखे कृत्वा गतः । ( नाधार्थप्रत्ययान्त व्यर्थे कृभ्वोः क्त्वाणमौ वा ) अनाना नानाकृत्य - नानाकृत्वा नानाकारम् I विनाकृत्य - विनाकृत्वाविनाकारम् | नानाभूय-नानाभूत्वा - नानाभावम् । अनेकद्रव्यमेकं कृत्वा एकधाकृत्य-- एकधा कृत्वा -- एकधाकारम् 1 एकधाभूयएकधाभूत्वा--एकधाभावम् । प्रत्ययग्रहणं किम् । हिरुक्कृत्वा । पृथग्भूत्वा ॥ (सुबोधिनी ) - नाधार्थप्रत्ययान्ते च्व्यर्थे कृभ्वोः क्त्वाणमौ वा ॥ नाधार्थप्रत्ययान्ते च्व्यर्थविषये उपपदे कृभूभ्यां क्त्वाणमौ वा स्तः ॥ विनञ्भ्यां नानाञाविति नानाञ प्रत्ययौ ॥ संख्यायाः प्रकारे धा इति धाम यः । द्वित्रिभ्यामेवाधमुजी चेति एधाधमुजाविति नाधार्थप्रत्ययाः । एवं द्वैधंकृत्येत्यादि ॥ प्रत्ययग्रहणं किम् । हिरुक् कृत्वा | पृथक् कृत्वा । 'हिरु मध्ये विनार्थे च' इनिरुद्रः ॥ ' हिरुगुक्तं च सामीप्ये' इत्यमरमाला || 'पृथग्विनान्तरेणर्ते हिरुड़ नाना च वर्जने' इत्यमरः ॥ ( तूष्णींशब्दे भुवः क्त्वाणमौ ) तूष्णींभूय गतः तूष्णींभूत्वा । तूष्णींभावम् ॥ Page #371 -------------------------------------------------------------------------- ________________ [उत्तरकृदन्तप्रक्रिया ] . टीकाद्वयोपेता । (३५१) (सुबोधिनी) तूष्णींशब्दे भुवः क्त्वाणमौ ॥ तूष्णींशब्दे उपपदे भूधातोः क्त्वाणमौ स्तः॥ (अन्वक्छब्दे भुवः क्त्वाणमौ वा आनुकूल्ये गम्ये )अन्वग्भू. यास्ते-अन्वग्भूत्वा-अन्वग्भावम्। अग्रतः पार्वतः पृष्ठतो वाऽनुकूलो भूत्वा आस्त इत्यर्थः ॥ आनुकूल्ये किम् । अन्वग्भूत्वा तिष्ठति । पृष्ठतो भूत्वेत्यर्थः ॥ ( सुबोधिनी)-अन्वक्छब्दे भुवः क्त्वाणमा वा ॥ अन्वक्छब्द उपपदे भुवः क्वाणमौ वा स्तः॥ (वर्णात्कारः) अकारः। इकारः । वकारः (सुबोधिनी)-वर्णात्कारः ॥ वर्णनिर्देशे वाच्येऽक्षरात् कारप्रत्ययः स्यात् ।। निर्देशोऽनुकरणम् । कारप्रत्ययमाह-बहुलग्रहणमत्र कर्तव्यम् । तेन क्वचिन्न ॥ ( तत्त्वदी०)-वर्णात्कार इति ॥ प्रयोगस्थवर्णवाचिनः कारप्रत्ययः ॥ अतः 'अः केशवे विारेञ्चे वा' इत्यादौ प्रयोगस्थवर्णप्रतिपादकत्वाभावात्कारप्रत्ययो नेति वासुदेवेनोक्तं तन्न 'अकारो वासुदेवः स्यात्' इत्यादौ हसस्वरसमुदायस्योचार्यमाणत्वात्कारप्रत्ययो न स्यात् । अतोवर्णनिर्देश इत्यनुवर्त्य वर्णमात्रानुकरण इत्यर्थे अकारस्योच्चारणार्थत्वाद्वर्णमात्रस्यैवानुकार्यत्वात् । लघुभाष्ये तु न एव नकार इत्यादौ समुदायात्कारप्रत्ययाभावेन करोतेरुच्चारणार्थत्वात् करणं कार इति व्युत्पत्त्यैव सिद्धरेवमकारादिसिद्धौ वर्णात्कार इति वार्तिकं व्यर्थमित्युक्तम् । यत्तु कृष्णपण्डितेन अकारकरणं न सिध्येत । करोतेः पौनरुक्त्यादित्येतदर्थं वार्तिकमित्युक्तम् । तत्रेद वाच्यम् । अकारकरणमित्यत्र घान्तकरोतेरुचारणार्थत्वेन पौनरुक्त्याभावात् ॥ (रादिको वा) रेफः । रकारः॥ (सुबोधिनी)-रादिफो वा ॥ रकाराक्षराद्वा इफप्रत्ययः स्यात् ॥ ( लोकाच्छेषस्य सिद्धिः ) यथा मातरपितरादयः । इति श्रीरामाश्रमविरचितायां सिद्धान्तचन्द्रि कायामुत्तराध समाप्तम् ॥ (सुबोधिनी)-लोकाच्छेषस्य सिद्धिः।उक्तादन्यः शेषः।अत्रानुक्तस्य सिद्धिः साधनं लोकादन्यव्याकरणाज्ज्ञातव्यम् । यथा माता च पिता चेति मातरपितरौ मातरेति निपातनादिति ॥ श्रीमत्पाठकधुर्यभक्तिविनया नन्दन्ति सद्विद्यया नानाशास्त्रविचारजातपरमानन्दाः स्वभावोज्ज्वलाः । Page #372 -------------------------------------------------------------------------- ________________ (352) सिद्धान्तचन्द्रिका / ' [ उत्तरकृदन्तप्रक्रिया ] ... संवेगादिगुणैर्वशीकृतजना विख्यातकीर्तिप्रभा स्तेषामस्ति विचक्षणो विनयवान् शिष्यः सदानन्दकः // 1 // निधिनन्दार्वभूवर्षे 1799 सदानन्दः सुधीमुदे // सिद्धान्तचन्द्रिकावृत्तिं कृदन्ते कृतवानृजुम् // 2 // इति श्रीसिद्धान्तचन्द्रिकाया व्याख्या सुबोधिनीसमाख्या सदानन्दी समाप्ता // ( तत्त्वदी०)-धातूनामानन्त्यात्तेभ्यश्चोत्पद्यमानानां कृतामप्यानन्त्यमतो न सर्वशः शब्दा व्युत्पादयितुं शक्या इत्याह-लोकादिति।शेषस्य उक्तादन्यस्य शब्दस्य सिद्धिर्निष्पत्तिर्लोकादनादि वृद्धशब्दप्रयोगाद्वयाकरणान्तराच्च ज्ञेयेत्यर्थः।सिद्धिशब्दो मङ्गलवाचक इत्यन्ते प्रयुक्तः। आदिमध्यावसानेषु मङ्गलमाचरणीयमित्युक्तः / समंङ्गलानि शास्त्राणि प्रथन्ते वीरपुरुषकाण्यायुष्मत्पुरुषकाणि भवन्त्यध्येतारश्चास्य वर्द्धन्ते एवं चैतदध्येतॄणां कार्यसिद्धिः स्यादिति ध्वनितम् // लोकेशकरसंज्ञेन श्रीक्षेमकरसू नुना / मुदे भूयादुमाशम्भ्योर्विहिता तत्त्वदीपिका // 1 // चन्द्रवेदहयभूमिसंयुते 1741 वत्सरे नभसि मासि शोभने / शुक्लपक्षदशमीतिथावियं दीपिका बुधप्रदीपिका कृता // 2 // श्रीचण्डिकायाश्चरणारविन्दप्रसादतो यल्लघुदीपिकाऽभूत् / मनीषयाऽपीह भवत्वमुष्या अध्येतुरध्यापनहेतुराशु // 3 // इति श्रीमद्रामकरपौत्रश्रीक्षमकरसूनुलोकेशकरविरचिता __ सिद्धान्तचन्द्रिकाव्याख्या तत्त्वदीपिका समाप्ता। पुस्तक मिलनेका ठिकाना खेमराज श्रीकृष्णदास, "श्रीवेङ्कटेश्वर" स्टीम्-प्रेस, बम्बई. / गङ्गाविष्णु श्रीकृष्णदास, "लक्ष्मीवेङ्कटेश्वर" प्रेस, कल्याण-बम्बई.